________________
अस्ति मिथिलायां 'गजहडा' इति नाम्ना प्रसिद्धो ग्रामः । तत्रैव सुप्रतिष्ठिते सोदरपुरमैथिलब्राह्मणकुले प्रातःस्मरणीया महामहोपाध्यायाः श्री ६ जयदेवमिश्रशर्माणः रुद्र-रत्न-भू-परिमिते (१६११) वैक्रमीये संवत्सरे कार्तिकशुक्लपूर्णिमायां जन्म लेभिरे। सम्पादितद्विजोचितसंस्काराश्च हरिनगर-ग्रामे सुप्रसिद्धविद्वद्वर-हलधर-(प्रसिद्ध 'हल्ली') शर्मणः सकाशात् वर्षद्वयं यावत् व्याकरणशास्त्रस्याद्यमंशमधीत्य तत्र आर्थिकक्लेशं प्राप्य तत्स्थानमुज्झित्वा गन्धवारिनगरे लेखकस्य मातामह्या पुण्यशीलया श्री ३ वसुमतीदेव्या संस्थापिते विद्यालये महामहोपाध्यायश्री ६ रजेमिश्रशर्मभिरिदानीमपि मिथिलां मण्डयद्भिरधिष्ठिते तेभ्य एक शब्देन्दुशेखरादिग्रन्थान् स्वायत्तीचक्रुः, समाप्नुवंश्च तदानीमेव पण्डितमण्डलीषु प्रौढविद्वत्ताप्रतिष्ठाम् । गुणाग्नि-ग्रह-भू-(१९३३)-मिते च वर्षे काशीमागत्य विश्वविख्यातानां श्रीमतां बालशास्त्रिणां सकाशे, तदनन्तरञ्च सकलतन्त्रापरतन्त्राणां म० म० श्री ६ शिवकुमारमिश्रशर्मणां सकारी व्याकरणशास्त्रमधीतमपि परिमार्ण्य शास्त्रान्तराण्यपि समग्राण्यधिगत वन्तः । युवावस्थायामेव काशीस्थविद्वज्जनेषु लब्धवैदुष्यप्रतिष्ठो वस्वग्नि-रत्न-चन्द्र (१९३८) मिते संवत्सरे मिथिलाधीशेन पवित्रकीर्तिना महाराजश्री ५ लक्ष्मीश्वरसिंहमहोदयेन संस्थापितायां दरभङ्गापाठशालायां काशीस्थायां श्रीशिवकुमारमिश्र-श्रीरामकृष्ण (तात्या) शास्त्रि-श्रीसुधाकर द्विवेद--श्रीदुःखभ
जनकविभिः पण्डितरत्नैः सह व्याकरणाध्यापकासनं शोभयामासुः, समभूषयंश्च तदासनं वेदर्षिरत्न-भू-(१९७४) मितवर्षपर्यन्तम् । तदनन्तरं हिन्दूविश्वविद्यालयाध्यक्षास्तान् प्राच्यविद्याविभागे प्रधानाध्यापकपदव्यां समावेशयन् । तदारभ्याजीवं तदेव स्थानं श्रीमद्भिरलङ्कृतमभूत् । एवञ्च प्रायशः षट्चत्वारिंशद्वर्षाणि नानाशास्त्राण्यध्यापयतामेषां व्यतीतानि । समासादिताश्च पाण्डित्यपदवीं सहस्रशश्छात्राः । तेष्वेकोऽयं लेखकोऽपि स्वभाग्यवशादासीत् । पण्डितवर्याणां कीदृशं पाण्डिलमासीदिति तेषां