________________
प्राक्कथनम्
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति न्यायसूत्रमवलम्ब्य मिथिलालङ्कारभूतेन नव्यन्यायशास्त्रस्यादिका गङ्गशोपाध्यायेन तत्त्वचिन्तामणिनामको ग्रन्थो विरचितः । तत्र क्रमशः प्रत्यक्षादिप्रमाणचतुष्टयविचारात्मकं खण्डचतुष्टयं वर्नते। शब्दखण्डस्त्वस्यैव ग्रन्थस्यान्तिमो भागः । खण्डेऽस्मिन् न केवलं नैयायिकानामपि तु मीमांसकानां वैयाकरणानाञ्च मतेन शब्दतत्त्वस्य विशेषेण निरूपणं वर्तते। नैयायिकमीमांसकवैयाकरणानां त्रयाणामपि समानोऽधिकारः शब्दखण्डे । अतोऽर्वाचीनः नैयायिकादिभिः सर्वैः शब्दतत्त्वविचारे ग्रन्थरचनाद्वारा पृथक् पृथक् विचारः प्रदर्शितः ।
शब्दतत्त्वविचारे प्रकृतिप्रत्ययभेदेन भागद्वयं वर्त्तते । तत्र प्रकृत्यर्थस्यालोचनं शक्तिवा दे गदाधरभट्टाचार्येण कृतम् । प्रत्ययविचारादृते शब्दतत्त्वविचारोऽपर्ण एति मत्वा प्रधानतया न्यायमतमवलम्ब्य नैयायिकप्रवरैः गदाधरभट्टाचार्यैर्युत्पत्तिवादनामको ग्रन्थः प्रणीतः । ग्रन्थोऽयं विषयोत्कृष्टतया सुस्पष्टलेखप्रणाल्या च सर्वैः शास्त्ररसिकैविशेषतयादृतः । नयायिकैर्वैयाकरणैश्च विशेषेण पठ्यते ।
प्रत्ययार्थनिरूपणपरोऽयं ग्रन्थो व्युत्पत्तिविधायकशास्त्र शिरोमुकुटायमाणः कस्य विपश्चितश्चेतसि मुदं नावहति । व्याकरणे न्याये वाऽस्याध्ययनं विना प्रकर्षपाण्डित्यं नैव लभ्यते। अतो महानादरोऽस्य ग्रन्थस्य पण्डितसमाजे । परन्तु गूढार्थोऽयं ग्रन्थः । सर्वतोभावेनाभिप्रायोद्घाटने न सर्वे समर्थाः । 'जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः' इत्यादिश्रीमदुदयनाचार्यकथनानुसारेण पाण्डित्यसम्पादकग्रन्थानामध्ययनाध्यापनादिकमपि क्रमशो ह्रासपथमेवानुसरति । अत एवेदशस्य ग्रन्थस्य सरला सुस्पष्टतरा टीकाप्यपेक्षिता । तत्रापि सन्ति कृष्णभट्टीयगूढार्थादर्शादयो विविधा