________________
३३४
व्युत्पत्तिवादः
[ श्राख्याते
नीयः । अथ चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेर्ग्रामादाविव चैत्रादावपि सत्त्वात् चैत्रेण त्यज्यते गम्यते चैत्र इत्यपि स्यात् । न स्याच्च चैत्रेण न गम्यते, न त्यज्यते चैत्र, इत्यादीति चेत् ।
अत्र दीधितिकारप्रभृतयः फलमिव तत्र क्रियान्वयिपरसमवे - तत्वमपि कर्माख्यातार्थः । परत्वे च भेदरूपे प्रतियोगितया फले आश्रयतयान्वयिनः प्रथमान्तपदोपस्थाप्यस्यान्वयः । चैत्रे चैत्रान्यसमवेतक्रियाजन्यसंयोगादिमत्त्वस्यान्वयायोग्यत्वात् । तादृशसंयोगाद्यभावस्य च तत्रान्वययोग्यत्वान्न तत्रापत्त्यनुपपत्त्योरवकाश इत्याहुः 1
तत्रेदं चिन्तयन्ति । प्रथमान्तपदोपस्थाप्यकर्मणोऽन्वयितावच्छेदकावच्छिन्नत्वाविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेऽपि चैत्रेऽपि चैत्रस्य द्वित्वादिनाभेदसंभवेन तत्समवेतक्रियायां परसमवेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्नप्रतियोगितया तत्र तद्भानस्वीकारे चैत्रेण द्रव्यं गम्यते इत्यादावनुपपत्तिः, द्रव्यत्वावच्छिन्नभिन्नसमवेतत्वादेः क्रियादौ बाधात् । न च तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम्, मन्देन गम्यते मन्द इत्यादौ मन्दस्य मन्दान्यमन्दपरत्वासंभवात् मन्दान्यसमवेतमन्दवृत्तिक्रियाया अपसिद्ध्यानुपपत्तितादवस्थ्यात् । अननुगतमन्दगततत्तद्वयक्तित्वोपस्थित्यनैयत्वात् । कर्तृव्यक्तिभिन्नमन्दत्वेन लक्षणाग्रहस्य तादृशवाक्यजन्यधीपूर्वत्वस्य नियमतोऽसंभवात् । न च फलविशेष्यव्यक्तीनां तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन परत्वेऽन्वयात्संबन्धोपस्थितेश्वानपेक्षणान्नानुपपत्तिरिति वाच्यम् । संसर्ग तात्पर्यज्ञानानुरोधेन तदुपस्थितेरपि शाब्दबुद्धावपेक्षणीयत्वात्। तद्वचतया तद्वचक्तिर्न गम्यते इत्यादावभावप्रतियोगिकोटिप्रविष्टतद्वयक्तित्वावच्छिन्नभिन्नसमवेततद्वयक्तिसम
वेतक्रियाया प्रसिद्धेः ।