________________
कर्तृत्वानभिधान० ] जयाऽलङ्कृतः
३२५
ताया आख्यातप्रयोज्यत्वम् । कर्तत्वविषयतासामान्यं च नाख्यातपदज्ञानसामान्यजन्यतावच्छेदकं तादृशसामान्यकार्यकारणभावे मानाभावादित्युच्यते, तदापि चैत्रेण पच्यते तण्डुल इत्यादिवाक्यार्थबोधस्य परस्परसमभिव्याहृतपदसमूहरूपवाक्यज्ञानहेतुकतया तद्वा
क्यार्थविषयतान्तःपातिकर्तृत्वविषयताया वाक्यघटकाख्यातप्रयोज्यत्वं दुर्वारमेवेति । मैवम् । अनभिहितेति कर्त्तरि तृतीयेत्यस्य कर्तृत्वविशेष्यतया प्रातिपदिकार्थेऽविवक्षिते तृतीयेत्यर्थः । प्रातिपदिकार्थविशेषणतयैव कर्तुत्वेऽविवक्षिते इति यावत् । अवधारणपरतया प्रातिपदिकार्थविशेष्यतया कर्तृत्वे विवक्षिते तदुत्तरं तृतीयेति पर्यवसितम् । अतश्चैत्रः पचतीत्यादावाख्यातेन कर्तृत्व बोधनादुक्तार्थानामप्रयोग इति न्यायात्ततीयापत्तिविरहात् । प्रातिपदिकार्थान्वयितया कर्तृत्वविवक्षायामित्येव सम्यक्किं विशेष्यतयान्वयित्वपर्यन्तनिवेशनेनेति नाशङ्कयम् । संख्यातिरिक्तसुबर्थस्य प्रकृत्यर्थविशेष्यतयैवान्वय इति व्युत्पत्तिसूचकत्वेन विशेष्यतयान्वयित्वपर्यन्तस्यावश्यं विवक्षणीयत्वाद्यथाश्रतसूत्रार्थानुरोधेन कर्त्तरि लकारविभक्त्योः शक्तित्वादिभिर्वैयाकरणैरपि प्रातिपदिकार्थविशेष्यतया कर्त्तरि विवक्षिते तृतीयेत्येव सूत्रार्थो वाच्यः । अन्यथा चैत्रेण पच्यत इत्यादौ कर्त्तुरनभिधानस्योक्तक्रमेण दुर्वचतापत्तेरित्यलमधिकेन । अथानभिहिते कर्त्तरि तृतीयेत्यस्योक्तार्थकत्वे चैत्रादिकर्तकत्वविशेषितपाकादिविवक्षया चैत्रेण पचतीत्यादिप्रयोगापत्तिः । न च परस्मैपदार्थ कर्तृत्वान्वयिविशेष्यविरहान्न तथा प्रयोगः । विशेष्यतयापि कर्तृत्वबोधसम्भवात् । चैत्रमैत्रोभयकर्तृकपाकस्थले चैत्रकर्तकपाककर्त्ता मैत्र इत्यन्वयतात्पर्येण चैत्रेण पचति मैत्र इति प्रयोगस्य दुर्वारत्वाच्च । न च कर्तत्वातिरिक्ते विशेषणतापन्नायां कर्तुत्वे वा विशेषणतानापन्नायां क्रियायामेव तृतीयार्थकर्तृत्वान्वयो व्युत्पन्न इति वाच्यम् । चैत्रेण पाचयति मैत्र इत्यादौ एयर्थकर्तृत्वविशेषणतापने पाकादौ चैत्रादि