________________
३३० व्युत्पत्तिवादः
[ पाख्याते दीधितिकृतस्तु गच्छति जानाति करोतीत्यादौ आख्यातस्याश्रयत्वे निरूढलक्षणायाः स्वीकारान्न नामार्थे क्रियायाः साक्षादन्वय इत्याहुः। तन्मते यद्यप्याश्रयत्वसंबन्धस्याधिकस्य जानाति चैत्र इत्यादिवाक्यजन्यबोधविषयताकल्पनेन गौरवं तथापि यत्र धातोर्ज्ञानाश्रयत्वे लक्षणाग्रहः शक्तिभ्रमो वा तत्र चैत्रादिविशेष्यको ज्ञानाश्रयत्वादिप्रकारको बोध प्राश्रयतायाः संसर्गतावादिनामप्यनुमतः । चैत्रादिविशेष्यकाश्रयतासंसर्गज्ञानादिप्रकारकशाब्दबोधस्तु दीधितिकारमते क्वचिदपि न प्रसिध्यतीति तादृशशाब्दबोधे योग्यताज्ञानादेहेतुताकल्पनं तथाविधशाब्दबोधाङ्गीकर्तुमणिकारस्य मते आवश्यकमिति गौरवम्।।
वस्तुतस्तु चैत्रेण ज्ञायते घट इत्यादौ कर्मप्रत्ययस्थले यावतां पदार्थानां प्रकारता तावतां चैत्रो जानाति घटमित्यादि कर्तृप्रत्ययस्थले तथात्वं, परंतु विशेष्यविशेषणभाववैपरीत्यम्। एवं कर्मप्रत्ययस्थले यस्य ससंबन्धिकपदार्थस्य यदंशे विशेष्यता कर्तप्रत्ययस्थले तन्निरूपकतायास्तदंशे प्रकारता इत्यनुभवस्य दुरपह्नवत्वाभिप्रायेणाश्रयत्वस्याख्यातार्थतां दीधितिकार उररीचकार । चैत्रेण ज्ञायते इत्यत्राधेयत्वरूपतृतीयार्थस्य चैत्रविशेष्यत्वात् । चैत्रो जानातीत्यत्राधेयतानिरूपकत्वरूपाधारतायाश्चैत्रांशेऽप्रकारत्वे तादृशानुभवविरोधात् । न च चैत्रेण ज्ञायत इत्यत्राप्याधेयत्वं संसर्ग एव न तु विशेष्यमिति वाच्यम् । तथा सति आत्मना ज्ञायते न घटेनेत्यादौ घटादिवृत्तित्वाभावबोधानुपपत्तेः। आधेयत्वस्य तृतीयार्थताविरहेण तृतीयान्ताद्घटादिवृत्तित्वरूपप्रतियोग्यनुपस्थितेः । आधेयत्वसम्बन्धस्याभावप्रतियोगितानवच्छेदकतया च तत्सम्बन्धावच्छिन्नघटाभावबोधस्य तत्रोपगमासंभवात् । ताहशसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वे ज्ञाने न घट इत्यादि. वाक्यजन्यप्रत्यये ज्ञानाद्यधिकरणकतादृशसंबन्धावच्छिन्नघटाद्य