SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ दार्थविषयकचाक्षुपाश्रयताभ्रमो घटादौ तदाऽऽकाशाद्यनिरूपितलौकिकविपयिताशालिचाक्षुषाश्रयत्वनिश्चयरूपप्रतिवन्धकसत्त्वेन ताहशवाक्यजन्य शाब्दबोधानुपपत्तिः । यथा चैत्रो घटं पश्यतीत्यादिनिश्चयदशायां पटं न पश्यति चैत्र इत्यादिवाक्यजन्यशाब्दबोधोत्पादोऽनभवसिद्धः तथैवोक्तभ्रमदशायामाकाशं न पश्यति घट इत्यादिवाक्यजन्यबोधोत्पादोऽपीति न तवेष्टापत्तिः संभवति । यच्चालौकिकविषयित शून्यचाक्षुषत्वाद्यवच्छेदेनाकाशादिविषयकत्वघटादिवृत्तित्वोभयाभाव एव आकाशं न पश्यतीतिवाक्यात्प्रतीयते, उपनीताकाशादि वपयकचाक्षुपे आकाशादिविषयकत्वचैत्रादिवृत्तित्वोभयसत्त्वेन चैत्र आकाशं न पश्यतीत्यादिप्रयोगानुपपत्तेः । घटादौ तादृशचाक्षुपाद्याश्रयत्वभ्रमदशायां घट आकाशं न पश्यतीतिवाक्याच्छाब्दबोधानुपपत्तिश्चेत्यलौकिकविषयिताशून्यत्वेन चाक्षुषादिकं विशेषितम् । आकाशादिविषयकचाक्षुषाद्युपनीतभानस्यापीतरांशे लौकिकत्वात् तादृशानुपपत्तितादवस्थ्यम्न अतो लौकिकविशेपणमुपेक्षितम् । अत्रालौकिकविषयिताशून्यर्चाक्षुषत्वाद्यवच्छिनख्य घटं न पश्यतीत्यादौ शक्त्या धात्वर्थत्वासम्भवेऽपि प्रकृते तस्यैव लक्ष्यनया धात्वर्थत्वमुपेयते, विषयितासामान्यमेव तत्र द्वितीयार्थः, (निरूपकत्वमपि लक्षणया तदर्थः)। अाश्रयत्वं द्वित्वनिरूपकत्वं चाख्यातार्थः । आश्रयत्वे व्युत्पत्तिवैचित्र्यात्प्रथमान्तपदार्थघटादेस्तन्निरूपकत्वे विशेषणतयाऽन्वयः। तादृशनिरूपकत्वद्वितीयान्तार्थाकाशादिविषयकत्वयोश्च प्रकारतया द्वित्वान्धयः। द्वित्वाद्यवच्छिन्नप्रतियोगिताकत्वसंबन्धेन तादृशोभयस्य नअर्थाभावे तन्य चन्वियितीवच्छेदकनिरुक्तधर्मावच्छेदेन धात्वर्थेऽन्वयः । तादृशधात्वर्थश्च प्रकृते मुख्यविशेष्यतयैव भासते । अथवा स्वनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपव्यापकतासंबन्धेन पात्वर्थस्य तादृशोभयाभावेऽन्वयः। तस्य चाख्या ल/न्यपाए
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy