________________
२४८ व्युत्पत्तिवादः
[ कारके स्वावच्छिन्नस्य यो भेदस्तदाश्रयधर्मवत्त्वं, तादृशधर्मश्च चैत्रोऽधीत इत्यादौ चैत्रीयाध्ययनाद्यधारतात्वं विशेष्यैव सम्बन्धेऽन्तर्भावनीयम् । मासान्तरनिष्ठतादृशाभावप्रतियोगितावच्छेदकत्वस्य तादृशधर्मे सत्त्वेऽपि तत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकतादृशधर्मे उक्तसम्बन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेदस्तदाश्रयत्वमक्षतमेवेति यत्किञ्चिदेकमासादिमात्रव्यापकाध्ययनादिस्थलेऽपि तादृशप्रयोगनिर्वाहः । प्रतिमासमधीत इत्यादौ प्रत्यादिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमनिष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभावघटितव्यापकताबोध. कतया यत्किञ्चिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः ।
अथात्यन्तसंयोगार्थकद्वितीयाया एकादिपदं विनापि यत्किञ्चिदेकमासादिव्यापकताबोधकत्व उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यत्र एकपदवैययमिति चेत्-न।मासाधिककालव्यापकत्वेऽपि मासव्यापकतयाधिककालव्यापकस्य होमस्य शास्त्रार्थतावारणायैकपदोपादानात् । तथा सति तस्य केवलार्थकतया मासमात्रव्यापकतालाभात्ताशप्रयोजनोपपत्तेः। अत एव च यावज्जीवमग्निहोत्रं जुहोतीतिश्रुतिबोधिताग्निहोत्रानुवादेन सतिलब्रीहिचरुरूपद्रव्यस्य मासैकरूपकालस्य विधाने वाक्यभेदः स्यादिति तादृशद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्यैव विधायिका तादृशी श्रुतिरिति सिद्धान्ते यावज्जीवकालान्तर्गतमासरूपकालांशेऽप्यनुवादकतासम्भवात्प्राप्ताग्निहोत्रानुवादेन द्रव्यस्यैवविधानमुचितमिति पूर्वपक्षो निरस्तः। यावज्जीवमित्यादिश्रुत्या यावज्जीवव्यापकत्वे बोधितेऽर्थतो मासैकव्यापकतालाभेऽपि उपसच्चरुकरणकत्वविशिष्टहोमे तन्मात्रव्यापकताया अलाभेन लस्यापि विधेयतया वाक्यभेदस्य प्राप्ताग्निहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वारत्वात् । अथ तादृशश्रुतेद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रप्रति