SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ त्वे नव्यमतेऽपि द्रव्यं गच्छति नाभाव मित्यादौ गतिविरहः। तथा हि समवायसम्बन्धावच्छिन्नाधेयतैव द्वितीयार्थो वाच्यः । अन्यथा कालिकादिसम्बन्धावच्छिन्नग्रामादिवृत्तिसंयोगादिकमादायातिप्रसङ्गात । तथा चाभावादिनिरूपिततथाविधाधेयत्वाद्यप्रसिद्धथा तदभावबोधासम्भवः । निरूपितत्वसम्बन्धस्य च वृत्यनियामकतया समवायसम्बन्धावच्छिन्नाधेयतायां तत्सम्बन्धावच्छिन्नप्रतियोगिताकप्रकृत्यर्थाभाववोधो न सम्भवत्येवेत्याहुरिति । ___ अत्रोच्यते । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगिता वच्छेदकत्वे आधेयत्वं संसर्गः विभक्तेः संख्यामात्रमर्थः फलावच्छिन्नो व्यापारो धात्वर्थ इत्येवोचितम् । अस्तु च व्युत्पत्तिवैचित्र्येण नामार्थधात्वर्थयोरपि साक्षादन्वयबोधस्तथा सत्यतिप्रसङ्गस्य प्रागुपदर्शित्रप्रकारेण वारणसम्भवात् । न चैतत्कल्पे लाघवानवकाशः । फले स्वतन्त्रशत्तयकल्पने सामग्रीप्रतिबन्धकतायां द्वितीयादिजन्यफलोपस्थितिधातुजन्यव्यापारोपस्थितिरिति उभयनिवेशस्थाने (उपस्थित्यपेक्षयेति वा पाठः) धातुजन्यविशिटविषयकोपस्थिनेरेकस्या निवेशेन लाघवात् । वस्तुतस्तु शाब्दबुद्धरधिकविषयत्वे राज्ञः पुरुष इत्यादौ स्वत्वादेः संसर्गतानिराकरणावसरे सामग्रीप्रतिबन्धकतायां लाघवस्य दर्शितत्वात् ।। द्वितीयादेराधेयत्वमर्थः, फलावच्छिन्नव्या Ahire द्वितीयार्थ प्रकृत्यर्थस्य कालिकादिसम्बन्धमादांयातिप्रसङ्गोपेत्यभावाय समवायसम्बन्धावच्छि बाधेयत्वस्यैव संसर्गत्वेनाभ्युपगन्तव्यतया तेन सम्बन्धेन चाभावरूपप्रकृत्यर्थस्याप्रसिद्धया तत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावो
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy