Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
Catalog link: https://jainqq.org/explore/004407/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीश्रीपालनगर जैन श्वे. मू. देरासर ट्रस्ट - प्राच्यसाहित्य पुनः प्रकाशन - श्रेणि ग्रंथाङ्क - 3 पञ्चशतप्रकरणप्रासाद - सूत्रणसूत्रधार - पूर्वधरमहर्षि वाचकप्रवर - श्रीउमास्वातिभगवत् प्रणीतं स्वोपज्ञभाष्योपरि श्रीसिद्धसेनगणितटीकया - समलड्कृतं स्वोपज्ञ सम्बन्धकारिकोपरि श्रीदेवगुप्तसूरि श्रीसिद्धसेन गणिविरचित - वृत्तिन्दयविभूषितं श्रीतत्त्वार्थाधिगमसूत्रम्। [प्रथमो विभागः] पुनः प्रकाशनप्रेरका: समतासिन्धु-ज्ञाननिधि - चारित्ररत्न - पू.पंन्यासप्रवर श्रीपद्मविजयजीगणिवर - प्रथमशिष्यरत्न - धर्मतीर्थप्रभावक सिद्धान्तसंरक्षकाखण्डबालब्रहाचारि - पूज्यापादाचार्यदेव श्रीमद् विजयमित्रानन्दसूरीश्वराः। सम्पादक: भव्यदर्शन विजयो मुनिः। प्रकाशक: श्रीश्रीपालनगर जैन श्वे. मू. देरासर ट्रस्ट: वीरसंवत - 2518 विक्रमसंवत - 2047 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ विषयानुक्रमः પુન: પ્રકાશન પ્રસંગે किञ्चिविज्ञापनम् 13-14 प्रस्तावना 15-31 स्वोपज्ञसम्बन्धकारिका (टीकादयोपेता) 1-24 प्रथमोऽध्यायः 25-135 ब्दितीयोऽध्याय: 136-227 तृतीयोऽध्यायः ૨૨૮-ર૭૦ 273-314 चतुर्थोऽध्याय: पञ्चमोऽध्यायः 315-441 443-467 सूत्रक्रमेणान्तराधिकारसूचा अनुभवाधारेणाशुदिशोधनपत्रकम् 468-486 Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ પુન: પ્રકાશન પ્રસંગે......... જૈનશાસનની શાસ્ત્રસંપત્તિને કોઈ તાગ પામી શકાય એવો નથી. એ શાસ્ત્રગ્રંથોમાં સમગ્રવિશ્વનું તત્ત્વજ્ઞાન સમાયેલું છે. વાચકપ્રવર શ્રીઉમાસ્વાતિજી મહારાજાની, તત્ત્વોનો સંગ્રહ કરવાની કળાકુશળતાને ન્યાય આપતા કાલિકાલસર્વજ્ઞ શ્રી હેમચન્દ્રસૂરીશ્વરજી મહારાજાએ કહ્યું છે કે - “તત્ત્વોનો સંગ્રહ કરવામાં ઉમાસ્વાતિજી મહારાજ શિરમોર છે.” તેઓ 500 મહાન ગ્રંથોના રચયિતા છે. એમાં તેઓશ્રીનું મહાશાસ્ત્ર . 'તત્વાર્થસૂત્ર' આબાલગોપાલ પ્રસિદ્ધ છે. એની ગરિમા-મહિમાથી આકર્ષાઈને એના ઉપર શ્વેતાંબર - દિગંબર આચાર્યાદિ મુનિઓએ લગભગ 25 જેટલા સંસ્કૃત વિવેચનો લખ્યા છે. એમાં પ્રાચીન મહર્ષિ શ્રીસિદ્ધર્ષિગણિની ટીકા ઘણું ઘણું વૈશિટ્ય ધરાવે છે. ઘણાં વર્ષો પૂર્વે બે ભાગમાં પ્રકાશિત થયેલ આ ગ્રંથરત્નના પુન: પ્રકાશનરૂપે પુનરુદ્ધારની ખૂબ આવશ્યકતા હતી. અમારે ત્યાં બે-બે ચાતુર્માસ કરી ઉપકારની વર્ષા વર્ષાવનાર ધર્મતીર્થપ્રભાવક પૂ.આ.ભ. શ્રીમદ્ વિજયમિત્રાનંદસૂરીશ્વરજી મહારાજાએ આ ગ્રંથના પુન: પ્રકાશનની પ્રેરણા કરી, એનો સહર્ષ સ્વીકાર કરી અમારા ટ્રસ્ટના જ્ઞાનખાતા તરફથી આ ગ્રંથ પુન: પ્રકાશિત થઈ રહ્યો છે. પરમપૂજ્ય તપોગચ્છાધિપતિ પરમશાસનપ્રભાવક વ્યા. વા. શાસન સંરક્ષક સાચા સંઘહિતચિંતક આ.ભ.શ્રીમદ્ વિજય રામચન્દ્ર સૂરીશ્વરજી મ.સા.ની દિવ્યકૃપા પુન: પ્રકાશનમાં પ્રેરકબળ બની છે. પુન: પ્રકાશનમાં, પૂર્વ પ્રકાશક શ્રેષ્ઠિ દેવચંદ લાલભાઈ પુસ્તકોદ્ધાર ફંડના અમે આભારી છીએ. શ્રીશ્રીપાળનગર જૈન છે.મૂ.દેરાસર ટ્રસ્ટ તથા શ્રીશ્રીપાળનગર જૈને છે. મૂ. ઉપાશ્રય ટ્રસ્ટની સ્થાપનાના ચકો વિ.સં.૨૦૨૨ માં ગતિમાન થયા. સં. 2026 માં શ્રીશ્રીપાળનગર બિલ્ડીંગ તૈયાર થયું. જેનો આવીને - વસવા લાગ્યા. સં. 2029 માં ગગનચુંબી, આમૂલચૂલ સંગેમરમરનું દેરાસર તથા વિશાળ ઉપાશ્રય તૈયાર થયો. જૈનમંદિરમાં ભૂમિગૃહમાં તથા ઉપરના ગભારામાં પધરાવવા માટે મેવાડના દેલવાડા ગામથી 57. ઈંચના શ્રી મુનિસુવ્રતસ્વામી તથા 51 ઈંચના શ્રીઆદિનાથ ભગવાનના નયનરમ્ય પ્રાચીન જિનબિંબો મળી ગયાં. પરમ પૂજ્ય સંઘકૌશલ્યાધાર સિદ્ધાંતમહોદધિ કર્મસાહિત્યનિપણમતિ સુવિશાલગચ્છાધિપતિ સંયમત્યાગતપોમૂર્તિ આ. ભ. શ્રીમદ્ વિજયપ્રેમસૂરીશ્વરજી મહારાજાના પટ્ટધરરત્ન પરમશાસનપ્રભાવક વ્યાખ્યાનવાચસ્પતિ સુવિશાલ ગચ્છાધિપતિ પૂ. આ. ભ. શ્રીમદ વિજ્ય રામચન્દ્રસૂરીશ્વરજી મ. સા. ના વરદહસ્તે શાનદાર પ્રતિષ્ઠા મહોત્સવ ઉજવાયો, તે જ સમયે પૂ.આ.ભ. શ્રીજીના સમુદાયના પૂ. મુનિભગવંતોની આચાર્યપદવીઓ થઈ. ' પ્રતિષ્ઠા મહોત્સવબાદ દિન-પ્રતિદિન સર્વાગીણ વિકાસ થતો રહ્યો. એક પછી એક પૂ. આચાર્યભગવંતાદિ મુનિભગવંતોના ચાતુર્માસો, ઉપધાનાદિ એકથી એક ચઢિયાતા ધર્માનુષ્ઠાનો થતા રહ્યા. જૈન પાઠશાળા, આયંબિલખાતું વગેરે સંસ્થાઓ ઉદય પામી અને સવાસ પણ ચોમેર પથરાઈ. અહીંનો જ્ઞાનભંડાર પણ સમઢ છે. શ્રીસંઘ પણ છવદયા, દેવદ્રવ્ય, પ્રભુભક્તિના મહોત્સ, વૈયાવચ્ચ વગેરેમાં ભારે ઉદારતાથી લાભ લે છે. વર્ષીતપના સામુહિક પારણાં પણ દરસાલ કરાવાય છે. - જ્ઞાનખાતામાંથી પ્રાચીન-અર્વાચીન ગ્રંથપ્રકાશનોનું કાર્ય પણ ચાલું થયું છે. આ ગ્રંથ ટ્રસ્ટની શ્રુતભકિતના ગૌરવમાં વધારો કરશે એમાં શંકા નથી. તીર્થોદ્ધાર તેમજ જીર્ણોદ્ધારમાં આ દ્રસ્ટે લાખો રૂપિયા ખર્ચી છે અને ખર્ચવાનું કાર્ય અવિરત ચાલું છે. * લિ. ટ્રસ્ટી મંડળ લાલચંદ છગનલાલજી લાગઠા સોહનલાલ રૂપાજી હુકમચંદ ભેરૂમલજી જુગરાજ પુખરાજજી રાંકા (સ્વ. પુખરાજ હીરાચંદજી શંકાના સ્થાને) Page #6 -------------------------------------------------------------------------- _ Page #7 -------------------------------------------------------------------------- ________________ किञ्चिद् विज्ञापनम् / श्रीविक्रमादित्यात् 1974 तमेऽन्दे 'एम्. ए.' परीक्षोत्तीरणानन्तरं 'विलसन' पाठशालायां मया गणिताध्यापकपदेऽङ्गीकृते जैनधर्मसिद्धान्तपरिशीलनाय समासादि कथमप्यपसरः / तत्पूर्व केवलं जैनसिद्धान्तस्य स्थूलस्वरूपं परमपूज्यतातपादेभ्यो मयाऽधिगतमासीत् / तत आरभ्यैव तस्य जिज्ञासाङ्करः प्ररूढ आसीत्, स चेदानीमवसरलाभादतीवानुरागेण ववृधे / नानाविधग्रन्थालोचने सूक्ष्मदृशा व्यासङ्गे च सम्पन्ने मन्मनस्येवं बभूव राधान्तो यथाऽस्मिन् दर्शने प्राधान्येन वरीवर्ति स्याद्वादशैली तथा नान्यत्रेति / परं चैतदीयस्य विषयस्यात्यन्तदुरूहत्वात् को वाऽस्य शास्त्रस्य पारीणो मार्गदर्शकश्च लभ्येतेति चिरमहर्दिवं विचार्यमाणेऽस्मिन्नेव काले सौभाग्येन विद्वद्वर्यशिष्यवृन्दसहितैः पूज्यपादसाहित्यप्रचारक शास्त्रविशारद-जैनाचार्यश्रीविजयधर्मसूरिभिरियं मोहमयीनगरी यदृच्छया:लष्कृता / तेषां दर्शनलाभेन तृषार्तस्य नीरलाम इवात्यन्तं प्रमोदः समजनि / अथ सूरिमहाशयैः सहायातानां सर्वेषां परिचयोतरं मम विज्ञप्त्यनुसारेण तदन्तेवासिन्यायविशारदन्यायतीर्थश्रीमङ्गलविजय नसिद्धान्तपठनार्थे मह्यं यथाभिलषितं दत्तोवसरः / क्रमशश्च तेभ्यः सकाशान्मयाऽन्यान्यजैनधर्मसंबन्धिनोऽनेके विषया अधीताः, सभाष्यं तत्त्वार्थाधिगमसूत्रं चाध्येतुमारब्धम् / पठ्यमाने चास्मिन्नवगतं मयाऽस्य बहयष्टीका वर्तन्ते। तासु श्रीसिद्धसेनगणिप्रणीता टीका पश्चाध्यायान्ता मुद्रिताऽस्तीति / तस्याः प्राप्तयेऽतीव प्रयासोऽकारि, परन्तु स निष्फलो बभूव / ____ कालान्तरे जैनशासनप्रभावकश्रीमोहनलालजीप्रशिष्यरत्नजैनशिल्पज्योतिषविद्यामहोदधिश्रीजयसूरयोऽवागतास्तैरात्मीयसङ्ग्रहस्थं मुद्रितपुस्तकमेकं पठनार्थ मां प्रति दत्तम् / अनन्तरं पठनक्रमे संशोधनपद्धतिदृष्टिपथमवतीर्णा / तदैवं चेतसि मनीषा बभूव यदस्य सर्वाभ्यर्हितनिबन्धस्य विषयोल्लेखादिपूर्वकं पुनर्मुद्रणं करणीयं येनास्य दौर्लभ्यं छात्रपरिश्रमश्च दूरीकृतः स्यादिति / एतत् श्रीयुतजीवनचन्द्राय सहेतुकं निवेदितम् / तत्क्षणमूरीकृतं च मुद्रापणं तेन श्रेष्ठिवरेण / पुनरपि महती चिन्ताऽऽपतिता, सा चेत्यम्-कायं स्वपरसमयाभिज्ञश्रीसिद्धसेनगणिप्रणीतव्याख्यालङ्कृतोऽनेकानेकग्रन्थग्रथननिष्णातवाचकवर्यसंदृब्धस्तत्त्वार्थाधिगमः क चागमाल्पप्रवेशिनी मे मतिरिति शोधनकर्म मया पूर्व नाङ्गीकृतं, परन्तु आगमोद्धारकजैनाचार्यश्रीआनन्दसागरसूरीश्वरा मुद्राप्यमाणपुस्तिकावलोकनसंस्करणादौ साहाय्यं दास्यन्तीति श्रेष्ठिवरेणाश्वासने दचे शोधनकार्यमङ्गीकृतं मया / Page #8 -------------------------------------------------------------------------- ________________ अथ कार्यारम्भे 'श्रीमोहनलालजीजैनसेन्ट्रललाइब्रेरी'तः तत्त्वार्थाधिगमसूत्रस्य श्रीसिद्धसेनगणिकृतटीकायाः प्रतिः श्रीजयमरिप्रधान शिष्य श्रीमत्प्रतापमुनिद्वारा समासादिता / प्रत्यन्तरं च लब्धं श्रीजीवनचन्द्रात् / तदनन्तरं मुद्रणालय पुस्तिका समारब्धा / पाठान्तरार्थ श्रीजयमूरिदत्तमुद्रितपुस्तकस्य 'बङ्गालएशियाटिकसोसायटी' प्रकाशितस्य पुस्तकस्य चोपयोगः कृतः / एषामादर्शपुस्तकानां क-ख-ग-घेति संज्ञा निर्धारिता / सन्दिग्धस्थलेषु साधनीभूतायाः सूर्यपुरस्थजैनानन्दपुस्तकालयप्रतेस्तु साक्षादुल्लेखः / पञ्चाध्यायपर्यन्तमुद्रणालयपुस्तिकायाः प्रायः समाप्तौ सत्यां विषयसूचकानां पार्श्वनिर्दिष्टटिप्पनिकानां मयोल्लेखोऽकारि येन सुलभतया सर्वेषां विषयाकलनं स्यादिति / अनन्तरं मुद्रणालयपुस्तिका जैनसिद्धान्तपारङ्गतश्रीआनन्दसागरसूरिसविधे प्रहिता / मय्यनुकम्पाहृदयस्तैर्मदभ्यर्थनया प्रायः सर्वत्र आगमोद्धृतपाठस्थलच्छायाभिः पञ्चमाध्याये टिप्पनीभिश्च सा विभूषिता। संशोधनकार्ये चातीव साहाय्यमकारीति तेषां परोपकृतिसौजन्य वर्णयितुं न पारये। ग्रन्थार्धस्य परिसमाप्तौ प्रकाशकाय मया सूचितं यदस्य शुद्धिपत्र सार्वसिद्धान्ततत्ववेदिना मुनिवरेण तज्ज्ञगृहस्थेन वा यदि क्रियेत तर्हि महान् लाभो मविष्यति ग्रन्थोऽपि विशेपत आदरणीयः स्यादिति / तद्रीकृत्य तेन विज्ञप्तर्जनशासनसेवाहेवाकैः उपाध्यायश्रीमङ्गलविजयैर्मत्प्रोत्साहनगर्भितमेतत् कार्य स्वीकृतम् / 'उग्रसेन ( आग्रा )पुरस्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य 326 पंवात्मिका श्रीविक्रमात् 1722 तमे वर्षे ज्येष्ठकृष्णद्वितीयायां लिखितां नात्यशुद्धां प्रति समादाय शुद्धिपत्रं पाठान्तरसमेतं स्वानुभवगम्यपाठकलितं तैरकारीति तेषां कियान् परिश्रमो बभूवेति विद्वांस एव जानीयुः / अन्ते यैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतः तेषां सौजन्य संस्मरन् पठनपाठनप्रवणपण्डितवर्येभ्यः स्खलितस्थलसम्बन्धिनी क्षमा याचमानोऽस्माद् विज्ञापनप्रस्तावाद् विरमामि S . पारये। रसिकनन्दनः कापडियेत्युपाहो हीरालालः। 1 पत्रस्योभयपाधै त्रिंशत् त्रिंशत् पङ्कपः, प्रत्येकपटी च एकषष्टिरक्षराणि / Page #9 -------------------------------------------------------------------------- ________________ प्रस्तावना... " यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाच विद्यन्ते / ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै // 1 // " मनीषिमनोमानसमरालानां तमस्तिरस्कारतत्परतरणिविधानवेधसां पञ्चशतीप्रकरणप्रणेतृणां वाचकवर्यविरुदविख्यातानां मुनिमूधमुकुटमणीनां श्रीउमास्वातीनां विषये वकुं कः क्षमः / तथापि स्याद्वादशैलीसमलङ्कतस्य लोकालोकाकलनैककुशलसर्वज्ञसूत्रितस्य रागारातिपराजयपारीणस्य च जैनदर्शनस्यानुरागेण 'शुभे यथाशक्ति यतनीय'मिति च न्यायेन क्रियतेऽयं प्रयासो मया मन्दमतिना / तत्र प्रथमं प्रस्तूयते ग्रन्थविचारः-- - तवार्थाधिगमसूत्रेतिनामधेयस्यास्य महानिबन्धस्य भवति नाम्नैव विषयव्यक्तीकरणम् / जीवाजीवादिस्वरूपतत्त्वार्थविवरणादेवैतन्नामसार्थक्यम् / जैनसाहित्यस्य द्रव्यानुयोगादिचतुरनुयोगादिषु प्रधानतया प्रथमे द्रव्यानुयोगेऽस्य समावेशः। .. ' ग्रन्थादौ भाष्यभूमिकायां प्रस्तावरूपाः 31 सम्बन्धकारिकाः सङ्गहीताः / तदनन्तरं प्रथमेऽध्याये सम्यक्त्व निक्षेप-निर्देश ज्ञान-नयादीनां स्वरूपाणि व्याख्यातानि; द्वितीये जीवल____ क्षणम्,औपशमिकादिभावानां 53 भेदाः, जीवभेदाः, इन्द्रियाणि, आयुषः स्थितिः, याय: लोकप्रज्ञप्तिनामके तृतीये नरक-नारकाणां विचारः, मनुष्यक्षेत्रवर्णनं, तिरश्चामधि - कारः; देवगतिप्रदर्शननाम्नि चतुर्थे देवविचारः, तदादीनामायुषो जघन्योत्कृष्टता; पञ्चमे धर्मास्तिकायादिकाजीवव्याख्या, द्रव्यलक्षणं च; षष्ठे आस्रवप्रस्तावः; अनगारागारिधर्मप्ररूपके सप्तमे देशविरतिसर्वविरतिविचारः; अष्टमे बन्धविचारः, नवमे संवरनिर्जराविचार, दशमे मोक्षतत्त्वाधिकारविचारः; तदन्ते उपसंहाररूपेण मोक्षमार्गः स्पष्टतया प्रतिपादितः संक्षेपेण // सूत्रपरिमाणं प्रायः 198 श्लोकाः। भाष्यप्रमाणं 2200 श्लोकाः, तत्र सूत्रादिः प्रारम्भे 31, प्रथमाध्यायान्तिमसूत्रभाष्ये 9 (4+5), षष्ठाध्यायनवमसूत्र "" भाष्ये१, अन्ते 32 कारिकाःप्रणीताः। श्रीसैद्धसेनीयटीकापरिमाणं 18282 / अत्रैतट्टीकाप्रान्तस्थप्रशस्तिगतनिम्नलिखितश्लोकौ प्रमाणम् "अष्टादश सहस्राणि, द्वे शते च तथा परे / अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसङ्ग्रहः // 1 // मूलसूत्रप्रमाणं हि, द्विशतं किञ्चिदूनकम् / भाष्यश्लोकस्य मानं च, द्वाविंशतिः शतानि वै // 2 // " विचारः Page #10 -------------------------------------------------------------------------- ________________ एतेषु दशाध्यायेषु विभक्तानां सूत्राणां संख्या 344 इति श्वेताम्बराणां मान्यता, दिगम्बरास्तु तत्संख्या 357 मन्यन्ते / यत उभयोरपि सम्प्रदाययोर्माननीयस्यास्य ग्रन्थस्य सूत्रेषु सइनख्याभिन्नता पाठान्तराणि च सन्ति / दिगम्बरेष्वस्य ग्रन्थस्य मोक्षशास्त्ररूपेणापि प्रसिद्धिः / एकशः पाठकरणेन एकोपवासोपार्जितपुण्यं च भवतीति गरीयसीयं समादृतिः। ___उक्तं चप्रन्थस्य महस्वम “दशाध्यायपरिच्छिन्ने, तत्वार्थे पठिते सति / फलं स्यादुपवासस्य, भाषितं मुनिपुङ्गवैः // 1 // " अस्य सार्वसिद्धान्तसारभूतस्य ग्रन्थस्य यद् महत्त्वं तदनुमीयते तदुपरि संस्कृत-हिंदीगुजराती कर्णाटकीय-आङ्ग्ल-जर्मन-भाषासु लिखितानां उपलब्धविवरणानां दर्शनात् / एतेषां किश्चित् स्वरूपं विचार्यते / तत्र श्वेताम्बरसम्प्रदाये 1 तत्त्वार्थस्त्रभाष्यं 2200 श्लोकप्रमाणकं वाचकवर्यश्रीउमास्वातिविरचितम् / 2 श्रीसिद्धसेनदिवाकरगुम्फितं गन्धहस्तिमहाभाष्यम् (1) / 3 श्रीदिन्नगणिशिष्यसिंहस्रिप्रशिष्यसिद्धसेनगणिकृता भाष्यानुसारिणी 18282 लोकपरिमिता टीका। श्रीहरिभद्रमुरिप्रणीता भाष्यानुसारिणी 11000 श्लोकपरिमिता टीका। . 5 न्यायविशारदन्यायाचार्यमहामहोपाध्यायश्रीयशोविजयविरचिता टीको भाष्यसर्कानुसारिणी। 6 श्रीमलयगिरिसरिसंदृब्धा टीका। 7 श्रीतत्वार्थटिप्पणकं चिरन्तनमुनिवर्यप्रणीतम् / १वं भाष्यं पश्चाध्यायपर्यन्तं प्रन्थेऽस्मिन् मुद्रितमस्ति / 2 अधुनेदं नोपलभ्यते / 3 इयं टीका पश्चाध्यायपर्यन्ताऽस्मिन् अन्थे मुद्रिता, शेषभागस्तु भविष्यति मुद्रितः / - "तत्वार्थमूलटीकायां हरिभद्रसूरि"रित्युल्लेखः प्रवचनसारोद्धारटीकायां ३३७तमे पत्रे। परम्परानुसारेण सार्धपचाध्यायपर्यन्ता टीका श्रीहरिभद्रसरिकृता, अवशिष्टा तु तच्छिष्यवर्यश्रीयशोभद्रसरिभी रचिता। 5 प्रथमाप्यायपर्यन्ता मुद्रापिता अमदावादस्थश्रेष्ठिवर्यमनसुखभाईतनुजनुर्माणेकलालभाईश्रेष्ठिप्रवरेण / ततः परमनुपलब्धेः। 6 अस्याः सम्भवे श्रीमलयगिरिसूरिमिः प्रज्ञापनावृत्तौ निम्नलिखितोल्लेखो हेतुः “यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽयधार्यम् / " इंदं अमदावादस्थमाणेकलालभाईछिवर्येण मुद्रापितम् / Page #11 -------------------------------------------------------------------------- ________________ 8 श्रीतत्त्वार्थाधिगमसूत्रस्य गुर्जरभाषायां विवेचनम् / 9 सभाष्यतत्त्वार्थाधिगमसूत्रस्य व्याकरणाचार्यपण्डितठाकुरप्रसादशर्मप्रणीतो हिन्दी भाषानुवादः। 10 श्रीतत्त्वार्थाधिगमसूत्रस्य डॉ० याकोबीमहाशयकृतो जर्मनभाषानिबद्धानुवादः / दिगम्बरसम्प्रदाये 'विवरणानि यथा 11 आप्तमीमांसाप्रणयितृश्रीसमन्तभद्रस्वामिकृतं 84000 श्लोकप्रमाणकं गन्धेहस्तिमहाभाष्यम् / 12 श्रीपूज्यपादस्वामिविरचिता सर्वार्थसिद्धिटीका 5500 श्लोकपरिमिता (मुद्रिता)। 13 श्रीमद्भटांकलङ्कदेवरचितं तत्त्वार्थराजवार्तिकम् श्लो० सं० 16000 (मुद्रितम् ) / 14 श्रीमद्विद्यानन्दिस्वामिप्रणीतं तत्वार्थश्लोकवार्तिकम् श्लो०सं० 18000 (") / 15 श्रीश्रुतसागरसूरिविरचिता श्रुतसागरीटीका श्लो० सं० 8000 / 16 श्रीश्रुतसागरमूरिप्रणीता तत्त्वार्थस्य सुखबोधिनीटीका / 17 श्रीविबुधसेनाचार्यकृता तत्वार्थटीका 3250 / 18 श्रीयोगीन्द्रदेवकृता तत्त्वप्रकाशटीका। 19 श्रीयोगदेवगृहस्थाचार्यसन्दृब्धा तत्त्वार्थवृत्तिः। 20 श्रीलक्ष्मीदेवगृहस्थाचार्यकृता तत्त्वार्थटीका / 1 अस्य द्वितीयावृत्तेः प्रसिद्धिकर्ता-मास्तर पुरुषोत्तमदास जयमल, सुरत। प्रथमावृत्तेस्तु म्हेशानास्थश्रीश्रेयस्करमण्डलं प्रसेधकम् / 2 मुम्बापुरीस्थश्रीपरमश्रुतप्रभावकमण्डलस्वत्वाधिकारिमिः प्राकाश्यं नीतः। अस्मिन्ननुवादे बहव्यः स्खलना इत्युल्लेखः अष्टमाके विवेचने। 3 सभाष्यतत्त्वार्थाधिगमसूत्रेतिनामकस्य नवमाङ्कप्रन्थस्योत्थानिकाधारेणात्रोल्लेखः क्रियते, जैनग्रन्थावल्यां (पृ. ८८-८९)तु क्वचित् कचिद् मिन्नता दृश्यते / 4 एतेषां जीवनरेखाऽऽलेखिताऽऽराधनाकोशे। 5 अधुना नोपलभ्यते इदं भाष्यं, किन्तु शताब्दीतः पूर्व तदभूदिति विदुषामुल्लेखात् प्रतिभाति / 6 नन्दिसंघाचार्याः देवनन्दि-जिनेन्द्रबुद्धि-चन्द्रगोमि इत्यपरायाः जैनाभिषेक-समाधिशतक-चिकित्साशास्त्रजैनेन्द्रव्याकरणादिप्रन्थविधातार इमे पूज्यपादाः। शकषष्ठीशताब्दीजन्मपवित्रितखेटनगरा हिमशीतलनृपसभातारादेवीजेतारः अष्टशती-हत्रयी-लघुत्रयीरचयितारः। 8 अष्टसहस्रीप्रणेतारः ६८१तमे शकसंवत्सरे जाताः। 9 शकसंवत्सरे १५५०तमे जाता यशस्तिलकनामचम्पूकथाया यशस्तिलकचन्द्रिकाटीकाकाराः। Page #12 -------------------------------------------------------------------------- ________________ 21 श्रीअभयनन्दिमूरिप्रणीता तात्पर्यतत्त्वार्थटीका / 22 तत्त्वार्थसूत्रव्याख्यानं कर्णाटकीयभाषायाम् / 23 श्रीतत्त्वार्थाधिगमसूत्रस्य महाशयजगमन्दरलालजैनीकृतं आङ्ग्लभाषायां विवरणम् / अपरं च हिन्दीभाषायां पञ्चदश टीका वर्तन्ते / तेषां नामाद्युल्लेखाय उपर्युक्तो नवमाको प्रन्यो द्रष्टव्यः॥ ग्रन्थकारपरिचया ग्रन्थकारनामादिषु श्वेतपटानां दिक्पटानां च नैकता / तस्मात् प्रथमतः श्वेताम्बरानुसारी वृत्तान्तो दर्श्यते / तत्र उपर्युक्त 344 सूत्राणां तदुपरिकृतभाष्यस्य तत्पूर्वप्रणीतसम्बन्धकारिकाणां च प्रणेतार उच्चै गरशाखीयभगवत्पादश्रीउमास्वातिसूरयः / एतैर्जन्मना 'न्यग्रोधिका' पावनीकृता। 'वात्सी गोत्रीया उमा माता 'कौभीषणी 'गोत्राख्यः स्वातिः पिता चैपां जन्मदाता | अनयोर्नामधेययोः 'संयोजनेन तेषां नामनिष्पत्तिर्यथा प्पभटिसूरीश्वराभिधाने। . इमे सूरयः जन्मतो द्विजाः शिवादौ रक्ता आसन् , किन्तु जिनमूर्तिदर्शनात् जैनव्रतधारिणोऽभूवन , क्रमेण पूर्वविदो भूत्वा वाचकेतिपदवी प्राप्तवन्त इत्यवगम्यते श्रीगुणा. करसूरिकृतनिम्नोल्लेखदर्शनात्___"....अन्यत्र देवान्तरे न तोष-चित्तानन्दमुपयाति-उपैति उमास्वातिवाचकवत् / सोऽदृष्टपूर्वा जिनमूर्ति दृष्ट्वा स्तुतिं पठितवान् पुनरेव तवाचष्टे, भगवन् / वीतरागताम् / न हि कोटरसंस्थेऽनौ, तरुर्भवति शाड्वलः // 1 // ' ततोऽन्यत्र शिवादौ विरक्तो जिनधर्मदर्शनासक्तोऽभूदुमास्वातिजिसूनुरात्तवतः सरिपदमाप / क्रमात् पूर्वगतवेत्ता वाचकोऽभूत् / " . -भक्तामरस्तोत्रवृत्तौ (पृ० 29) वाचकमुख्यस्य शिवश्रियः प्रशिष्याः, घोषनन्दिश्रमणस्य शिष्याः, वाचनया तु महावाचकश्रमणमुण्डपादस्य प्रशिष्याः वाचकपदवीसमलता इमे उमास्वातयः / 1 जैनेन्द्रव्याकरणस्य बृहदृत्तिकाराः ७७५तमे शकसंवत्सरे जाताः। 2 श्रीलक्ष्मीसेनभट्टारकसत्कम् / 3 जम्बुद्वीपसमासटीकायो श्रीविजयसिंहमुनीश्वरैरप्युक्तम्“ अस्य सङ्ग्रहकारस्य उमा माता स्वातिः पिता, तत्सम्बन्धादमास्वातिः।" 4 बप्पनामा पिता, भट्टिनानी मातेति विशेषः / Page #13 -------------------------------------------------------------------------- ________________ विहरमाणैश्च तैः 'कुसुमपुरे' पाटलीपुत्रनामधेयेऽयं ग्रन्थः सन्हन्धः / अत्र च भाष्यान्ते दचा निम्नलिखिता प्रशस्तिः प्रमाणम् / " वाचकमुख्यस्य शिवाश्रियः प्रकाशयशसः प्रशिष्येण ! शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः॥१॥-आयो वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्यः। शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि / कोभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् // 3 // अर्हद्वचनं सम्यग् गुरुक्रमेणागतं समुपधार्य / दुःखातं च दुरागमविहतमतिं लोकमवलोक्य // 4 // इदमुच्चैनोंगरवाचकेन सत्त्वानुकम्पया दृब्धम् / तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् // 5 // " वाचकवर्यश्रीउमास्वातीनां कृतयः१ श्रीतत्त्वार्थाधिगमसूत्रम् / 2 श्रीतत्त्वाथोधिगमभाष्यम्। 3 प्रेशमरतिः। 4 जम्बूद्वीपसमासप्रकरणम् / 5 पूजाप्रकरणम् ( एकोनविंशतिश्लोकात्मकम् ) / 6 श्रीवकप्रज्ञप्तिः। 7 क्षेत्रविचारः। 1 धर्मरत्नप्रकरणप्रणेतृश्रीशान्तिसूरिभिरपि तत्प्रकरण ( गा० 103 ) स्वोपनवृत्तावुक्तम्" पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतप्रवचनोन्नतिहेतुप्रशमरतितत्त्वार्थायनेकमहाशास्त्रेण / " 2 प्रसिद्धयनुसारेण / 3 धर्मबिन्दोः श्रीमुनिचन्द्रसूरिकृतटीकायां निम्नलिखितोल्लेखात् " उमास्वातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य इत्युक्तम् / तथा च तत्पाठः-अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमपागतेष भक्त्याऽभ्युत्थानासनदानपादप्रमाजेननमस्कारादिमिरर्चयित्वा यथाविभवशक्ति अन्न-पान-वस्त्रौषधालयादिप्रदानेन संवि. भागः कार्य इति / " 4 श्रीहरिभद्रसूरिकृतटीकासमलकृतोऽयं ग्रन्थो वाचकवर्यस्य कृतिरिति प्रतिभाति / 5 नवमाकान्थोत्थानिकायां यशोभद्रचरित्रं वाचकवर्याणां कृतिरित्युल्लेखः, परन्तु प्रमाणानुपलब्धेः स विचारणीयः। Page #14 -------------------------------------------------------------------------- ________________ श्रीउमास्वातिमहर्षिभिः प्रकरणपश्चशती प्रणीता इत्युल्लेखः श्रीजिनप्रभसूरिकततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रकृतटीकायां च / अनेन एतेषां पञ्चशतप्रकरणप्रणेतरूपेण प्रसिद्धिः श्वेताम्बरसम्प्रदाये / स्थानाङ्गवृत्ति-पञ्चाशकवृत्ति-श्रीउत्तराध्ययनवृत्त्यन्तर्गतनिम्नलिखितपाठा वाचकवर्यकृतोपलब्धग्रन्थेषु न दृष्टिपथेऽवतरन्ति, अतोऽपि संभवति तेषामन्यग्रन्थप्रणेतृत्वम् / "उक्तं च वाचकमुख्यैरुमास्वातिपादैःकृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते / यद् दीयते कृपाथोदनुकम्पा तद् भवेद् दानम् // 1 // अभ्युदये व्यसने वा यत् किश्चिद् दीयते सहायार्थम् / / तत्समहतोऽमिमतं मुनिमिर्दानं न मोक्षाय // 2 // राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च / / यद् दीयतेऽभयार्थ तदभयदानं बुधैर्जेयम् // 3 // . अभ्यर्थितः परेण तु यद् दानं जनसमूहमध्यगतः / परचित्तरक्षणार्थ लायास्तद् भवेद् दानम् // 4 // नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः। यद् दीयते यशोऽर्थे गर्वेण तु तद् भवेद् दानम् // 5 // हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः।। यद् दीयते हि तेषां तज्जानीयादधर्माय // 6 // . समतृणमणिमुक्तेभ्यो यद् दानं दीयते सुपात्रेभ्यः / अक्षयमतुलमनन्तं तद् दानं भवति धर्माय // 7 // शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन / अहमपि ददामि किञ्चित् प्रत्युपकाराय तद् दानम् // 8 // " -स्थानाङ्गस्य श्रीअभयदेवसूरिकृतवृत्तौ " उमास्वातिवाचकेनाप्यस्य समर्थितत्वात् / तथाहि तेनोक्तम् - सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवति इति // " -पञ्चाशकस्य श्रीअभयदेवरिकतवृचौ " उक्तं वाचकमुख्यैः परिभवसि किमिति लोकं, जरसा परिजर्जरितशरीरम् / अचिरात् त्वमपि भविष्यसि, यौवनगर्व किमुद्वहसि // 1 // " ... - श्रीउत्तराध्ययनसूत्र(अ० 10, पत्रा० 244 )स्य श्रीभावविजयकृतवृत्तौ Page #15 -------------------------------------------------------------------------- ________________ " सम्यक्त्वज्ञानशीलानि, तपश्वेतीह सिद्धये / तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् // 1 // जटी कूर्ची शिखी मुण्डी, चीवरी नन एव च / तप्यन्नपि तपः कष्टं, मौव्याद्धिंस्रो न सिद्धयति // 2 // सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः / नमश्चीवरधारी वा, स सिद्धयति महामुनिः // 3 // " इति वाचकवचनं श्रीउत्तराध्ययनस्य श्रीशान्त्याचार्यकृत( अ० 2, पत्रा० 93 )चौ " उक्तं च वाचकैः शीतवातातपैदशै-मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति // 1 // " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र(अ० 2, पत्रा० ९५)वृत्तौ "सूरिभिरुक्तम् धर्मोपकरणमेवैतव, न तु परिग्रहस्तथा // जन्तवो बहवः सन्ति, दुर्दी मांसचक्षुषाम् / तेभ्यः स्मृतं दयार्थ तु, रजोहरणधारणम् // 1 // आसने शयने स्थाने, निक्षेपे ग्रहणे तथा / गात्रसंको(कु)चने चेष्टं, तेन पूर्व प्रमार्जनम् // 2 // तथा सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे / तेषां रक्षानिमित्तं च, विज्ञेया मुखवत्रिका // 3 // किन भवन्ति जन्तवो यस्मा–दनपानेषु केषुचित् / तस्मात् तेषां परीक्षार्थ, पात्रग्रहणमिष्यते // 4 // अपरश्च सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये / तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् // 5 // शीतवातातपैर्दशै-मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति // 6 // Page #16 -------------------------------------------------------------------------- ________________ तस्य त्वग्रहणे यत् स्यात् , क्षुद्रप्राणिविनाशनम् / ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु // 7 // " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र( अ० 3, पत्रा० 180 )वृत्ती "आह वाचकः यावत् परगुणदोषपरिकीर्तने व्यापृतं मनो भवति / तावद् वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् // 1 // " --श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र ( अ० 4, पत्रा० 190-191 )वृत्ती “आह च वाचक:-'इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः ' तयथा—गार्यः सत्यकि कर्द्विगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्यावलसम्पन्नोऽपि / " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनवृत्तौ( अ० 4, पत्रा० 191 )वृत्ती “उक्तं च वाचकैः मङ्गलैः कौतुकैर्योग-विद्यामन्त्रस्तथापधः / न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि // 1 // " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र(अ०४, पत्रा० 191 )वृत्ती " वाचकेनाप्युक्तम् यद् रागदोषवद् वाक्यं, तत्वादन्यत्र वर्तते / / सावधं वाऽपि यत् सत्य, तत् सर्वमनृतं विदुः // 1 // ", -तत्त्वार्थाधिगमसत्रस्य(अ०७, सू०९)श्रीसैद्धसेनीयटीकायाम् श्रीउमास्वातिवाचकानां समयःजन्ममरणशृङ्खलाखिद्यमानभव्यानां मोक्षमार्गोपदेष्टारः सहीतृष्वनन्यतमा इमे सूरयः कदेदं भूमण्डलं भूषयामासुरिति प्रश्नोऽधुना विचार्यते / सूरिवर्यकृतभाष्यान्तदत्तप्रशस्तित इदं स्पष्टं भवति यदिमे सूरय उच्चनागरशाखीयाः / अस्याः शाखाया उत्पत्तिस्तु श्रीआर्यदिनशिष्यश्रीआर्यशान्तिश्रेणिकसमये। आर्यदिनाः श्रीवीरात् ४२१तमेऽन्दे जाताना आर्येन्द्रदिनानां शिष्याः। अनेन श्रीउमास्वातयः श्रीवीरात् पश्चमशताब्दीपूर्वकालीना नेत्यनुमीयते / श्रीधर्मसागरगणिविरचितायां श्रीतपागच्छपट्टावलीसूत्रवृत्तौ तु उल्लेखो यथा ___ "श्रीआर्यमहागिरिसुशिष्यो बहुलबलिस्सही यमलभ्रातरौ / तत्र पलिस्सहस्य शिष्यः स्वातिः, तत्त्वार्थादयो ग्रन्थास्तु तत्कृता एव संभाव्यन्ते / तच्छिष्यः श्यामा. 1 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृतसिद्धहेमवृत्तौ ( अ०२, पा०२, 2039) " उपोमास्वाति सङ्ग्रहीतारः, उपजिनभद्रक्षमाश्रमणं व्याख्यातारः, तस्मादन्ये हीना इत्यर्थः" २इदं च प्रज्ञापनानन्दीपट्टावल्योः अनुगामि / 3 संभावना तु नामसादृश्यभ्रमेण / Page #17 -------------------------------------------------------------------------- ________________ चार्यः 'प्रज्ञापना'छत् श्रीवीरात् षट्सप्तत्यधिकशतत्रये (376) स्वर्गभाव / प्रो० पिटर्सनकते रिपोर्टसंज्ञके पुस्तके उमास्वातिसमयः श्रीवीराद न शतत्रयीपूर्विक इत्युल्लेखः / " मतोऽनुमीयते श्रीउमास्वातयः श्रीवीरात् द्विशताब्दीपूर्वकालीनान, श्रीवीरात् प्रायः ७२०तमे वर्षे तेषां प्रादुर्भाव इति युगप्रधानावल्याधारेणानुमीयते / दिगम्बरसम्प्रदायानुसारेण श्रीवीरात् 714-798 पर्यन्तो जीवनकाल: श्रीउमास्वातीनाम् / - यद्यपि श्रीउमास्वातीनां समयमीमांसने एतादृशी भिन्नता वर्तते, तथापीदं सुनिवितं सम्भाव्यते यदेतेषां प्रादुर्भावः श्रीवीरात् द्विशताब्दीत उत्तरकालीनः, नवमशताब्दीतः पूर्वकालीन इति // अथ दिक्पटानुसारी वृत्तान्तो लिख्यते / तत्रास्मिन् ग्रन्थे दत्तानां कचित् पाठसंख्याभिमानां सूत्राणां रचयितारः प्राप्तचरणर्द्धयः पद्मनन्दापराभिधाना उमास्वातयः / एकदा जैनसिद्धान्तविषयिणी खशङ्कां दूरीकर्तुं ते विदेहक्षेत्रवर्तिश्रीम___नामान्तरम् धरतीर्थकरमुपाजग्मुः / चारणार्द्धबलात् गगनपथा गच्छतां तेषां . हस्तन्यस्ता मयूरपिच्छिकाऽधः पतिता। तदानीं विष्णुचरणविहारिणः कस्यचिद् गृध्रस्य पिच्छिका गृहीत्वा निजकर्म निर्वाह्य पुरः प्रचेलुः / अतस्तेषां गृध्रपिच्छ इत्यपरा आहा आसीत् / उक्तं च "तत्त्वार्थसूत्रकर्तारं, गृध्रपिच्छोपलक्षितम् / वन्दे गणीन्द्रसंयात-मुमास्वामिमुनीश्वरम् / / " ... एतैर्महाशयः का भूमिः स्वजन्मनाऽलङ्कृतेति न ज्ञायते / परन्तु यदि चरमतीर्थकरश्रीमहावीरनिर्वाणसमयः ख्रिस्तशकात् 527 वर्षपूर्वको निश्चीयते तर्हि उमास्वातीनां इ० स० 135-239 जीवनकालः / जन्मन एकोनविंशतिवर्षेषु व्यतीतेषु जीवनरेखा महसोद्विग्नः एभिर्महाशयैः श्रीकुन्दकुन्दाचार्यसमीपे दीक्षा कक्षीकता। ततः पञ्चविंशतिवर्षान्ते च सूरिपदं प्राप्तम् / अनेनाधारेणैषां जीवनकालस्प स्थूलरूपरेखाऽनुमीयते, सा यथावीरात् स्त्रिस्ताव जन्म ७१४तमेऽब्दे १३५तमेऽन्दे दीक्षा 733 // सूरिपदम् 758 , स्वर्गगमनम् 798 , 219 // 154 // 179 , Page #18 -------------------------------------------------------------------------- ________________ प्रन्थकारसम्प्रदाय: श्वेताम्बरदिगम्बरसम्प्रदायानुसारि वृत्तान्तद्वयं विचारितम् / अधुना सूत्रकाराः श्वेताम्बरीया दिगम्बरीया वा इत्यन्वेषणा क्रियते / उभयपक्षे ग्रन्थस्य प्रामाण्यरूपेण स्वीकृतिस्तस्मात् तद्गतसूत्रगवेषणेनैव ग्रन्थकारसम्प्रदायो निश्चेतव्य इति युक्तियुक्तो मार्गः / अतोऽन्ययुक्तीनामत्रोपेक्षा क्रियते / ___तत्र चतुर्थाध्याये ‘दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः' इति तृतीये सूत्रे सूत्रकारैर्भवनवासिनां दश व्यन्तराणामष्टौ ज्योतिष्काणां पञ्च कल्पोपपत्रवैमानिकानां च द्वादश भेदा इति देवभेदप्रदर्शकमुद्देशसूत्रमुक्तम् / दिगम्बरानुयायिटीकाकारमहाशयैरपि सर्वार्थसिद्धिटीकायां (पृ. 135) तत्त्वार्थराजवार्तिके. (पृ० 150) तत्त्वार्थश्लोकवार्तिके (पृ० 372 ) चेदं सूत्रं मौलिकरूपेण कक्षीकृतम् / * परन्तु सूत्रसंगृहीतभेदप्रदर्शनसमये भवनवासिनां व्यन्तराणां ज्योतिष्काणां तु यथार्थभेदान् प्रदर्शयित्वा वैमानिकानां भेदप्रदर्शनसमये सूत्रकाराभिमतान् द्वादश भेदान् परित्यज्य षोडशभेदानां प्रदर्शनं दिगम्बरैः कृतं, तस्मात् किं उद्देशभङ्गदोषारोपणं न भवति / यदि कल्पोपपनवैमानिकानां षोडशभेदप्रदर्शनं सूत्रकाराभिमतं स्यात, तर्हि 'दशाष्टपश्चषोडशविकल्पाः कल्पोपपन्नपर्यन्ताः' इति उद्देशसूत्रं विदध्यात् / न च व्यधात् / तेसादनौमाखातिकमेतदित्यनुमीयते / विचार्यतामुभयपक्षीयसूत्रम् / तत्र दिगम्बरसम्प्रदाये यथा ___" सौधर्मेशानसानत्कुमारमाहेन्द्रब्रमब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्रशतारसहस्रारेप्यानतप्राणतयोरारणाच्युतयोर्नवसु प्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च / " -तत्त्वार्थराजवार्तिके अ० 4, सू० 19 / श्वेताम्बरसम्प्रदाये तु___"सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च।" . _ -(अ०४, सू० 20) सूत्रकाराणां श्वेताम्बरत्वेऽन्या युक्तिरपि / तथाहि-पञ्चमाध्याये द्रव्याणामवगाहनिरूपणसमये यथा 'धर्माधर्मयोः कृत्स्ने' (लोकाकाशे), 'एकप्रदेशादिषु भाज्यः पुद्गलाना', 'असङ्ख्येयभागादिषु जीवानां' इति सूत्राणि रचितानि, तथैव यदि मुख्यकालरूपाः समग्रलोकगताः कालाणवः सत्याः स्युस्तर्हि तेषामप्यवगाहक्षेत्रं साक्षात् प्रदर्शितं भवेत् / न च केनापि प्रकारेण सूत्रकारैर्दर्शितं, तसात् कालाणूनां मुख्यकालरूपेण सत्ता तेषां मतेऽपि वैमानिकानो लेझ्यास्थित्यधिकारे दिगम्बरमान्यताया दुर्घटनाऽपि विचारणीया। Page #19 -------------------------------------------------------------------------- ________________ 25 नेति प्रतिमाति / अस्मिन्नभावे सिद्धे सूत्रकाराः श्वेताम्बरमतानुसारिण इति सण्टकृते / भगवतीप्रज्ञापनादिष्वागमेषु कालाणूनां प्रतिपादनं न कृतम् , एवं सति सूत्रकारैरपि आगमविरुदं सूत्रं न व्यरचि। ननु कालाणून् दिगम्बरा अपि नैव मन्यन्ते इति चेत् , तत्र, तत्त्वार्थराजवार्तिके (पृ० 228 ) 'वर्तना परिणामक्रिया परत्वापरत्वे च कालस्य' (अ० 5, सू० 22) इति सूत्रस्य व्याख्याने निम्नलिखितोल्लेखात् / ... "द्विविधः कालः-परमार्थकालः व्यवहाररूपचेति / तत्र परमार्थकालः वर्तनालिङ्गः गत्यादीनां धर्मादिवत् वर्तनाया उपकारकः / स किंखरूप इति चेत्, उच्यते-यावन्तो लोकाकाशे प्रदेशास्तावन्तः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिनाकाशप्रदेशे एकैकवृत्या लोकव्यापिनः / " . सूत्रकाराभिप्रायेण निश्चयकालस्यास्वीकारात् तत्स्वरूपाः कालाणवोऽपि न भवेयुः, अत एव तैस्तेषामवगाहक्षेत्रं न प्रदर्शितं, 'मूलं नास्ति कुतः शाखा' इति न्यायात् / ___किश्च यदि कालो मुख्यद्रव्यं स्यात् तर्हि 'अजीवकाया धर्माधर्माकाशपुद्गलाः' (अ० 5, सू० 1) इत्यत्राजीवरूपेण तस्याप्युल्लेखः करणीयो भवेत् / ततोऽनन्तरसूत्रे 'द्रव्याणि जीवाश्च' इत्यत्र कालस्यापि मुख्यद्रव्यरूपेण गणना स्यात् / न च कृता सूत्रकारैः, तमाम मुख्यद्रव्यरूपः कालः / न च 'गुणपर्यायवद् द्रव्यं ' (अ०५, सू० 38) इति द्रव्यस्य लक्षणकथनानन्तरं 'कालच' (अ० 5, सू० 39) इति सूत्रेण कालस्यापि मुख्यद्रव्यत्वरूपेण सिद्धिर्भवतीति वाच्यम् / यदि तत्रोल्लेखकरणेऽपि सा सिद्धिर्भवेत, तर्हि सर्वेषामपि द्रव्याणां मुख्यद्रव्यत्वसिद्धयर्थ तत्रैवोल्लेखः करणीयो भवेत्, न तु प्रथमतः / अपरञ्च तत्रत्यं "द्रव्याणी'ति सूत्रमपि निष्फलं स्यात् // क्षुत्-पिपासा-शीतो-ष्ण-दंशमशक-चर्या-शय्या-वध-रोग-तृणस्पर्श-मला इति परीषहव्याख्याने सूत्रकारैः किश्च 'एकादश जिने' ( अ० 9, सू० 11 ) इति सूत्रेण स्पष्टतयैव केवलिन्याहारपरीपहं व्याख्यायमानैः केवलिनामाहारसद्भाव आख्यायि / दिक्पटास्तु केवलिषु पात्राद्युपकरणाकवलाहारासम्भवमध्यास्यमाना नेवं मन्वते, स्वस्वव्याख्यासु च निषेधाय नमध्याहारादि कुर्वन्ति, परीषहाणां गुणस्थानावतारप्रसङ्गे निषेधाध्याहारादि विहाय असङ्गतं किमपि व्याख्यायते तैः / अत्र चार्य विवेकः-दिक्पटाः केवलिषु कवलाहारं नैवाभिमन्यन्ते, श्वेताम्बरास्तु स्वीकुर्वन्ति / यदि दिकपटीयाभिप्रायेण मोहोदयसहायीकृतक्षुवेदनाया अभावाद् भगवति केवलिनि क्षुत्पिपासाप्रसङ्गाभावः, ततः १'म्याणि ' 'जीवाश्च ' इति पृथक् पृथक् सूत्रं दिक्पटमते। 2 श्वेताम्बरमते सप्तत्रिंशत्तमं सूत्रमिदम् / 'कालव्धेत्येके' (अ.५, सू०३.) इति श्वेताम्बरमतसूत्रपाठः / Page #20 -------------------------------------------------------------------------- ________________ कथं केवलिन्येकादश परीषहाः कथिताः 1 न च क्षुत्पिपासयोः मोहोदयसहायीकृतक्षुधादिवेदनीयजन्यत्वं सत्यमस्तीति वाच्यं, मोहोदयसहायीकृतक्षुधादिवेदनीयजन्यत्वस्य क्षुत्पिपासादिषु 'वेदनीये शेषाः' (अ० 9, सू० 16) इति सूत्रेण निराकृतत्वात् केवलवेदनीयजन्यत्वस्य प्रतिपादनाच्च / अन्यच्च क्षुत्पिपासयोः मोहोदयसहायीकृतवेदनीयजन्यत्वं नास्तीति सयुक्तिकं प्रतिपादितं न्यायाचार्यन्यायविशारदमहामहोपाध्यायश्रीयशोविजयपादैः अध्यात्ममतपरीक्षाग्रन्थे चतुस्त्रिंशदतिशयानां सिद्धिप्रसङ्गे / _____ अपरश्च यथा मोहाभावात् अदर्शनलाभनाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्कारा इति एकादश परीषहाः केवलिषु न स्वीक्रियन्ते दिक्पटैरपि, तथैव क्षुत्पिपासे अपि मोहोदयसहायकाभावात् न स्वीक्रियेतां तैः, स्वीकारश्च तैः कृत इति विचारणीयं स्थलं विद्वद्भिः। 'पुलाकबकुशकुशील निर्ग्रन्थस्नातका निर्ग्रन्थाः' (अ० 9, सू०४६) इति सूत्रस्य व्याख्यानावसरे पुलाकादीनां विशेषप्रतिपत्त्यर्थमुक्तं श्रीमद्भट्टाकलङ्कदेवैः "पुलाकबकुशप्रतिसेवनाकुशीलाः द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्भवन्ति / ........ बकुशो द्विविधः-उपकरणबकुशः शरीरबकुशश्चेति / तत्र उपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तः, बहुविशेषयुक्तोपकरणकाङ्क्षी तत्संस्कारप्रतीकारसेवी भिक्षुरुपकरणचकुशो भवति / शरीरसंस्कारसेवी शरीरबकुशः / " ___-तत्त्वार्थराजवार्तिके (पृ० 359) एवं सति केवलकमण्डलु-पिच्छिकायुक्तनम एव साधुः, न तु विशेषोपकरणयुक्तपरिग्रहधारी इति मन्यमानान् दिगम्बरीयान् प्रति प्रश्नोऽयम्- . यदि भवतां मते पिच्छिकाकमण्डलू विनाऽन्यस्योपकरणस्यास्वीकार एव, तर्हि उपर्युक्तलक्षणानां बकुशनिग्रन्थानां निर्ग्रन्थत्वस्याभावः, तेषां उपकरणेषु सक्तचित्तत्वात, विविधविचित्रपरिग्रहयुक्तत्वात, बहुविशेषयुक्तोपकरणकाक्षित्वात्, तत्संस्कारप्रतीकारसेवित्वात् / यद्येषामपि निर्ग्रन्थत्वं स्वीक्रियते भवद्भिः, तर्हि किं न धर्मोपकरणानां मुक्तेरवाधकता स्वीक्रियते / 'परिग्रहः' (अ० 7, सू० 12) इति परिग्रहलक्षणस्वीकारात् बकुशनिम्रन्थेषु धर्मसाधनोपकरणसद्भावेऽपि मूर्छाया अभावात् निर्ग्रन्थत्वं समस्ति इत्यभिप्रायेणेदं सूत्रमुपन्यस्तं सूत्रकारैः इति विरोधपरिहारकरणं दिक्पटानां स्त्रमतव्याघातभीतेः दुःशकम् / अपरश्च दिगम्बरस्वरूपलिङ्गिन एव निग्रेन्थाः इति मन्यमानैर्दिगम्बरैर्विचारणीयः तत्त्वार्थराजवार्तिककाराणामयं मुद्रालेख: १सर्वार्थसिद्धिटीकायामप्येवंविध उल्लेखः। Page #21 -------------------------------------------------------------------------- ________________ लिङ्गं द्विविधं-द्रव्यलिङ्ग भावलिङ्गं च। भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था लिङ्गिनो भवन्तीति / द्रव्यलिङ्गं प्रतीत्य भाज्याः।" अपरश्च श्रीतत्त्वार्थटिप्पणकस्य प्रान्तमागे सूत्रविषयकपाठभिन्नतान्यूनाधिकताया विचारणे अनौमास्वातिकानि एतत्स्थलानि इति निर्दिष्टं वर्तते, परन्तु तदुपरि यथायोग्यविचारकरणाय समयाभावात् न किमपि विवृणोमि / तत् तत एवावलोकयन्तु आलोकवन्तः। एवं सूत्रकाराणां श्वेतपटत्वसमर्थनसमर्थानां युक्तीनां सद्भावेऽपि दिगम्बरमान्यताऽस्मिन् समानविषयके ग्रन्थे नासम्भविनी, यतः कल्याणमन्दिर-भक्तामर-सिन्दूरप्रकरादयो ग्रन्थाः श्वेतपटीया अपि मान्यन्त एवं दिक्पटीयैः। ___ अन्ते सौहार्दहृदयेभ्यो दिगम्बरमहाशयेभ्यो विज्ञप्तिरियं मम-यदा उपरितनयुक्तिषु स्खलनाः सम्भवेयुः, सूत्रकाराणां दिक्पटत्वसिद्धौ भवत्सकाशे च सूत्रगवेषणपूर्विका युक्तयो वर्तेरन्, तर्हि तत्तनिवेदनेन कृपां कुर्वन्तु भवन्त इति // ___टीकाविचार: अस्मिन् ग्रन्थे तत्त्वार्थाधिगमसूत्रस्य सम्बन्धकारिकोपरि टीकाद्वयं वर्तते / तत्र प्रथमा वीरं प्रणम्येत्यायेकपद्यपूर्विका श्रीदेवगुप्तसूरिप्रणीता। द्वितीया तु श्रीसिद्धसेनसूरिप्रणीता जैनेन्द्रशासनेतिपश्चपद्यात्मिकाऽवतरणकलिता पूर्वापेक्षया संक्षिप्ततरा / भाष्यानुसारिणी टीका तु श्रीसिद्धसेनमूरिभिरेव सन्दृब्धेति श्रीदेवगुप्तसूरिकतटीकाया अदर्शनादनुमीयते / परन्तु श्रीदेवगुप्तसूरिकृतायाः सम्बन्धकारिकाटीकायाः प्रान्ते. "इतीयं कारिकाटीका, शास्त्रटीकां चिकीर्षुणा / सन्दब्धा देवगुप्तेन, प्रीतिधर्मार्थिना सता॥१॥" इत्युल्लेखे विलसति कमात् तैः सूत्रटीका न व्यरचीति प्रश्नो विचारणीयः॥ किं यथा श्रीमलयगिरिमूरय आवश्यकस्य बृहत्कल्पस्य वृत्ति रचयन्त एव कालं चक्रुस्तथैतेऽपि / टीकाकारपरिचितिः श्रीदेवगुप्तसूरयः श्रीदेवगुप्तनामानौ द्वौ सूरी इति स्पष्टमयगम्यते नवपदनवतत्त्वप्रकरणयोर्विवरणविन्यस्तनिम्नलिखितप्रशस्तितः "तत्रासीदतिशायिबुद्धिविभववारित्रिणामग्रणीः सिद्धान्ताणेवपारगः स भगवान् श्रीदेवगुप्ताभिधः / सूरि रिगुणान्वितो जिनमतादुद्धृत्य येन स्वयं श्रातृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥४॥-शार्दूर० 1 अयमेवोल्लेखः सर्वार्थसिद्धिटीकायां (पृ० 270) / Page #22 -------------------------------------------------------------------------- ________________ 28 तेनैव स्वपदप्रतिष्ठिततनुः श्रीककररिप्रभु नानाशास्त्रसुबोधबन्धुरमतिर्जज्ञे स विद्वानिह / मीमांसां जिनचैत्यवन्दनविधि पञ्चप्रमाणी तया ___बुद्ध्वा यस कृतिं भवन्ति कृतिनः सदोषशुद्धाशयाः ॥५॥-शार्दल. तत्पादपद्मद्वयचश्चरीका ___शिष्यस्तदीयोञ्जनि सिद्धसरिः। तसाद बभूवोज्वलशीलशाली . त्रिगुप्तिगुप्तः खल देवगुप्तः ॥६॥"-उपजातिः द्वितीयदेवगुप्तसूरयः पूर्वावस्थायां जिनचन्द्रगणीति नाना प्रथिता नवतलाकरणप्रणेतार इति समाप्ति( पञ्चदशम )गाथाविवरणात स्फुटमेवावगम्यते / सा गाथा पेयम् " ईय एए नवतत्ता, सभेयभिन्ना उ संगहनिमित्तं / / गणिणा जिणचंदेणं, सरणत्थं अप्पणो रहया // 1 // " श्रीपेशोदेवोपाध्यायनिर्मितं तद्विवरणं तु यथा " गणिना पाण्मासिकभगवत्यङ्गोपधानोद्वहनावाप्तगणिनाम्ना जिनचन्द्रेण पूर्वानस्थानामैतद, तस्योत्तरावस्थायां तु श्रीदेवगुप्ताचार्येणेत्यर्थः।" इमे जिनचन्द्रापराभिधानाः सूरयः श्रीककसूरीणां शिष्याः न तु प्रशिया इति प्रतिभाति नवपदप्रकरणप्रान्तगाथादर्शनात् / सा चैवम् "ईइ नवपयं तु एवं, रइयं सीसेण ककररिस / गणिणा जिणचंदेणं, सरणत्यमणुग्गहत्थं च // 1 // ". एतत् समर्थ्यते नवपदलघुवृत्तिप्रशस्त्याऽपि / सा घेत्यम्- ' 'नवपदटीका प्रोक्ता, श्रावकानन्दकारिणी।। श्रीदेवगुप्तसूरिभि-भोवयितव्या प्रयत्नेन // 1 // त्रिसप्त्यधिकसहस्र (1073), मासे कार्तिकसंज्ञिते / श्रीपार्श्वनाथ चैत्ये तु, दुर्गमाय च( त ? )पत्तने // 2 // छाया एवमेतानि नवतत्त्वानि समेदमित्रानि तु सङ्ग्रहनिमित्तम् / गणिना जिनचन्द्रेण स्मरणार्थमात्मनो रचितानि // 2 जिनचन्द्रसूरीणामन्तेवासी धनदेवेत्याद्यनामा / 3 छाया एवं नवपदं त्वेतद् रचितं शिष्येण ककत्सूरेः / गणिना जिनचन्द्रेण स्मरणार्थमनुग्रहार्थ च // Page #23 -------------------------------------------------------------------------- ________________ 29 श्रावकानन्दटीकेयं, नवपदस्य प्रकीर्तिता / जिनचन्द्रमणिनाम्ना, तु गच्छे 'ऊकेश' संज्ञके // 3 // कत्कदाचार्यशिष्येण, कुलचन्द्रसंहितेन च। तेनैषा सत्रिता टीका, निर्जरार्थ तु कर्मणाम् // 4 // " अपरञ्च प्राचीनगुर्जरकाव्यसङ्घहे नवमे परिशिष्टेष्यमुल्लेखोऽपि हेतु: "संवत् 1414 (1) वर्षे वैशाषसु 10 गुरौ संघपतिदेसलसुत सा० समरसमरश्रीयुग्म सा० सालिंगसा० सज्जनसिंहाभ्यां कारितं / प्रतिष्ठितं श्रीककसरिशिष्यैः श्रीदेवगुससूरिभिः / शुभं भवतु // " ___ एवं विरोधापत्तौ सत्यां सम्भवेदेतत्-गुर्वावलीकारेणाल्पकालीनाचार्यपदावस्थादिकारणात् सिद्धसूरयो न प्रकाशिता भवेयुः। यद्वा श्रीकक्कसूरीणां श्रीसिद्धसूरिदेवगुप्ताचार्यों इति द्वौ शिष्यौ वर्तेताम् / . देवगुप्तसूरिविषये एवं विचारितेऽपि एकनामधारिणोरनयोर्विक्रमार्कीयैकादशशताब्या विद्यमानयोरुकेशगच्छालङ्कारसूरिवर्ययोः कः सम्बन्धकारिकायाः विवरणनिर्माता इति नावधार्यते / अन्यः कोऽपि सदृशनामधारी मुनिवर्योऽपि व्याख्याता सम्भवेत् / निश्चयस्तु साधनाभावाद् दुःशकः। श्रीसिद्धसेनगणयः इमा टीकां विहाय श्रीसिद्धसेनगणिमिः कोऽप्यन्यो ग्रन्थो निरमायीति न श्रुतिपथमवतीर्ण, परन्तु आचाराङ्ग-विवाहप्रज्ञप्ति प्रज्ञापना-नन्दीसूत्र-दशाश्रुतस्कन्ध-दशवैकालिक-विशेषावश्यका-ऽऽवश्यकनियुक्ति-निशीथभाष्या-ऽनुयोगद्वार-प्रशमरतिपरिभाषेन्दुशेखर-पाणिनीयव्याकरणप्रमुखान्यान्यग्रन्थावतरणसमलतटीकावलोकनेनापि निधीयते तेषां विद्वत्त्वम् / इमे सुगृहीतनामधेया महर्षयः स्वजन्मना कदा का भूमि भूपयामासुरिति नावगम्यते साधनाभावात्, परन्तु तत्सत्तासमयविचारोपयोगिनिम्नलिखितप्रशस्तितः स्फुटीभवति एतावद् यदिमे श्रीमदिनगणिक्षमाश्रमणशिष्यश्रीसिंहसूरीणां प्रशिष्याः श्रीभास्वामिनां तु शिष्याः / आसीद दिन्नगणिः क्षमाश्रमणतां प्रापत क्रमेणैव यो - विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिभृशम् / 1 अनेन संभाव्यते जिनचन्द्रगणेः कुलचन्द्रेत्यपरं नामधेयम् / 2 अवतरणसूची द्वितीये विभागे दास्यामि / 3 श्रीसिद्धसेनगणिसमयविचारं करिष्ये द्वितीये विभागे। Page #24 -------------------------------------------------------------------------- ________________ वोढा शीलभरस्य सच्छुतनिधिर्मोक्षार्थिनामग्रणी ज्वालामलमुच्चकैर्निजतपस्तेजोमिरव्याहतम् // १॥-शार्दूल. यत्र स्थित प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् / शिष्यगणसम्प्रदेयं, जिनेन्द्रवत्राद् विनिष्क्रान्तम् // 2 // आर्या तस्याभूत् परवादिनिर्जयपटुः सैंहीं दधच्छूतां नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः। शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद् ___भन्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि // 3 ॥–शाईल. निधूततमःसंहतिरखण्डमण्डलशशाङ्कसच्छाया / अद्यापि यस्य कीर्तिभ्रमति दिगन्ताऽनविश्रान्ता // ४॥-आर्या० शिष्यस्तस्य बभूव राजिकशिरोरत्नप्रभाजालक व्यासङ्गच्छरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः। भास्वामीति विजित्य ना(मा?)म जगृहे यस्तेजसां सम्पदा ___ भास्वन्तं भवनिर्जयोद्यतमतिविद्वज्जनाग्रेसरः // ५॥–शार्दूल. क्षमया युक्तोऽतुलया, समस्तशास्त्रार्थविन्महाश्रमणः।। गच्छाधिपगुणयोगाद्, गुणाधिपत्यं चकारार्थ्यम् // ६॥-आर्या तत्पादरजोऽवयवः, स्वल्पागमशेमुषीकबहुजाड्यः। तत्त्वार्थशास्त्रटीका-मिमां व्यधात् सिद्धसेनगणिः ॥७॥-आर्या. यद्यपि भाष्यानुसारिटीकाकाराणां श्रीसिद्धसेनगणीनां परिचयः तत्कृतप्रशस्तितः स्फुटीभवति, तथापि सिद्धसेनेतिनामधेयानां विविधसूरीणां विषये किश्चिदपि वळ नानावश्यकम् / 1 श्रीसम्मतितर्कादिप्रौढग्रन्थप्रणेतारः तार्किकचूडामणयः कुमुदचन्द्रेत्यपरनामघेयाः कल्याणमन्दिरस्तोत्रकारः श्रीसिद्धसेनदिवाकराः वृद्धवादिसूरिशिष्याः। 2 वादिकुञ्जरकेसरीत्यादिविरुदधारिश्रीवप्पमहिस्रिगुरवः श्रीसिद्धसेनसूरयः / 3 श्रीबप्पभट्टिमूरिसन्तानीययशोभद्रसूरिगच्छालङ्कारयशोदेवसूरिशिष्याः विलासर्वईकहासूत्रधाराः साहारणेत्यपरनामकाः श्रीसिद्धसेनसूरयः। 4 प्रवचनसारोद्धारस्य सं० ११४२तमे वर्षे वृत्तिनिर्मातारः चन्द्रगच्छीयप्रद्युम्नसरिपरम्परागतदेवभद्रशिष्याः सिद्धसेनसूरयः श्रीयशोदेवस्य गुरवः। ___ 5 बृहत्क्षेत्रसमासस्यः सं० ११९२तमे वर्षे टीकाकाराः उपकेशगच्छीयदेवगुप्तसूरिशिष्याः श्रीसिद्धसेनसूरयः। Page #25 -------------------------------------------------------------------------- ________________ श्रीनाणकीयगच्छभूषणाः श्रीसिद्धसेनसूरयः सं० 1433 / 7 श्रीसिद्धिसागरसूरिसन्तानीयाः श्रीसिद्धसेनसूरयः सं० 1294 / 8 श्रीसरस्वतीनदीतटे सिद्धपुरपत्तने सिद्धचक्रमाहात्म्यप्रणेतारः श्रीसिद्धसेनसूरयः / एवमन्यान्यपुस्तकाधारेण संशोध्य पाठान्तरच्छायाटिप्पनादिना विशदीकृत्य शुद्धिपप्रेषच संकलय्य सम्पादितेऽसिन् मनोमोहके ग्रन्थे सततं समभ्यस्यन्तां तत्वार्थान्वेपिणश्छात्राः, साधन्तमवलोकयन्तामालोचकाः, तर्कयन्तां तार्किकाः, फलेग्रहितां नयतां मामकीनं परिश्रमम्, संशोधयन्तु सूचयन्तु च सदयाः सहृदया मतिमान्यप्रभवा दृष्टिदोपनिबद्धा वा स्खलना इति प्रार्थयमानः सततमध्ययनाध्यापनकार्यदक्षशेमुषीशेखरश्रमणादिम्पः मदङ्गीकृतकार्यसर्वाङ्गतासाधकानि कष्टसाध्यानि सूत्रकारसम्प्रदायसमयादिविषयकानि साधनानि याचमानः श्वेताम्बरदिगम्बरानायसूत्रपाठभेदसूची-वर्णानुसारिसूत्रानुक्रमपिका-सूत्रकारसम्प्रदाय-तत्समयनिर्णय-श्रीसैद्धसेनीयटीकाऽन्तर्गतसाक्षीभूतपाठप्रदर्शककोष्टकादिसमन्वितं द्वितीयं विभागं यथामति संशोध्य घीधनकरकमले समर्पयिष्यामीति च निवेदयमानो विरमामि / मोहमयीनगर्यो, भूलेश्वरवीभ्याम् . ) सुज्ञसेवासमुत्सुको आषाढकृष्णैकादश्यां हीरालालः। १९८२तमे वैक्रमीयाब्दे. 1 श्रीमजिनविजयमुनिसम्पादित प्राचीनलेखसंग्रहद्वितीयविभागे ५३०-५३१तमौ लेखा। Page #26 -------------------------------------------------------------------------- _ Page #27 -------------------------------------------------------------------------- ________________ श्रीपरमात्मने नमः। श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोडार-ग्रन्थाङ्के श्रीउमास्वातिवाचकवर्यविरचितम् तत्त्वार्थाधिगमसूत्रम् स्वोपज्ञाः सम्बन्धकारिकाः (श्रीदेवगुप्तसूरि-श्रीसिद्धसेनगणिप्रणीतटीकास्ययुताः) सम्यग्दर्शनशुद्धं, यो ज्ञानं विरतिमेव चाप्नोति / दुःखनिमित्तमपीदं, तेन सुलब्धं भवति जन्म // 1 // आर्यो श्रीदेवगुप्तसूरिकताटीका वीरं प्रणम्य सर्वज्ञ, तत्त्वार्थस्य विधीयते / - टीका संक्षेपतः स्पष्टा, मन्दबुद्धिविबोधिनी // अनुष्टुप् व्याख्या-सम्यगईत्प्रवचनमधिगम्य कालसंहननश्रद्धायुरादेः परिहाणिमवलोक्य सत्वानुकम्पया समासतो मोक्षमार्गमुपदेष्टुकाम आचार्य इदमाह-सम्यग्दर्शनशुद्धं यो शानं विरतिमेष चामोति / अत्र सम्यग्दर्शनशुद्धमिति कतरो विग्रह आस्थीयते ? यदि तावत् सम्यग्दर्शनेन शुद्धमिति करोति करणे तृतीया, परश्वादीनामिव प्रा निर्वृत्तिर्वक्तव्या; उत कर्तरि, तदा दर्शनज्ञानयोरमेदाद् आत्मनो, य आमोतीत्ययुक्तम् / अथ सम्यग्दर्शनायेति तादर्थे चतुर्थी, दार्विव यूपाय, प्रागेव दर्शनात् शुद्धं ज्ञानम्, अवाप्तज्ञानस्य च केवलिन इव किं दर्शनेन ? उत सम्यग्दर्शनात् हेतौ पञ्चमी, स्वयंसम्बुद्धादिषु विरुध्यते, तेषां हि झगित्येबज्ञान न हेतुक्रममपेक्षते। अथ सम्यग्दर्शने शुद्धमिति निमित्तसप्तमी, चतुर्थीपक्षदोषः। तस्माद वक्तव्योऽत्र समाधिः / यथेच्छसि तथाऽस्तु / ननूक्तं दोषभूयस्त्वम् / नैते दोषाः / करणे तावद् माया-लक्षणम् यस्याः पादे प्रथमे, द्वादश मात्रास्तथा तृतीयेऽपि / मटादश द्वितीये, चतुर्थक पञ्चदश साऽऽयो / Page #28 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तवक्ष्यमाणा निर्वृत्तिः "तनिसर्गादधिगमाद्वा" (अ० 1, सू०३) इति / कर्तर्यपि,अत एव आमोतीति युक्तम्, आत्मा हि सम्यग्दर्शनी सलिलमिव स्वच्छतामन्यांज्ञानावस्थामामोतीति वक्ष्यते / अवश्यं च य इति कर्तुनिर्देशः कर्तव्यः, स युपायैरात्मानं शोधयतीति / चतुर्थ्यामप्यधिगमामिप्रायः, नैसर्गिकाद् अवाप्तश्रद्धोऽध्ययनादिभिराधिगमिकमामोति. तदर्थमिति, शुद्धिकारणं तु शुद्धमध्ययनादिकाले / पञ्चम्यामपि, स्वयंसम्बुद्धादिषु निसर्गसम्यग्दर्शनहेतुकमेव तत्, वक्ष्यति हि "अपरोपदेशो निसर्गः" इति, तेषां हि परोपदेशमन्तरेण क्षयोपशमादिलब्धिभ्यः समीहमानानामुत्तरकालं प्रागिव द्राग् उत्पद्यते ज्ञानम् / सप्तम्यामपि सत्सप्तमी, सति हि सम्यग्दर्शने शुद्धं ज्ञानमन्यथा सर्वशुद्धप्रसङ्ग इति / अधिकरणे वा, यथा आकरे शुद्धानि भाण्डानीति / एवमन्येऽप्याक्षेपपरिहारमार्गाः सन्ति, प्रसङ्गभयात् तु नाद्रियन्ते / तृतीयापक्षः पुनरत्र ज्यायान् / सम्यग्दर्शनेन शुद्धमिति "कर्तृकरणे कृता" (पाणिनिः 2 / 1 / 32) इति समासः। तत्पूर्वकमित्यर्थः, दर्शनमूलत्वाच्च श्रेयसस्तेन शुद्धमित्युच्यते / उक्तश्चायमर्थः प्रवचने "भ्रष्टेनापि च चारि-त्राद् दर्शनमिह दृढतरं ग्रहीतव्यम् / सिध्यन्ति चरणरहिता, दर्शनरहिता न सिध्यन्ति // " आर्या न च श्रुतमधीयानस्याध्ययनादिभ्योऽधिगमसम्यग्दर्शनावाप्तिरिति कृत्वा ज्ञानशुद्धंदर्शनमाशकितव्यम्,प्राग दर्शनादज्ञानमेव / तदुक्तं च प्रवचने- "द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्ये"ति। न चाशुद्धाशये भैषजमिव श्रुतमात्मलाभ लभते / एतेनाशयशुद्धौ तस्यैव सम्यक्त्वेन विपरिणामो जायत इति व्याख्यातमेव / श्रुतमेवाशयशोधनमिति चेत्, न, अभव्यानामध्ययनादिक्रियासम्भवेऽपि दर्शनासम्भवात, वक्ष्यति हि, सम्यग्दर्शनपरिगृहीतं मत्यादि ज्ञानमन्यथा त्वज्ञानमेवेति / भवति चान्यथापि पदार्थाध्ययनमात्रं, न तु रुचिं विरहय्य दर्शनम्, अवश्यं प्रागाशयविशुद्धिरेष्टव्या। य इति जन्मवतः कर्तुरुद्देशः / ज्ञानं पञ्चप्रकारं वक्ष्यमाणम् / तत्राघत्रयं व्यभिचारित्वादिष्यते तस्य विशेषणं, उत्तरं तु द्वयं शुद्धत्वादेव न, दैवरक्ता हि किंशुकाः। विरमणं विरतिव्रतं संयमश्चारित्रमित्यर्थः / साऽपि सम्यक्पूर्विकैव पञ्चतया वक्ष्यते / अत्र किं सम्यग्दर्शनशुद्धा विरतिरिष्यते, उत ज्ञानशुद्धा ? उभयथाऽप्यदोषः, कारणकारणत्वेन दर्शनशुद्धा कारणत्वेन ज्ञानशुद्धा। वक्ष्यति हि, “विरतिर्नाम ज्ञात्वाऽभ्युपेत्याकरणम्" (अ०७,सू०१, भाष्यम् )इति / इत्थं चेयं विरतियदुत दर्शनज्ञानशुद्धाशयस्वामिनी, इतरथा तु मार्जारसंयमकल्पा स्यात्, एतच्च सच्चरित्रमधिकृत्य वक्ष्यति "उत्तरलामे तु नियतः पूर्वलाभः" (अ० 1, सू० 1, भा० ) इति / तस्मात् त्रितयमप्येतत् सम्यक्पूर्वकं निःश्रेयसाय कल्पत इति साधूपदेशः / एवकारोऽवधारणे, दर्शनज्ञानविरतय एव जन्मनः सुलब्धत्वे कारणं, नोनम्, अधिकमप्यतो नास्त्येवेति / एकतमवत तु जन्मान्यजन्मापेक्षया सुलब्धमिव सुलब्धं, वक्ष्यति चैषां मोक्षहेतुत्वम् / तच्चावधारयति, त्रयमेवैतत् नोनमधिकंवा मोक्षायेति / तच्च सप्रयोजनं सूत्रेऽभिधास्यते, 1 मतिश्रुतावधयो विपर्ययथ (अ० 1, सू. 32) इति सूत्रस्य भाष्ये / 2 'ज्ञानं भवत्यन्यथाऽज्ञानमेवेति' इति क-पाठः। Page #29 -------------------------------------------------------------------------- ________________ सूरिकतटीका ] सम्बन्धकारिकाः चशब्दो ज्ञानमिति भिन्नवाक्यत्वाद् विरतिं चेति सम्बन्धाय, एकैकस्य वा निर्जराहेतोः प्राप्तौ जन्म सुलब्धमिति विकल्पार्थः / तच्च सुलन्धमिवेत्युक्तं, आप्नोतीत्यवस्थितं स्वतन्त्रं कर्तारं दर्शयति, दर्शनादित्रयमाप्नोति लभतेऽधिगच्छतीत्यर्थः // दुःखानिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥-दुःखयतीति दुःखं परितापयतीत्यर्थः, तच्च शारीरं मानसं च वक्ष्यमाणं, द्वन्द्वभूयिष्ठत्वात् संसारो वा दुःखं, निमित्तं हेतुः प्रसूतिराधारः / दुःखानां निमित्तं, दुःखं चास्य निमित्तम्, तत्र दुःखानां निमित्तमिति जन्मनि सति शरीरमनसी तद्भवं च दुःखम् , अत एवोक्तमन्यत्रापि-"नाशरीरं प्रतपन्त्युपद्रवाः" इति / उत्तरेषामपि निमित्तं जन्म, तद्वान् दुःखितः सन्नुपप्लुतचेताः क्लीबोऽसम्यग्विषहमाणः संसारस्वभावमजानन् तदितरप्रतिकारान् अभीप्सुरशुभमारभते, ततः कर्मपाशावपाशितः पुनरपि दुःखभागी भवति / संसारपक्षेपि दुःखस्य-संसारस्य निमित्तम् , मूढो ह्येकजन्मनि बहूनि जन्मान्तरवीजान्युपचिनोति / एतेन दुःखं चास्य निमित्तमिति स्थितम् / अपिशब्दो दुःखानां दुःखस्य वा निमितमित्यस्मिन् पक्षेपि [न] दुःखनिमित्तमिति विकल्पयति, कथम् 1 षट् पुरुषप्रकृतीर्वक्ष्यति / तत्र यदा संसारो दुःखं तदाऽऽद्यचतुष्टयस्य मूढत्वात् तन्निबन्धनम् , उत्तरयोस्तु अवाप्तदर्शनादित्रयीकयोरेतदेव परमार्थसाधनं चरमं चेति न दुःखनिमित्तम् , यदा तु शारीरादिदुःखपक्षों दुःखं चास्य विमिरमित्ययं वाच्योऽर्थस्तदा सर्वेषामेव जन्मवतां दुःखनिमित्तमित्ययं विकल्पः / इदमिति जन्मबहुत्वेऽपि मानुषं जन्म प्रत्यक्षं प्रदर्शयति, नह्यन्यत्र विरतिलाभोऽस्ति / कथम् ? नरकेषु तावद् भूयसा दुःखेनाजस्रमनुतप्तदेहमनसामशरणानामत्यन्तोपहतसंक्लिष्टपरिणामानां हितश्रवणमपि नास्ति, कुतस्तदुपदेशकारणम् 1 तिरश्चामप्यत्यन्तमूढमनसामकरुणपराधीनाशरणजीवितानां सोभिभूतजन्मनामाभियोग्यादिदुःखानुबद्धदेहमनसां हितोपदेशश्रवणश्रद्धाविरती कुतः 1 तथा देवानामपि कृच्छ्रावाप्तविषयसुखलवाखादापहतचेतसामनवाप्तहितश्रवणानां केषांचिच्च कथंचिद्धितश्रवणसंभवेऽप्यवश्यभोगकर्माधीनत्वात् अकमभूमित्वाच विरत्यभाव एव / मानुष्येऽपि देवकुर्वाधकर्मभूमिषु भोगपरत्वात् , कर्मभूमिषु चान्त्यावसायिम्लेच्छादिष्वत्यन्तनिघृणत्वात् , आर्येष्वपि चोपदेशकश्रद्धाद्यभावात् कुतो विरतिः 1 विकलं चेदं त्रिकमसाधनमित्यतः सर्वापवादशुद्धं त्रितयलाभोपायक्षममिदमित्याचार्यः खजन्मनिदर्शनेन प्रत्यक्षमाह-तेनेति / यत्तदोर्नित्यसम्बन्धाद् यच्छब्दोद्दिष्टमेव कर्तारं निर्दिशति / सुलब्धमनिन्धं श्लाघ्यं ज्यायः / सति हि संसारेऽवश्यम्भावि जन्म, तच्च दर्शनादित्रयसहितत्वात् मोक्षसाधनं यदि भवति, ततः सुलब्धम् ; अन्यथा हि क्षुद्रजन्तूनामिव मरणायैवेति दर्शयति / भवतीति स्फुटार्थम् , जायतेऽस्मिन्निति जन्म, तच्च मानुषमिस्युक्तम् / अथवा भवति जन्मेति संसारास्तित्वं दर्शयति / आत्मा हि स्वकृतकर्मसन्तानानुस्यूतः सन् धावति भवाद् भवान्तरं, तस्य पर्यटतो भवति जन्म / एतेनैकान्तनित्यादीनां 'शरीरादिदुःखं चास्य' इति ख-पाठः / Page #30 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [श्रीदेवगुप्तसंसाराभावात् सर्वा प्रक्रिया दुरुपपादा इति व्याख्यातम् , पुनश्च वक्ष्यति विस्तरेण शास्त्र एव / इति प्रथमकारिकार्थः // 1 // एवं सति संसारोऽस्तीति ज्ञापिते तस्यानादित्वख्यापनार्थमाहजन्मनि कर्मक्लेश-रनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् / कर्मक्लेशाभावो, यथा भवत्येष परमार्थः // 2 // आर्या व्या-जन्मनि कर्मेत्यादि / अथवा उक्तं दुःखनिमित्तं जन्म ततः कथमित्यार्ययैवाहजन्मनि कर्मक्लेशरनुबद्धेस्मिंस्तथा प्रयतितव्यम् ।-जन्मोक्तवक्ष्यमाणलक्षणम् / क्रियत इति कर्म ज्ञानावरणाद्यष्टधा वक्ष्यते / क्लिश्नन्ति क्लेशयन्ति वा स्वामिनं, क्लिश्यते वैभिरिति क्लेशाः, तेऽपि मोहनीयभेदाः क्रोधादयः कषाया वक्ष्यन्ते / अनुबद्धे सन्ततवेष्टिते, कथम् ? सति हि जन्मनि कायवाश्मनोहेतुकं कर्म भवतीत्युक्तं, ततः प्रवृद्धकर्माशयस्यौदयिकभावानुवर्तिनोऽस्ववशस्य संसारहेतवः क्रोधलोभादयोऽनेकजन्मान्तरक्लेशनाय क्लेशा आविर्भवन्ति, ततो रागद्वेषादिहेतुकं तीवं कर्मानुबद्धं, पुनरपि जन्मनि सति कर्म भवति, कर्मभ्यः क्लेशाः, क्लेशेभ्यः पुनरपि जन्मेत्येवमनुबद्धमित्युच्यते / एतेन संसारस्यानादित्वं दुःखभूयस्त्वं च व्याख्यातम् / अत्र च सत्यप्यनादित्वे परस्परहेतुत्वे च त्रयाणां जन्मानुबद्धमित्युक्तं प्रत्यक्षत्वादाधारत्वात् पूर्वोक्तत्वाच / एवं च कृत्वा अन्यत्राप्युक्तम् “विविधबाधनयोगाद् दुःखमेव जन्मोत्पत्ति"रिति / अस्मिन्निति, तदेव मानुषं जन्माप्रेडयति, प्रत्यक्षमेव क्लेशानुबद्धं दृश्यत इति, केषाञ्चिद् देवजन्मन एवोत्तरोपपत्तिप्रतिलम्भः किल,तदाशङ्कानिषेधाय चास्मिन्नित्याह, दूरगानामपि पुनरागत्यास्मिन्नेव कर्मभूमित्वात् प्रयत्नपूर्वकः कर्मक्लेशाभाव इति / तथा प्रयतितव्यम् / तथेति प्रकारार्थे, तेन प्रकारेण दर्शनादित्रयलाभोपायपूर्वकमित्यर्थः। प्रयतितव्यम् प्रघटितव्यं सर्वजन्मिनोऽऽत्मना कर्मक्लेशसन्ततत्वमवगम्य संसारोद्विनेन विरागमार्गानुवर्तिना प्रकर्षेण सर्वात्मना तपःसंयमादिषु वर्तितव्यमित्यर्थः / आद्यर्थे वा प्रशब्दः, सम्यग्दर्शनादिलाभानन्तरमादावेव यतितव्यम्, न पुनर्विश्वसितव्यम्, पापा हि कर्मक्लेशाः प्रवृद्धाः सन्तः पुनरपि दर्शनादि प्रतिपातयन्तीति / न चेयं स्वमनीषिका, वक्ष्यति ह्याचार्यः शास्त्रे "अनन्तानुबन्ध्युदयात् पूर्वोत्पन्नमपि सम्यग्दर्शनं प्रतिपतती"ति। किमर्थ प्रयतितव्यमित्याह-कर्मक्लेशाभावी यथा भवति / कर्मणां क्लेशानां चाभावः क्षयस्तैर्वियोग इत्यर्थः / कथं च स भवति? शङ्कायतिचारवियुक्तावाप्तदशेनो हि शुद्धाशयत्रिभुवनमप्युपहितमोहमहेन्धनज्वलितकर्मदहनकाथ्यमानमशरणममलज्ञानागमचक्षुषाऽवलोक्य गर्भवासादिभयोद्विनः प्राणातिपातादिविरतिप्रतिज्ञामारुह्य तदृढीकरणार्थ च पञ्चविंशतिभावनामावितान्त 'सर्वजन्मिनामात्मनाः' इति क-पाठः / 2 अष्टमेऽध्याये दशमस्य सूत्रस्य भाष्ये / 3. गर्भवासाद् विग्नः' इति क-पाठः। Page #31 -------------------------------------------------------------------------- ________________ सूरिकतटीका ] सम्बन्धकारिकाः रात्मा द्वादशानुप्रेक्षास्थिरीकृताध्यवसायः संवृताश्रवत्वाद्नमिनवकर्मागमः तपःसंयमादिमिश्च पूर्वोपात्तक्षयशुद्धाशयो मोहादिमलप्रक्षयादवाप्तकेवलपरमैश्वर्यः फलबन्धनशेषचतुष्प्रकृतिक्षये कर्मक्लेशाभावावस्थामामोतीति, पुनरपि विस्तरतः शास्त्रे वक्ष्यामः / अत्र च जन्मकर्मक्लेशप्रयामावेऽप्यष्टकर्मक्लेशाभाव इत्युक्तं, ते ह्यवश्यं जन्मकारणं, जन्मत्वेतत्कारणमपीत्युपदिष्टं, अतस्तदभावे प्रागेव जन्माभाव इत्यभिप्रायः / क्लेशानांच कर्मभेदत्वेऽपि पृथग्रहणं प्राधान्यार्थम्, * एतद्भावाभावे हि बन्धमोक्षौ, वक्ष्यते-"सकषायत्वाजीवः कर्मणो योग्यान् पुद्गलानादत्ते / स बन्धः" (अ०८,सू०२-३)। मोहादिक्षयात् केवलं ततश्च मोक्ष इति / एवं तर्हि कर्मग्रहणं माभूत। नैवं शवयम् / व्यवहार एव न प्रवर्तते, प्रधाना हि कर्मसंज्ञा वक्ष्यमाणा, तदेकदेशाच क्लेशा इति ज्ञापितं भवति / एष परमार्थः। एष इति वक्ष्यमाणविस्तरमपि समासतोऽवधार्य प्रदर्शयति, बहुविचित्रग्रन्थोपहितोऽप्येतावानेवैष परमार्थो यदुत कर्मक्लेशाभावो नोनो नाभ्यघिको वेति / परम उत्कृष्टो ज्यायान्, अर्थः प्रयोजनं फलं परमार्थः, अत्यन्तशुद्धत्वात् पूज्यमानो वाऽर्थः, दर्शनादिलाभफलं मोक्ष इत्याद्वितीयार्थः // 2 // . यदि पुनरेकभवेन परमार्थः शक्यतेऽवगन्तुं न च क्लेशप्रहाणं, ततः क उपाय इत्याह परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु / कुशलानुबन्धमेव स्यादनवयं यथा कर्म // 3 // आर्या - व्या०-परमार्थालाभे वेत्यादि / परमार्थ उक्तवक्ष्यमाणनिर्वचनः, तं यदा कालसंहननपरिहाणेर्न लभते तदा, दोषु, दूषयन्त्याशयमिति दोषाः कषायास्तेषामेव गौणपर्यायज्ञापनार्थ प्रयोजनार्थ च दोषा इत्याह-आरम्भकस्वभावेषु / आरम्भयतीत्यारम्भकः अशुमे प्रवर्तयतीत्यर्थः, आरम्भकः स्वभावो येषां ते इमे आरम्भकखभावाः। नवदुष्टाशयोऽशुमे प्रवर्तते इति प्रतीतम्, क्लेशास्तु अप्रवर्तमानमपि प्रवर्तयन्तीति / एवं सङ्ख्योव्यापाराणां विशेषसंज्ञा गौणी दोषा इति, दोषेष्विति सत्सप्तमी। आरम्भकस्वभावेषु सत्सु किं कर्तव्यम् ? तथा प्रवर्तितव्यमिति वर्तते, तथा किं भवतीत्याह-कुशलानुबन्धमेवेत्यादि। कुशलं क्षेममनपायं शिवमित्यर्थः। तच्च कुशलकारणत्वात् तदनुबनाति, तस्मिन् वाऽनुबन्धोऽस्येति, कुशलप्रयोजनमित्यर्थः / एवावधारणे, कुशलानुबन्धमेव, नाकुशलानुबन्धम्, न वा कुशलाकुशलानुबन्धम् / स्यादित्यधीष्टे लिङ्, एवमधीच्छति कुशलं मे स्यादिति / किं तत् कुशलानुबन्धमिति वक्ष्यमाणमपि समासेनाह-अनवयं नावद्यमनवद्यमगये कर्म कुशलानुबन्धं भवतीत्यर्थः / यथेति तथापेक्षः, तथा प्रवर्तितव्यम् यथा कुशलानुबन्धं कर्म भवति, कर्मेति विशेष्यं तच्च व्याख्यातमिति तृतीयायाथः॥३॥ १'नो जनोऽभ्यधिकश्चेति' इति क-पाठः। 2 'संहननपरिहाणेन परिहाणेने ' इति क-पाठः।३ 'प्रवर्तमानमपि ' इति विशेषः क-पुस्तके।४'सव्यापाराणा' इति क-पाठः / Page #32 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् . [ श्रीदेवगुप्तउक्तमपिशब्दविकल्पे पट पुरुषप्रकृतय इति, काः पुनस्ता इति, एताः अधमतमः अधमः विमध्यमः मध्यमः उत्तम उत्तमोत्तम इति, आसामाचार्यो निरूपणार्थमाह कर्माहितमिह चामुत्र, चाधमतमो नरः समारभतें। इहफलमेव त्वघमो, विमध्यमस्तूभयफलार्थम् // 4 // आर्या व्या०-कर्माहितमित्यादि / अथवा किमन्यदपि कर्मास्ति यतो विशेष्यते कुशलानुबन्धमिति, ओमित्याह चतुर्विधम्, कथमिति, षटू पुरुषाः तेपामायत्रयसाकुशलानुबन्धं, चतुर्थस्य कुशलाकुशलानुबन्ध, पञ्चमस्य कुशलानुबन्धं, षष्ठस्य तु निरनुबन्धमिति / एषां स्वामी विकल्पमाह-कर्माहितमित्यादि / कर्माहितमिह चामुत्र चाधमतमो नरः समारभते / अहितमकुशलमित्यर्थः, काहितम् ? इह चामुत्र च, इहलोकपरलोकयोः, इह चेति एवार्थे चशब्दः / आस्तां तावत्परलोके, इहैव तावदिदं जिजीविषुभिरिव विषपानमारभ्यमाणमहितायेति / उत्तरः समुच्चये, इह चामुत्र चेति, अधमतमो जघन्यतमः-पापिष्ठः नरो मनुष्यः / त्रयाणामपि सम्भवे व्यवहारप्रधानत्वादारम्भसमर्थत्वाच प्रायः पुरुषनिर्देशः। समारभते। समेकीभावे, क्रियायोगाभिविध्योराङ्, सर्वार्पितकरणोपकरणो ह्यहितमारभते, संरम्भसमारम्भारम्भावस्थाश्च वक्ष्यति, तासामाद्यद्वितीययोस्तावदयमहितानुबन्धी किं पुनस्तृतीयस्यामिति दर्शयति / निदर्शनं त्वस्य मार्गिकमत्स्यबन्धादयः, ते हि सर्वकुत्सितवृत्तयोऽन्त्यावसायिनो विशिष्टजनधिकृतजन्मानो रूक्षस्फुटितविकृतशरीराः कृच्छ्रेणापि जिजीविषवः सलिलारण्यपर्वतादिषु परोपघाताय पर्यटन्तः क्षुत्पिपासाशीतोष्णवर्षवातदंशादिसन्निपातंदुःखप्रत्यपायमिहैवाप्नुवन्ति,आयुर्भोगानन्तरं चाकुशलकर्मप्रेरिता नरकेधूत्कटदुःखभाविनो भवन्तीत्येवमुभयलोकाहितानुबन्ध्यधमतमः / इहफलमेव त्वधमः,इह फलमस्येति इहफलं कर्म, एवावधारणे, इहफलमेव च कर्म नोर्ध्वमिति, तुशब्दो विशेषोपप्रदर्शननिवृत्त्योः , न तदिहफलमेव, अधमस्त्वेवमुपात्तबुद्धिः सन् समारभत इति / परलोकमनोरथं निवर्त्य विशिष्योपदर्शयति / अधमो जघन्यः पापः / निदर्शनं परलोकापवादिप्रभृतयः, ते हि कृच्छ्रावाप्तविषयामिषानुषक्तचेतसो मोहपटलाकुलान्तरात्मानो भोगलवत्यागासहिष्णवो निर्वीजा अपलापित्वादेकाकिनो मा भूष्यन् निष्कुत्सिता इति च सहायान् जिघृक्षवः, कः पुनः परलोकादागतो मूढप्रवादोऽयमेतावदेवेदमिन्द्रियगोचरान्तर्वर्ति वस्तु नोर्ध्वमित्येवमादिभिर्वालिशजनविप्रलम्भनोपायैः परलोकमपोखैव ऐहलौकिकेषु पूर्वेभ्यो न्यूनेषु कर्मसु प्रवर्तन्ते / विमध्यमस्तूभयफलार्थम्, अप्राप्तोमध्यमावस्थां विमध्यमः। उभयस्मिन् फलं उभयफलं तदस्यार्थो निबन्धनमित्युभयफलार्थ कर्म, उभयफलाय उभयफलार्थ कर्म, समारभते इति करोति। कथमुभयत्रापि फलं भुंजीयेति तुशब्दो विवेचयति / निदर्शनं महाभोगिकृपीवलवणिगा१'अधमाधमः' इति क-पाठः / २'मा भूष्यन् नः कुत्सिता' इति स-पाठः, 'माभूष्मन् निःकृत्सिता' इति ग-पाठः। Page #33 -------------------------------------------------------------------------- ________________ सूरिकतटीका ] सम्बन्धकारिकाः दयः / ते हि पुत्रदारायवियोगमिच्छन्तः पूर्वोपात्तविषयापरित्यागेन शेषोपार्जनपरा निसर्गभद्रमनसोऽर्थिजनमनःप्रीणनकृतप्रयत्नाः परलोकफलार्थिनः प्रसिद्धपुण्यद्वारेपु यथाशक्ति स्वमुपयुञ्जते / तदेतत् त्रिविधखामिकमपि कर्म संसारबीजोपचयात् सामान्यतोऽकुशलानुबन्धमित्युच्यते // 4 // इदानीं कुशलाकुशलानुबन्धखामी- परलोकहितायैव, प्रवर्तते मध्यमः क्रियासु सदा / मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः // 5 // आर्या व्या०-परलोकेत्यादि। परलोकजन्मनः परलोकजन्मने वा हितं परलोकहितं तदर्थ परलोकहिताय,इहलोकाप्रतिबन्धं परलोकैकार्पितमनस्त्वं चैवकारोऽवधारयति / प्रवर्तते प्रयतते, समारभत इति वर्तमानेऽपि कर्तृनिर्देशे पुनर्ग्रहणम् / स हि द्वितीयावस्थाप्राप्तः सर्वार्पितकरणोपकरण इत्युक्तम्, अस्य तु तिसृष्वप्यवस्थासु सामान्यतः प्रवर्तत इति व्यपदेश इत्ययं विशेषः। पूर्वोत्तरावस्थामध्ये भवो मध्यमः क्रियासु सदा, अयं क्रियाशब्दोऽस्ति भाववचनः-कदाऽस्य क्रिया, अस्ति स्पन्दने-निष्क्रियमाकाशं, अस्ति चिकित्सने,-चतुष्पदी क्रिया, अस्ति न्याय्येक्रियावान् ब्राह्मण; इह न्याय्यवचनः न्याय्येषु प्रवर्तत इत्यर्थः / तच्च न्याय्यमिव, सदा सर्वकालं यावजीवम् / निदर्शनं तापसादयः, ते हि ग्रामगृहवासभोगान् परित्यज्य वनवासाभिरतयः परलोकार्थिनः शीर्णपर्णमूलकन्दफलाद्याहारिणः अभिषेचनहवना. दिषु क्रियासु प्रवर्तन्ते, एतदपि पूर्वोत्तरोत्कृष्टहीनत्वान्मिश्रानुबन्धमित्युच्यते कुशलाकुशलानुबन्धस्वामी / मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः। मोक्षोऽशेषकर्मवियोगलक्षणो वक्ष्यते तदर्थ मोक्षाय / संसारभोगेष्वेकान्तनिःस्पृहत्वम् , एवकारोऽवधारयति, निवृत्तिविशेषणयोस्तुशब्दः चतुःखामिकमप्येतद्भवानुबन्धं कर्म निवर्तयति, दर्शनमात्रलामेऽपि मोक्षायैव तु घटत इति विशेषयति / अत एवोक्तं परमार्थालामेऽपि कुशलानुबन्धायानवद्यकमणे यतितव्यमिति, प्रवर्तत इति व्यावृत्तत्वाद्विशेषाच्च घटत इत्युक्तम् , दर्शनमात्रमपि लब्ध्याऽवाप्तपरमार्थबीजोऽहमवश्यममुक्तमार्गोऽधिगमिष्यामि क्षेममिति शनैः शनैरपि घटत इति विशेषः, चतुष्पुरुषीतो विशिष्टा मतिरस्येति विशिष्टमतिः, उत्तमः प्रधानो विद्वान्नर इति वर्तमानेऽपि पुरुषग्रहणात् पूर्वैरेकान्तभेदविशेषमाह / पुण्यवत्त्वं चास्य दर्शयति, यावदयं न मुच्यते तावत् प्रायो विशिष्टपुरुषवेदादिपुण्यराशिभागी। वक्ष्यति पुरुषवेदादयः पुण्यमिति, निदर्शनं यतिश्रावकादयः, ते हि दर्शनादिलाभानन्तरमेवोदधिसलिलान्तर्वर्तिन इव नौलाभपरितुष्टाः दुष्टपरिचितव्यालाकुलभीमगुहानुशायिन इवावश्यंभावि भयं संसारेऽनुपश्यन्तः सर्वथा शक्तितो वा प्राणातिपातादिविरताः संसारभोगलवनिरभिवाञ्छा यतन्ते, 1 'व्यसेकप्रयोगानुषङ्ग...'इति क-पाठः, स-पाठोऽपि / Page #34 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तयदपि कलमकेदारावसेकायानुषङ्गामिवर्धितोत्पलवनिःश्रेयसप्राप्त्यन्तरालदेवादिभवसुखं तदप्यवगणय्यासक्ता मोक्षायैव घटन्त इत्येतत् कुशलानुबन्धमनवयं कर्म, अन्यथा निरनुबन्धतुल्य एव स्यात् ततश्च पञ्चैव स्युः, अन्त्यस्य तु चरमत्वान्निरनुबन्धं चरमेष्वपि वक्तृत्वात् तद्विशेषपरिग्रहः // 5 // निरनुबन्धस्वामी, स चायम्यस्तु कृतार्थोऽप्युत्तम मवाप्य धर्म परेभ्य उपदिशति / नित्यं स उत्तमेभ्यो ऽप्युत्तम इति पूज्यतम एव // 6 // आर्या व्या०–यस्तु कृतार्थ इत्यादि / यः पुरुष इति वर्तते,पुनरर्थे तुशब्दः,यः पुनरिति, कृतोऽर्थोऽनेनेति कृतार्थोऽवाप्तेष्टार्थः। आनेडनेऽपिशब्दः, आस्तां तावदसदादिरकृतार्थः; कृतार्थोऽपि सन्नित्याचार्यो दर्शयति, उत्तम प्रधानं मोक्षफलमवाप्याधिगम्य ज्ञात्वा, स चोत्तमः क्षमादिदशलक्षणो वक्ष्यते / सुतलाभादिषु कृतार्थशब्दं व्यभिचरन्तं दृष्ट्वा विशेषणमाह-उत्तममवाप्य, किमुत्तममवाप्य उत्तममर्थ इति वर्तते, अर्थवशाच विभक्तिपरिणामः, उच्चैर्गृहाणि देवदत्तस्यामन्त्रयस्वैनमिति, यथा स चोत्तमोऽर्थः सर्वप्रयत्नप्रयोजनं केवलज्ञानं तदवाप्य कृतार्थो भवतीति दर्शयति,एतेनैव धर्मस्योत्तमत्वं व्याख्यातम् / नहि सर्वज्ञोऽन्यथा प्रणयति / परेभ्य उपदिशति कुतार्थत्वेऽपि चतुर्थी,वक्ष्यमाणनामकर्मचोदितःतदुपयोगार्थमुपदेशदानकर्मणा परानभिप्रैतीति दर्शयति-नित्यं स उत्तमभ्योऽप्युत्तम इति पूज्यतम एव, नित्यं प्रतिदिनमुपदिशत्याकर्मक्षयात्, अयं ह्यागमः-तीर्थकरः प्रतिदिवसमाद्यां चरमां च पौरुषी धर्मकथां करोति / नियोगपदादिषु चापेक्षिकमुत्तमत्वं पूज्यतमत्वं च तन्निषेधार्थमाह-नित्यमेवासावुत्तमोत्तमो नित्यं च पूज्यतमो न पर्वकालादिष्विति / स इति यदपेक्षो निर्देशः, उत्तमेभ्योऽनन्तरनिर्दिष्टेभ्योऽन्येभ्यश्च प्रसिद्धेभ्यः उत्तमेभ्योऽपि तावदयमुत्तमः किमुतेतरेभ्यः इत्यपिशब्दो दर्शयति / इति एवमर्थे, एवं च कृत्वाऽयं पूज्यतम एव / एवकारश्चार्थे, उत्तमोत्तमश्चायं पूज्यतमश्चेति, आदरं चावधारयति, सादरेणायं पूज्यतमः॥६॥ पञ्चभिरेव गतेऽर्थेऽस्योपन्यासः प्रवचनप्रणेतृत्वादाचार्यश्चोपदेष्टुकामः कृतार्थोऽप्युपदिशति किं पुनरसद्विध इत्यसूयाद्वारा उपदेशगौरवं दर्शयति / कः पुनरसाविति प्रयोजनमेवोदाहरणेनाह तस्मादर्हति पूजामहन्नेवोत्तमोत्तमो लोके / देवर्षिनरेन्द्रेभ्यः, पूज्येभ्योऽयन्यसत्त्वानाम् // 7 // आर्या व्या०-तस्मादहतीत्यादि / यथा(स्मात्) कृतार्थोऽप्युपदिशति तस्मात कारणादिति कारणे पञ्चमी, अर्हति भागी योग्यतमः, पूजामर्चनमभीष्टवादिभिरभिगमनं, कोऽसाविति Page #35 -------------------------------------------------------------------------- ________________ सूरिकतटीका ] सम्बन्धकारिकाः निर्दिशति-अर्हन्नेव, नाम्नः प्रयोजनमुक्तं निरुक्तद्वारेण पूजामहतीति, एवावधारणे अयमेवासावुत्तमोत्तमो नान्य इति / लोके, कृत्स्नेऽपि जगति नैकदेशे / कुतः पुनः पूजामहतीत्याह-देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् / देवेभ्य ऋषिभ्यो नरेन्द्रेभ्यः प्रत्येकमिन्द्रशब्दः। पूज्येभ्योऽप्यन्यसत्त्वानामिति माहात्म्यख्यापनमेव, अन्यसत्वानां देवादयः पूज्यास्तेभ्योऽप्यर्हति पूजामर्हनिति / एवं चान्येभ्योऽपि पूजामन्तीति व्याख्यातमेव, नहि राजनि समुत्तिष्ठति पर्षदुत्थानं प्रति वितर्कः / स तावदहतु पूजा, अथ पूजकानां तु कृतार्थमकोपप्रसादमर्चयतां का गुणावाप्तिः नैवं शक्यम्, दृश्यते हि अमिरकोपप्रसादोऽपि सेवकानामीप्सितनिवृत्तिहेतुः स्यात् / अग्नेरिव दाहाधनीप्सितमपि तस्माद् भविष्यतीति, तथैव, दुष्टबुद्धयो घरागद्वेषमप्यनिमिवान्यायेन सेवमानाः खाशयदोषादेव शशिनीव लोष्टुक्षेपमात्मोपघाताय कर्मोपचिन्वन्ति, स्वपरिणामो हि नः प्रवचने प्रधानं कर्मोपचयहेतुरित्युपदेशः, वक्ष्यति च शास्त्रे "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (अ० 7, सू०८) इत्येवमादिषु // 7 // ननु चात एव ते सुतरामाहों यदुत निराकृतरागद्वेषमलाः / नहि कलुषमुदकं मलविशुद्धये, यद्येवमुच्यतां तर्हि तदर्चनात् किं हितमवाप्यत इत्याह अभ्यर्चनादर्हतां, मनःप्रसादस्ततः समाधिश्च / .. तस्मादपि निःश्रेयस-मतो हि तत्पूजनं न्याय्यम् // 8 // आर्या ___ व्या०-अभ्यर्चनादहतामिति / अभ्यर्चनात् पूजनात्, अभिगमनस्तुतिवन्दनपर्युपासनादेः, केषाम् अर्हतां, कर्मणि षष्ठी, अर्हन्तोऽभ्या इत्यर्थः। किं भवतीत्याह-मनःप्रसादः मनसः प्रसादः, प्रसीदति मनः। न चैतदाशङ्कयम्, प्राक् पूजनादप्रसने मनसि पूजनप्रवृत्त्यभाव एवेति, भवति हीश्वरानुवृत्यादिभिरपि प्रवृत्तिः, सा च लौकान्तिकविधौ वक्ष्यते / पूजनात् ऊर्ध्व प्रायेण मनसि प्रसादाभिप्रायः, लोकेऽपि ह्यप्रसन्नमनसामपीष्टजनादिसमागमानन्तरं मनःप्रसाद इति प्रतीतम् / ततः किमित्याह-ततः समाधिश्च, तस्मान् मनःप्रसादात् समाधिरेकाग्रता निविप्लवमनस्त्वं निर्वृतिर्भवति / चशब्दः समुच्चये, समाहितस्य सतः शुश्रूषा, ततः श्रवणं, श्रवगादग्रहणधारणोहापोहाः, ततः संसारतत्त्वाधिगमः,तस्माद्धिताहितप्राप्तिपरिहारावित्येवमादयबेति, तस्मादपि निःश्रेयसं,तस्मादपि समाध्यादिगुणावाप्तितारतम्यानिःश्रेयसमधिगम्यत इति / अतो हि तत्पूजनं न्याय्यम्, यत इयं कल्याणपरम्परा निःश्रेयसनिष्ठा निर्वर्तते, तत एव तेषां कृतार्थानामपि सतामहतां पूजनं न्यायादनपेतमिति सिद्धम् / एवं च कृतार्थत्वेऽपि सुतरामहत्पूजनं न्याय्यमिति दर्शितं भवति / अधुना हि सत्वाः प्रायोऽलसाः क्लेशादिभीरवः प्रमादिनश्च तेषां शान्ताकारप्रतिमादि दृष्ट्या द्रव्याद्यपेक्षकर्मोपशमादिलब्धमोहनीयविवरप्रसन्नमनसां प्रायेण तद्वचनश्रवणश्रद्धोपजायते, ततो दर्शनादिलाभ इति / केषांचिच्चाधिगतदर्श 'अलं शुद्धये ' इति क-पाठः / Page #36 -------------------------------------------------------------------------- ________________ 10 तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तनानामपि प्रमादिनां प्रतिमादिदर्शनेन तद्वन्दनगुणानुस्मरणात् संवेगादि भवतीति साधूक्तं तत्पूजनं न्याय्यमिति // 8 // - गृहीतमेतत्, यत् पुनरुक्तं कृतार्थोऽप्युपदिशतीति तद्विरुद्धं, कृतार्थश्योपदिशति चेति, नहि कश्चिनिरभिवाञ्छः श्रममाद्रियमाणो दृष्ट इति चोदितः कारणमाह तीर्थप्रवर्तनफलं, यत् प्रोक्तं कर्म तीर्थकरनाम / तस्योदयात् कृतार्थो-ऽप्यहस्तीर्थ प्रवर्तयति // 9 // आर्या व्या०–तीर्थप्रवर्तनेत्यादि / भवसमुद्रं तरन्ति तेन तद्वाऽधिगम्येति तीर्थ, प्रवचनमित्यर्थः, तस्य प्रवर्तनं प्रणयनं, तदस्य कर्मणः फलम्, उपभोगो विपाकः प्रयोजनमिति तीर्थप्रवर्तनफलं, यत् प्रोक्तं उपदिष्टं कर्म, कोक्तं, प्रवचने, तत्प्रामाण्याञ्च शास्त्रे (अ० 6,, सू०२३) वक्ष्यते दर्शनविशुद्धयादिहेतुकं कर्माष्टके / कतरत् पुनस्तदित्याह-तीर्थकरनाम, तीर्थ करोतीति तीर्थकरः / 'कृओ हेत्वादिषु' (पाणिनिः अ० 3, पा० 2, सू० 20) इति हेतौ टः, तीर्थकरस्तीर्थहेतुरित्यर्थः, तस्य नाम, कारणे कार्योपचारः, तीर्थकरनाम कारणं तीर्थकरनाम, यसिन्नुपात्ते तीर्थकरोऽयमित्येवं व्यपदिश्यते, तस्योदयात् कृतार्थोऽप्यहस्तीर्थ प्रवर्तयति, यत् प्रोक्तं तस्योदयात तद्विपाकात् कृतार्थोऽप्यहस्तीर्थमित्येतदुक्तनिर्वचनं, प्रवतयति प्रणयति उपदिशति करोतीति, तस्य चैतदेव फलमित्युक्तं, न चोपभुजानः पुनरपि वेद्यते इत्याशङ्कितव्यम्, उक्तं हि षष्ठस्य निरनुबन्धं कर्मेति, किंपुनरित्थं दृष्टमित्याह न किश्चिदसाधारणोऽयमतिशयः तथापि निदर्शनमात्रमिदम् // 9 // तत्स्वाभाव्यादेव, प्रकाशयति भास्करो यथा लोकम् / तीर्थप्रवर्तनाय, प्रवर्तते तीर्थकर एवम् // 10 // आर्या व्या०–तत्स्वाभाव्यादेवेति / तदेव प्रकाशनं स्वभावस्तत्स्वभावः तद्भावस्तत्स्वाभाव्यं प्रकाशमयमित्यर्थः / तसादेव कारणात् प्रकाशयति अवभासयति, तन्मयत्वमेवास्य प्रकाशने कारणं नान्यदित्येवकारोऽवधारयति / भासः करोतीति भास्करः। यथा,धर्मप्रत्यासत्ती, लोकं भुवनम् / अत्र च भास्करग्रहणेन तद्विमानसम्प्रत्ययस्तदुपदेशस्तु प्रतीतत्वात् / तीर्थप्रवर्तनाय प्रवर्तते, तीर्थकर एव तीर्थमुक्तं तत्प्रवर्तनार्थ, प्रवर्तते प्रभवति तीर्थकर एवं, यथा भास्करः, उभयोरपि स्वभावानुगृहीता निराकाङ्क्षा तन्मात्रफला प्रवृत्तिरित्यर्थः, तदेवं सर्वतीर्थकरोपदेशप्रयोजने' व्याख्याते // 10 // ____ अधुना यस्य तीर्थे प्रवर्तमाने आचार्यः शास्त्रं प्रकर्तुमिच्छति तं जन्मनः प्रभृति कथयितुकाम इदमाह १'तवचनगुणा' इति क-पाठः। 2 'गृहीतं तत्' इति क-पाठः। 3 देशप्रयोजन व्याख्यातम्' इति क-पाठः। Page #37 -------------------------------------------------------------------------- ________________ 11 रिकृतटीका ] सम्बन्धकारिकाः यः शुभकर्मासेवन-भावितभावो भवेष्वनेकेषु / जज्ञे ज्ञातेक्ष्वाकुषु-सिद्धार्थनरेन्द्रकुलदीपः // 11 // आर्या . व्या०-यः शुभकर्मेत्यादि। य इत्युद्देशोऽस्मादेकादश्यामार्यायां तस्मै इति निर्देशापेक्षः। शुभं कर्म भूतव्रत्यनुकम्पादानादिहेतुकं दर्शनविशुद्धयादिहेतुकं च वक्ष्यते (अ०६, सू० 13,23) / तस्यासेवनमभ्यासस्तेन भावितो भावोऽन्तरात्माऽस्येति शुभकर्मासेवनभावितभावः। कियत्कालं, भवेष्वनेकेषु, नैकस्मिन्न द्वयोर्बहुषु / आगमो ह्ययं कान्तारप्रनष्टसाधुमार्गाप्रदर्शनात् सम्यग्दर्शनप्रथमलामोवधमानस्वामिन इति / अन्ते किमित्याह-जज्ञे ज्ञातेत्यादि / जज्ञे जातवान्, क, ज्ञाता नाम क्षत्रियविशेषाः, तेषामपि विशेषसंज्ञा इक्ष्वाकवः, केषु, ज्ञातेष्विक्ष्वाकुषु, तेषामपि बहुत्वात् पितुरस्य विशेषणं सिद्धार्थः, स एव नरेन्द्रः, तस्य कुलं गृहं, तदुपचाराद सन्तानो वा, तस्मिन् दीपनं दीपः, प्रकाशोऽद्भुतं ललामेत्यर्थः / वर्धते हीदं कोशाधभिवृद्धया वर्धमान इत्यतों दीप इत्युक्तम् // 11 // . किंगुणो जातवानित्याहज्ञानः पूर्वाधिगतै-रप्रतिपतितैर्मतिश्रुताविधिभिः / त्रिभिरपि शुद्धैर्युक्तः, शैत्यद्युतिकान्तिभिरिवेन्दुः॥१२॥ आर्या ... व्या०--ज्ञानैरित्यादि / पूर्वमेवाधिगतान्यवाप्तानि पूर्वाधिगतानि ज्ञानानि, तैरप्रतिपतितैरनावृतैः / अप्रतिपतितग्रहणाच्च ज्ञापयति पूर्वतमभवेष्वपि शुभकर्मासेवनादवाप्तान्येवासन, प्रमादात् तु पुनरावृत्तान्यनन्तरैः पुनरप्रतिपतितैरिति / अत एव प्रागुक्तमस्माभिः कर्मक्लेशेषु न विश्वसितव्यमिति / ज्ञानपञ्चकत्वादाह-मतिश्रुतावधिभिः, तेषामप्येकैकशःशुद्धितारतम्यसद्भावादाह-त्रिभिरपि शुद्धयुक्तः त्रिभिरपीति, विशुद्धिमेव विशेषयति, त्रीण्यपि शुद्धानि नैकं देवेति, अन्यथा त्रिकं कण्ठोक्तमेव / युक्तः, सहितः, सम्पन्नः, युक्तग्रहणात् तु नान्यत् ज्ञानमाशङ्कितव्यम् , उक्तसलिलखच्छता(भा)वाप्तिवत्, वक्ष्यते च समाधिः शास्त्रे, किं पुनरिथमिसाह-शैत्यद्युतिकान्तिभिरिवेन्दुः, युक्त इति वर्तते, यथा हीन्दुः शैत्यादिभिरविरहितः क्षेत्रात् क्षेत्रान्तरं यात्येवमसावपि अप्रतिपतितज्ञानत्रयो देवभवादिहागत इति // 12 // तस्य जातस्य किं खरूपमित्याहशुभसारसत्त्वसंहन-नवीर्यमाहात्म्यरूपगुणयुक्तः / जगति महावीर इति, त्रिदशैर्गुणतः कृताभिख्यः // 13 ॥आर्या व्या०-शुभसारेत्यादि। अयं सारशब्दोऽस्ति तावद् बाहुल्ये, त्वक्सारो वेतसः,अस्ति 'सार'शब्दस्य अर्थविविधता द्रढिम्नि सारकाष्ठः खदिरः, अस्ति परिविसाशवस्या स्तरे एतत्सारोऽयं मनुष्यः, अस्ति क्षेपे वाक्सारो भवान्, अस्ति प्राधान्ये सारोऽयमत्र गृहे, अस्ति सुखे अत्रैव वक्ष्यति निःसारः संसार इति, इह तु Page #38 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् [श्रीदेवगुप्तप्राधान्ये, सारं प्रधानमिति यावत्, प्राधान्य एव चायं मुख्यः, विविध प्रयुज्यते तूपचारतः, सत्त्वमवैक्लव्यं, संहननं शरीरद्रढिमा, वीर्यमुत्साहः, माहात्म्यं महिमा कलादिप्रावीण्य, रूपं चावेङ्गावयवसनिवेशः, गुणा दाक्षिण्यादयः, लोके चाशुभनिबन्धनानामप्येषां प्रायो दर्शनात् प्रत्येकं शुभविशेषणम्, एभिः शुभैनिवृत्तैः हितप्रयोजनैर्युक्तः सम्पन्नः, किन्नामेत्याहजंगतीत्यादि / वीरो विक्रान्तः शूरः महान् वीरः महावीरः, इति एवमर्थे, कृत्स्नेऽपि जगति अयमेको महावीर इति / एवं च कृतामिख्यः / अन्तर्मुहूर्तमात्रेण बाल्यकौमारदशे अभ्यतीत्य अवाप्तयौवनतृतीयदशास्त्रिदशा देवाः, तैर्गुणेभ्यो गुणतो, निमित्ते पञ्चमी, अमिख्यातिरमिख्या कीर्तिर्गौणेनाम कृतामिख्या यस्येति कृताभिख्यः प्रतिष्ठितकीर्तिरिति यावत् , कथं, गुणतः / तदुक्तं हि प्रवचने-पूर्ववैरसङ्गमसुरोपहितकालचक्रादिसन्निपाताप्रधृ. प्यत्वादिन्द्रादयो वीरनामानमुच्चैरुच्चेरुरिति, गृहनामापि चास्य गौणं तत्कुलदीप इति गतखान कण्ठोक्तम् // 13 // _ अथ किं प्राकृतवद्गहमध्युषितवान्, नेत्याहस्वयमेव बुद्धतत्त्वः, सत्त्वहिताभ्युद्यताचलितसत्त्वः। अभिनन्दितशुभसत्त्वः, सेन्ट्रैलोकान्तिकैर्देवैः // 14 // आर्या व्या-स्वयमेवेत्यादि / स्वयमेवानुपदेशात् अनाचार्यो बुद्धतत्त्वोऽवगतपरमार्थः। उक्तं हि, पूर्वाधिगतज्ञानत्रय इति, बुद्ध्वा तत्त्वं किमवस्थः-सत्त्वहितेत्यादि, सत्त्वहितार्थमभ्युद्यतमचलितं सत्त्वमस्येति सत्त्वहिताभ्युद्यताचलितसत्त्वः बुद्धतत्त्वो ह्येवममन्यत 'अलमनेनानेककटुदुःखसन्निपातप्रतिभयबहुलेन संसारवासेन, मोहदौरात्म्यं हीदं यदिमेऽन्धतमसेऽपि वर्तमानाः सत्त्वा नोद्विजन्ते तदेषां प्रतिबोधनं न्याय्य मिति, एवमभिध्याय अभिनन्दितशुभसत्त्वः अभिनन्दितमनुमोदितमभिष्टुतमनुव्रहितं सत्त्वमस्याभिनन्दितशुभसत्त्वः, केनाभिनन्दितं. सेन्द्र्र्लोकान्तिकैर्देवैः, सलोकान्तिकैरिन्द्रैरिति प्राप्ते सेन्द्ररित्युक्तं, लोकान्तिकानामत्र प्राधान्यात् , ते ह्यत्यन्तसम्यग्दृष्टय एतच्छीलाच, वक्ष्यति हि लोकान्तिकास्तु सर्व एव सम्यग्दृष्टय इति // 14 // एवमभिसम्बुद्धेन किमनुष्ठितमित्याहजन्मजरामरणात, जगदशरणमभिसमीक्ष्य निःसारम् / स्फीतमपहाय राज्यं, शमाय धीमान प्रवत्राज // 15 // आर्या व्या-जन्मजरेत्यादि / जन्मना जरया मरणेन च आर्तमभिद्रुतमभिभूतमभिग्रस्त जगत् त्रिभुवनमप्यत्राशरणं अपरित्राणं अभिसमीक्ष्य ज्ञानचक्षुषाऽवलोक्य, निःसारं निस्सुखम 1. व्यतीत्य ' इति क-पाठः / 2 'गौणं नाम ' इति क-पाठः / Page #39 -------------------------------------------------------------------------- ________________ सरिकतटीका ] सम्बन्धकारिकाः रमणीयम् / चतस्रोऽपि हि नरकतिर्यङ्मनुष्यदेवगतयो दाहक्षुदामयाभियोग्यादिदुःखमय्यः, कात्र सारवत्तेति अभिसमीक्ष्य किं कृतमित्याह-स्फीतमित्यादि, स्फीतं समृद्धमकण्टकं, अपहाय त्यक्त्वा, राज्यं जनपदं, शमाय धीमान् प्रवद्वाज, शमाय मोक्षाय, न परलोकार्थ, उक्तमस्य निरनुबन्धं कर्मेति / धीमानिति, निष्क्रमणानन्तरमेवास्य चतुर्थ मनःपर्यायज्ञानमाविबभूव, अन्यथा तूक्तमेव धीमत्त्वं, न चेयं स्वमनीषा / उक्तं हि प्रवचने-चारित्रप्रतिपस्यनन्तरमेव प्राक्केवलोत्पत्तेश्चतुर्ज्ञानिनस्तीर्थकराः प्रवव्रजुः // 15 // ... अतः प्रव्रज्याबहुत्वे कतरामभ्युपेतवान् इत्याह प्रतिपद्याशुभशमनं, निःश्रेयससाधनं श्रमणलिङ्गम् / कृतसामायिककर्मा, व्रतानि विधिना समारोप्य // 16 // आर्या व्या०-प्रतिपद्येत्यादि। प्रतिपद्य गृहीत्वा, अशुभकर्मक्षपणोपायभूतं अशुभशमनं, न च पुण्योपादानमन्यभवानाकाक्षत्वात, अतो निःश्रेयससाधकं मोक्षप्रापकं, किंतव, श्रमगलिङ्गं श्रमणचिरं प्रायः श्रमणत्वगमकं, तच्च स्वकरपञ्चमुष्टयवतारितनिःशेषकेशं अष्टादशशीलाङ्गसहस्रानुष्ठानाभ्युपगतप्रतिज्ञममरोपहितसितैकदुकूलकृतवैकक्ष्यं अत्यन्तसर्वसत्त्वानुद्वेजैनमसङ्गपदप्रापकं प्रतिपद्य / अन्येष्वपि च श्रमणलिङ्गोपचाराद्विशेषमार्ययैवाह-कृतसामायिककर्मा कृतं सामायिक कर्मानेन कृतसामायिककर्मा, करोमि भदन्त ! सामायिकं सर्वान् सावधान् योगान् प्रत्याचक्षे इत्येवं, न चास्यान्यो भदन्तोऽन्यत्र सिद्धेभ्यः आचारार्थ त्वनेन . सिद्धान् वा प्रयुक्तम् / व्रतानि विधिना समारोप्य / अयं व्रतशब्दोऽस्ति 'प्रत शब्दस्यार्थ- भोजने पयोव्रत इति, अस्ति निवृत्तौ वृषलानं व्रतयति, अस्त्याचारे इदं वैविध्यम् - वः कुलव्रतम्, अस्ति प्रतिज्ञायां स्थण्डिलशायिव्रतो यतिः, इह तु निवृतिप्रतिज्ञयोः, हिंसादिनिवृत्तिमातापनादिप्रतिज्ञां चाभ्युपगम्य, तानि व्रतान्यहिंसादीनि वक्ष्यन्ते / विधिना वक्ष्यमाणानुपूा, आचारव्यवस्थार्थमत एव व्रतानीत्युक्तं, इतरथा हि वक्ष्यमाणसूत्रीनिर्देशाद् व्रतमिति बयात् / चातुर्यामिकनिवृत्त्यर्थं च व्रतग्रहणम्, आगमो ह्ययमाधन्तयोस्तीर्थकरयोः सत्वाशयापेक्षया पञ्चमहाव्रतो धर्म इति / समारोप्यात्मस्थानि कृत्वा, किं प्रवव्राजेति वर्तते। यथा हि नाम राजा हस्त्यादिबलयुक्तोऽरीन् निहत्य राज्यं प्राप्नुयादेवमस्य मुख्या प्रवृत्तिरिति // 16 // सम्यक्त्वज्ञानचारि-त्रसंवरतपः समाधिबलयुक्तः / मोहादीनि निहत्या-शुभानि चत्वारि कर्माणि // 17 // आर्या व्या०-सम्यक्त्वेत्यादि। सर्वे इमे धर्माः सकलशास्त्रार्थनिबन्धना वक्ष्यमाणास्तथापि तस्य विशेष उच्यते, सम्यक्त्वं क्षायिकं, ज्ञानं केवलादृते, चारित्रं छेदोपस्थाप्यपरिहारविशुद्धि १-मुद्वेगजननसङ्ग-' इति क-पाठः / Page #40 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् [श्रीदेवगुप्तवर्ज, एते ह्यतिचारवशेन भवतः, निरतिचारश्चायं शेषत्रयं त्ववस्थाविशेषवशेन सम्भवेत् / संवरो निरुद्ध सर्वाश्रवत्वात् कृत्स्नः / तपो बाह्यं षड्विधमपि, अन्तस्तपसस्तु विनयव्युत्सर्गे यथासम्भवम् / ध्यानं तु प्रधानकर्मक्षयकारणत्वात् समाधिरिति कण्ठोक्तमेव / अनेन बलेन युक्तः / मोहादीत्यादि, मोहज्ञानदर्शनावरणान्तरायानिहत्य प्रक्षपय्य, अशुभानि, गतार्थस्वेऽप्यशुभग्रहणमन्यकर्मभ्योऽशुभतरतमख्यापनार्थ, चत्वारि कर्माणीतिव्युत्क्रान्त्यानुपूर्व्या केवलोत्पत्तिसूत्रसम्बन्धसङ्ख्याख्याज्ञापनार्थमुक्तम्, ते हि चत्वारोऽपि संसारदुःखप्रतिभयप्रदाः शत्रवः // 17 // किं फलमित्याहकेवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनन्तम्। लोकहिताय कृतार्थो-पि देशयामास तीर्थमिदम् // 18 // आर्या व्या०-केवलमित्यादि / केवलममिश्रमसाधारणमधिगम्य प्राप्य, विभवीति विभुः सर्वगतज्ञानात्मेत्यर्थः / स्वयमेव स्वशक्त्यैव, न राजेव सामन्तादिमिश्रः। किं तत्, केवलं ज्ञानं दर्शनं च वक्ष्यमाणम् , अनन्तं न कचित्प्रतिहतं सर्वत्रगमत एव विभुरित्युक्तम् / अधिगम्य किं कृतमित्याह-लोकहितायेत्यादि, सर्वमेतद्गतार्थम्, इदमिति यदेवेदमधुना प्रवर्तते // 18 // कियत् पुनस्तदित्याहद्विविधमनेकद्वादश-विधमहाविषयममितगमयुक्तम् / .. संसारार्णवपारग-मनाय दुःखक्षयायालम् // 19 // आर्या व्या०-विविधमित्यादि / वक्ष्यमाणमेतन्महाविषयं सर्वद्रव्याण्यसर्वपर्यायाणि त्रैकाल्यमस्येति / अमितगमयुक्त, गमाः पन्थानो नयाः रक्ष्यमाणास्तैरसङ्ख्येयैर्युक्तमभिसन्ततम् / कियद्गुणमित्याह-संसारेत्यादि, संसृतिः संसारः, संसरणं वा संसारः, स नामादिश्चतुर्विधो वक्ष्यते, स एव अर्णवः संसारार्णवः / कथं चासावर्णवः, नरकतिर्यग्मनुष्यामरगतिचतुष्टयदुस्तरविपुलपात्रः / प्रियाप्रियविरहसम्प्रयोगक्षुदभिघातादिसन्निपातप्रतिभयानेकदुःखागाधसलिलः परोपघातिक्रूरानार्यजनानेकमकरविचरितविषमः मोहमहानिलप्रेरणाध्मायमानगम्भीरभीषणप्रमादपातालः नरकादिविकृतमीमवडवामुखग्रस्यमानानेकपापकर्मसत्त्वः रागद्वेषप्रबलानिलोद्धतसंजायमानवीचीप्रसृताशयवेलः तदेवमस्य भगवन्तो यतयो द्वादशाङ्गविपुलशरीरं सम्यग्दर्शनायोपबद्धसन्धिः प्राणिदयादिव्रतसम्पन्नकनिरुद्धाश्रवद्वारं सन्तोपमितस्वादकाद्युपहितपावनं विशुद्धज्ञानसन्निहितनिर्यामकं सकलचारित्रविधानानुकूलपवनप्रेरितं विशुद्धध्यानबलोपहितसर्वमगलरक्षं प्रवचनयानपात्रमारुह्य संसारार्णवस्य पारप्राप्तिफलं शिवमक्षयमनामयं मोक्षमवाप्नुवन्तीत्येवमेतत् अलं पर्याप्तं संसारार्णवपारगमनायेत्युच्यते. अत Page #41 -------------------------------------------------------------------------- ________________ नाना रिकतटीका ] सम्बन्धकारिकाः एव तरन्त्यनेन तद्वाधिगम्येति तीर्थमित्युक्तं, अन्येऽपि पृथिवीकायिकादयः सत्त्वाः संसारस्य लोकस्य कर्मप्रेरिताः पारं गच्छन्तीति ज्ञापनार्थ दुःखक्षयायालमिति विशेषितम् // 19 // किमस्य माहात्म्यमित्याहग्रन्थार्थवचनपटुभिः, प्रयत्नवद्भिरपि वादिभिनिपुणैः। अनभिभवनीयमन्यै-र्भास्कर इव सर्वतेजोभिः // 20 // आर्या व्या०-ग्रन्थार्थेत्यादि / प्रत्येकं पटुशब्दः, सन्ति हि केचित् यथाऽधीतग्रन्थपटवो ____. नार्थपटवः, केचिच्चानधीतग्रन्था अप्यर्थपटवः, केचिदप्यनधिगतग्रन्थार्था 'पटु'शब्दस्यार्थ अपि स्वविकल्पितवचलपटव इत्यतो विशेषयति त्रिष्वपि ये पटवः / एवं ने विधा अपि केचिदुदासीना भवन्तीत्याह / प्रयत्नवद्भिरपि विजगीषोद्यतः, वादिमिनिपुणैः न्यायकुशलैः, अनभिभवनीयमन्यैरधृष्यमन्यैर्वादिभिरन्यैस्तीर्थिकैः / किमिव. भास्कर इव सर्वतेजोभिः / 'भास्कर इव मणिप्रदीपादिभिः सर्वतेजोभिरनभिभवनीयः इदं तीर्थ देशयामास // 20 // किमर्थं पुनरयमुपन्यास इत्याहकृत्वा त्रिकरणशुद्धं, तस्मै परमर्षये नमस्कारम् / पूज्यतमाय भगवते, वीराय विलीनमोहाय // 21 // आर्या तत्त्वार्थाधिगमाख्यं, बहथं सङ्ग्रहं लघुग्रन्थम् / वक्ष्यामि शिष्यहितमिम-मर्हद्वचनैकदेशस्य // 22 ॥"-युग्मम् व्या०–कृत्वेत्यादि / कायवाङ्मनांसि त्रीणि करणानि, तैः शुद्धं अकलई, शुद्धानि वा श्रीणि करणान्यस्मिन्निति त्रिकरणशुद्धम् / शारङ्गजग्धादिज्ञापकात् तु निष्ठापरनिपातः। तस्मै इति यः शुभकर्मासेवन इत्युक्तं सम्बध्यते परमर्षये नमस्कारं कृत्वेति वर्तते, पूज्येत्यादि, पूज्यतमाय भगवते, गतमभिदेवादिभ्योऽपि नमस्कारमर्हति किमुत मत्त इति सारयति / भजन मजन्ते वा तमिति भगः श्रीरित्यर्थः, सा च सर्वातिशयमयी वर्णिता वक्ष्यति च, सोऽस्यास्तीति भगवान् तस्मै भगवते / वीराय विलीनमोहाय, गतमप्याचार्यः परमभक्क्याविर्भावितचेताः पुनः पुनः कण्ठोक्तं नाम करोति, अथवा स्वयमेव बुद्धतत्त्व इत्यतःप्रभृति सामान्यतीर्थकरलक्षणसद्भावात् तद्वचनसञ्जिघृक्षुर्विशिष्य वीरायेत्याह / न च मन्तव्यमिदमिति वर्तमानतीर्थप्रणेतृत्वाद्विशेषितमिति, तदपि हि सामान्यार्थमेवातीता अपि इदमेव द्वादशाङ्गं देशयामासुः तथा अनागता देशयिष्यन्ति अवस्थितत्वादर्थानां अन्यथा केवलज्ञानहीनोत्क१ युग्मस्य लक्षणम् "द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् / कलापकं चतुर्भिः स्यात्, तदूर्व कुलकं स्मृतम् // " Page #42 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [श्रीदेवगुप्तएताप्रसङ्गः स्यात् / न चेयं खमनीषिका। उक्तं हि प्रवचने, इत्येतद् द्वादशाङ्गं गणिपिटकं न कदाचिन्नासीन कदाचिन्न भवति न कदाचिन भविष्यति बभूव भवति भविष्यति चेति / विलीनमोहाय ध्वस्तसंसारबीजायेत्यर्थः // 21 // कृत्त्वोत्तरकालं किमाह . व्या०-तत्वार्थेत्यादि / तत्त्वार्थोऽधिगम्यतेऽनेनास्मिन् वेति तत्त्वाथोधिगमः इयमेवास्य गौण्याख्या नामेति तत्त्वार्थाधिगमाख्यस्त, बहथं स च बहर्थः बहुर्विपुलोऽर्थोऽस्येति बहर्थः सप्तपदार्थनिर्णय एतावांश्च ज्ञेयविषयः / सङ्ग्रह समासं, लघुग्रन्थं श्लोकशतद्वयमात्र, वक्ष्यामीति वचोरूपं, अन्यथा हिब्रूतेः क्रियाफललक्षणमात्मनेपदं स्यात् / शिष्यहितमल्पग्रन्थं बलसा अप्यधीयन्ते, अधुना हि कालपरिहाणेरलसत्वात् सत्त्वानामशक्यः सकलप्रवचनाधिगमस्तदनधिगमे च दीर्घः संसारः तसादिममल्पग्रन्थं सङ्ग्रहमधीत्य वीजमात्रमपि तावल्लभन्तां शिष्या इत्यतः शिष्यहितं वक्ष्यामीति अभिप्रायः / इममिति, अनन्तरमेव वक्ष्यामीति / कस्य सङ्ग्रहमित्याह-अर्हद्वचनैकदेशस्य, अर्हतामहद्भयो वा वचनं द्वादशाङ्गं गणिपिटकं तस्याप्येकदेशस्य सङ्ग्रहं वक्ष्यामि न सर्वस्य महत्त्वादित्यर्थः // 22 // एवं तीर्थमहिमाक्षिप्तबुद्धिराचार्यशक्तिमसम्भावयन्नाचार्यदेशीयः प्राहमहतोऽतिमहाविषय-स्य दुर्गमग्रन्थभाष्यपारस्य / कःशक्तः प्रत्यासं-जिनवचनमहोदधेः कर्तुम् // 23 // आर्या : व्या०-महत इत्यादि / अयं महच्छब्दोऽस्ति प्रायः प्रांशुत्वे महावृक्षः, अस्ति वैपुल्ये महोदधिः, अस्ति पूजने महापुरुषः, अस्ति भूयस्त्वे महौजा आदित्यः, महत् शब्दस्या अस्ति प्राधान्ये महादेवः, अस्ति संज्ञायां महाजनः, अस्ति प्रशस्ये महोदयो भूयाः, इह तु भूयस्त्वे, बहुग्रन्थविषयस्येति, प्राधान्यपूजितत्वे तूक्ते, एवं वैपुल्यमपि महोदधेरेव वक्ष्यति / दुर्गमग्रन्थभाष्यपारस्य, दुर्गमो ग्रन्थभाष्ययोः पारो निष्ठाऽस्येति दुर्गमग्रन्थभाष्यपारः / तत्रानुपूर्व्या पदवाक्यसन्निवेशो ग्रन्थः, तस्य महत्त्वादध्ययनमात्रेणापि दुर्गमः पारः, तस्यैवार्थविवरणं भाष्यं, तस्यापि नयवादानुगमत्वादलब्धपारः, अयं ह्यागमः सर्वशक्त्यन्वितेन महतापि पुरुषेण सकलप्रवचनार्थः अशक्यो. व्यावर्णयितु मिति / तदित्थमस्य कः शक्त इत्यादि, अयं किंशन्दोऽस्ति क्षेपे किंसखा 'किं'शब्दस्य स्य योऽभिद्रुह्यति, अस्ति प्रश्न किं ते प्रियं, अस्ति निवारणे किं ते रुदितेन, विविधार्थी अस्त्यपलापे किं तेऽहं धारयामि, अस्त्यनुनये किं तेऽहं करोमि, अस्त्यवज्ञाने कस्त्वामुल्लापयते, इह त्वपलापे, नास्त्यसौ योऽस्य जिनवचनमहोदधेः प्रत्यासं कर्तुं समर्थ इत्यभिप्रायः // 23 // यचैतत्प्रधारयेदसाविदमप्यध्यवस्येदित्याहशिरसा गिरि विभित्से-दुचिप्सेच स क्षितिं दोाम् / . प्रतितीपेच समुद्र, मित्सेच पुनः कुशागेण // 24 // आयो Page #43 -------------------------------------------------------------------------- ________________ * सूरिकृतटीका ] सम्बन्धकारिकाः व्योम्नीन्दं चिक्रमिषेन्, मेरुगिरि पाणिना चिकम्पयिषेत् / गत्यानिलं जिगीषे-चरमसमुद्र पिपासेच्च // 25 // आर्या किञ्च, खद्योतकप्रभाभिः, सोऽभिबुभूषेच भास्करं मोहात् / योतिमहाग्रन्थार्थं, जिनवचनं संजिघृक्षेत॥२६॥”–विशेएकम् व्या-शिरसेत्यादि / भेत्तुमिच्छेत्, उचिक्षिप्सेच्च स क्षितिं दोभ्या, तमेव गिरि सह क्षित्योत्क्षेप्तुमिच्छेत्, दोभ्या बाहुभ्यां, प्रतितीपेच्च समुद्रम् तरीतुमिच्छेत्, दोामिति वर्तते, मित्सेच पुनः कुशाग्रेण, तमेव समुद्रमुदबिन्दुपरिमाणाधिगमाय कुशाग्रेण मातुमिच्छेत् // 24 // ___व्या०-खद्योतकेत्यादि / खद्योतकैर्भास्करमभिभवामीति भास्करोऽहमित्येवमिच्छेत्, मोहात् मृढो निरर्थकमुन्मत्तोऽनात्मज्ञः, मोहादिति च गिरिभेदादिषु सर्वत्र सम्बध्यते, योऽतीत्यादि, अतिमहाग्रन्थार्थ जिनवचनं यः संग्रहीतुमिच्छति स इदं प्रक्रान्तं सर्वमध्यवस्येदित्यर्थः // 26 // ___ एवं चोदित आचार्यः सर्वमेतदेवमित्यनुज्ञापवादमाहएकमपि तु जिनवचनाद्, यस्मान निर्वाहकं पदं भवति / श्रूयन्ते चानन्ताः, सामायिकमात्रपदसिद्धाः // 27 // आर्या व्या०–एकमपीत्यादि। एकमपि पदं, किं पुनरियान् सप्तपदार्थसंग्रह इति तुशब्दो विशेषयति, जिनवचनादित्यवच्छेदे पञ्चमी, यथा समूहाच्छुक्लं प्रकाशते / यसादिति कारणे पञ्चमी / यस्मात् कारणानिर्वाहकं सुगृहीतमप्यभ्यस्यमानमुत्तरोत्तरज्ञानकारणत्वाद भवोत्तारकमित्यर्थः / न चेयं स्वमनीषिका इत्याह, श्रूयन्ते इत्यादि, श्रूयन्ते चानन्ता इति चशब्दः समुच्चये, बीजलाभात् तदविनाशादुत्तरोत्तरवृद्धिसम्भवोऽवसीयते / श्रूयन्ते चेत्यभिप्रायमात्राऽवधारणे, एवं श्रूयन्ते प्रवचने-'करोमि मदन्त ! सामायिकमित्येतावतैव पदेन भावतः सुगृहीतेनानन्तकालेन अनन्ताः सिद्धा' इत्युक्तं प्रवचने, उदाहरणमात्रं तुषमाषैः स्वाध्याय इति // 27 // ___ यसाच्चैवमागमो निर्वाहकमिति चावसीयतेतस्मात् तत्प्रामाण्यात्, समासतो व्यासतश्च जिनवचनम् / श्रेय इति निर्विचारं, ग्राह्य धार्य च वाच्यं च // 28 // आर्या व्या०–तस्मादित्यादि / तस्मादागमप्रामाण्यात् , समासतः संक्षेपेण, व्यासतो विस्तरेण, यथाशक्त्याऽध्येयं जिनवचनं, न पुनरवमन्तव्यमिति दर्शयति, श्रेय इति, इदमेव हि Page #44 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ श्रीदेवगुप्तश्रेयो नान्यदिति, निर्गतविचारं निःशङ्कमित्यर्थः / ग्राह्यमध्ययनश्रवणाभ्यां, धार्यमनुप्रेक्षणादिभिः, वाच्यमर्थविचारणादिभिः / ग्रहणधारणे तावदात्मोपकारिणी // 28 // किं पुनर्वाचनयेति चोदितेऽध्यापनस्यैव गौरवख्यापनार्थ आत्मप्रयत्नदृढीकरणार्थ चाह न भवति धर्मः श्रोतुः, सर्वस्यैकान्ततो हितश्रवणात् / / ब्रुवतोऽनुग्रहबुद्धया, वक्तुस्त्वेकान्ततो भवति // 29 // आर्या व्या०-न भवतीत्यादि / श्रोता हि कदाचिदन्यमनस्को दुष्टान्तरात्मा वा शृणुयाद, एवंविधस्य श्रोतुर्न हितश्रवणमात्रादेवैकान्तेन धर्मोऽस्तीति दर्शयति / हितग्रहणमानेडनार्थ, हितमपि तावत् शृण्वतां न सर्वेषां धर्मः किं पुनरहितमिति / ब्रुवत इत्यादि, वक्ता हि यदा स्तुतिमानलाभादिनिरीहः कथममी श्रोतारोऽनुगृहीताः प्रतिबुध्येरन्नित्यवाप्तबुद्धिर्हितमुपदिशति तदाऽस्यैकान्ततो भवति धर्मः / एवं च कृत्वा खपरिणामो नः प्रवचनेषु शुभाशुभोपचयं प्रति परं प्रमाणमिति दर्शितम् / न चात्रात्मनेपदाशङ्का, निराकृतं हि स्तुत्यादिक्रियाफलं, निरनुबन्धाभिप्रायात्, न च धर्मोऽप्यभिप्रेतः, अवश्यंभावी त्वसावित्युक्तः // 29 // एवं निश्चित्याहश्रममविचिन्त्यात्मगतं, तस्माच्छ्रेयः सदोपदेष्टव्यम् / आत्मानं च परं च (हि), हितोपदेष्टाऽनुगृह्णाति // 30 // आर्या व्या०–श्रममित्यादि। यो हृदयशोषादिरात्मगतः श्रमस्तमविगणय्य-नैतन्मम दुःखमिहेव चैतत्सूपयुक्तं शरीरमिति परिचिन्त्योपदेष्टव्यं, तस्मादिति प्रक्रान्तप्रयोजनमुपसंहृत्य निचिनोति, अयं विनिश्चयो यदुत श्रेयो मोक्षमार्गः सर्वकालमुपदेष्टव्यः, न पुनरश्रेयः सावद्यमिध्याश्रुतमात्मपरोपघातीति / इदं च पुनः श्रेयस उपदेशप्रयोजनं निर्धार्य आह, आत्मानमित्यादि, यदयं श्रुत्वा पापेभ्यो निवृत्त्य हितेषु प्रवर्तमानः कल्याणभागी भवति स तत्रोपदेष्टा हेतुरित्युभावपि हितोपदेशेनानुगृह्यते इति // 30 // विद्याशिल्पकलायुपदेशेष्वपि हितबुद्धिस्तदर्थिनामित्यादिनिराकरणार्थमाह-- नर्ते च मोक्षमार्गाद्, हितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन् / तस्मात् परमिदमेवे-ति मोक्षमार्ग प्रवक्ष्यामि // 31 // आर्या व्या०-नर्ते चेत्यादि / विगतद्वन्द्वसन्निपाताव्ययपदप्रापणहेतोर्मोक्षमार्गादृते नान्यो हितोपदेशः कृत्स्नेऽप्यस्मिन् जगति विद्यते / ये त्वन्ये रागबुद्धिविकल्पवशेन हितोपदेशत्वेन गृहीतास्ते भवबीजानुबन्धित्वाद्धितोपदेशाभासा अपि न भवन्ति, कुतो हितोपदेशाः / / यतश्चैवं, तस्मादित्यादि, तसादित्युपसंहरति / परमुत्कृष्टं इदमेव हि हितोपदेशम् , अनन्तरं मोक्षमार्गः, इति एवमर्थे, एवं निर्धार्य वक्ष्यामि, समाप्तौ वा, अलमतिप्रसङ्गेन // अधुनोपन्यासप्रयोजन-मोक्षस्य मार्ग आदौ वक्ष्यामि प्रवक्ष्यामीति / एतावत्य एता आर्याश्चात्र नामि Page #45 -------------------------------------------------------------------------- ________________ सूरिकतटीका ] सम्बन्धकारिकाः लिखिताः तासु न श्रमोऽमिशङ्कयः, प्रसङ्गभयात् प्रायो निगदोक्तार्थत्वाच्च न विमर्दः / अतः परं शास्त्रं भवतीति // 31 // इतीयं कारिकाटीका, शास्त्रटीकां चिकीर्षुणा / सन्दृब्धा देवगुप्तेन, प्रीतिधर्मार्थिना सता // अनुष्टुप श्रीवर्द्धमानस्वामिने नमः / अथ श्रीसिद्धसेनगणिप्रणीता द्वितीया टीका प्रारभ्यते / ___ अवतरणम्जैनेन्द्रशासनसमुद्रमनन्तरत्न-मालोडय भव्यजनतोषविधायि येन / रत्नत्रयं गुरु समुद्धृतमिद्धबुद्धथा, तत्त्वार्थसङ्ग्रहकृते प्रणमामि तस्मै // 1 // वसन्ततिलको स एवधीपो' विधुरां धियं मे, नयप्रमाणादिविचारनीतौ। पटुं विधत्तां व्यसनावमने, कुर्वन्ति सन्तः करुणामवश्यम् // 2 // उपजातिः सविसविस्तीर्णरुचिप्रबोधैः, पूर्वैर्मुनीशैर्विवृतेऽपि शाख्ने / , यातुं पथा वाञ्छति मध्यमेन, बुद्धिर्मदीया परिपेलवापि // 3 // इन्द्रवजा उक्तं जिनेन्द्रैर्जगदेकनाथैः, सर्व नयद्वैतमतानुसारि / ज्ञेयस्वरूपं प्रविभज्य सम्यक, संयोजनं केवलमेव चिन्त्यम् // 4 // " विमुक्तिमार्गे मुनिनाथदेशिते, व्यधायि मौढ्याद यदसाम्प्रतं मया। तितिक्षता तत् सुजनः समाधिना, विलोक्य रन्धैषितया विना कृतः॥५॥ उपेन्द्रवज्रा मोक्षमार्गोपदेशः श्रेयान् परिनिर्वाणस्य पुरुषार्थप्राधान्यात, दुःखोद्वेगाद्धि जीवलोकः सुखप्रेप्सया च क्लेशार्तिहेतून परिजिहीर्षन सुखानन्दनिमित्तोपादित्सया च सर्वक्रियासु प्रवर्तते / सुखदुःखप्राप्त्यभावश्च लोके तन्त्रान्तरेषु च सनिकृष्टकारणभावोऽमीप्स्यते धर्मस्यार्थकामयोश्च / सुखं हि द्विविधं वैषयिकभेदानिर्वाणप्राप्तिलब्धात्मस्थसुखमेदाच, तत्र यन्मौक्षं सुखं तदात्यन्तिकमैकान्तिकमनतिशयमनाबाधकं केवलं निरावा, स्वाधीनं च, शश्वदप्रतिपातादात्यन्तिकं, व्यतिकीर्णसुखदुःखहेतुभावार्थान्तरानपेक्षत्वादैकान्तिकम्, प्रकर्षकाष्ठावस्थानादनुत्तरत्वादनतिशयम्, प्राण्युपमर्दनजलौकिकसौख्यवैपरी....१ वसन्ततिलका-लक्षणम् - “उका वसन्ततिलका तभजा जगौ गः"। २'धीरो विकला' इति क-पाठः / 3 उपजाति-लक्षणम्"स्यादिन्द्रवजा यदि तौ जगौ गः, उपेन्द्रवजा जतास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीयावुपजातयस्ताः " // Page #46 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् . [श्रीसिद्धसेनत्यादनाबाधकम्, सर्वद्वन्द्वस्पर्शविषयातिक्रमाद् दुःखलेशाकलङ्कितं केवलम्, निष्प्रतिद्वन्द्वमिति निराबाधम्, आत्मतादात्म्याविर्भावान्मनोज्ञविषयसंसर्गायत्ता नोत्पत्तिरस्येति स्वाधीनमिति / तच्चैतञ्चैतन्यवीर्यप्रशमादिगुणतत्त्वस्यात्मनः संसर्गप्रतिबन्धोपरागविगमात् पुनर्भवप्रवन्धोच्छेदात् दुःखानामत्यन्तनिवृत्तेः ज्ञानादिस्वतत्त्वावस्थाननिःश्रेयसावाप्रधिगम्यत इति तत्साधनशासनमुख्यप्रयोजनः कृत्स्न उपदेशः परमः, तदनुषङ्गतः शेषव्याख्यानात्, अतश्च मुख्यपुरुषार्थसाधनसाध्याव्यभिचारशासनाच्छास्त्रमेतत्, विषयर्द्धिसंयोगसमुत्थस्य तु सुखस्यात्यन्तिकादिविपरीतविशेषणानुगतत्वात् दुःखोत्तरत्वात् दुःखप्रतिकारमात्रत्वाच, तदर्थ शास्त्रमशास्त्रं स्यात्, तदुपायोपदेशविधिमन्तरेणापि तत्सिद्धयुपपत्तेश्चेति, अभ्युदयप्राप्त्युत्सवफलो धर्मः प्रतिषेध्यपक्षक्षिप्तः प्रतिमन्तव्यः, अर्थकामौ च, यस्माच्चैते दुःखाभावार्थिनां नात्यन्ताभावहेतवः तस्मादभ्युदयफलधमाथेकामोपदेशो न हितोपदेश इति सर्वेणापि तदर्थः प्रयासो नास्थेय इत्यर्थः / सर्वस्यास्य विषयसुखर्द्धिफलत्वात् तद्दोषदुष्टत्वादिति, परमर्षेः प्रवक्तुनिसर्गादेव लोकानुग्रहकारितायां प्राणिनां च हिताहितविभागोपदेशविशिष्टानुग्रहहेत्वभावानिःश्रेयसावाप्तिहेतूपदेशप्रवृत्युपपत्तेः, सदाचार्ययुक्तितो हिताहितप्राप्तिपरिहारार्थिनां च कामादिषु दोषदर्शनानिःश्रेयसार्थित्वानिःश्रेयसमार्गोपदेशः शास्त्रे प्रवर्तते इत्ययं शास्त्रप्रवृ. त्तिहेतुकृतः शास्त्रसम्बन्धः / स चायं भाष्यकारिकाभिः प्रकाश्यते-पुरुषार्थसिद्धि प्रत्यागर्णानां हिताहितप्राप्तिपरिहारार्थिनां विधेयप्रतिषेध्यविवेकप्रदर्शनार्थ हि कारिकाद्वयमाद्यम् / परमकार्यमभीप्सद्भिः प्रधानपुरुषार्थप्राप्तिकातिभिः परहितप्रेप्सुभिर्निःश्रेयसार्थिभिरित्यर्थः / परमनिवृतेरठ्यत्वात् तत्सिद्धियोग्यताप्रतिघसामर्थ्यादेवंप्रकारसाधनगुणसमौर्भाव्यम्, अर्थापास्ततद्विपरीतार्थतत्साधनपरिहारिभिश्चेति अतो विधेयोऽर्थः / कर्मक्लेशानामत्यन्ताभावादनवरताप्रतिपाति मुक्तिसुखं, सम्यग्दर्शनादीनि तत्साधनानि च, अर्थाद व्युदसनीयः संसारसुखाभिलाषः तत्सुखसाधनानि च, तस्मानिःश्रेयसावाप्तये यतितव्यम्, तत्सिद्धिसमर्थ च साधनमारोग्यस्येव चिकित्सा सम्यक्श्रद्धानज्ञानसंवरतपांसीति, नृसुरैश्वर्यसुखतत्साधनार्थ च न यतितव्यमिति / यतश्चैवं सम्यग्दर्शनज्ञानतपोगुणसामग्रीयोगयुक्तस्य द्रव्यक्षेत्रकालमावप्रभेदसंसारमहादुःखप्रपश्चापातमहाभयहेतूनां कात्स्न्येन प्रक्षयादात्यन्तिकी दुःखनिवृत्तिनिष्प्रतिद्वन्द्वाप्रतिपातिपरमसुखलाभश्वोपपद्यते, तस्मादुक्तं "तेन सुलब्धं भवति जन्म" (1) इति / कर्मक्लेशा इति च, दुःखानां नैमित्तिकत्वाद् भवेनिवृत्तिरिति, अनपेक्षपरिणामत्वात् स्वभावत्वे हि नापव्रज्येरन् क्लेशाः, प्राक्तनं तु कर्मक्लेशविशेषणं, न प्रधानेश्वरादिकृताः कर्मक्लेशा इति / एवं क्रियान्तरप्रसिद्धिप्रवृत्तिः क्रियान्तरप्रसिद्धिनिवृत्तिश्च कृता, तस्मादित्थमुक्तं भगवता, " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " ( 1, 1 ) इति ( 1, 2 ) / नन्वेवमप्रश्वासः कश्चित्, इह हि सम्यग्दर्शनादियुक्तो मुमुक्षुस्तदर्थ सम्यगीहमानोऽपि निःश्रेयसमनवाप्योपरमेत स इदानीं नृसुरसुखप्रतिषेधाद् विफलप्रयासः स्यात् , दृश्यते हि प्रश्वासः Page #47 -------------------------------------------------------------------------- ________________ गणिकृतटीका ] सम्बन्धकारिकाः प्रधानकार्यसिद्धिश्च, यथा इतोऽष्टयोजन्यामुज्जयिनी वर्तते तामेकेनाहा गच्छ परेण निवर्तेथाः यदि चैकेनाहा न प्राप्नुयास्ततोऽमुकस्मिन् ग्रामे सुखमुषित्वा श्वः प्रवेष्टांसि तूर्णं चागच्छेरित्येतस्माद् वाक्याद् गन्ता प्रश्वस्तः सन् न गमने विरसीभवति, पूर्वस्मात् तु व्याहन्यते, एवं नूसुरैश्चर्यद्धिनिरपेक्ष उपदेशोप्रश्वासाय स्यादिति, ततः प्रश्वासार्थमुच्यते " परमार्थालामे वा" (3) इत्यादि / जन्मान्तरसञ्चितानां हि कर्मणां बन्धनिकाचनाद्यवस्थावैचित्र्यात् तहेतुकरागादिदोषाणां च कर्मावाहित्वताच्छील्यात कश्चित तद्भवेनैव निःश्रेयसं नाधिगच्छेत, तथापि तस्य शुद्धप्रयोगहेतुकं कल्याणप्राप्तिकारणं पुण्यं कर्म स्यादिति / स्यान्मतम् , नन्वेवमभ्युदयाशंसा कृता स्यात् इष्टशरीरेन्द्रियादिनृसुरविशेषप्रादुर्भावफलत्वात् पुण्यस्य, निषिदाभ्युपगमे चाभ्युपेतबाधा स्यादिति / उच्यते, नैष दोषः / नृसुरैश्वर्यसुखप्रतिषेधात् / नृसुरैश्चर्यसुखप्रतिषेधपरं हि मुनेः कृत्स्नं वचनम् // "सल्लं कार्मों" इत्यादि / स्वर्गलोकगमनसुकुलप्रत्यापत्त्यादिवचनं तु प्रधानार्थनिश्चयदाढर्यापादनार्थम् / यथाऽनुच्छिभारिशेषोऽपि विजिगीषुर्भोगेषु न व्यासज्येतेति, तदुच्छेदाद भोगेषु व्यासङ्गोऽपि स्वनुबन्ध इति तत्प्राधान्यप्रतीतेरितरसुखस्याप्यसुखत्वमुपदिष्टं स्यात्, तन्मात्राभिष्वङ्गपरिहारार्थमित्थं, सर्वत्र प्रियहितनिश्चयसिद्धेः / " सिद्धे वा भवति सासए, देवे वा अप्परए महिडिए" // -दशवैकालिके अ० 9, उ०४, गा०७. “उप्पसन्ने विमलेव चंदिमा, सिद्धि विमाणाणि वयंति ताइणो" // --दश० अ० 6, उ० 2, गा० 68. "दुक्कराइं करित्ताणं, दुस्सहाई सहित्तु य / केइत्थ देवलोएसु, केवि सिझंति नीरया"|-दश० अ०३, गा० 14. इत्यादि // नृसुरैश्वर्यनिःश्रेयसविषयाणां सर्ववाक्यानां सिद्धिः / ततश्च नेदं यथोक्तप्रश्वासवाक्यतुल्यम्, न ह्यत्र कालाध्वपरिमाणगन्तृशक्तिवनिवृत्तिकालपरिच्छेद इति / यथा वा सर्वअपकृतं भोजनविधानमुपचर्य ब्रूयात् किन्त्वपथ्यमिति / एवं च तत्प्रसङ्गप्रतिषेधो गम्यते तस्मात् १'प्रवेष्टास्मि' इति ग-टी-पाठः / 2 'स्यान्मन्ता' इति ख-ग-पाठः / 3 'बाधी' इति क-पाठः / 4 सालं कामा विसं कामा कामा आसीविसोबमा। कामे पत्थयमाणा अकामा जति दुग्गतिं // (उत्तराध्ययने अ० 9, गा० 53.) [शल्यं कामा विषं कामाः कामा आशीविषोपमाः। कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् // ] ५'पदार्थोपदानार्थ' इति ग-टी-पाठः। 6 सिद्धो वा भवति शाश्वतः देवो वा अल्परजाः (अल्परतः) महार्द्धकः / . . 'उप्पसन्ने' इति ख-पाठः / ऋतु ( शरत् ) ( काले ) प्रसन्नः विमलश्च चन्द्रमा इव तायिनः ( प्रसन्ना विमलाश्च ) विमानानि सिद्धि (0) अवन्ति. '५दुष्कराणि कृत्वा दुःसहानि सहित्वा च / केचिदत्र देवलोकेषु ( उत्पद्यन्ते ) केचित् सिध्यन्ति नीरजसः / Page #48 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [श्रीसिद्धसेनस तस्योपसर्जनमर्थोऽनभिसंहितानुषक्त इति / नैव चात्र नृसुरैश्वर्यसुखानुज्ञा, निःश्रेयसावाप्तिहेतुत्वेनानवद्यकर्माभ्यनुज्ञानात् पुनर्भवप्रबन्धकरं न भवति मोक्षकरमेव तु भवतीत्यनवयं हि कर्म तत्, सर्वत्र हि भगवता निर्निदानत्वमभिप्रशस्तम्, उक्तं हि "भुज्जो निदानकरणं मुक्खमग्गस्स पलिमंथ, सव्वत्थविणं भगवया अणिदाणदा पसत्था' (दशाश्रुतस्कंधे)" इति॥ ततो यद्यप्याशु न लभते तथापि तत्सम्यग्दर्शनादिकृत एव स तस्य मोक्ष इति / इदानीं विचित्रप्रस्थानत्वादधमादिषट्पुरुषविशेषनिधोरणेन मङ्गलपूर्वकत्वाच्छास्त्रप्रवृत्तेमेङ्गलपूर्वकमिदं शास्त्रम्, तच्चात्रैकान्तिकादिफलयोगात् प्रकृष्टत्वाच्च नमस्कारो भावमङ्गलं प्रवचनसद्धर्मतीर्थप्रणायिने महावीरायेति भगवत एव पूज्यानुत्तरत्वप्रतिपादनार्थम्, तदनुषङ्गतः शास्त्रोपोद्घातार्थे प्रवक्तृशुद्धेः प्रवचने शुद्धिराख्याता स्यादिति भगवति जातप्रसादबहुमानो गुणज्ञः सङ्ग्रहकारः श्रोतृणां शास्त्रे गौरवोत्पादनार्थ चाह-"कर्माहितं" (4) इत्यादि / पुरुषार्थानां चतुर्णामुभयस्मिन्नपि लोके यो विपरीतानुष्ठायी अत्यन्तमुभयलोकगर्हितपरदारचौर्याद्यासेवमानः सोऽधमाधमः // 1 // ऐहलौकिकसुखप्रार्थनापरः परलोकसुखविमुखः ऐहिकप्रत्यपायभयादत्यन्तनिन्द्यचौर्यपरदारादि परिहरन् विषयसुखासक्तः पुरुषोऽधम इत्यनुमीयते // 2 // स्वप्रस्थानात् य उभयलोकार्थ प्रयतते दानाध्ययनाद्यासेवमानः सत्कारलाभयशोमित्राद्यैहिकं फलं परलोकेऽपि नृसुरैश्वर्यप्राप्तिमभिकाङ्क्षन् स विमध्यमोऽनुमीयते // 3 // यः पुनरिहसुखनिरपेक्षोऽभिषेचनोपवासब्रह्मचर्यगुरुकुलवासभैक्ष्याद्यासेवमानः परतीर्थिको लोकोत्तरमार्गप्रतिपन्नो वा देवेन्द्रचक्रवर्तिमहामाण्डलिकाद्यैश्वर्यसमाकृष्टमानसः सौभाग्यादि वा प्रार्थयमानो निदानपरस्तपोविक्रयेण परलोकसुखमेव प्रधानीकुर्वन् मध्यम इत्यनुमीयते // 4 // दृष्टानुनौविकेष्वर्थेषु शुद्धयतिशयदर्शनादपरितुष्यन् संसारभयोद्वेगात् सर्वसङ्गत्यागो लोकद्वयनिःश्रेयससुखावह इति मत्वा न पुनर्विषयाभिष्वङ्गे मन आधेयमिति निःश्रेयसावाप्तिप्रधानः सर्वथा पुनर्भवप्रबन्धोच्छित्तये प्रयतितव्यम् इत्येवंपरानुष्ठानः "कर्मक्लेशाभावो यथा भवत्येष परमार्थः" (2) इति तत्प्राप्तियोग्यानि साधनानि सम्यग्दर्शनज्ञानचारित्राणि सर्वातिचारविशुद्धथा समाचरन् उत्तमोऽनुमीयते, ऐकान्तिकात्यन्तिकनिरतिशयानाबाधनिःश्रेयसफलप्रधानकृतार्थत्वप्रार्थनात् // 5 // यः पुनः प्रार्थनीयात्यन्तविशुद्धफलप्राप्तावत्यन्तकृतार्थोऽपि प्रार्थनीयफलाभावात् परनिमित्तोपकारफलनिरपेक्षः सत्त्वानामनुपयाचितनिष्कारणवत्सलः अत्यन्तहितपरः परोपदेशे वर्तते निसर्गत एव सोऽत्यन्तशुभतीर्थकरनामकर्मोदयप्रभावात वक्तव्य एवोपदेश इति तीर्थकृत्त्वस्वाभाव्यात् प्रयतते, भास्करे प्रकाशनप्रवृत्तिवत्प्रकृष्टतमत्वात् सर्वलोकोत्तमः ततश्च पूज्यानामपि पूज्यतमत्वाद देवाधिदेव इत्यभिलषितार्थप्रेप्साकृता १'मर्थानभि' इति क-पाठः। 2 भूयो निदानकरणं मोक्षमार्गस्य परिमन्थः (विघ्नः ), सर्वत्रापि च भगवता अनिदानता प्रशंसिता। ३शास्त्रेप्याद्यान्तार्थ' इति क-ख-पाठः / 4 'श्राविकेष्टार्थेषु' इति ग-पाठः। ५'शुद्धयन्न इति शुद्धयनावा' इति क-पाठः। 6 'योग्यानि सम्यक्' इति ग-पाठः / Page #49 -------------------------------------------------------------------------- ________________ गणिकृतटीका ] सम्बन्धकारिकाः ___ 23 दरैः स एवातिशयादर्चनीयः॥६॥ (3-6) सकः, अहमिति सामान्योक्त विशेष व्यवस्थाप्यते यावत् "तस्मादर्हति पूजामहन्नेवोत्तमोत्तमो लोके" (7) इति // स किमर्थ पाप्रसादयोरभावादर्थ्यनुग्रहाप्रवणः सर्वजगता सेव्यत इति चेत्, प्रक्षीणाशेषरागादिदोषवातस्य प्रसादद्रविणाभावेऽपि तत्सेवातो निःश्रेयसलाभस्य ध्रुवत्वात्, तदाह-"अभ्यर्चनादहतां" (8) इत्यादि // कृतकृत्यस्य प्रयोजनोद्देशाभावादप्रेक्षितकार्यचेष्टानाप्तत्वात् परानुग्रहप्रवृत्तिरेव तर्हि न स्यादिति चेत्, न, तीर्थकृन्नामकर्मानुभावाअगद्वितकारित्वशैल्युपपत्तेः, अनपेक्षितप्रयोजनभास्करप्रकाशनादिवदित्याह-" तीर्थप्रवर्तनफलं" ( 9) इत्यादि // अथवाऽनुत्तरपारमर्पज्ञानबुद्धातिशयाचप्रमेयार्द्धनिःश्रेयसाभ्युदयार्थगमनमपेक्ष्य कृतार्थत्वविशेपणात् अवश्यवेद्यतीर्थकरनामकर्मवेदनाद्यायुष्कतन्तुबन्धादिक्षपणमात्रकार्यशेषापेक्षमकृतार्थतापि स्याद्वादिनो न दोषायेति (10) // अत्राह-संसारान्तर्वर्तिजनसामान्यात् तस्येयं कुतोऽनुत्तरगुणसम्पत्, कृतार्थत्वं वा 1, नहीष्टः सः स्वयम्भूरिति, उच्यते, अनुभावविशेषजनिततारतम्यकुशलाकुशलप्रपञ्चैः कर्मभिरेवापादितप्रकर्षनिकर्षभेदवैश्वरूप्यो जीवलोको दृष्टो, नहि कर्मणामलध्यमस्तीति, अतोऽनेकजन्मान्तराभ्यासात् तीर्थकृत्त्वाभिनिवर्तिकाभिः दर्शनतपोयोगाद्युत्तमविशुद्धाभिर्भावनाभिरुपचितस्फातीकृतपरमप्रकृष्टपुण्यसम्भारातिशयादोपाणामत्यन्तव्यावृत्तेः अनर्घ्यगुणरत्नमहानिधीनां (1) परमेश्वरत्वमुपपन्न भगवत इत्याह"यः शुभकर्मासेवन" (11) इत्यादि यावत् "कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कारम् / पूज्यतमाय भगवते वीराय विलीनमोहाय" (21) इति // अतोऽपरिमेयानुत्तरानन्तगुणस्वार्थसम्पयुक्तः सद्धर्मतीर्थस्यास्य प्रणायको भगवान् जगत्परमेश्वरः प्रत्यासमोऽस्मत्परमवान्धवो महावीरोऽभिप्रणम्य इत्यस्यैव नमस्कारः इत्येवं नमस्कारभावमजलपुरस्सरत्वं तत्त्वाथोधिगमसङ्ग्रहस्याविष्कृतम् / शुद्धिश्च यथोक्तमौनीन्द्रप्रवचनानपेतत्वादिति. (11-21) // इदानीं सङ्ग्रहविवक्षाप्रयोजनमाह-"वक्ष्यामि शिष्यहितमिम इति / कयं "वहर्थसङ्ग्रहं लघुग्रन्थं" (22) इति वचनात्, कालानुभावादल्पसामर्थ्या भव्याः कथं नामाऽल्पीयसा वाक्प्रबन्धेन महतोऽर्थराशेरधिगन्तारः स्युरिति / स्यान्मतं किमयं कृत्स्नस्य प्रवचनस्य सङ्ग्रह उत तदेकदेशस्येति, एकदेशसङ्ग्रहोऽयमित्याह-"अहंदचनैकदेशस्य" (23) इति ऐदंयुगीनभव्यलोकानुग्रहमभिसन्धाय किमर्थं पुनः समस्तश्रुतसमहादर एव न कृत इति चेत् कृत्स्नश्रुतार्णवसङ्ग्रहकरणाशक्यत्वादर्थ्यमपि हि नैवाशक्यमारभ्यते इत्यशक्यताप्रतिपादनार्थमाह--"शिरसा" ( 24-26) इत्यादि / स्यादद्धिजिनवचनैकदेशसङ्ग्रहत्वात् शिष्यहितप्रतिज्ञा वितथा स्यात्, सर्वजगत्स्वभावनिर्णयात् हिताहितप्राप्तिपरिहारार्थिनामनुग्रहः स्यात्, सकलजगत्तत्त्वं च समस्तश्रुतौघप्रतिपाद्यमिति / उच्यते, नायं नियमः श्रुतार्णवस्य पारं गतवत एव श्रेयःप्राप्तिरिति, किन्त्वेतदपि दृष्टं प्रव १'स्वातीकृत' इति क-पाठः। 2 'पुण्यपुण्य' इति क-पाठः।३ रयान्मन्ता' इति ख-ग-पाठः। Page #50 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [श्रीसिद्धसेनबने धर्मस्यैकस्यापि पदस्योपयोगः संसारनिर्वाहकः किमङ्ग पुनरेवंविधार्थविस्तारविषयस्येति, तस्मात् सङ्क्षपाद् विस्तराञ्च जिनवचनं श्रेयस्करमिति / तदाह-"एकमपि तु जिनबचनाद्" इत्यादि यावत् “धार्य च वाच्यं च" (2728) इति // किश्च जिनमतानभिबस्य परस्येदं चोय-लोकानुग्रहासम्पादनाद्वयर्थ एकदेशसङ्ग्रह इति, कथं ?, संसारदुःखार्तसत्वाऽनुकम्पाद्रवीकृतात्मा परानुग्रहप्रवणो विधिप्रवृत्तोऽसपरोपकारोऽपि तत्प्रयोगशुद्धित एव स्वयं तावनिःश्रेयसभाग् भवतीति नियमादस्माकं यतिधर्मो देशनीयः सद्धर्म इति हेतोः / प्रोक्तं हि भगवद्भिः "उठिएसु वा अणुष्टिएसु वा सुस्सूसमाणेसु पवेअएय अज्जवयं" इत्यादि यावत् "बुज्झमाणाणं जहा से दीवे असंदीणे एवं सरणं भवइ महामुणी"।' -आचाराङ्गे, श्रु० 1 अ० 6. उ० प. तथा। "भवसयसहस्समहणो, विबोहओ भविय पुंडरीयाण।। धम्मो जिणपत्रत्तो, पकप्पजइणा कहेयव्वो"॥ आर्या इति, तदाह-" न भवति धर्म" इत्यादि (29-31) / . इति स्वोपज्ञसम्बन्धकारिकाः टीकाद्वयसमेताः समाप्ताः // १'द्वयर्थ' इति ख-पाठः। 2 उत्थितेषु ( उपस्थितेषु) अनुपस्थितेषु प्रवेदयेत्-आर्जविताम् / 3 उद्यमानाना यथा स द्वीपः अस्यन्दनः एवं शरणं भवति महामुनिः / 4 भवशतसहस्रमथनो विबोधनो भव्यपुण्डरीकाणाम् / धर्मो जिनप्रज्ञप्तः *प्रकल्पयतिना कथयितव्यः // * प्रकल्प:-आचारप्रकल्पः निशीथसूत्रमित्यर्थः / Page #51 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् श्री उमास्वाति'वाचकवर्यविरचितं स्वोपज्ञभाष्यालङ्कृतम् श्री सिद्धसेन'गणिप्रणीतटीकायुतम् / प्रथमोऽध्यायः 1 हितोपदेशे च कर्तव्ये निःश्रेयसावाप्त्युपायोपदेशान् नान्यः कश्चिद्धितोपदेश इत्युक्तम्सूत्रम्-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः // 1-1 // टीका इदमाद्यमनवयं मुक्तिपथोपदेशसूत्रं सकलतत्त्वार्थशास्त्राभिधेयमुररीकृत्य प्रावृतत्, द्वादशाङ्गप्रवचनार्थसङ्ग्राहिसामायिकसूत्रवत् / यत इह हि शास्त्रे प्रसङ्गानुप्रसङ्गतस्त्रय एव पदार्थाः सम्यग्दर्शनादयो विमुक्तेः कारणत्वेन निरूप्यन्ते / अथ कमात् हेतव एव मोक्षस्य कथ्यन्ते ? न पुनः स एव प्रधानत्वादादौ प्रदर्यत इति / उच्यते-कारणायत्तजन्मत्वात् कार्याणां कारणमेवोपाददते प्राक् प्रेक्षापूर्वकारिणः / अथवा सत्यमसौ प्रधानः तथापि तु तत्र प्रायो वादिनां नास्ति विप्रतिपत्तिः / यद्यपि भावाभावादिरूपेणास्ति विगानं, तथाऽप्यस्ति तावन् मोक्ष इत्यनादृत्य भावादिरूपतां तद्धेतुषु प्रायो विसंवाद इति मन्यमानः परपरिकल्पिताथाहेतूनेव मुक्तेः पश्यन् सम्यग्दर्शनादित्रयमेवोपन्यस्तवान् / अत्र चावधारणमवश्यं दृश्यं, सम्यग्दर्शनादीन्येव मोक्षमार्ग इति / अनवधारणे हि सति अन्यस्यापि मुक्तिपथस्य सद्भावादनर्थकमेवोपदेशदानं स्यात्, तेनैव सिद्धत्वादिति / सम्यकशब्दश्च दर्शनशब्दसनिधौ श्रूयते अतस्तेनैव सहास्यामिसम्बन्धो न ज्ञानचारित्राभ्यामिति कश्चिदाशङ्केत,अतस्तन्निवारणायाह भाष्यकारः भाष्यम्-सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्गः / तं पुरस्तालक्षणतो विधानतश्च विस्तरेणोपदेक्ष्यामः / शास्त्रानुपूर्वीविन्यासार्थं तूद्देशमात्रमिदमुच्यते / एतानि च समस्तानि मोक्षसाधनानि / एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणां ग्रहणम् / एषां च पूर्वस्य लाभे भजनीयमुत्तरम् / उत्तरलाभे तु नियतः पूर्वलाभः / तत्र Page #52 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् [ अध्यायः 1 सम्यगिति प्रशंसाओं निपातः, समश्चतेर्वा भावः / दर्शनमिति दृशेरव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिः, एतत् सम्यग्दर्शनम् / प्रशस्तं दर्शनं सम्यग्दर्शनम् / सङ्गतं वा दर्शनं सम्यग्दर्शनम् / एवं ज्ञानचारित्रयोरपि // 1 // ___टी-अर्हदभिहिताशेषद्रव्यपर्यायप्रपञ्चविषया तदुपघातिमिथ्यादर्शनाद्यनन्तानुबन्धिकषायक्षयादिप्रादुर्भूता रुचिर्जीवस्यैव सम्यग्दर्शनमुच्यते, सम्यग्ज्ञानं तु लक्ष्यलक्षणव्यवहाराव्यभिचारात्मकं ज्ञानावरणकर्मक्षयक्षयोपशमसमुत्थं मत्यादिभेदं, सम्यक्चारित्रं तु ज्ञानपूर्वकं चारित्रावृतिकर्मक्षयक्षयोपशमोपशमसमुत्थं. सामायिकादिभेदं __सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं मूलोत्तरगुणशाखाप्रशाखम् // अत्र सम्यकशब्द भाष्ये चोदयति-अथ किमर्थ प्रत्येकं सम्यक्शब्दः प्रयुज्यते ? फलम् यावता सम्यग्दर्शने सति यज् ज्ञानं चरणं वा तत्सम्यगेव भवतीत्यतो न सम्यकशब्दोऽनयोविशेषणतयोपादेयः / उच्यते-सत्यमेतत्, किन्तु न ज्ञानमात्रमत्र विवक्षितं, चारित्रमानं वा, किन्तु विशेषरूपे उभे अपि, इतरथा हि सम्यग्दर्शनसम्पन्ने विद्यते सम्यग्ज्ञानसम्यकचारित्रे न तु ते. साक्षान्मोक्षमार्गतां विभृत इति एतद्, नैव तत्र सम्यरुचारित्रसम्भव इति / तच्च न, यतो देशरूपेऽपि चारित्रे चारित्रशब्दो वर्तत एव-तच्चाज्ञाभिमतचारित्रात् सम्यंक्शब्दविशेषणेन व्यावयंत इति / स्यादेवं तत्राशङ्का-किं ते भवतो मोक्षकारणे उत मा भूतां ? तदाशङ्कानिरासार्थ सम्यगिति ज्ञानचरणयोरुपाधित्वेनोपादायि सूरिणा / अथवा. दर्शनज्ञानचारित्राणां त्रयाणामपि व्यभिचार उपलभ्यते, यतो मिथ्यादर्शनपुद्गलोदये जीवस्य मिथ्यादर्शनं मिथ्याज्ञानं मिथ्याचारित्रमिति मुक्तेरसाधकत्वान् मिथ्याशब्देन विशेष्यन्ते, तान्येव सम्यग्दृष्टेमुक्तिसाधनत्वाद् यथार्थग्राहित्वाच सम्यक्शब्देन विशेष्यन्ते, दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणि सम्यक् च तानि दर्शनादीनि चेति सम्यग्दर्शनज्ञानचारित्राणीति, अतो व्यभिचाराद् युक्तं यत् सम्यकशब्देन सर्वाणि दर्शनादीनि विशेषयति / चारित्रमिति, योऽयमितिशब्दः स इयत्तां दर्शयति, एतावन्त्येव मुक्तेर्मार्गो नातोऽन्योऽस्ति / एष इत्यनेन तु इतिना इयत्ताऽवधृतस्वभावमन्तर्विपरिवर्तमानं स्वप्रत्यक्षं परस्मै वा सामान्येन प्रतिपादित परप्रत्यक्षं निर्दिशति / तिस्रो विधाः-प्रकारा अनन्तरप्रदर्शिता यस्य स त्रिविधः, कोऽसौ ?, उच्यते-सूत्रोपन्यस्तो मोक्षमार्ग इति / मोक्ष इति च ज्ञानावरणाद्यष्टविधकर्मक्षयलक्षणः केवलात्मस्वभावः कथ्यते स्वात्मावस्थानरूपो, न स्थानम्, यतो मोक्षस्य मार्गः, शुद्धिरुच्यते, न पुनर्धाम्नः शुद्धिर्विवक्षिता, या त्वसौ कर्मणां मुच्यमानावस्था तच्छोधनायैतानि प्रवर्तन्ते, १ज्ञानचारित्रयोरपि सम्यक्कयोपादानमित्यर्थः / Page #53 -------------------------------------------------------------------------- ________________ सूत्र 1] .. स्त्रोपज्ञभाष्य-टीकालङ्कृतम् अथवेषप्राग्भारधरणी मोक्षशब्देनाभिधातुमिष्टा, यस्मात् तदुपलक्षितोपरियोजनक्रो शषड्भागो भगवतामाकाशदेशः प्रादेशि दिव्यदृश्वभिराधारः, तस्यायं सूचोपन्यासफलम् मार्गः-पन्थाः, समस्तप्रत्यपायवियुतः पाटलिपुत्रगामिमार्गवन्मोक्ष मार्ग इत्यस्य एष त्रिविध इत्येतद्विवरणम् , एवं सामान्येन सूत्रप्रकाशः प्रत्यपादि // अधुना परः प्रश्नयति-किमेतावदेव मोक्षमार्गोपदेशनमुत विस्तरेणाप्यस्ति किञ्चिदिति ? अस्तीत्याह। यद्यस्ति किमिति नोच्यते ? आह-तं पुरस्ताल्लक्षणतो विधानतश्च इत्यादि / तमिति मोक्षमार्गमनन्तरश्रुतं निर्दिशति, पुरस्ता. दिति अस्मात् सूत्रादुपरितनसूत्रेषु, लक्षणत इति, लक्ष्यतेऽनेनेति लक्षणं, तद् द्विधा आन्तरबहिर्भेदेन, रुचिपरिच्छेदानुष्ठानाख्याः पौरुषेय्यः शक्तयो जीवस्य याः समासाद्य व्यपदिश्यते सम्यग्दर्शनीत्याद्यान्तरम् / बाह्यं तु तत्प्ररूपणप्रवणसूत्रशब्दराशिः अन्तर्लक्षणोपकारितया प्रवर्तमानः “तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् (1-2)" इत्यादि / विधानत इति भेदतः। ननु च सवेंद्रव्यभावविषया रुचिरेकैव कुतस्तस्याः प्रभेदसम्भवः / उच्यते-सत्यमेका रुचिः, सा तु निमित्तभेदाद् भेदमश्नुते, क्षयक्षयोपशमोपशमलक्षणं सास्वादनवेदकलक्षणं च / तथा. वैवोत्पत्तिकारणवशादेकरूपाया अप्युपरिष्टाद् भेदो निदर्शयिष्यते / यतः कस्याचित् स्वभाव एव निमित्तम् उत्पद्यमानायाः, कस्याचिच्चोपदेशो निमित्तम्, इत्यमुं च पाश्चात्यभेदमाश्रित्य भेदद्वयं विधानतो वक्ष्यति / चकारः समुच्चये / विस्तरेण इति सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येष त्रिविधो मोक्षमार्ग इत्यमुं समासव्याख्याभेदमङ्गीकृत्य इहैव सूत्रे वक्ष्यमाणं, तत्र सम्यगिति प्रशंसाओं निपात इत्यादिकं सलेपमाश्रित्य वक्ष्यमाणो विस्तीर्णोऽभिमतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं इत्यादिरतो विस्तरेणेत्याह / उपदेक्ष्याम इति भणिष्यामः स्वपरानुग्रहार्थम / यदि तं हि लक्षणविधानाभ्यामुत्तरत्रोपदेक्ष्यसि ततस्तमेव ब्रूहि किमनेनाद्यसूत्रोपन्यासेन सङ्केपार्थाभिधायिनाऽनर्थकेनेति चोदितः प्रत्याह-शास्त्रानुपूर्वीविन्यासार्थमित्यादि / मुख्यपुरुषार्थसाधनसाध्याव्यभिचारशासनाद शास्त्रमिष्टं प्रमाणप्रमेयसिद्धिनिरूपणं च, तस्यानुपूर्वी-क्रमः-परिपाटी, तस्या विन्यासो रचना,तत्प्रयोजनार्थम्,तुशब्दालाभक्रमप्रदर्शनार्थ च / शुश्रूषूणां चादरप्रतिपादनाथेमिदमुच्यते। अविशिष्टपदार्थाभिधानं उद्देशः, तन्मात्रमिदं सम्यग्दर्शनादिसूत्रमभिधीयते सङ्ग्रहप्रतिज्ञानात्, एतत् कथयत्यादौ सम्यग्दर्शनं लक्षणविधानाभ्यां निर्धारयिष्यामि,ततो ज्ञानं, ततश्चारित्रमित्येषा वक्ष्यमाणरचनेति प्रतिपद्यस्व / अयं चलाभक्रमः सम्यग्दर्शनादीनां, पूर्व सम्यग्दर्शनझाने, ततश्चारित्रमुत्पत्ताविति / शिष्याणां चात्र ग्रहणादिषु प्रवर्तमानानां न शक्यं वचनमन्तरेणादराधानमित्यतः सकलशास्त्रसङ्ग्राहीदमादावुच्यते सूत्रम् / आह परः, उच्यतां नाम तथा, कि तूच्यमानेऽस्मिन्नन्वेवं भवितव्यम्-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गा इति, अभिधानस्याप्यभिधेयमाश्रित्य वचनं प्रवर्तते, मोक्षमार्गशब्दस्य सम्यग्दर्शनादीन्यभिधेयानि तेषां Page #54 -------------------------------------------------------------------------- ________________ तत्त्वार्याधिगमसूत्रम् [ अध्यायः 1 च बहुत्वात् बहुषचनेनैव भवितव्यमिति / उच्यते-प्रेक्षापूर्वकारितानुमीयते सूत्रकारस्यैवम भिदधतः, यतो मोक्षमार्गा इत्युक्ते एकैकस्यैतत्परनिरपेक्षस्य मोक्षं मार्ग इति एकवचने नप्रति साधनभावो गम्येत, न चैतदिष्टम् , यतः समुदितैरेव दर्शनाफलम् दिभिः साध्या मुक्तिः न व्यस्तैरिति, एतदाह-एतानि च समस्तानि मोक्षसाधनानीत्यादि, / एतानि प्राक् प्रत्यक्षीकृतानि सम्यग्दर्शनादीनि व्यपदिश्यन्ते, चशब्दो हिशब्दार्थे निपातानामनेकार्थत्वात् हिशब्दश्च यस्मादर्थः / समस्तानि इति सर्वाणि, सम्यग्दर्शने सत्यपि यदि ज्ञानं न भवति तयोश्च सतोर्यदि क्रिया न विद्यते तत इष्टमर्थ न साधयति, रोगापनयनलक्षणमारोग्यमिव रोगिणः / यथा चारोग्यार्थिरोगिणः भेषजे रुचिस्तद्विषयं च परिज्ञानमिदमेवौषधमस्य व्याधेरपनयनकारि, सति चैतस्मिन् द्वये यदि सम्यग्ज्ञानपूर्विकायां पथ्याद्यभ्यवहरणक्रियायां विशेषेण वा प्रवर्तते ततोऽस्य रोगाः प्रणश्यन्ति नान्यथा, एवमिहापि त्रितयं समुदितं त्रिफलाद्युपदेशवसिद्धेः सकलकर्मक्षयलक्षणायाः साधनभावं बिभर्ति // अर्थापत्त्या सिद्धेऽप्याह वचसा स्पष्टं अर्थोपत्तिलभ्यफलप्रदर्शनाय / यथा-एकतराभावेऽप्यसाधनानीत्यतस्त्रयाणामित्यादि / सम्यग्दर्शनादीनां त्रयाणां एकतरस्याप्यभावेऽलाभे, असाधनानि-अनिर्वर्तकानि, अस्मात् कारणात् त्रीण्यपि मोक्षमार्गशब्दः समुदितान्यभिधेयीकृत्य प्रवृत्त इत्येकत्वात तस्य समुदायस्यैकवचनमेव न्याय्यमिति, अतस्त्रयाणां सम्यग्दर्शनादीनां ग्रहणमाश्रयणं मोक्षार्थिना कार्यमिति / एकतराभावेऽप्यसाधनानीत्य, ग्रन्थमपुनरुक्तं मन्यमाना गुरवः कथयन्त्येवं-उपात्तं साध्यं मोक्षं न साधयन्ति व्यस्तानि, यत्पुनः प्रत्येकमेषां साध्यम् तत्साधयन्त्येव, यथा सम्यग्दर्शनस्य देवलोकप्रापणसामर्थ्य, ज्ञानस्य ज्ञेयपरिच्छेदः, क्रियायाः शुभाशुभकर्मादानं देशक्षयो वा कर्मणामिति / अथवा विवरणग्रन्थेषु न बहूनां कारणता गुरुलाघवं प्रत्याद्रियन्ते सूरयः, अर्थापत्त्यनभिज्ञानामप्युपदेशप्रवृत्तेः / ___ अथवा एतानि चेत्यन्यथा ख्याप्यते, य एवं चोदयन्ति किमर्थमिति बहु मोक्षकारणतयाऽभ्युपेयन्ते सम्यग्दर्शनादीनि, न पुनर्यथा साङ्ख्यादिभिर्ज्ञानमेव केवल मुक्तिकारणमभ्युपगम्यते, यतः “पञ्चविंशतितत्त्वज्ञ" इत्यादि कथयन्ति / उच्यते-न केवलं ज्ञानं मुक्तेः कारणं पर्याप्त, क्रियारहितत्वात् पङ्गुवत्, न च क्रियामात्रम्, विशिष्टज्ञानरहितत्वात् अन्धवत्, अतोऽभ्युपेहि समस्तानि सम्यग्दर्शनादीनि मोक्षकारणान्येकतराभावेऽप्यसाधनानि अतः कारणात् त्रयाणां ग्रहणं कृतम् // अथ यदा दर्शनादीनामेकं प्राप्तं भवति तदा परस्यावस्थानमस्ति ? नास्तीत्याह-भजना कार्या। अत्र तां दर्शयति-एषां च पूर्वस्य लाभे भजनीयमुत्तरं, उत्तरलाभेतु नियतः पूर्वलाभ इत्यादि / एषामिति, दर्शनादीनां सूत्रो. क्तानाम्, चशब्दः समुच्चये / कथमिति चेत् , यथैव समस्तानां मुक्तिहेतुता प्रतिपन्ना एवमिदमपि १'एकैकस्येतरनि.' इति ख-पाठः। 'एकैकस्यैतस्य तत्परनि.' इति ग-पाठः / 2 'साधयन्ति' इति ग-पाठः / "विशेषणे' इति ग-टी-पाठः। Page #55 -------------------------------------------------------------------------- ________________ सूत्र 1] स्वोपज्ञभाष्य-टीकालङ्कृतम् च प्रतिपत्तव्यम् / किं तदिति चेत् , उच्यते-लाभनियम इति / पूर्वस्य लाभ इति सूत्रक्रममङ्गीकृत्य पूर्वस्य-सम्यग्दर्शनस्य लाभे-प्राप्तौ भजनीयं-विकल्पनीयं स्यात् वा न वेति, उत्तरं, ज्ञानं चारित्रं च, यतः देवनारकतिरश्चां मनुष्याणां च केषाश्चिदाविभूतेऽपि सम्यग्दर्शने न भवत्याचारादिकमङ्गप्रविष्टं ज्ञानम् , न वा देशसर्वचारित्रमिति / तथा प्राप्तेऽपि ज्ञाने केनचित् न चारित्रं नियमत एव प्राप्तव्यम्, तदावरणीयकर्मोदयादिति, सम्यग्दर्शनात अतः कैश्चिदेवं भाष्यमेतद् व्याख्यायि-परमार्थतो यस्मात् त्रीण्यपि सम्यग्ज्ञानस्य सम्यग्दर्शनादीनि भिन्नानीति / कथं हि भेदः सम्यग्दर्शनस्य मिन्नता . ज्ञानादिति चेत्, त एवं वर्णयन्ति पृष्टाः, कारणभेदात् स्वभावमेदादित्यादिना, कारणभेदस्तावदयम्, यतः सम्यग्दर्शनस्य त्रितयं कारणं समुत्पत्ती, क्षयोपशमः क्षयः उपशमश्चेति / ज्ञानस्य तु क्षयः क्षयोपशमो वा, यदि च न तयोर्भेदः किमिति दर्शनस्य त्रिविधं कारणम् इतरस्य द्विविधम् ? / तथा स्वभावभेदोऽप्यस्ति, यज्जैनेषु पदार्थेषु स्वतः परतो वा रुचिमात्रमुपपादि 'तदेव सत्यं निःशकं यज्जिनैः प्रवेदितमुपलब्धं चेति / तथा विषयभेदोऽप्यस्ति, सर्वद्रव्यभावविषया रुचिः सम्यक्त्वं "सव्वगयं सम्मत्तं " इति वचनात, श्रुतज्ञानं तु सकलद्रव्यगोचरं कतिपयपर्यायावलम्बि चेत्येवं किल पारमार्थिक भेदं पश्यद्भिर्भाष्यं व्याख्यातम् / अपरे तु, ज्ञानदर्शनयोः समीचोर्भेदमप्रेक्षमाणाः प्रभाषन्ते, एषां च पूर्वस्य द्वयस्य सम्यग्दर्शनस्य सम्यग्ज्ञानस्य च लाभे-प्राप्ती, भजनीयं स्याद् वा न वेति, उत्तरं चारित्रम्, उत्तरस्य तु सूत्रक्रमोपन्यस्तस्य सम्यकचारिवस्य लाभे नियतो निश्चितः पूर्वलाभ इति-पूर्वयोः सूत्रक्रमव्यवस्थितयोः सम्यग्दर्शनसम्यग्ज्ञानयोर्लाभः-प्राप्तिरिति, अन्यथा तत् सम्यक्चारित्रमेव न स्याद् यदि ताभ्यामनुगतं न स्वादिति // ननु कथं कारणादिकं भेदं न पश्यन्ति ? / उच्यते-मतिज्ञानस्यैव रुचिरूपो योऽपायांशस्तत् सम्यग्दर्शनम् , ज्ञानादृतेऽन्यत् सम्यग्दर्शनं न समस्ति / कारणादिभेदस्त्वन्यथा पाख्यायते, योऽसावुपशमोऽनन्तानुबन्ध्यादीनां स तस्य सम्यग्दर्शनस्योत्पत्तौ निमित्तं भवति, यथा केवलज्ञानस्योत्पत्तौ मोहनीयक्षयः, न पुनस्तदेव मोहनीयं केवलस्यावरणमिति शक्यमभ्युपगन्तुं, निमित्तं तु मोहनीयक्षयः तेनाक्षीणेन केवलस्यानुत्पत्तेः, एवमिहापि याबदसावनन्तानुबन्ध्यादीनामुपशमो न भवति न तावत् सम्यग्दर्शनपर्यायस्याविर्भावः, न पुनस्तदेवानन्तानुबन्ध्याद्यावरणं सम्यग्दर्शनस्य। किं पुनरावरणमिति चेत्, ज्ञानावरणमेव, तावबेदं क्षयोपशमं न प्रतिपद्यते यावदनन्तानुबन्ध्यादीनां नोपशमः समजनीति / अनन्तानुबव्याधुपशमे सति तदुपजायत इत्युपशमसम्यग्दर्शनं भण्यते, स्वावरणक्षयोपशममङ्गीकृत्य षयोपशमजमेतदुच्यते, तस्मात् परत उपशमव्यपदेशो न स्वावरणापेक्षया इति / तथा स्वभावमेदः पूर्वपक्षवादिना योऽभ्यधायि तत्राप्येवं पर्यनुयोगः कर्तव्यः कोऽयमभिलाषो 'श्रेष्ठाः' इति क-स्व-पाठः / 2 सर्वगतं सम्यक्त्वं (आव०नि०)। 3 प्रकाश्यते' इति क-ख -पाठः / Page #56 -------------------------------------------------------------------------- ________________ सप्रत्ययसम्यक तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 रुचितत्त्वलक्षणोऽन्यो मत्याधपायांश विरहय्येति / एवं विषयभेदोऽपि निराकार्य इति / तस्मात् ज्ञानस्यैव विशिष्टावस्थाऽन्यमतपरिकल्पिततत्त्वनिरासतो जिनवचनोनीतपदार्थश्रद्धानलक्षणा सम्यग्दर्शनव्यपदेशं प्रतिलभत इति न्याय्यम् / इदानीं सूत्रोपन्यस्तसम्यग्दर्शनाद्यवयवानां प्रतिविभागतः करोत्यर्थप्रतिपादनम्-तत्र सम्यगिति प्रशंसाओं निपात इत्यादिना / तत्रेत्यनेन सम्यग्दर्शनशब्दे ज्ञानादिषु च यः सम्यक्शब्दः स किमर्थान्तरमुररीकृत्य प्रवृत्तः१ नामाख्यातादीनां किमेतत् पदमिति पर्यनुयोगे सत्याह-सम्यगिति / इतिशब्दोद्विशुदस्य स्वरूपे स्थापयति, सम्यक्शब्द इत्यर्थः। प्रशंसा, अविपरीतता यथावस्थितपदार्थपरिच्छेदिता, साऽभिधेया वाच्याऽस्येति प्रशंसार्थः, निपात्यतेऽविद्योतकतया निपातः / इदं च किल निसर्गसम्यग्दर्शनाङ्गीकरणाद् व्याख्यानमव्युत्पत्तिपक्षाश्रयं परिगृह्यते, यतस्तत्पूजिततरं स्वत एवोपजायमानत्वात्, तदितरत् तु यद्यपि तथैवाविपरीतार्थतया विषयमवच्छिनत्ति तथापि तत्र परसाहायिकमस्ति तदस्मिन् पक्षे नावश्यतया श्रितम् ।एवं तावत् प्रकृतिप्रत्ययमनालोच्य सम्यकशब्दार्थो निरूपितः, व्युत्पत्तिपक्षेऽप्यर्थप्रदर्शनायाह-समचतेवों। सम्पूर्वादश्चतेः साध्यमेतद्रूपमिति, अर्थः पुनः गतिः पूजा वाश्रयणीयेति, तत्र पूजा पूर्वव्याख्या - नेन दर्शिता, इह तु गत्यर्थो वर्ण्यते, समञ्चति गच्छति व्याप्नोति सर्वान् यक् शब्दार्थः द्रव्यभावानिति सम्यक् / कः कर्थ इति चेत् यदेतद् दर्शनं रुचिरूपं तत् सम" श्चति व्याप्नोति एवमेते जीवादयोऽर्थाः यथा नयसामग्र्या जैनैराख्यायन्ते, न पुनरेकनयावलम्बिसाङ्ख्यवत् प्रतिपद्यन्ते, नित्या एवैते, अनित्या झति वा शाकलिकचीवरकवत्, न सन्ति वा लौकायतिकवदिति, कथञ्चित्सन्ति (कथञ्चिन्न सन्ति) कथञ्चिन्नित्याः कथश्चिदेवानित्याः द्रव्यपर्यायनर्यद्वयप्रपञ्चापेक्षयेत्याविष्करिष्यामः पञ्चमाध्याये / एवं च तत्र यदा दृष्टिः प्रवर्तते तदा सम्यगिति कथ्यते / वाशब्दो विकल्पप्रदर्शनाय / एतस्मिश्च पक्षे किलाधिगमसम्यग्दर्शनं कथितम् , यतस्तदेव प्रायोवृत्त्या द्रव्यपर्यायनयसमालोचनेन गुरूपदेशपूर्वकमितिकृत्वा यथावदवगच्छति शास्त्राद्यभ्यासादिति / एवं सम्यकशब्दं निरूप्य सम्प्रति दर्शनशब्दार्थकथना, यतः अनेकस्मिन् कारके च ल्युट् सम्भाव्यते करणादिके पश्यति स तेन तस्मिस्तस्मादित्यादि, अतो विशिष्ट एव कारके भावाख्ये दृश्यत इत्यादिभावो दर्शन मिति / दृष्टिा अविपरीतार्थग्राहिणी जीवादिकं विषयमुल्लिखन्तीव प्रवृत्ता सा सम्यग्दर्शनम् / अथ किमर्थमन्यानि कारकाणि निरस्य भावकारकमादिदेश भाष्यकारः ? उच्यते-ज्ञानमेव तत् तादृशं मुख्यया वृत्या तथाऽवस्थितं, ये तु तत्र करणादिव्यपदेशास्त उपचरिता इति कृत्वा न तेष्वादर इति भावं दर्शितवान् / दृशेरिति / एतत्पूर्वेण वा सम्बन्धमुपयाति दृशेयदेतद्दर्शनमिति रूपमेतत् भावे भावाभिधायि प्रतिपत्तव्यम्, अथवा परेण दृशेः प्राप्तिरुपलब्धिर्वाच्या सा चैवरूपा, अव्यभिचारिणीत्यादि। व्यभिचरत्यवश्य मिति१ धनुश्चिह्नितः अयं ख--पाठः / 2 'नयप्रपञ्चा' इति क-व-पाठः / Page #57 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् व्यभिचारिणी, सा च एकनयमतावलम्बिनी, सामान्यमेवास्ति न विशेषाः सन्ति, विशेषमात्रं वा समस्ति न सामान्यमित्यादिका, यतः सा नयान्तरेणापक्षिप्यते असत्यत्वात्, अतो व्यभिचारिणी, न व्यभिचारिणी अव्यभिचारिणी, का, या सर्वान्नयवादान् साकल्येन परिगृह्य प्रवृत्ता कथञ्चित् सामान्यं द्रव्यास्तिकाज्ञाच्छन्दतः सत्यं विशेषाश्च पर्यायावलम्बनमात्रसत्या इत्यादिप्रपञ्चेनाव्यभिचारिणी, तां कथयति-सर्वेन्द्रियानिन्द्रियार्थप्राप्तिरिति / इन्द्रियानिन्द्रिय . सर्वाणि निरवशेषाणि, इन्द्रियानिन्द्रियाणि, इन्द्रस्याजीवस्य प्राप्तिस्वरूपम्। द लिङ्गानि श्रोत्रादीनि पञ्च, अनिन्द्रियं, मनोवृत्तिरोधज्ञानं चेति / - श्रोत्रादीनां पञ्चानां द्वयोश्चानिन्द्रिययोरर्थो विषयः शब्दादिः परिच्छेद्यः, श्रोत्रादिपरिच्छिन्नार्थानुसन्धायि च मनोविज्ञानमनुप्रवृत्तेः / ओघज्ञानमनिन्द्रियजमेवेन्द्रियानुसारिविज्ञाननिरपेक्षं, 'पृष्ठत उपसर्पन्तं सर्प बुद्धथैव पश्यन्तीति वचनात, वल्लयादीनां नीवाद्यभिसर्पणज्ञानं कचिन्मनोनिरपेक्षमिति, अतस्तेषामिन्द्रियानिन्द्रियार्थानामुपलब्धिः-प्राप्तिः स्वतः परतो वा तदर्थप्रकाशनोत्तरकालभाविनी ग्राह्या, न तु तेषां सर्वेन्द्रियाद्यर्थानां सन्निकर्षमात्रप्राप्तिरभिप्रेता, न च सर्वेन्द्रियाणां स्वेन विषयेण सहाश्लेषः समस्ति, यतश्चक्षुः स्वदेशस्थं योग्यदेशव्यवस्थितं रूपमारूपयति, नास्य गमने सामर्थ्यमस्ति, अप्राप्यकारित्वात् / श्रोत्रादीनि तु प्राप्तार्थग्राहीणि, प्राप्यकारित्वात् चत्वारि, मनोविज्ञानं तु तत्पृष्ठानुसारिविकल्पकम् , अतोऽव्यभिचारिणी सर्वेन्द्रियाद्युपलब्धिः, इदमेव तत्त्वं परमार्थः शेषः परमार्थो न भवति / एतत्सम्यग्दर्शनम् / सम्प्रति निपाते सम्यकशब्दे गृहीते योऽर्थस्तं भावार्थं च दर्शयति-प्रशस्तं दर्शनं सम्यग्दर्शनमिति / अविपरीतानां द्रव्यभावानां जगन्नाथाभिहितानामालम्बिका प्रवृत्तिः रुचिलक्षणा सा प्रशस्तं दर्शनमिति, प्रशस्तमुक्तिसुखहेतुत्वात् / तथा व्युत्पत्तिपक्षाश्रितो योऽर्थस्तं कथयति–सङ्गतं वा दर्शनं सम्यग्दर्शनमिति / नित्यानित्यसदसत्सामान्यविशेषेषु जैनप्रवचनानुसारात् तस्यैव विज्ञानस्य नयद्वयसमारोपणेन च प्रवृत्तिः सा सङ्गतमिति व्यपदिष्टा / एवं सम्यग्दर्शनशब्दावयवान्वाख्यानं कुर्वता भाष्यकृता सम्यग्ज्ञानचारित्रयोरपि काका कृतम् / सम्यग्ज्ञानशब्देऽपि सम्यकशब्दः प्रशंसाओं निपातः समश्चतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमापि, स्वस्थाने च विशेषमाविष्करिष्याम इति // 1 // ____ सम्प्रति सम्यग्दर्शनादीनां यथाक्रमसन्निविष्टानामाद्यस्यैव लक्षणं यथोद्देशस्तथा निर्देश इत्यभिधातुकाम आह-"तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" (1-2) / ‘पदाक्षरवचनवाक्यानामभिप्रायविवरणं व्याख्य'ति वचनात् / प्रागवाचि वाचकमुख्येन "लक्षणतो विधानतश्योपदेक्ष्यामः " ( 1-1) इति, सत्यपि प्रमाणनयनिर्देशसदसदाद्यनेकानुयोगद्वारव्याख्याविकल्पे पुनः पुनस्तत्र तत्रैतदेव द्वयमुपन्यस्यन् भाष्याभिप्रायमाविष्करोति सरिः लक्षणविधाने एवास्मिन् शास्त्रे च प्रधानाधिकारिके इत्यतो लक्षणमुपन्यस्यति / अत्र पर्यायनि Page #58 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् [ अध्यापः / मेंदामेदादिभिः पदायभिप्रायः प्रकाशनीयः, तत्र प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायाः, प्रकृतिप्रत्ययादिनिर्भेदेन तथा गृहीतान्वर्थशब्दविवरणं निर्भेदः, तथा वाक्यान्तरेण निरूपणं प्रभेदः, तत्रेदं सूत्रं वाक्यान्तरनिरूपणद्वारेण प्राणायि मूरिगा। अथवा समुदायो मुक्तेः कारणतया निरूपित इति, न च समुदायिष्वपरिज्ञातेषु तत् परिज्ञानमस्तीत्यायस्य लक्षणप्रचिकासयिषया सूत्रं पपाठ // सूत्रम्-तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् // 1.2 // टी-तत्त्वार्थेत्यादि। अनेकसमासकल्पनासम्भवे यत्र सुखेन बुद्धिराधातुं शक्यते प्रतिपिपादयिषितार्थप्रवणा तां कल्पनामुपन्यस्यति // भा०-तत्त्वानामर्थानां श्रद्धानं, तत्त्वेन वा अर्थानां श्रद्धानं तत्त्वार्थश्रद्धानं, तत् सम्यग्दर्शनम् / तत्त्वेन भावतो निश्चितमित्यर्थः / तत्त्वानि जीवादीनि वक्ष्यन्ते (1-4) / त एव चार्थाः, तेषां श्रद्धानं तेषु प्रत्ययावधारणम् / तदेवं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति // 2 // टी०-तत्त्वानामानामिति / तत्त्वानाम् अविपरीतानां, के वा अविपरीताः ! ये स्याद्वादकेसरिगोचरमनतिक्रम्य स्थिताः, ये त्वेकनयकल्पकविलोकितास्ते विपरीताः / अर्थानामिति, अर्यमाणानां स्वैः स्वैर्ज्ञानविशेषैः परिच्छिद्यमानानां, श्रद्धानं रुचिरभिप्रीतिः सम्यग्दर्शनं, यथार्हता विगतरागद्वेषप्रपञ्चेन जगदे जगदेकबन्धुना तथेदं सत्यं जीवादिवस्तु / ननु च व्यभिचारे सति विशेषणविशेष्यकल्पना न्याय्या यथा नीलोतत्त्वार्थस्यार्थः पलादिषु, इह तु यत् तत्त्वं तन्नार्थ विहायान्यद् भवितुमर्हति अर्थों वा तत्त्वमन्तरेणेति यदेव तत्त्वं स एवार्थो य एव चार्थस्तदेव तत्त्वमिति पुनरुक्तारेका / उच्यते / परमतापेक्षं विशेषणमित्यर्थस्य तत्त्वमुपात्तं, यतः काणभुजमतनिरूपितो बुद्धकपिलायुक्तश्चार्थो व्यभिचारी, सत्ताद्रव्यत्वादिसामान्यविशेषरूपं परित्यक्तपरस्परस्वात्मा खपुष्पवदसन्नेवेष्यते, नहि विशेषाः सम्भावयितुं शक्याः अन्वयिनैकेन शून्याः, न चास्ति सामान्यं, निर्विशेषत्वात् इत्यादिदोषसंस्पर्शपरिजिहीर्षया विशेषणमाश्रीयते, तस्यानर्थत्वादेकनयाभिप्रायमात्रत्वादिति, अतो व्यभिचाराद् युक्तं तत्त्वशब्दोपादानम् , स्वमतमप्यङ्गीकृत्यैकनयावलम्बनमनर्थ एव तत्त्वशब्देन व्युदस्यते // अथवा किमस्माकं परमतेनैकनयावलम्बनेन च यदेव निःशकं तदेवाश्रयाम इति विग्रहान्तरं दर्शयन्नाह--तत्त्वेन वार्थानां श्रद्धानमिति / इदमप्यर्थकथनं न तु त्रिपदस्तृतीयातत्पुरुषः सम्भवति, एवं च दृश्यम्-अर्थानां श्रद्धानमर्थश्रद्धानं तत्त्वेनार्थश्रद्धानं तत्त्वार्थश्रद्धानमिति, वाशब्दः पक्षान्तरप्रदर्शनार्थः, अयं वा पक्ष आस्थेय इति / तत् इति पूर्वसूत्रोक्तं निर्दिशति Page #59 -------------------------------------------------------------------------- ________________ सूत्रं 2 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् “सम्यग्दर्शन मिति लक्ष्यं लक्षति, तत्त्वेनेति कोऽर्थ इत्यत आह-तत्त्वेन भावतो निश्चितमित्यर्थ इति / तत्त्वेनेत्यस्य विवरणं, भावेनेति चोपयुक्तस्य निश्चयनयमताल्लभ्यत इति कथयति / अथवा भावेनेति स्वप्रतिपच्या, नो मातापित्रादिदाक्षिण्यानुरोधात् नवा धनादिलाभापेक्षकृतकमात्रश्रद्धानं निश्चितपरिज्ञानं तदेव तथ्यं यजिनेभोषितमुपलब्धं वा, इत्येवं समासकल्पनाद्वयं निर्दिश्यावयवार्थ दर्शयन्नाह-तत्त्वानीत्यादि / तत्त्वानि इत्यविपरीतभावव्यवस्थानि नियतानि जीवादीनि इति / जीवा उपयोगलक्षणा (२-८)आदिर्येषां सूत्रक्रममाश्रित्य तानि जीवादीनि / तत्त्वार्थशब्दयोर्विशेष्यकल्पनामाश्रित्याह-त एव चाथों इति / त एव चेति अर्थापेक्षया पुंल्लिङ्गनिर्देशः, त एव जीवादयः, अर्था अर्यमाणत्वाद् अनादिसादिपारिणामिकादिना भावेन जीवपुद्गला अनादिपारिणामिकेन च जीवत्वेनोपयोगस्वरूपेण सादिपारिणामिकेन च मनुष्यनारकतिर्यग्देवादिना, पुद्गला अप्यजीवत्वेनानुपयोगस्वरूपेणानादिपारिणामिकेन च सादिपारिणामिकेन कृष्णनीलादिना परिच्छिद्यमानत्वात् अर्था इत्युच्यन्ते / धर्माधर्माकाशास्तु अनादिपारिणामिकेनैव गतिस्थित्यवगाहस्वभावेन परिच्छिद्यन्ते, यतो न कदाचित् तामवस्थामत्याक्षुस्त्यजन्ति त्यक्ष्यन्ति वा। परतस्तु सादिपारिणामिकेनापि परिच्छिद्यन्त एव, यथोक्तमाकाशादीनां त्रयाणां परप्रत्ययो नियमत इत्यतः परिच्छिद्यमानत्वादर्था इत्युच्यन्ते // श्रद्धानमित्यस्यार्थ निरूपयति-श्रद्धानं तेषु प्रत्ययावधारणमिति / अनेन श्रद्धानमित्येतल्लक्षणं तेषु प्रत्ययावधारणमिति कथयति / तेषु इति जीवादिषु // ननु च षष्ठयर्थ प्राक् प्रदर्श्य सप्तम्यर्थकथनमिषष्ठीसप्तम्योः सितम्या - दानीमसाम्प्रतमिति / उच्यते-एतत् कथयति, प्रायः षष्ठीसप्तम्योर भेद एव दृश्यते, यथा गिरेस्तरवः गिरौ तरव इति, ये हि तस्यावयवास्ते तस्मिन् भवन्ति, एवमत्रापि यजीवादीनां श्रद्धानं तज्जीवादिषु विषयेषु भवतीति न दोषः / प्रत्ययावधारणमिति, प्रत्ययेन प्रत्ययात् प्रत्यये प्रत्ययस्थावधारणमिति / यदा वित् प्रत्ययेनावधारणं, तदा आलोचनाज्ञानेन श्रुताद्यालोच्य एवमेतत् तत्वमवस्थितमित्यवपारयति / अवधारणमिति च कतेरि भावे वा, जीवोऽवधारयति, तस्य चावधारणं रुचिरिति / अथवा प्रत्ययेनेति कारणेन निमित्तेनावधारणम् / किं निमित्तमिति चेत्, तदावरणीयकर्मणां भयः क्षयोपशमो वा, तेन निमित्तेनावधारयति एतदेव तत्त्वम् / अथवा उत्पत्तिकारणं प्रत्ययः, खभावोधिगमो वा, तेन प्रत्ययेन कारणेनेति, एवं तत्त्वमवस्थितमित्यवधारयति / तस्माद् वा क्ष्यादिकादवधारणम् / सति वा तस्मिन्नवधारयति / षष्ठीपक्षेऽपि प्रत्ययस्य-विज्ञानस्यावधारणं अन्यमतपरिकल्पिततत्त्वादपास्य तद्विज्ञानं जैन एव तत्त्वेऽवधारयति, एतदेव तत्त्वं शेषोऽपरमार्थ इति / एवं तत्त्वार्थश्रद्धानमिति विवृतं पदं, सम्यग्दर्शनमिति तु पूर्वयोग एव विवृतं न तद् विवृणोति / एतत् पुनः सम्यग्दर्शनं कथमुत्पन्नं सत् परेण ज्ञायते किं चिह्नमस्योत्पन्नस्येति ? विहं दर्शयति-तदेवमित्यादि / तद् इति तत्त्वार्थश्रद्धानं निर्दिशति / एवमित्यवय कथंचि Page #60 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 वप्रतिभागेन निर्धारित प्रशमादिचिह्नमवबुध्यस्व / सुपरीक्षितप्रवक्तप्रवाच्यप्रवचनतत्त्वा ___ मिनिवेशाद् दोषाणामुपशमात् प्रशम इत्युच्यते, इन्द्रियार्थपरिभोगप्रशमादिव्याख्या व्यावृत्तिर्वा प्रशमः, तस्य प्रशमस्याभिव्यक्तिः-आविर्भावश्चिरं लक्षणं भवति सम्यग्दर्शनस्य / यो हतत्त्वं विहायात्मतातत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनसम्पन्न इति / संवेगः-सम्भीतिः जैनप्रवचनानुसाराद् यस्य भयं नरकादिगत्यवलोकनाद्भवति, त एव जीवाः स्वकृतकर्मोदयानरकेषु तिर्यक्षु मनुजेषु महद् दुःखं शारीरमानसशीतोष्णादिद्वन्द्वापातजनितं भारारोपणाद्यनेकविधं दारिद्यदौर्भाग्यादि चानुभवति तद् यथैतन् न भविष्यति तथा यत्नं करोमीत्यनेनापि संवेगेन लक्ष्यते, समस्त्यस्य सम्यग्दर्शनमिति / निर्वेदो-विषयेष्वनभिषङ्गोऽहंदुपदेशानुसारितया यस्य भवति, यथेहलोक एव प्राणिनां दुरन्तकामभोगाध्यवसायोऽनेकोपद्रवफलः परलोकेऽप्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रद इत्यतोन किश्चिदनेन उज्झितव्य एवायमतिप्रयत्नेनेत्येवंविधनिर्वेदाभिलक्ष्यं सम्यग्दर्शनमिति / अनुकम्पा-घृणा कारुण्यं सत्त्वानामुपरि, यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च, नैतेषामल्पाऽपि पीडा मया कार्येति निश्चित्य चेतसाऽऽर्पूण प्रवर्तते स्वहितमभिवाञ्छनित्यनेनापि चिह्नयते रुचिस्तत्त्वप्रवणा / आस्तिक्यमिति अस्त्यात्मादिपदार्थकदम्बकमित्येषा मतिर्यस्य स आस्तिकः तस्य भावः तथापरिणामवृत्तिता आस्तिक्यम्, सन्ति खलु जैनेन्द्रप्रवचनोपदिष्टा जीवपरलोकादयः सर्वेऽर्था अतीन्द्रिया इति, एवंरूपेणाप्यास्तिक्येन ज्ञायते सम्यग्दर्शनयुक्तोऽयमिति / अत एवैषां प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यानां अभिव्यक्तिः-उद्भवो-जन्म सैव लक्षणं-चिह्नमस्योत्पन्नस्येति। मौनीन्द्रप्रवचनानुसाराच, यदा प्रशमादय आश्रीयन्ते तदा यदपरे चोदयन्ति मिथ्यादृष्टेरप्येवं सम्यग्दर्शनं चिन्हयेतेति तद दूरांपास्तं भवति। नहि तेषामहेंदुपदेशानुसारात प्रशमादयो जायन्ते, तद्विपरीतमिथ्याज्ञानसमन्वयात् तु यथाकथश्चिदविदितपरमार्थाः प्रवर्तमानाः प्रशमादिवातेन पीडयन्ते / सम्प्रति व्याख्याय रुचेलक्षणं निगमयति-तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति / सामानाधिकरण्यं चातः कृतवान्, न यतोऽस्त्यनयोरन्यत्वरूपो भेद इति यथाभिन्नरूपो धूमः, यथाऽनिरुष्ण इत्येवं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति // 2 // ____ एवं निर्धारिते सम्यग्दर्शनस्वरूपे आह-सर्व सत्पद्यमानं वस्तु हेतुमपेक्ष्योत्पद्यते थटादय इव मृदादिना, एवमिदं प्रागवस्थायां मिथ्यादृष्टेरप्रकटीभूतमुत्तरकालमुपजायमानं प्रशमादिना लक्ष्यते, तस्य पुनरुत्पत्तौ को हेतुरित्युच्यते सूत्रम्-तनिसर्गादधिगमाद् वा // 1-3 // टी०-तच्छब्द एतच्छब्दार्थे मत्वेत्याह 1' सर्वेषामतीन्द्रियाः' इति ख-पाठः / 2 'दूरादपास्तं' इति क-ख-पाठः / Page #61 -------------------------------------------------------------------------- ________________ सूत्रं 3] स्वोपज्ञभाष्य-टीकालङ्कृतम् __ भा०-तद् एतत् सम्यग्दर्शनं विविधं भवति। निसर्गनिसमाधिगमः सम्यग्दर्शनम् अधिगमसम्यग्दर्शनं च। निसगोंदधिगमाद् वर्णनम् वोत्पद्यत इति द्विहेतुकं विविधम् / निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनान्तरम् / ज्ञानदर्शनोपयोगलक्षणो जीव इति वक्ष्यते (2-8) / तस्यानादौ संसारे परिभ्रमतः कर्मत एव कर्मणः स्वकृतस्य बन्धनिकाचनोदयनिर्जरापेक्षं नारकतिर्यग्योनिमनुष्यामरभवग्रहणेषु विविधं पुण्यपापफलमनुभवतो ज्ञानदर्शनोपयोगस्वाभाव्यात् तानि तानि परिणामाध्यवसायस्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि सतः परिणामविशेषादपूर्वकरणं तादृग भवति येनास्यानुपदेशातू सम्यग्दर्शनमुत्पद्यत इत्येतत् निसर्गसम्यग्दर्शनम् // अधिगमः अभिगम आगमो निमित्तं श्रवणं शिक्षा उपदेश इत्यनर्थान्तरम् / तदेवं परोपदेशाद् यत् तत्त्वार्थश्रद्धानं भवति तदधिगमसम्यग्दर्शनमिति // टीतदेतदिति / एतदित्युक्तेऽप्यनेकस्य विषयस्य प्रत्यक्षस्य एतच्छब्दवाच्यस्य सम्भवात् प्रकृतेन व्यवच्छेदं करोति–सम्यग्दर्शनमिति / निमित्तद्वयेनोपजायमानत्वाद् विविधमित्याह, न पुनरत्र मुख्यया वृत्त्या भेदः प्रतिपादयितुमिष्टः, कारणस्य पृष्टत्वादिति, तेनैव निमित्तद्वयेन व्यपदिशन्नाह-निसर्गसम्यग्दर्शनं अधिगमसम्यग्दर्शनं चेति / आत्मनस्तीर्थकराद्युपदेशदानमन्तरेण खत एव जन्तोर्यत् कर्मोपशमादिभ्यो जायते तत् निस सम्यग्दर्शनम्, यत् पुनस्तीर्थकराद्युपदेशे सति बाह्यनिमित्तसव्यपेक्षमुपशमादिभ्यो जायते तत् अधिगमसम्यग्दर्शनमिति, च शब्दो भिन्ननिमित्तप्रदर्शनपरो निसर्गसम्यग्दर्शनस्य निसर्ग एव प्रयोजनमितरस्य त्वधिगम एव, न पुनरेकस्यैव सम्यग्दर्शनोत्पत्तौ द्वयं निमित्तं भवतीति एतदेव वाऽ(चा?) समासकरणे प्रयोजनं चशब्देन धोतितमिति, इतरथा ह्येवं वक्तव्यं स्यात् निसर्गाधिगमाभ्यामिति, वाशब्दोऽपि च न कर्तव्यो भवति एकस्यैवोभयरूपस्य निमितस्याश्रितत्वादिति / तदेवं लघुनोपायेन सिद्धेऽर्थे यद भिन्नविभक्तितांशास्ति तत् कथयति-भिन्ने खेल्वेते कारणे / अथ कथं तदेवं व्यपदिश्यते निसर्गसम्यग्दर्शनं कथं वाऽधिगमव्यपदेशं प्रतिपद्यत इत्यत आह-निसर्गादधिगमाद वोत्पद्यत इति / इति तस्मादित्यस्यार्थे, यच्छब्दस्तु यत्तदोर्नित्यसम्बन्धादेव नीयते, यस्मानिसर्गादधिगमाच्च कारणादुपजायते तसात् तेनैव व्यपदिश्यते यवाङ्कुरवत्, यत्तदपूर्वकरणानन्तरमाव्यनिवृत्तिकरणं तत् निसर्ग इति भण्यते / तस्मान् कारणात् निसर्गाख्यादुत्पद्यते याऽसौ रुचिः सा कार्याख्या / तथा योऽसौ बाह्य उपदेशः स त(य?)त्र हेतुर्भवति तत उत्पद्यते या रुचिः सा तत्कार्या भवतीत्येवं कार्या रुचिः कारणं 1 'खल्वेव ' इति क-ख-पाठः / 2 'सा तत्कार्याख्या' इतिग-पाठः / Page #62 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् - [अध्यायः 1 निसर्गोऽधिगमो वेति / एवं चःकार्यकारणभावे दर्शिते चोदक आह-यदि मुख्यया वृत्त्या हेतुः प्रतिपाद्यते सूत्रेण तथा सति किमेवं पुरस्ताद व्यपोदेशि भवता तदेतत् सम्यग्दर्शनं द्विविधमिति ? एवं तु वाच्यमासीत्-तस्य सम्यग्दर्शनस्य द्वौ हेतू इति, तावेव सूत्रप्रतिपाद्यौ हेतु प्रदर्शनीयौ, न पुनः सूत्रेणानभिसमीक्षितं द्विविधत्वमित्येवं पर्यनुयुक्तः स्माह-द्विहेतुकं द्विविधमिति / द्वौ निसर्गाधिगमाख्यौ प्रत्येकं असमासकरणज्ञापितौ हेतू यस्य तद् द्विहेतुकम्, स तु द्विविधमिति मया व्यपदिष्टं, एतत् कथयति कारणद्वैरूप्यात् कार्यद्वित्वं न पुनमुख्यभेदप्रतिपादनं प्रेप्सितं, इह तु सूत्रे निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानत इति (1-7) / विधानग्रहणात् क्षयसम्यग्दर्शनादिविधानं प्रतिपादयिष्यते / यदि तद्युत्पत्ती निसर्गः कारणमभ्युपेयते तथा सति वाच्यो निसर्गः किमात्मकोऽसाविति ? उच्यते-निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनर्थान्तरमित्यादि / निसृज्यते-त्यज्यतेऽसौ कार्यनिवृत्तौ सत्यामिति निसर्गः, नहि कार्ये उत्पन्ने कारणेनापेक्षितेन किश्चित् प्रयोजनमस्ति, उत्पन्ने हि सम्यग्दर्शने अनिवृत्तिकरणं त्यज्यते, प्रयोजनाभावात, न चात्यन्तं तस्य त्यागमभ्युपगच्छामो, यतस्तदेव कारणं तेनाकारेण परिणतमिति, उत्फणविफणप्रसारिताकुण्डलितभुजङ्गवत, (उत-) फणपरिणामेन यो हिरजनिष्ट स एव विगतफणो मुकुलमाधाय सन्तिष्ठते, उत्थितासीनशयितनिकुटितपुरुषवद्, वा उत्थितोऽपि पुरुषः पुरुष एव निषण्णः शयितो वा, नावस्थामात्रभेदादवस्थावतो भेदः शक्योऽभ्युपेतुम्, परिशटितपत्रापरिणामभेदः ङ्गारकितपुष्पितपलाशवत् परिणामस्यानेकरूपत्वात् / परिणामिनोऽन्वयि द्रव्यस्य न सर्वथा भेदस्तत्त्वात् / एवमिहाप्यनिवृत्तिरूपो निसर्गः परिणामः सम्यग्दर्शनाकारेण वर्तते, पूर्वावस्थां विहाय परिणामः, अन्वयि जीवद्रव्यं तु ध्रुवं परिणामि चोक्तम्, सृजेः परिणामेप्रतीतत्वात् स्वभाव इत्याह / यतः परिणामो हि प्रयोगेण घटादीनां विस्रसा चाभ्रेन्द्रधनुरादीनां दृष्ट इत्यतः वैस्रसिकपरिणामं कथयत्यनेन, नासावन्येन प्राणिना तस्य क्रियतेऽनिवृत्तिरूपपरिणाम इति, स्वेनैवामनाऽसौ भावोजनित इति स्वभाव इत्युच्यते, नार्थान्तरवृत्तित्वमस्ति व्यवहारात् , निश्चयात् तु सर्वशब्दानां भिन्नार्थत्वम् / स पुनरनिवृत्तिस्वरूपपरिणामः कस्य भवति कथं वा प्राप्यते ? इत्युक्ते उत्तरं भाष्यमाह-ज्ञानदर्शनेत्यादि / येनास्यानुपदेशात् सम्यग्दर्शनमुत्पद्यते इत्येतत्पर्यन्तं यदुक्तं कस्येति ? जीवस्येति ब्रूमः / किंलक्षणो जीव इति ? / नएपरिज्ञाते जीवे तस्यैष इति शक्यं प्रतिपत्तुमिति / उच्यते-ज्ञानाद्युपयोगलक्षण इति / उपयोगरूपो जीवः ज्ञानं च दर्शनं च तावेवोपयोगी लक्षणमस्य स ज्ञानदर्शनोप योगलक्षण इति, ज्ञानं नाम यजीवादीनां पदार्थानां विशेषणरिच्छेदितया प्रवर्तते तदू ज्ञानम्, यत् पुनस्तेषामेव सामान्यपरिच्छेदप्रवृत्तं स्कन्धावारोपयोगवत् तद् दर्शनमभिधीयते / न च कश्चिदेवमात्मकः प्राणी विद्यते य आभ्यां रहित इति, 1 'यपादिशि' इति क-ख-पाठः / 2 'युक्तमाह' इति क-ख-पाठः / Page #63 -------------------------------------------------------------------------- ________________ सूत्र 3-] स्वोपज्ञभाष्य टीकालङ्कृतम् 37 येऽपि हि प्रकृष्टावरणकर्मपटलाच्छादिता निगोदादयः पश्चैकेन्द्रिया जीवनिकायास्तेऽपि साकारानाकारोपयोगयुक्ता इति / यतः स्पर्शनेन्द्रियं हि तेषामस्ति, तच्च साकारानाकारोपयोगस्वरूपमतो व्यापिलक्षणम् / ज्ञानदशनोपयोगी लक्षणमस्त्येतत् सूक्तमिति / इतिशब्दः एवकारार्थे, जीव एवोपयोगलक्षणो न परमाण्वादय इति / वक्ष्यते-अभिधास्यते, उपयोगलक्षणो जीव इत्यस्मिन् द्वितीयाध्यायवर्तिनि सूत्रे, अतो नितिस्वरूपस्य जीवस्य स निसर्गरूपः परिणाम इति / यदप्युक्तं कथं प्राप्यत इति, तत् कथयति-तस्यानादावित्यादिना / तस्येति निर्धारितस्वरूपं जीवमाह / तस्य जीवस्यानुभवत इत्यनेन निसर्गप्राप्तिरीतिः सहाभिसम्बन्धः / तथा स्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि सत . एतानि सर्वाणि जीवविशेषणानि / अनादौ संसार इत्यस्य तु नरकादिभवग्रहणेष्वित्येतद विशेषणम्, कर्मत एव कर्मणः स्वकृतस्येति त्रयाणां विशेषणविशेष्यता, बन्धनिकाचनोदयनिर्जरापेक्षं विविधं इत्येतद् द्वयं पुण्यपापफलमित्यस्य विशेषणम्, अनुभवत इत्यस्य तु हेतुग्रन्थोऽयं ज्ञानदर्शनोपयोगस्वाभाव्यादिति, तानि तानीत्यादिपदद्वयं गच्छत इत्यस्य व्याप्यं कर्म, एवं सम्बन्धे कथिते विवृणोति-अविद्यमान आदिरस्य सोऽयम् अनादिः, न खलु संसारस्यादिदृष्टः केवलज्योतिषाऽपि प्रकाशिते समस्तज्ञेयराशौ, अतस्तस्याभावादनुपलब्धिः, न तु ज्ञानस्याशक्तिग्रहणं प्रतीति / सन्धावन्ति यत्र वकर्मभिः प्रेर्यमाणा जन्तवः स संसार इति, उत्पत्तिस्थानानि नरकादीनि, निश्चयनयस्य तु सर्व स्वप्रतिष्ठं वस्त्विति आत्मैव, त एव वा प्राणिनः सन्धावन्तस्तांस्तान् परिणामानारकादीन संसार इति कथ्यते, अनादौ संसार इति च सृष्टिं निरस्यति / नहि कश्चिजगतः स्रष्टा .. कर्ता समस्ति पुरुषः, यथैव हि तेन केनचित् सृष्टाः प्राण्यादि (१)जगत्कर्तृत्ववाद वादः मन्तस्तथाऽन्येऽपि प्राणिनः / कञन्तराभ्युपगमे चानवस्था / सति निरासः ___चोपकरणकलापे दलिकद्रव्ये च निपुणाः कुम्भकारादयः कार्योसादाय यतमानाः फलेन युज्यन्ते नान्यथा, न चाकाशादीनां कारणमुपलभ्यते किश्चित, नापि किश्चित् सर्गे जगतः स्रष्टुः प्रयोजनमस्ति प्रेक्षापूर्वकारिणः / क्रीडापर्थमिति चेत्, कुतः सर्गशक्तिः? प्राकृतत्वात् / सुखितदुःखितदेवनारकसत्त्वोत्पादने चाकस्मिकः पक्षपातो द्वेषिता चेति / एवं कार्यकारणसम्बन्धः सभवायपरिणामनिमित्तनिवर्तका दिरूपः सिद्धिविनिश्चय-सृष्टिपरीक्षातो योजनीयो विशेषार्थिना दूषणद्वारेणेति / कर्मत इति पञ्चमी, ज्ञानावरणादिकाष्टविधादुदयप्राप्तात् क्रोधाद्याकारपरिणामहेतुकात् यद्यदन्यत् कर्मोपचितज्ञानावरणादि तस्य कर्मणः स्वकृतस्येति। तच्च कर्मतो यदुपादायि कर्म तत् स्वेनात्मना कृतं न पुनः प्रजापतिप्रभृतिना तत् कर्म संश्लेषितमात्मसामर्थ्यात्,एतत् स्याद् यदाऽऽदिकर्म प्रजापतिरकरोत् सर्वप्राणिनां ततोऽन्या कर्मसन्ततिः स्वकृतेतीष्टमेव प्रसाधितमिति, उच्यते-एवममेवैवकारः प्रयुज्यते, कर्मत एव सर्व कर्म बध्यते, अनादित्वात्, संसृतेरादिकमैव नास्ति, Page #64 -------------------------------------------------------------------------- ________________ 38 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 प्रतिषिद्धश्च कर्ता / तदपि वा कर्मत एव बध्यते कर्मत्वादिदानीन्तनकर्मवत् / एवंविधस्यास्योपात्तस्य कर्मणः फलमनुभवत इति / किमपेक्षं पुनस्तत्फलमाह-बन्धनिकाचनोदय निजेरापेक्षामिति / बन्धो नाम यदाऽऽत्मा रागद्वेषस्नेहलेशावलीढस्थितिबन्धादि. दि. सकलात्मप्रदेशो भवति तदा येष्वेवाकाशदेशेष्ववगाढस्तेष्वेवावस्थितान् - कार्मणविग्रहयोग्याननेकरूपान् पुद्गलान् स्कन्धीभूतानाहारवदात्मनि परिणामयति सम्बन्धयतीति स्वात्मा ततस्तानध्यवसायविशेषाज्ज्ञानादीनां गुणानामावरणतया विभजते हंसः क्षीरोदके यथा, यथा वा आहारकाले परिणतिविशेपक्रमवशादाहर्ता रसखलतया परिणतिमानयत्यनाभोगवीर्यसामर्थ्यात्, एवमिहाप्यध्यवसायविशेषात् किश्चिद् ज्ञानावरणीयतया किश्चिद् दर्शनाच्छादकत्वेनापरं सुखदुःखानुभवयोग्यतया परं च दर्शनेचरणव्यामोहकारितयाऽन्यन्नारकतिर्यअनुष्यामरायुष्केनान्यद् गतिशरीराद्याकारेणाऽपरमुच्चनीचगोत्रानुभावेनाऽन्यद् दानाद्यन्तरायकारितया व्यवस्थापयति / एष प्रकृतिबन्धः। स्थितिबन्धस्तु, तस्यैवं प्रविभक्तस्य अध्यवसायविशेषादेव जघन्यमध्यमोत्कृष्टां स्थिति निवर्तयति ज्ञानावरणादिकस्यैष स्थितिबन्धः / अनुभावबन्धस्तु, कृतस्थितिकस्य स्वस्मिन् काले परिपाकमितस्य याऽनुभूयमानावस्था शुभाशुभाकारेण घृतक्षीरकोशातकीरसोदाहृतिसाम्यात्सोऽनुभाववन्धः / प्रदेशबन्धस्तु, अनन्तानन्तप्रदेशान् स्कन्धानादायैकैकस्मिन् प्रदेशे एकैकस्य कर्मणो ज्ञानावरणादिकस्य व्यवस्थापयतीत्येष प्रदेशबन्ध इति / निकाचना तु स्पृष्टानन्तरभाविनी, स्पृष्टता तु नोक्ता भाष्यकारेण पृथग् निकाचनामेंद एवेतिकृत्वा / कथमिति चेत्, भावयामः, बद्धं नामात्मप्रदेशैः सह श्लिष्टं, यथा सूचयः कलापीकृताः परस्परेण बद्धाः कथ्यन्ते, ता एवाग्नौ प्रतिक्षिप्तास्ताडिताः समभिव्यज्यमानान्तराः स्पृष्टा इति व्यपदिश्यन्ते,ता एव यदापुनः पुनः प्रताप्य घनं घनेन ताडिताःप्रनष्टस्वविभागाएकपिण्डतामितास्तदा निकाचिता इति व्यपदेशमश्नुवते, एवं कर्माप्यात्मप्रदेशेषु योजनीयम् / तस्यैवं निकाचितस्य प्रकृत्यादिबन्धरूपेणावस्थितस्य उदयावलिकाप्रविष्टस्य प्रतिक्षणमुदयमादर्शयतो याऽवस्था शुभाशुभानुभावलक्षणा स उदयो विपाक इति / उदयानुभावसमनन्तरमेवापेतस्नेहलेशं परिशटत् प्रतिसमयं कर्म निर्जराव्यपदेशमङ्गीकरोतीति / बन्धादयः कृतद्वन्द्वास्ता अपेक्षत इति कर्मण्यण् / बन्धनिकाचनोदयनिजेरापेक्षं, किं तत् फलं, कथं पुनस्तत्फलं बन्धाद्यपेक्षते ? उच्यतेयतो बन्धादिष्वसत्सु न तत्सम्भव इति / क ? अनुभवतो, नन्वभिहितमनादौ संसार इति, स पुनः किंभेद इति एतत् कथयति-नारकेत्यादि / नारकतिरश्चोर्योनिः-उत्पत्तिस्थानम्, तच्च द्वितीये वक्ष्यत इति / मनुष्याचामराश्च तेषां भवः-प्रादुर्भावस्ते भवन्ति यत्र / ग्रहणानि-आदानानि तच्छरीरग्रहणानि इत्यर्थः / तेषु च तेषु भवेषु अनादिसंसारात्मसु, विविधमित्यनेकविधम्, १'तीति ततः' इति ग-पाठः / 2 'दर्शनावरण' इति ख-टी-पाठः / 3 'समभिपद्यमानान्तरा' इति खटी-पाठः / 4 'कानुभवो' इति क-ख-पाठः / Page #65 -------------------------------------------------------------------------- ________________ सूत्रं 3] स्वोपज्ञमाष्य-टीकालङ्कृतम् यतः सातसम्यक्त्वहास्यादिकाः प्रकृतयो विविधास्तासां फलमपि विविधमेवेति / तथा ज्ञानावरणाद्या अपि विविधास्तत्फलमपि विविधमुच्यते, पुण्यमनुग्रहकारि सातादि, पापमुपघातकारि ज्ञानादिगुणानाम्, तयोः पुण्यपापयोः फलं-खरसविपाकरूपं पुण्यपापफलम्, तदनुभवतो जीवस्योपभुञ्जानस्य, अनु पश्चादर्थे, पूर्व ग्रहणं पश्चात् फलोपभोग इति / कथमनुभवत इत्याह-ज्ञानदर्शनोपयोगस्वाभाव्यात्, ज्ञानदर्शने व्याख्याते तयोः खाभाव्यं तस्मात् ज्ञानदर्शनोपयोगस्खाभाव्यादिति / एतदुक्तं भवति–यदा यदोपभुङ्क्ते तदा तदा चेतयते सुख्यहं दुःखितोऽहमित्यादि, साकारानाकारोपयोगद्वयसमन्वितत्वादवश्यतया चेतयत इति, उत्तरग्रन्थेनापि सम्बन्धोऽस्य / तानि तानीत्यादि / ज्ञानदर्शनोपयोगस्खामाव्यादेव तानि तानि परिणामान्तराणि याति न तु ताभ्यां रहित इति / तानि तानीति मुहूताभ्यन्तरेऽपि - मनसश्चलत्वाद् बहूनि गच्छति, तानि चेह शुभानि ग्राह्याणि, यतो दर्शन सम्प्राप्नोति शुभाज्ञा(?)मास्कन्दनिति, तेषां बहुत्वाद् वीप्सया निर्दिशति / अथवा यान्येव पूर्वाण्यध्यवसायान्तराणि तान्येव पराध्यवसायतया वर्तन्त इत्यन्वयं दर्शयति–परिणामश्चानेकरूपो विज्ञानादिस्वभावः चेतनाचेतनद्रव्यगतः, तत्राचेतनः परमाण्वादीनां शुक्लादिः, चेतनस्य तु विज्ञानदर्शनादिविषयस्वरूपपरिच्छेदात्मकः / तथा देवाद्यवस्था पुद्गलात्मिका अविवक्षितचेतनाभावाऽचेतनास्वभावा वेति / अतः परिणामस्य व्यभिचारे विशेषणोपादानमर्थवत्पश्यन्नुवाचेदं परिणामोऽध्यवसायरूप इति / तस्य स्थानान्तराणि मलीमसमध्यतीवाणि, शुमे जघन्ये वर्तित्वात् ततो विशुद्धतरं स्थानमन्यदारोहति, ततोऽपि विशुद्धतममपरमधिगच्छतः प्राप्नुवतो वर्धमानशुभपरिणतेरित्यर्थः, अनेन च गच्छत इति समस्तमिदं चतुर्विधसामायिकोत्पादकाण्डं सूचितं भवति // "सत्तण्हं पयडीणं अन्भिन्तरओ उ कोडिकोडीए / काऊणःसागराणं जइ लहइ चउण्णमेगयरं // "' -विशेषावश्यके गा० 1193 ' अत्र बहु वक्तव्यमित्यतः प्रकृतोपयोगि केवलमुच्यते / स खलु जीवस्तानि शुभान्य ध्यवसायान्तराण्यास्कन्दननाभोगनिर्वर्तितेन यथाप्रवृत्तिकरणेन तामुत्कृष्टां निसर्गाध्यवसाय साय कर्मस्थितिमव हास्य कोटीकोट्याः सागरोपमानामन्तः पयंस्तावत् प्रापप्राप्तिः ___ यति यावत् तस्या अपि पल्योपमासङ्ख्येयभागः क्षपितो भवति तस्मिन् स्थाने प्राप्तस्यातिप्रकृष्टधनरागद्वेषपरिणामजनितः वज्राश्मवद् दुर्भेदकठिनरूढगूढग्रन्थिर्जायते, तत्र कश्चिद् भव्यसत्त्वस्तं भित्त्वाऽपूर्वकरणबलेन प्राप्तानिर्वृत्तिकरणस्तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमासादयति, कश्चिद् ग्रन्थिस्थानाधो निवर्तते, कश्चित् तत्रैवावतिष्ठते, न परतो नाधः प्रसर्पतीति / अत्र चोपदेष्टारमन्तरेण यत् सम्यक्त्वं तन्नैसर्गिकमाचक्षते प्रवचनवृद्धाः / 1 सप्तानां प्रकृतीनां आभ्यन्तरं तु कोटिकोटयाः। कृत्वा सागरोपमाणां यदा लभते चतुर्णामेकतरत् // Page #66 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 एनमेव च विप्रकीर्णमर्थमाख्यातवान् तानि तानीत्यादिना भाष्यग्रन्थेनोत्पद्यत इत्येवमन्तेन / अनादिमिथ्यादृष्टेरपि[इति]। नास्यादिरस्तीत्यनादिः अनादिमिथ्यादृष्टिरस्येत्यनादिमिथ्यादृष्टिः-अप्राप्तपूर्वसम्यक्त्वलाभः, न चास्ति कश्चित् तादृक् कालो यस्मिन्नुपदिश्येतायं मिथ्यादर्शनं प्रतिपन्नवानिति / तथा चागमः "अत्थि अणन्ता जीवा जेहिं न पत्तो तसाइपरिणामो""। तस्यानादिमिथ्यादृष्टेः, अपिशब्दात् सादिमिथ्यादृष्टेरपि, यो हि भव्यः सम्यक्त्वं प्रतिपद्य प्राक पश्चादनन्तानुवन्धिकषायोदयाज्जातव्यलीको मनोज्ञपरमानबद्धमतिर्जघन्येनान्तर्मुहूर्त स्थित्वोत्कर्षेणापापुद्गलपरावर्त पुनः प्रतिपद्यमानः सादिमिथ्याष्टिर्भवति, तस्यापि सतो-भवतः परिणामविशेषात्, परिणामोऽध्यवसायश्चित्तं तस्य विशेषः स एव वा पूर्व जघन्यमङ्गीकृत्य परः परः शुभो विशेष इत्युच्यते, परिणामविशेषश्वेह यथाप्रवृत्तिकरणमभिमतं, ततः परं अपूर्वकरणं, अप्राप्तपूर्व तादृशं अध्यवसायान्तरं जीवेनेत्यपूर्वकरणमुच्यते ग्रन्थि विदारयतः, ततश्च ग्रन्थिभेदोत्तरकालभाव्यनिवृत्तिकरणमासादयति, यतस्तावन्न निवर्तते यावत् सम्यक्त्वं न लब्धमित्यतोऽनिवृत्तिकरणं, ग्रन्थान्तरे प्रसिद्धत्वात् भाष्यकारेणानिवृत्तिकरणं नोपात्तम् / अवश्यतया वा सम्यग्दर्शनं लभमानस्त ल्लभत इति काकाऽभ्युपेतमेव, तदभावेऽभावात् , अतो न कश्चिद् विरोध इति / सम्प्रति निगमयति-यदेवमुपजातमेतन्निसर्गसम्यग्दर्शन मिति / जीवस्य उपयोगस्वाभाव्यात् तदधिगमात् प्राप्यते / कोऽधिगम इति चेत् तदुच्यते-अधिगमोऽभिगम इत्यादि / गमेर्गत्यर्थत्याज्ज्ञानार्थता, गमो ज्ञानं रुचिरिति, अधिको गमोऽधिकं ज्ञानम्, कर्थ वाधिक्यम् ? यस्मात् परतो निमित्ताद् भवति तदाधिक्यादधिकमुच्यते, अभिगमस्तु गुरुमाभिमुख्येनालम्ब्य यज्ज्ञानं सोभिगमः। आगमस्त्वागच्छत्यव्यवंच्छित्त्या वर्णपदवाक्यराशिराप्तप्रणीतः पूर्वापरविरोधशङ्कारहितस्तदालोचनात्तत्त्वरुचिरागम उच्यते, कारणे कार्योपचारात्, नडलोदकं पादरोग इति। निमित्तं तु यद् यद् बाह्यं वस्तूत्पद्यमानस्य सम्यग्दर्शनस्य प्रतिमादि तत् तत् सर्वमागृहीतं, ततो निमित्तात् प्रतिमादिकात् सम्यक्त्वं निमित्तसम्यग्दर्शनमुच्यते। श्रवणं श्रुतिराकर्णनं ततो यज्जायते / शिक्षा-पुनः पुनरभ्यासः, आप्तप्रणीतग्रन्थानुसारी ततो यद भवति / उपदिशतीत्युपदेशो-गुरुरेव देववच्छब्दसंस्कारस्ततो यत् प्रादुरस्ति / एवमेते किश्चिद् भेदं प्रतिपद्यमाना अनर्थान्तरमिति व्यपदिश्यन्ते / एवं पर्यायकथनं कृत्वा सम्पिण्डय कथयति तदेवमित्यादिना // तदधिगमसम्यग्दर्शनम्, एवमित्यनेनोक्तेन भेदनिरूपणेन यदभवति / परोपदेशादित्यनेन तु निमित्तमात्रमाक्षिप्तं ग्राह्यम्, अन्यथोपदेशाच्छब्दादिति [न] व्याप्तिराख्याता स्यात्, यतो न केवलं शब्दादेव भवति, किन्तु कस्यचिद् भव्यस्य प्रतिमाद्या 1 रान्ति अनन्ता जीवा यैः न प्राप्तः त्रसादिपरिणामः / २'यथेवमुपजातमेव / तन्निः' इति क-ख-पाठः / 3 'व्यवस्थित्या' इति ख-पाठः। Page #67 -------------------------------------------------------------------------- ________________ सूत्रं 4 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् लोक्य भवत्येव / परोपदेशात् परोपष्टम्भेन यदुदेति तत्वार्थेषु-जीवादिषु श्रद्धानं-रुचिस्तदधिगमसम्यग्दर्शनमिति // 3 // सम्प्रत्युत्तरसूत्रसम्बन्धं स्वयमेव लगयन्नाह भा०-अत्राह तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् / तत्र किं तत्त्वमिति?। अनोच्यते // 3 // टी-अत्राहेत्यादि / अत्र-एतस्मिस्तत्त्वार्थश्रद्धानलक्षणे सम्यग्दर्शने विषयस्वरूपोपरक्ते व्याख्याते विषयविवेकमजानचोदकोऽनूनुदव-भवता तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्येतदुक्तं, तत्र किं तत्वमिति, तत्रेत्यनेन तत्त्वार्थश्रद्धानशब्दे यस्तत्त्वशब्दस्तत्र किं तत्त्वं किंतस्याभिधेयमिति // ननु चायुक्तोऽयं प्रश्नो, भाष्ये तत्त्वस्य पुरस्तान्निर्णयः कृत इति, तत्त्वानि जीवादीनि वक्ष्यन्ते त एवार्था इत्यस्मिन्, अतो निर्माते तत्त्वे प्रश्नयतो जाडयमवसीयते, उच्यते-न जाडयात् प्रश्नः, सत्यमुक्तं तत्त्वानि जीवादीनि, आदिशब्देन तु अनेकस्याक्षेप इति नास्तीयत्ता, तस्माद भाष्याद् न निर्णयोऽतः इयत्तापरिज्ञानाय प्रश्नः / सरिराह-अत्रोच्यते / अत्र भवत्प्रदर्शिते तत्वशब्दे यदभिधेयं तदियत्तया निवृत्तस्वरूपमुच्यते सूत्रम्-जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् // 1-4 // - टी०–जीवाजीवास्रव इत्यादिना / समासपदं चैतत्, समासपदे च विग्रहमन्तरेण न सुखेन प्रतिपत्तिः परस्मै शक्या कर्तुं इत्यतो विग्रहयति / भा०-जीवा अजीवा आस्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् / एते वा सप्त पदार्थोस्तत्त्वानि / तान् लक्षणतो विधानतश्च पुरताद् विस्तरेणोपदेक्ष्यामः // 4 // टी-जीवा अजीवा इत्यादि / जीवा औपेशमिकादिभावान्विताः साकाराना ____ कारप्रत्ययलाञ्छनाः शब्दादिविषयपरिच्छेदिनोऽतीतानागतवर्तमानेषु जीवादितत्त्वसप्त. कस्य स्वरूपम्। सत समानकर्तृकक्रियाः तत्फलभुजः अमूर्तस्वभावाः / एभिरेव धर्वियुता - अजीवाः धर्मादयश्चत्वारोऽस्तिकायाः / आसूयते यैर्गृह्यते कर्म / आस्रवाः शुभाशुभकर्मादानहेतव इत्यर्थः / बन्धो नाम, तैरास्रवेर्हेतुभिरात्तस्य धर्मणः आत्मना सह संयोगः प्रकृत्यादिविशेषितः / तेषामेवास्रवाणां यो निरोधःलगनं गुप्त्यादिभिः स संवरः / कर्मणां तु विपाकात् तपसा वा यः शाटः सा निर्जरा / बानशमवीर्यदर्शनात्यन्तिकैकान्तिकाबाधनिरुपमसुखात्मन आत्मनः स्वात्मन्यवस्थानं मोक्षः / इतिशब्द इयत्तायाम्, एतावानेव / एष इति भवतः प्रत्यक्षीकृतो वचनेन / सप्त . १'आस्रवः' इति क-ख-घ-टी-पाठः / २'उपशमिकादि' इति क-ख-पाठः / Page #68 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः 1 विधाः सप्त प्रकारा यस्य स सप्तविधः, अर्थोऽर्यमाणत्वात्, एष सप्तविधोऽर्थ इति पदत्रयं र तत्त्वमित्यस्य विवरणम् , तत्त्वमिति वोऽव्युत्पत्तौ तथ्यं सद्भूतं परमार्थ तत्वमित्येकवचने न इत्यर्थः / व्युत्पत्तौ तु जीवादीनामर्थानां या स्वसत्ता सोच्यते, तस्याश्च ___ सत्तायाः प्रतिमेदं प्रतिवस्तु यो मेदस्तमनादृत्यैकत्वमेकत्वाच्चैकवचनमुपात्तवान् // अथैवं कश्चित् चोदयेव-याऽसौ जीवादीनां सत्ता, सा न वैशेषिकैरिवास्मामिर्मिना जीवादिभ्योऽभ्युपेयते यतोऽभिहितम्-"घडसत्ता घडधम्मो तत्तोऽणनो पडाइओ मिनो (विशे० 1722)" / तस्मात् प्रतिवस्तु सा मेत्तव्या, प्रतिवस्तु च भिद्यमाना बहुत्वं प्रतिपद्यत इति बहुत्वाद् बहुवचनेन भवितव्यम् तत्त्वानीति, उच्यते-सामान्येन विवक्षिता सती सैकत्वमिव विभर्ति, मुख्यया तु कल्पनया वस्तुधर्मत्वात् प्रतिवस्तु भेत्तव्या भवति, तदा च बहुवचनेनैव भवितव्यमेवेति, एतदाह-एते वा सस पदार्थास्तत्त्वानीति / एते प्रार प्रत्यक्षीकृताः / वाशब्दो हि प्रतिवस्तु भिद्यमानं तत्त्वं बहुत्वं प्रतिपद्यत इत्यस्य पक्षस्य सूचकः / सप्त च ते पदार्थाश्च सप्तपदार्थाः जीवादयः। तत्त्वानि दृश्यानि, पुण्यपापयोश्च बन्धेतर्भावान्न भेदेनोपादानम् / यद्येवमास्रवादयोऽपि पश्च तर्हि न जीवाजीवाभ्यां सवादीनां भिद्यन्ते / कथमिति चेत्, उच्यते-आस्रवो हि मिथ्यादर्शतत्त्वानां जीवा- नादिरूपः परिणामो जीवस्य / स च कः आत्मानं पुद्गलांच जीवयोरन्तर्भावः विरहय्य 1 / बन्धस्तु कर्म पुद्गलात्मकमात्मप्रदेशसंश्लिष्टम् / संवरोऽप्यास्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः / निर्जरा तु कर्मपरिशाटः, जीवः कर्मणां पार्थक्यमापादयति स्वशक्त्या। मोक्षोऽप्ययमात्मा समस्तकर्मविरहित इति / तस्मात् जीवाजीवास्तत्त्वमिति वाच्यम् / उच्यते-सत्यमेतदेवम्, किंतु इह शाखे शिष्यः प्रवृत्ति कारितोऽस्मात् कारणात् ज्ञानादिकात् सेव्यमानाद् भवतो मोक्षावाप्तिर्भविष्यत्यन्यथा संसार इति, तस्य च यदि मुक्तिसंसारकारणे न भेदेनाख्यायेते ततोऽस्य सम्यक्प्रवृत्तिरेव न स्यात् / यदा त्वेवं कथ्यते, आस्रवो बन्धश्चैतदद्वयमपि मुख्यं तत्त्वं संसारकारणम्, संवरनिर्जरे च मुख्यं तत्त्वं मोक्षकारणमिति, तदाऽनायासात् संसारकारणानां हेयतया यतिष्यते मुक्तिकारणानां चादेयतयेति, तस्माच्छिष्यस्य हेयादेयप्रदर्शनायाऽऽस्रवादिचतुष्टयमुपात्तम् / यत् तु मुख्यं साध्यं मोक्षः यदर्था प्रवृत्तिस्तत् कथमिव न प्रदर्येतेति, तस्माद् युक्तं यत् पञ्चाप्युपादीयन्त इति / किं पुनरेषां जीवादीनां लक्षणमग्नेरिवौष्ण्यम् ? के वा भेदा जीवादीनां यथा तस्यैवानेस्तार्णपादिय इत्युक्ते तान् लक्षणत इत्याद्याह / तान् जीवादीन् लक्षणत:स्वचिदन, विधानतो-भेदेन, चशब्दाद् मेदानपि सप्रभेदान् वक्ष्यामि, पुरस्तात्उपरिष्टात्, किं सक्षेपेणोत विस्तरेण ? विस्तरेणेत्याह / कथमिति चेत्, उच्यते-जीवस्य लक्षणमिदमुपयोगलक्षणो जीव इति (2-8), तदेव लक्षणं विधानतः कथयिष्यति, स द्विविधः, साकारोऽनाकारश्च, पुनस्तावष्टचतुर्भदाविति ( 2-9), तथा संसारिणो मुंक्ताध 1 'चाव्युत्पत्तौ' इति क-ख-पाठः। १घटसत्ता घटधर्मः तस्मादनन्यः पटादितो मिन्नः। Page #69 -------------------------------------------------------------------------- ________________ सूत्र 5 ]. स्वोपज्ञभाष्य-टीकालकृतम् (2-10 ), पुनर्विस्तरः संसारिणस्वसाः स्थावराश्वेत्यादिना (2-12 ) / तथा अजीवादीनां धर्मादीनां लक्षणं गतिस्थित्यादि ( 5-17 ), धर्माधर्माकाशानां त्वेकत्वान्नास्ति विधानम् ( 5-5), प्रदेशान् वाऽङ्गीकृत्यासङ्ख्येयाः प्रदेशाः धर्माधर्मयोः (5-7), जीवस्य च (5-8 ), आकाशस्यानन्ताः (5-9) इति स्यादेव विधानम् / आस्रवं लक्षणेन भणिष्यति, कायवाचनःकर्म योगः (6:1) स आस्रवः (6-2) इति, पुनस्तस्य भेदं शुभः पुण्यस्येत्यादि ( 6-3,4) / बन्धस्य लक्षणं भणिष्यति, सकषायत्वात् जीव इत्यादिकम् (8-2), पुनस्तस्य विधानं प्रकृतिस्थित्यादिकम् ( 8-4) / तथा संवरलक्षणं आस्रवनिरोधः संवर इति (9-1), पुनस्तस्यैव विधानं स गुप्तिसमितिधर्मादिकम् ( 9-2) / निर्जराया लक्षणं वक्ष्यति, तपसा निर्जरा चेति (9-3), पुनस्तद्भेदा अनशनादयः (9-19) / मोक्षः कृत्लकमेक्षयलक्षणः (10-3), प्रथमसमयसिद्धादि विधानम् // 4 // ... अत्राह-कथं पुनरमी जीवादयोऽधिगन्तव्या इति ? उच्यते-नामादिभिरनुयोगद्वारैस्तथा प्रत्यक्षानुमानाभ्यां (प्रमाणाभ्यां) नैगमादिभिश्च वस्त्वंशपरिच्छेदिमिर्नयैस्तथा निर्देशस्वामित्वादिभिः सत्सङ्ख्याक्षेत्रादिभिश्च / तत्र कतिभेदा जीवा इति पृष्टे चतुर्भेदताख्यानायाह सूत्रम्-नामस्थापनाद्रव्यभावतस्तन्न्यासः // 1-5 // ... टी-इति / अथवाऽभिधास्यति भवान् उपयोगलक्षणोजीवः(२-८),तत्र किं सर्वो जीव उपयोगलक्षणः१ / नेत्याह-भावजीव एवोपयोगलक्षण इति / अथ किमन्योऽप्यस्ति यतो भावजीव इति विशेष्यते ? अस्तीत्याह / कतिविधश्चेत्, उच्यते-नामेत्यादि, तृतीयार्थे तसिः, स्त्रार्थ च कथयन्नाह भा०-एभिर्नामादिभिश्चतुर्भिरनुयोगद्वारस्तेषा जीवादीनां तत्त्वानां न्यासो भवति / विस्तरेण लक्षणतो विधानतश्च अधिगमार्थ न्यासो निक्षेप इत्यर्थः / तद्यथा-नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति / नाम संज्ञाकर्म इत्यनान्तरम् / चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः / यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवो देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति / द्रव्यजीव इति गुणपयोयवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव उच्यते / अथवा शून्योऽयं भङ्गः। यस्य यजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात्, अनिष्टं चैतत् / भावतो जीवा औपशमिकक्षायिकक्षायोपश 'अधिगमाय ' इति क-ख-घ-टी-पाठः / 2 ' यस्य नाम' इति घ-टी-पाठः / 3 'द्रव्यजीव ' इति घ-टी-पाठः। Page #70 -------------------------------------------------------------------------- ________________ ताचार्याधिगमसूत्रम् [अध्यायः 1 मिकौयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च हिविधा वक्ष्यन्ते (2-10) / एवमजीवादिषु सर्वेष्वनुगन्तव्यम् // पर्यायान्तरेणापि नामद्रव्यं, स्थापनाद्रव्यं, द्रव्यद्रव्यं, भावतो व्यमिति। यस्य जीवस्याजीवस्य वा नाम क्रियते द्रव्यमिति तन्नामद्रव्यम् / यत् काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते द्रव्यमिति तत् स्थापनाद्रव्यम्, देवताप्रतिकृतिवदिन्द्रो रुद्रः स्कन्दो विष्णुरिति / द्रव्यद्रव्यं नाम गुणपर्यायवियुक्तं प्रज्ञास्थापितं धर्मादीनामन्यतमत्। केचिदप्याहुः-यद् द्रव्यतो द्रव्यं भवति तच्च पुद्गलप्रव्यमेवेति प्रत्येतव्यम् / अणवः स्कन्धाश्च, सङ्घातभेदभ्य उत्पद्यन्त इति पक्ष्यामः (5-25,26 ) / भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते (5-37) / आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाहं / द्रव्यं च भव्ये / भव्यमिति प्राप्यमाह / भू प्राप्तावात्मनेपदी। तदेवं प्राप्यन्ते प्राप्नुपन्ति वा द्रव्याणि / एवं सर्वेषामनादीनामादिमतां च जीवादीनां भावानां मोक्षान्तानां तत्त्वाधिगमार्थ न्यासः कार्य इति // 5 // ____टी-एभिरित्यादि / एभिरिति सूत्रोक्तैः, कैः ? नामादिभिः, नाम आदियेषां ते नामादयस्तैर्नामादिभिरिति, आदिशब्देन च नेयत्ताऽवधृतेत्यतश्चतुर्भिरित्याह / अत एव विग्रहमपि न कृतवान्, चतुर्भिरित्यनेनैव समासाऽव्यक्ताभिधानस्य व्यक्तीकृतत्वादिति / अनुयोगः-सकलगणिपिटकार्थोऽभिधीयते तस्य बाराणि-तस्यार्थस्याधिगमोपाया इत्यर्थः / अतस्तैर्नामादिमिर्विरचना कार्या / विरचना विरच्यमानविषयेत्यतस्तन्न्यास इत्याह / अस्य च विवरणं, तेषां इति अनन्तरसूत्रोक्तानाम् / तानेव स्पष्टयति-जीवादीनां तत्त्वानां न्यासो भवति-विरचना कार्येति / स किमर्थ न्यासः क्रियत इत्याहविस्तरेणेत्यादि / पुरस्तात् त्विदमुक्तं 'तान् जीवादीन् विस्तरेण लक्षणतो विधानतयोपदेश्याम' इति (1-1) / तेषु च लक्षणविधानेषु वक्ष्यमाणेषु सर्वत्रैषा नामादिका व्याख्याऽवतारणीया, किमर्थम् ? अधिगमार्थ-प्रतिविशिष्टज्ञानोत्पत्त्यर्थमिति / कथं नाम लक्षणादिवाक्येषु सर्वत्रेवंविधां प्रतिपत्तिं कुर्यात् जिज्ञासुः? 'उपयोगश्चतुर्भेदः, जीवश्च' इत्यादि, अतोड़घिगमार्थ न्यासः / न्यास इत्यस्य च प्रसिद्धतरेण शब्देन पर्यायेणार्थमाचष्टे-निक्षेप इत्यर्थः / तमामादिचतुष्टयं यथा लक्ष्येऽवतरति तथा कथयति-तद्यथा, नामजीव इत्यादि। नामैव जीवो नामजीवः, योऽयं जीव इति ध्वनिः, अयं च यस्य जीवपदार्थे कस्यचिद् वस्तुनो वाचकः स नामजीवोऽभिधीयते, वस्तुस्वरूपप्रतीति " हेतुत्वाच, वस्तुस्वरूपं शब्दः, तदनात्मकत्वे वस्तुव्यवहारविच्छेदः, तदात्मकत्वाश्च स्तुतौ रागः स्तुत्यस्य, द्वेषश्च निन्दायां द्वेष्यस्य / स्थापना(त्या )पि वस्त्वात्मता 1 'दिष्वपिः' इति घ-टी-पाठः / 2 . सर्वगुण ' इति घ-टी-पाठः। नामादिन्यासः Page #71 -------------------------------------------------------------------------- ________________ सूत्रं 5] स्वोपज्ञभाष्य-टीकालङ्कृतम् दर्शयति-स्थापनाजीवो नाम जीवाकारः, प्रतिकृतिसद्भावेऽन्यथाऽसद्भावे, तन्निमित्तकश्रेयोभ्युपगमात्, गन्धपुष्पादिनिमित्तार्थत्यागश्च, तद्भक्तिप्रवृत्तः, कुम्भवदाकारोऽर्थो वस्तुत्वात्, तथा "जावंति चेहयाई ति"। द्रव्यजीवो नाम, योऽयमस्मिन् शरीरक आत्मा स यदा भावेझोनादिभिर्वियुतो विवक्ष्यते स द्रव्यजीवः, अनागतराजत्वराजपुत्रसेवनं हि दृष्टं, तत्र द्रव्यत्वात् ( सिद्धि-) शिलातलाद्युज्झितातीतयतिशरीरनमस्करणं च, उपयोगक्रिययोरपि ज्ञेयो, येषामर्थानां न च तदुपयोगे वर्तते स तेन भावेनाभावादतीतानागततद्भावापेक्षया तद्भावाप्रवृत्तोऽपि स एवासावध्यवसीयते सुप्तचित्रकरघृतकुम्भादिवत्, तथा च "जं होहिसि तित्थयरो" "वंदामि जिणे चउव्वीसं" इत्यादि / एष एव हि तैर्ज्ञानादिमियुक्त आश्रीयमाणो भावजीव इति, भावः प्रमत्तदोषमर्षणादेः, त(य)था "अमत्थ वंजणे निवडियंमि जो खलु मणोगओ भावो / ___ तत्थ उ मणं पमाणं न पमाणं वंजणच्छलणा ॥"—विशे० 2545 इत्यादि / अत्र चाद्या नामादयस्त्रयो विकल्पाः द्रव्यास्तिकस्य, तथा तथा सर्वार्थत्वात्, पाश्चात्यः पर्यायनयस्य, तथापरिणतिविज्ञानाभ्यामिति / अथवाऽस्मिन्नेव शरीरे य आत्मा तत्रैव ते नामांदयश्चत्वारो नियुज्यन्ते, योऽयमस्मिन्नात्मनि जीव इति ध्वनिः प्रवतते एष नामजीवः, तस्यैव य आकारो हस्ताद्यवयवसन्निवेशादिः स स्थापनाजीवस्तदेकपरिगामात, तस्यैव जन्तोः सकलगुणकलापरहितत्वविवक्षा बौद्धव्यवहारानुसारिणी द्रव्यजीवः, स एव ज्ञानादिगुणपरिणतिभावत्वेर विवक्षितो भावजीव इति,एतत् कथयति नामजीव इत्यादिना।। _सम्प्रति नामस्थापनाद्रव्यभावानां जीवविशेषणतयोपात्तानां स्वार्थ लक्ष्ये प्रदर्शयन्नाहनाम संज्ञाकर्मेत्यनर्थान्तरमित्यादिना / नामेति किमुक्तं भवति ? उच्यते-संज्ञाकर्मेत्यनर्थान्तरम्, संज्ञायाः क्रिया संज्ञाक्रिया संज्ञाकर्म नामकरणं इत्यर्थः, अनेन ध्वनिना वस्त्विदं प्रतिपाद्यत इतियावत् / तत् पुनः प्रतिपाद्यं वस्तु तस्य ध्वनेर्वाच्येनार्थेन युक्तं भवतु मा वा भूदित्येतत् कथयति-चेतनावत इत्यादिना / चेतना-ज्ञानं सा यस्यास्ति तच्चेतनावत्, तद्विपरीतमचेतनम् / द्रव्यस्येति प्रदर्शनमिदं, गुणक्रिययोरपि नामादिचतुष्टयप्रवृत्तेः / अथवा इन्यस्य प्राधान्यमाविष्करोति, यतस्तदेव द्रव्यं गुणक्रियाकारेण वर्तते, कोऽन्यो गुणः क्रिया वा द्रव्यमन्तरेण 1 वर्णकविरचनामात्रक्रमप्राप्तनानात्वनटवद् द्रव्यमेव तथा तथा विवर्तते बतो न स्तः केचिद् गुणक्रिये द्रव्यास्तिकनयावलम्बने सतीति / अतस्तस्य द्रव्यस्य यस्य कस्यचिन् नाम क्रियते व्यवहारार्थ संज्ञासंकेतः क्रियते / कीदृगित्यत आह-जीव इति / 1 'यावन्ति चैत्यानि' इति / 2 'यद् भविष्यति तीर्थकरः' ( आवश्यक-नियुकौ ) / 3 'वन्दे जिनान् चतुविशति' (आव-चतुर्विंशतिस्तवः)। 4 'अन्यत्र निपतिते व्यजने यः खला मनोगतो भावः / तत्र तु मनः प्रमाणं न प्रमाणं व्यजनं छलना // 5. 5 'पोषणबहारा' इति क-व-पाठः / 6 द्रव्यस्य इति क-ख-पाठः / Page #72 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 इतिना खरूपे जीवशब्दः स्थाप्यते, जीव इत्ययं ध्वनिः, नत्वेतद्वाच्यार्थो नामतया नियुज्यते / स नामजीव इति, स इत्यनेन तत्र चेतनावत्यचेतने वा यदृच्छया यो जीवशब्दो नियुक्तस्तं व्यपदिशति, स शब्दो नामजीव इति / एतदुक्तं भवति स एव शब्दो जीव इत्युच्यते तद्वस्तूपाधिक इति, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति न्यायात् // संप्रति स्थापनाजीवं कथयति-यः काष्ठपुस्त इत्यादिना / यः स्थाप्यते जीव इति सम्बन्धः, क स्थाप्यते ? काष्ठपुस्तादिष्वित्याह / काष्ठं-दारु, पुस्तं-दुहितकादिसूत्रचीवरादिविरचितं, चित्रं-चित्रकराद्यालिखितम्, कर्मशब्दः क्रियावचनः प्रत्येकमभिसम्बध्यते, काष्ठक्रियेत्यादि / अक्षनिक्षेप इति सामयिकी संज्ञा चन्दनकानां निक्षेपो रचना विन्यास इति / एते काष्ठपुस्तचित्रकर्माक्षनिक्षेपा आदिर्येषां रच्यमानानां ते काष्ठपुस्तचित्रकर्माक्षनिक्षेपादयः, आदिशब्द उभाभ्यां सम्बन्धनीयः, काष्ठपुस्तचित्रकर्मादयो ये सद्भावस्थापनारूपास्तथाऽक्षनिक्षेपादयोऽसद्भावस्थापनारूपा ये, तेषु बहुषु स्थाप्यते-य उच्यते तेषु काष्ठादिषु बहुष्वाधारेषु य एको रच्यते जीवाकारेण, एतदाह-जीव इति / स जीवाकारो रचितः सन् स्थापनाजीवोऽभिधीयते / एतदुक्तं भवति-शरीरानुगतस्यात्मनो य आकारो दृष्टः स तत्रापि हस्तादिको दृश्यते इतिकृत्वा स्थापनाजीवोऽभिधीयते // ननु चाक्षनिक्षेपे नास्त्यसावाकार इति, उच्यते-यद्यपि बहीरूपतया नास्त्यक्षे निक्षिप्यमाणेऽसावाकारः, तथापि बुद्धथा स रचयिता तत्र विरचयति तमाकारम्, अत एव स्थापना नामद्रव्याभ्यां सुदूरं भिन्ना, यतो निक्षिप्यमाणं वस्तु न शब्दो भवति, नापि तद्भाववियुतं विवक्ष्यते, किन्त्वाकारमानं यत् तत्र तद् विवक्षितमिति / स्थापनाजीवं दृष्टान्तेन भावयति-देवताप्रतिकृतिवदित्यादिना / देव एव देवता तस्याः प्रतिकृतिः-विम्बं, सा च न सैव सहस्राक्षवज्रपाणिश्वेतवासोधारिरूपा, नापि ततोऽत्यन्तं भिन्नस्वभावा, अत्यन्तभिन्नखभावाभ्युपगमे हि सा प्रतिकृतिरेव न स्यात् कुड्यवत् , अतोऽवश्यं कथञ्चिदसौ ततो भिद्यत इति प्रतिपत्तव्यम्, ये तस्यां मुख्यदेवतायां सहस्रलोचनाद्यवयवा यथा संनिविष्टा दृष्टास्तेऽस्यां काष्ठमय्यां दृश्यन्त इत्येतावता सैव मुख्या देवता इयमिति निगद्यते / ये तु तत्र ज्ञानदर्शनैश्वर्यादयो धो दृष्टास्तेऽस्यां काष्ठमय्यां न दृश्यन्त इति एतावता प्रतिविम्बमित्यभिधीयते / अतो यथेह कस्यचित् इन्द्रादेः प्रतिकृतिः स्थापिता सती इन्द्र इति व्यपदिश्यते, एवमिह जीवाकृतिः प्रतिमादिषु स्थापिता स्थापनाजीवो व्यपदिश्यते / रुद्र उमापतिः, स्कन्द इति स्कन्दकुमारः, उत्तरपदलोपात् सत्यभामा सत्येति यथा, विष्णुरिति वासुदेवः / एषां च न शास्त्रे देवताख्या समस्ति, लोकानुवृत्त्या भाष्यकृदुवाच / अत एषां रुद्रादीनां प्रतिकृती रचिता रुद्र इत्यादिव्यपदेशं लभते / एवं जीवस्य काष्ठादिषु प्रतिकृतिः कृता स्थापनाजीव इत्यभिधीयते / द्रव्यजीव इति / इतिः प्रकारार्थः / योऽयं प्रकारः प्रागुपादायि द्रव्यजीव इति तं प्रदर्शयामि / योऽयमात्मा स उज्झिताशेषज्ञानादिगुणसमुदायो द्रव्यजीवोऽभिधीयते / एतदेवाह-गुणपर्यायवियुक्त इति / गुणाः-सहभुवो ज्ञानदर्शनसुखादयः, पर्यायाः-क्रमभुवो Page #73 -------------------------------------------------------------------------- ________________ सूत्रं 5 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 47 * मनुष्यादयः, गुणाश्च पर्यायाश्च गुणपर्यायास्तैः वियुक्तो रहित इत्यर्थः // ननु चैवंविधोऽर्थो नास्त्येव, समस्तधर्मकदम्बकरहितत्वात् मण्डूकजटाभारवदित्युक्ते आह-प्रज्ञास्थापितः। प्रज्ञा-बुद्धिस्तया स्थापितो-वियत्यालिखितः कल्पित इतियावत् / एतदुक्तं भवति-न ते गुणपर्यायास्ततो द्रव्याद् विष्वग् भवन्ति, किंतर्हि ? बुद्धया तत्स्था एव विभज्यन्ते, ततश्च द्रव्यमात्र केवलमवतिष्ठते बुद्धिपरिकल्पनागोचरतामितम्, एतदाह-अनादिपारिणामिकभावयुक्त इति / भावसब्दो हि औदयिकादिषु वर्तमानः पारिणामिक इत्यनेन विशेषे स्थापितः / पारिणामिकभावोऽपि सादिरस्त्यभ्रेन्द्रधनुरादीनाम्, किं तादृशोऽयं ? नेत्याहअनादिपारिणामिकभाव इति / अनादिश्वासौ पारिणामिकभावश्चानादिपारिणामिकभावस्तेन युक्तोऽनादिपारिणामिकभावयुक्त इति / एतदुक्तं भवति-यत्तदनादिकालसन्ततिपतितं द्रव्यं तावन्मानं तदिति मैवं मंस्थाः अनादिपारिणामिकभावयुक्त इति, अत्र भावशब्दः श्रूयते इतिकृत्वाऽस्ति द्रव्ये कोऽपि भावांश इति / न खलु कश्चित् तत्र गुणः पर्यायो वाऽस्तीति द्रव्यमात्रं निरस्ताशेषगुणपर्यायवातं द्रव्यजीव इत्येवं शब्द्यते / / ननु च सतां गुणपर्यायाणां बुद्धया नापनयः शक्यः कर्तुं, यतो न ज्ञानायत्ताऽर्थपरिणतिः, अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीत्यत आह-शून्योऽयं भङ्गः / शून्य इति न सम्भवति, अयं इति द्रव्यजीवविकल्प इति / यतो द्रव्यदेवः कः?। उच्यते-यो भव्यो देवत्वपर्यायस्य योग्यो न तावद् भवति स मनुष्य एव सन् द्रव्यदेवोऽभिधीयते भविष्यति इतिकृत्वा, एवमिहापि यद्ययमवधीकृतो जीवः स इदानीमजीवः सन्नायत्यां जीवोऽजनिष्यत् ततोऽयं विकल्पः समभविष्यत् , न चैतदस्तीत्येतदाह-यस्य ह्यजीवस्येत्यादि / यस्य इति वस्तुनः, हिशब्दो यस्मादर्थे, अजीवस्य चेतनारहितस्य सतो विद्यमानस्य अचेतनावस्थायां सम्प्रति भव्यं भविष्यच्चे• तनावत्वं भवेत् इदानीमचेतनत्वेन वर्तमानः द्रव्यजीव इति कारणजीवः, आगामिन्या जीवतायाः कारणमित्यर्थः, एतत् स्यात्, इष्यत एवायमर्थः / क्वचिद् वस्तुन्यभूतमिदानी जीवत्वं भविष्यतीति, तन्न, अनिष्टत्वात् , यथैव ह्यसन्नसौ विशेषो जीवत्वेन सम्प्रति आगामिकाले जीवत्वं प्रतिपत्स्यत इत्यभ्युपगम्येत, एवं योऽयमिदानी जीवतया वर्तते अयमेवायत्यामजीवत्वं यास्यतीत्यभ्युपगम्यताम् , एवं च सति सिद्धान्तविरोधः, यतो जीवत्वमनाद्यनिधनपारिणामिको भावः समय इष्यते / एतदेवाह-अनिष्टं चैतत् इति / चशब्द एवकारार्थे, अनिष्टमेव सिद्धान्तविरोध्येवैतदभ्युपगमान्तरमिति // ननु चैवं सति नामादिचतुष्टयस्याव्यापिता प्राप्ता, द्रव्यजीवविकल्पाभावात्, अभ्युपगतं च सिद्धान्ते व्यापित्वेन नामादिचतुष्टयम्, यत एवमाह - " जत्थ उ जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसम् / जत्थवि नय जाणेजा चउक्कयं निक्खिवे तत्थ ॥"-अनुयोगद्वारे 1 'अजनिष्यत' इति क-ख-पाठः। Page #74 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 तत्र चतुष्टयं निक्षिपेदिति भणता व्यापिताऽभ्युपगता। उच्यते-प्रायः सर्वपदार्थेष्वन्येषु सम्भवन्ति, यद्यत्रैकस्मिन्न सम्भवति नैतावता भवत्यव्यापिता, तत्र नियुक्तिकारेण भद्रबाहुस्वामिना अविशेषेण प्राणायि नामादीति। अपरे त्वेतद्दोषभयादेवं वर्णयन्ति-अहमेव मनुष्यजीवो द्रव्यजीवोऽभिधातव्यः उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य, अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवानि, यतश्चाहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति / एतत् कथितं तैर्भवति पूर्वः पूर्वो जीवः परस्य परस्योत्पित्सोः कारणमिति ? अस्मिंश्च पक्षे सिद्ध एव भावजीवो नान्य इति, तसादिदमपि परिफल्गु विज्ञायते, एतत्पक्षसमाश्रयणेन च नाव्यापिता नामादिचतुष्टयस्येति / अथवा जीवशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्यजीव इति / एवं ह्युक्तं " आगमतो जाणए अणुवउत्तो" जीवशब्दार्थज्ञस्य वा यच्छरीरकं जीवरहितं स द्रव्यजीवः // ___इदानीं चतुर्थ विकल्पं दर्शयति-भावजीव इति / यः उक्तः॥ ननु च भावजीव इत्येकवचनेन पूर्व विन्यस्य व्याख्यावसरे बहुवचनान्तताप्रदर्शनमयुक्तं भावतो जीवा इति / उच्यते-मैवं कश्चित् ज्ञासीद् यथा एक एव भावजीवो न भूयांस इति / यथा पुरुषकारणिन आहुः- "पुरुष एवेद"मित्यादि, एतन्निरासाय बहुवचनमुपात्तवान् , बहव एते जीवा इत्यस्य प्रदर्शनार्थम् / भावत इति च तृतीयार्थे तसिः, भावैः सह वर्तन्ते इति ते भावजीवाः / के पुनस्ते भावाः यैः सह वर्तन्ते इति ? उच्यते-औपशमिकादीत्यादि / तत्रोपशमः पुद्गलानां सम्यक्त्वचारित्रविघातिनां करणविशेषादनुदयो भस्मपटलाच्छादिताग्निवत् , तेन निवृत्तः औपशमिकः परिणामोऽध्यवसाय इत्युच्यते / तथा ज्ञानादिघातिनां पुद्गलानां य आत्यन्तिकोऽत्ययः स क्षयः तेन निर्वृत्तोऽध्यवसायः क्षायिक उच्यते / तथा ज्ञानादिधातिनां पुद्गलानां क्षयोपशमौ, केचित् क्षपिताः केचिदुपशान्ता इति क्षयोपशमावुच्येते, ताभ्यां निर्वृतोऽध्यवसायः क्षायोपशमिक इति / ये पुनः पुद्गला गतिकषायादिपरिणामकारिणः तेषामुदयः-अनुभूयमानता या स उदयस्तेन निवृत्तोऽध्यवसाय औदयिक इति / परिणमनं परिणामो जीवत्वाद्याकारेण यद्भवनं स पारिणामिकः, स्वार्थ एव प्रत्ययः। एत एव भावा-अध्यवसायास्तैर्युक्तः औपशमिकादिभावयुक्तः। यथा कश्चिन्मनुष्यः पञ्चभिरपि संयुक्तो भवति / तत्कथमिति चेत् ? उच्यते-कस्यचित् संयतादेरुपशान्तकोपादिकषायस्य औपशमिकः, तस्यैव क्षपितानन्तानुबन्धिमिथ्यादर्शनादेः क्षायिको भावः, तस्यैव क्षीणोपशान्तमतिश्रुताद्यावरणस्य क्षायोपशमिको भावः, तस्यैव मनुष्यगतिपरिणामकारिपुद्गलोदये औदयिको भावः, तस्यैव जीवत्वभव्यत्वादिपरिणामः पारिणामिक इति, एवं देवादीनां यथासम्भवं बोध्याः / उपयोगलक्षणा इति साकारानाकारसंविल्लक्षणा इत्यर्थः / ते च नैकरूपाः, किन्तु संसारिण इत्यादि। संसारश्चतुर्विध उक्तः (1-3) स येषामस्ति संसारिणो-मनु 1 आगमतो ज्ञायकः अनुपयुक्तः ( अनुयोग / Page #75 -------------------------------------------------------------------------- ________________ सूत्र 5] स्वोपज्ञभाष्य-टीकालङ्कृतम् प्पादयः / मुक्तास्तु ज्ञानावरणादिकर्मभिः समस्तैर्मुक्ता एकसमयसिद्धादयः / पशब्दाद सप्रमेदा द्विधा वक्ष्यन्ते द्वितीयेऽध्याये (2-10) // एवं जीवपदार्थे नामादिन्यासमुपदर्य एकत्र दर्शितोऽन्यत्र सुज्ञान एव भवतीत्यतिदिशति-एवमजीवादिष्वित्यादि / अजीवादिषु इति चोक्तेऽपि पुनः सर्वेषु इत्यमिदघद् व्याप्ति नामादिन्यासस्य दर्शयति, अनुगन्तव्यं नामादिचतुष्टयं दर्शनीयमित्यर्थः / अजीव इति नाम यस्य चेतनस्याचेतनस्य वा क्रियते स नामाजीवः / स्थापनाजीवः काष्ठादिन्यस्तः / द्रव्याजीवो गुणादिवियुतो बुद्धिस्थापितः / भावाजीवो धर्मादिर्गत्याधुपग्रहकारीति / नामात्रवो यस्यास्रव इति नाम कृतं स नामास्त्रवः / स्थापनास्रवः काष्ठादिरचितः। द्रव्यास्रवस्तु आत्मसमवेताः पुद्गलाः अनुदिता रागादिपरिणामेन / भावास्रवास्तु त एवोदिताः। द्रव्यवन्धो निगडादिः, भावबन्धः प्रकृत्यादिः। द्रव्यसंवरोपिधानं, भावसंवरो गुप्त्यादिपरिणामापनो जीवः / द्रव्यनिर्जरा मोक्षाधिकारशून्या ब्रीह्यादीनां, भावनिर्जरा कर्मपरिशाटः सम्यग्ज्ञानाद्युपदेशानुष्ठानपूर्वकः / द्रव्यमोक्षो निगडादिविप्रयोगः, भावमोक्षः समस्तकर्मक्षयलाञ्छनः। तथा द्रव्यसम्यग्दर्शनं ये मिथ्यादर्शनपुद्गला भव्यस्य सम्यग्दर्शनतया शुद्धिं प्रतिपत्स्यन्ते तद् द्रव्यसम्यग्दर्शनं, एत एव विशुद्धा आत्मपरिणामापन्ना भावसम्यग्दर्शनं / तथा द्रव्यज्ञानमनुपयुक्ततावस्था, भावज्ञानमुपयोगपरिणतिविशेषावस्था / द्रव्यचारित्रमभव्यस्य भव्यस्य वाऽनुपयुक्तस्य, उपयुक्तस्य क्रियानुष्ठानमागमपूर्वकं भावचारित्रमिति // येऽपि येषां जीवादीनां सामान्यशब्दास्तेष्वप्यस्य नामादिचतुष्टयस्यावतार इति कथयमाह-पर्यायान्तरेणापीत्यादि / प्रधानशब्दस्य तदर्थशब्दान्तराणि पर्यायाः, पर्यायादन्यः पर्यायः पर्यायान्तरं, तेनाप्यस्य चतुष्टयस्य न्यासः कार्यः, तदाहमामव्यादि- नामद्रव्यं इत्यादि / एतद् भाष्यं नामादिजीवव्याख्यानेन भावितमेव यावत् केचिदप्याहुरिति / तथाप्यशून्यार्थमुच्यते-नामद्रव्यं यस्य चेतनावतोऽचेतनस्य वा द्रव्यमिति नाम क्रियते, यत् पुनः स्थाप्यते काष्ठादिषु तत् स्थापनाद्रव्यं विशिष्टाकारमिति / द्रव्यद्रव्यमिति उभाभ्यां द्रव्यशब्दोभ्यां गुणादिभ्यो निष्कृष्य द्रव्यमात्र स्थाप्यते / एतदेवाह-गुणपर्यायवियुक्तं इत्यादिना, तैर्विरहितं, न च परमार्थतः शक्यन्ते तेऽपनेतुं, तत्स्वभावत्वाद, अतः प्रज्ञास्थापितमित्याह / तच्चान्यस्याभावात् षष्ठस्य प्रसिद्धमेव तदेव कथयति-धर्मादीनामन्यतमत् इति / यद्यदेव विवक्षितुं इष्यते तत् तदेषां मध्ये ग्राह्यं नात्र नियम इत्येतत् कथयति-शून्योऽयं विकल्प इति। पूर्ववत् प्रयोगतो भावना कार्या, एष तावत् तृतीयविकल्पे ग्रन्थकाराभिप्रायः / अपरे तु कथयन्ति विकल्पं तृतीयमन्यथा, 1 शुभाशुभात्मपरिणामकारणभूतपुद्गलापेक्षया / 2 सकामनिर्जरामपेक्ष्य / 3 स्वरूपावस्थानस्य तत्त्वात् निश्शेष. मक्षयस्य तु तपःसंयमद्वारत्वात् / 4 द्रव्यशब्दद्वयेनेत्यर्थः / Ich Page #76 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 तदाह-केचिदप्याहुः इत्यादि / केचित् पुनर्बुवते यदित्यणुकांदि द्रव्यतो द्रव्यं इति, तृतीयार्थे पञ्चम्यर्थे वा तसिरुत्पाद्यः, द्रव्यैः सम्भूय यत् क्रियते, यथा बहुभिः परमाणुभिः सम्भूय स्कन्धस्त्रिप्रदेशिकादिरारभ्यते तद् द्रव्यद्रव्यम् / अथवा यद् द्रव्यात् तसादेव स्कन्धात् त्रिप्रदेशिकादेर्यदैकः परमाणुः पृथग्भूतो भवति तदा तसाद् भिद्यमानात त्रिप्रदेशिकाद स्कन्धात् परमाणुश्च निष्पद्यते द्विप्रदेशिकश्च स्कन्ध इति, स परमाणुरपि द्रव्यद्रव्यं द्विप्रदेशिकोऽपि द्रव्यद्रव्यं भवतीति / तचैतद् द्रव्यद्रव्यं पुद्गलमेव भवतीति प्रत्येतव्यम् / नहि जीवादिद्रव्यमन्यैः सम्भूयारभ्यते, न चान्यस्मात् भिद्यमानात् तन्निष्पद्यत इति, परमाणवस्तु सम्भूयान्यदारभन्ते ततश्च निष्पद्यन्त इति, यतः पञ्चमेऽध्यायेऽभिधास्यते अणवः स्कन्धाः (5-25) इत्यादि, अणवः-परमाणवः, स्कन्धाः-द्विप्रदेशिकादयः, सङ्घातात् स्कन्धा भेदादणवो निष्पद्यन्त इति // भावद्रव्यमिति चैक विन्यस्य भावतो द्रव्याणि बहून्युपक्षिपतोऽयमभिप्रायः,-अन्याभिमतं यदेकं विश्वस्य जगतः कारणं ब्रह्मादि तदपास्यते, बहून्येतानि स्वत एव सत्तां दधतीति प्रतिपादयति, कानि च तानि ? धर्मादीनि पञ्च, सगुणपोयाणि इति, गत्याद्यगुरुलघुप्रभृतिपर्यायभाञ्जीति, एतत् स्याद् यद्येन धर्मेण समन्वितं तं धर्म न कदाचित् तद् जहाति तेन सदान्वितमास्ते द्रव्याणां प्राप्ति . इति, एतच्च न, प्राप्तिलक्षणानि-परिणामलक्षणानीतियावत् , रक्षणता अन्यानन्यांश्च धर्मान् प्रतिपद्यन्त. इति, जीवास्तावद् देवमनुजादीन पुद्गलाः कृष्णादीन् धर्मादयः पुनस्त्रयः परतोऽन्यानन्यांश्च प्राप्नुवन्ति, यतोऽन्यस्मिन् गच्छति तिष्ठति अवगाहमाने वा जीवे पुद्गले वा गमनादिपरिणामस्तेषामुपचर्यते, अतो हि प्राप्तिलक्षणानि वक्ष्यन्ते / अथवा भावद्रव्यमिति, द्रव्यार्थ उपयुक्तो जीवो भावद्रव्यमुच्यते, एतद वा कथयत्यनेन भाष्येण आगमतश्चेत्यादिना, अथवा प्राप्तिलक्षणानीति यदुक्तं सा न स्वमनीपिका, यत आगमे आप्त एवमुपदिदेश-प्राप्तिलक्षणान्येतानि, कथमिति चेत् ? तदाह-आगमतश्चेत्यादि / तसिः सप्तम्यर्थे, आगमत आगमे, पूर्वाख्ये कथ्यमाने, प्राभृतज्ञ इति, शब्दप्राभृतं, तच्च पूर्वेऽस्ति, यत इदं व्याकरणमायातं, ततः शब्दप्राभृतं यो जानाति स प्राभृतज्ञो गुरुरेवं ब्रवीति द्रव्यमिति / अस्यार्थ तीर्थकृत् किमाहेति चेत्, तदुच्यते-भव्यमाह / भव्यमिति च न ज्ञायते तत् स्पष्टयति-द्रव्यं च भव्य इति / अस्यायमर्थः-द्रव्यमिति निपात्यते भव्यं चेद भवति / भव्यमिति सन्देहास्पदमेव केषाश्चिदिति स्पष्टयति-प्राप्यमाह / प्राप्तव्यं तैः खगतैः परिणतिविशेषैर्गत्यादिभिः व्याप्यत इत्यर्थः / अतो न स्वमनीषिका प्राप्तिलक्षणानीत्येषाम् // ननु चायं भवतिरकर्मकः सत्ताभिधायी कथं प्राप्यमित्यनेन कर्माभिधायिना कृत्येन भव्यमित्यस्यार्थो वित्रियते / / उच्यते-नैवायं सत्ताभिधायकः, तर्हि 1 प्राप्त्यभिधायी चुरादावात्मनेपदी, भू प्राप्तावात्मनेपदी / तदाह प्राप्त्यभिधायिना कथ्यते तेन, तदेवं इति 1 'यद् द्यणुकादि' इति ग-पाठः। 2 'कादेर्युक्तः' इति ग-पाठः / 3 'कानिचित् तानि ' इति क-बपाठः / 4 'कदाचिद् न जहाति' इति क-ख-पाठः / Page #77 -------------------------------------------------------------------------- ________________ सूत्र 6] स्वोपज्ञभाष्य-टीकालङ्कृतम् प्राप्त्यभिधायित्वे सत्ययमों भव्यशब्दस्य, कर्मसाधनपक्षे प्राप्यन्ते स्वधर्मे यानि तानि मव्यान्युच्यन्ते, करीसाधनपक्षे तु प्राप्नुवन्ति तान्येव धर्मादीनीति भव्यानि द्रव्याण्युच्यन्ते इति / एतदाह-प्राप्यन्ते प्राप्नुवन्तीति वा द्रव्याणि / सम्प्रति जीवादीनां न्यासं प्रदर्श्य तेषां च पर्यायस्य द्रव्यशब्दस्य अन्येषामप्येवमेव कार्य इत्यतिदिशन्नाह-एवं सर्वेषामित्यादि / एवं यथा जीवादीनां द्रव्यशब्दस्य च तथा सर्वेषां गुणक्रियादिशब्दानाम्, अनादीनां इति भन्याभव्यादीनाम्, आदिमतां च मनुष्यादीनां पर्यायाणां, जीवादीनां भावानां जीवादिभ्योऽनन्यवृत्तीनाम्, तत्त्वाधिगमार्थमिति तत्त्वस्य -परमार्थस्य भावस्य अधिगमः स सर्वत्र, न तु नामस्थापनाद्रव्याणामिति, हेयत्वादेषां, तत्त्वाधिगमप्रयोजनं न्यासो निक्षेपो रचना कार्या बुद्धिमता मुमुक्षुणेति // 5 // शिष्य आह-कथं भगवता तत्त्वानां जीवादीनामधिगमः कृतः। यदि च केनाप्युपायेनाधिगतानि भवन्ति ततो युक्तं कथनमन्यसायेतानि तत्वानीति ? उच्यते सूत्रम्-प्रमाणनयैरधिगमः // 1.6 // टी०-प्रमाणनयैरिति च करणे तृतीया न कर्तरि, यतस्तत्र षष्ठया भवितव्यम् 'कर्तृकर्मणोः कृती' (पाणिनिः अ० 2, पा० 3, सू० 65) इति / प्रमाणे प्रत्यक्षपरोक्षे द्वे, अवधिमनःपर्यायकेवलानि मतिश्रुते च, नैगमादयो नयाः पञ्च, प्रमाणे च नयाच प्रमाणनयास्तैः प्रमाणनयैः साधकतमैः / भा०-एषां च जीवादीनां तत्त्वानां यथोद्दिष्टानां नामादिभियंस्तानां प्रमाणनयर्विस्तराधिगमो भवति / तत्र प्रमाणं द्विविधं-प्रत्यक्षं परोक्षं च वक्ष्यते (1-10,12) / चतुर्विधमित्येके नयवादान्तरेण / नयाा नैगमायो वक्ष्यन्ते (1-34 ) // किश्चान्यत् // 6 // टी-एषां चेत्यादि / एषाम् इति भवतः प्रकटीकृतानाम्, चशब्द एवकारार्थे, ___एषामेवान्यस्याभावात्, अथवा समुच्चये, एषां जीवादीनां, चअधिगम-साधनम् शब्दानामादीनां च, तत्त्वानामिति चानेनोभयं सम्बध्यते, जीवा दीनां तत्वानां नामादीनां च तत्त्वानाम् / यथाद्दिष्टानामिति / यथा परिपाट्या जीवाजीवादिकया सामान्येनाभिहितानामुद्दिष्टानामिति / सामान्येन च जीवाजीवास्रव (1-4 ) इत्यस्मिन् सूत्रेऽभिधाय पुनर्नामस्थापनादिसूत्रे नामादिभिर्भेदै यस्तानां, किमर्थं पुनर्जीवाजीवास्रवादिसूत्रे उद्घाट्य ततो नामादिमुत्रे न्यस्तानि ? / उच्यतेपरिज्ञानार्थमनेको जीवशब्दवाच्योऽर्थ इत्यस्य / एतदेवाह-न्यस्तानामिति / अधिगमोपायार्थ १'मन्यस्यायत्तानि ' इति ख-पाठः / 2 'यथोपदिष्टानां' इति ख-घ-टी-पाठः। 3 'न्यस्तानामित्यधिगमोपायार्थमुपक्षिप्तानामित्यर्थः' इति ख-घ-टी-पाठः। 4 'नयाश्च पञ्च' इति ख-घ-टी-पाठः / Page #78 -------------------------------------------------------------------------- ________________ क्वाधिगमसूत्रम् [अभ्यायः 1 मुपक्षिप्तानामित्यर्थः, अतः पूर्वमुघट्टितानांन्यस्तानां च इह प्रमाणनयैर्विस्तराधिगमो भवति। विस्तराधिगम इति / एकैकस्य तत उद्घटनादपकृष्टस्य विस्तरेण लक्षणविधानाख्येन वक्ष्यमाथेन (१-१०,१-३५)प्रमाणनयरूपेणाधिगमः-परिच्छेदो भवति। एतत् कथितं-यदा यदाधिगमस्तदा तदान प्रमाणनयान विरहय्येति / न चायं पर्यनुयोगः कार्यः-प्रमाणनयैः कथं भवत्यधिगम इति ? / यस्माज्ज्ञानविशेषाः प्रमाणनयाः, अतः प्रकाशस्वभावत्वात् प्रदीपवदधिगमशक्तिता। अथ कतिविधं प्रमाणमिति सङ्ख्यानियमाय प्रश्नयति / आह-तत्र प्रमाण द्विवि. घम्। तत्रंति सिद्धान्तं नन्दादिकं व्यपदिशति / प्रमाणमिति च प्रमीयतेऽनेन तत्त्वमिति प्रमाणम्, अस्मिन् पक्षे आत्मा सुखादिगुणकलापोपेतस्तेनावबुध्यते प्रमाण-द्रविध्यम् साधकतमेन मत्यादिना विषयमिति प्रतिपत्तव्यम् / यदा तु 'कृत्यल्युटो बहुलम्' (पाणिनिः अ० 3, पा० 3, सू० 113 ) इति कर्तरि प्रमाणमित्येतत् तदात्मनोऽविभक्तं मत्यादिज्ञानपञ्चकम् , प्रमिणोत्यवगच्छतीति प्रमाणम्, यदा त्वधिकरणे प्रमाणमित्येतत् तदा प्रमीयतेऽस्मिन् बहिरङ्गोऽर्थ इति प्रमाणम्, आत्मन्येव पहिरङ्गार्थप्रतिबिम्बनात्, नहि विषयाकारानारूषितं तज्ज्ञानं तस्य परिच्छेदे वर्तते, यदा तु तेन विषयाकारेण तज्ज्ञानं परिणतं भवति तदा तस्य वस्तुनः परिच्छेदोऽन्यथा नेति / द्विविधमित्यनेन सङ्ख्यानियम इति द्विविधमेव न पुनस्त्रिविधादि। कथं द्वविध्यमिति चेत् ? उच्यतेइहैवाध्याये प्रत्यक्षं परोक्षं चेति वक्ष्यते ( 1-11, 12 ) उपरिष्टात् / पराणि च निर्माणाङ्गोपाङ्गोदयनिवृत्युपकरणरूपाणीन्द्रियाणि 2-17 ). मनश्च मनोवर्गणापरिणतिरूपं द्रव्येन्द्रियं परं तेभ्यो य पजायते ज्ञानं तन्निमित्त तत् परोक्षमुच्यते धूमादग्निज्ञानवत्, प्रत्यक्षं पुनरश्नाति अश्नुते वा_नित्यक्षः-आत्मा तस्याक्षस्येन्द्रियमनांस्यनपेक्ष्य यत् स्वत एवोपजायते तत् प्रत्यक्षम् / यदि तर्हि नन्द्यां द्विविधमुपदिष्टं कथमनुयोगद्वारग्रन्थे चतुर्विधमुपन्यस्तम् ? / यतः केचिन् नैगमादयो नयाः / चतुर्विधमित्येक नयवादान्तरेण / एके सूरयश्चतुर्विधं प्रमाणमुपदिशन्ति नयभेदेन प्रत्यक्षानुमानोपमानागमाख्यम्, एतच्च यथा दुःस्थित चातुर्विध्यं तथा भाष्यकार एवोत्तरत्र दर्शयिष्यति (1-12) / एवं प्रमाणावयवं निर्भिद्य व्युत्पत्यादिद्वारेण नयावयवं विभजन्नाह-नयाश्चेत्यादि / नयन्तीति नयाः कारकाः व्यजका इति यतः सूत्रार्थ (यतस्तवार्थे ) दर्शयिष्यति भाष्यकारः, ये ह्यनेकधर्मात्मकं वस्त्वेकेन धर्मेण निरूपयन्ति एतावदेवेदं नित्यमनित्यं वेत्यादिविकल्पयुक्तं ते नया नैगमायो वक्ष्यन्ते (1-34) // ननु च प्रमाणमपि सामान्यविशेषात्मकवस्तुपरिच्छेद्येव, नया अपि चैवंविधविषयोपनिपातिन एवेति नास्ति कश्चिद विशेषः, ज्ञानात्मप्रमाणनान ____कत्वाद्धि नया न भेदेनोपादेयाः प्रमाणादिति, असत्या एव भिन्नता __नया इति [ चेदनो ] हेयतया न्याय्यमुपादानमित्येतदपि न, यतो वक्ष्यति-" न विप्रतिपत्तयोर्थाध्यवसाया" इति [1-35 ], तथा " नियय 1 'भपरिणतं' इति ख-टी-पाठः / 2 'मुशन्ति' इति ग-पाठः / 'कार्थ' इति कथ' इति वा ग-टीपाठः। 4 'परिच्छेदे च, 'परिच्छेदे व 'इति क-ख-पाठौ / 5 'सायात्' इति क-ख-पाठः।। Page #79 -------------------------------------------------------------------------- ________________ सूत्रं . ] स्वोपझमाष्प-टीकालङ्कृतम् / वयमिजसव्वा" इत्यादि / उच्यते-प्रमाणनयानामयं भेदः, प्रमाण समस्तवस्तुखरूपपरिच्छेदात्मकं मत्यादि नयास्तु एकांशावलम्बिन इत्यतो मिन्नविषयता, प्रत्यक्षपरोक्षवत् / एतदुक्तं भवति-सर्वनयांशावलम्बि ज्ञानं प्रमाणम् , यत् तु ज्ञानमनेकधात्मकं सद्वस्तु एकधर्मावधारणेनावच्छिनत्येवमात्मकमेवैतदिति तन्नया इति कथ्यन्ते, अतश्च प्रमाणं सम्यग्ज्ञानं, नयास्तु मिथ्याज्ञानम्, यत आह-" एवं सब्वेवि नया मिच्छोदिही" इत्यादि / एवं च कृत्वा प्रमाणशब्दस्याभ्यर्हितत्वात् सूत्रे पूर्वनिपात इति न चोद्यावकाशः // अपरे वर्णयन्तिपरस्परापेक्षा नैगमादयो नया इति व्यपदिश्यन्ते अध्यवसायाः, तैः परस्परापेक्षैर्यज्ज्ञानं समस्तवस्तुस्वरूपावलम्बनं जन्यते तदनवगतवस्तुपरिच्छेदाभ्युपायत्वात् प्रमाणम् / ये पुननैंगमादयो निरपेक्षाः परस्परेण ते नयाभासा इति // 6 // किश्चान्यदित्यनेनोत्तरसूत्रं सम्बन्धयति, नैतावतैव विस्तराधिगमस्तत्त्वानां, यतोऽन्य(पि विस्तराधिगतौ कारणमस्ति, किं तत् ? निर्देशादि / के पुनः निर्देशादय इत्यत आह सूत्रम्-निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः // 1-7 // .टी.-निर्देशस्वामित्वेत्यादि। न तावनिर्देशादीन् व्याचष्टे सम्बन्धवाक्यमेव मर्थयते भा०–एभिश्च निर्देशादिभिः षइभिरनुयोगदारैः सर्वेषां भावानां जीवादीनां तत्त्वानां विकल्पशा विस्तरेणाधिगमो भवति // __टी-एभिश्चेत्यादिना। एभिः, चशब्दात् प्रमाणनयसदादिभिश्च / एभिश्चेति - सामान्यशब्दनिर्देशेन विशेषावगतिरस्ति, अतो विशेषार्थमाह-निर्देशा" दिभिः / आदिशब्देन निर्देशे सति नेयत्तापरिज्ञानमस्तीति समासे चाव्यक्ताभिधानं प्रसिद्धं न सूत्रादपीयत्ता सम्भाव्येत अतः षभिरिति / अस्मिन् किमेतानि व्याख्याद्वाराणि नेति या शङ्का तनिरसनायाह-अनुयोगदारैः, व्याख्याङ्गैरित्यर्थः / एषां च व्यापिता अस्ति नास्ति इत्याबहाव्युदासायाह-सर्वेषामिति / उक्तेऽपि चैतस्मिनभावोऽपि सर्वशब्देनोपात्तः तन्निराचिकीर्षयाऽऽह-भावानामिति / अभावे हि व्यर्थत्वात् प्रयासस्य न तद्विषयमेतदिति कथयति / मावा अप्यन्यमताभिमताः सन्त्यतत्त्वरूपा इत्यतो द्वयमुपादत्ते-जीवादीनां तत्त्वानामिखेतत् / ते च जीवादयः किमेभिः समासेन निरूप्यन्ते उत व्यासेनेत्यत आह-विकल्पश इति / शसच कारकसामान्याद् विधानमिति तृतीयार्थ एष इत्येतत् कथयति विस्तरेणेत्यनेन / इकेपि चैतस्मिन्नसम्पूर्णमेव वाक्यं स्याद् यदि पूर्वसूत्रादधिगम इत्येतन्नानुवर्तेत, अतोऽनुवसंत इति कथयति-अधिगम इति / सत्तां च पदार्थो न व्यभिचरति यद्यपि तथाप्यन्यस्याः निजकरकन्यतासत्याः' ( सम्मति-तर्के ) / 2 एवं सर्वेपि नया मिष्यादृष्टमः' ( सम्मति.)। व्याख्या Page #80 -------------------------------------------------------------------------- ________________ 54 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 क्रियाया नाध्याहारः कर्तव्यः, ततश्च भवतीत्याह / एवं सम्बन्धं लगयित्वा सूत्रं व्याख्यानयमाह भा०-तद्यथा / निर्देशः / को जीवः / औपशमिकादिभावयुक्तो द्रव्यं जीवः // ___टी-तद्यथेत्यादि / यथैते भाव्यन्ते निर्देशादयः तथा कथ्यन्ते, निर्देश इति चोपन्यस्य उद्देशवाक्यमुच्चारयति-को जीव इति / न चाप्रस्तुतोपन्यासः, कथमिति चेत् ? उच्यते-उद्देशवाक्यमन्तरेण निर्देशस्य ख्यापनमशक्यं कर्तुम्, यदि हि पूर्व सामान्यरूपोहेशचोदना न स्यान्निर्देशवाक्यमप्यसम्बद्धत्वादुन्मत्तवचोवदसङ्गतार्थ स्यात्, सामान्यार्थाभिधानमुद्देशः, तद्विशेषप्रतिपिपादयिषया वचनं निर्देशः / पूर्व प्रश्नवाक्यमुच्चारयति-निर्दिश्यमानार्थोपकारि, कीदृशः खलु मया जीवः प्रतिपत्तव्यः ? किं द्रव्यरूपो गुणरूपः क्रियास्वभाव इति / नामादीनां वा अन्यतम इति पृष्टे निर्देश इति,-निश्चयेन उपयुज्यते प्रस्तुते वस्तुनि स निर्देशः। औपशमिकादिभावेत्यादि / औपशमिकादयोऽभिहितास्त एव भावास्तथाभवनादात्मनः तैर्युक्तः औपशमिकादिभावयुक्तः। द्रव्यं जीव इति, गुणक्रियाव्युदासद्वारेण निश्चयेन तदादिष्टं द्रव्यं जीव इति / द्रव्यं जीवः स चाप्यौपशमिकादिभावयुक्त इति / ततश्च न केवलं द्रव्यं नापि केवला भावाः किन्तु उभयात्मकं जीववस्तु प्रतिपत्रं भवति / अथवा द्रव्यमेव प्रेधानं यतस्तेन तेनौपशमिकादिभावेन द्रव्यमेव तथा तथा विपरिवर्तते 1 // स्वामित्वादयो जीवेsभ्युद्या अनया दिशेति न दर्शितवान्, वयं तु दर्शयामः-स्वामी-प्रभुः तद्भावः स्वामित्वं, जीवो हि कस्य प्रभुः ? जीवस्य वा के स्वामिनः ? इति, उच्यते-जीव एकोऽवधीकृतः धर्मादीनामस्तिकायानां स्वामी, यतः सर्वेषु मूछों यात्युपलभते परिभु क्ते शरीरतया वाऽऽदतेऽतः सर्वेषां जीवः स्वामी, जीवस्यापि जीवा अन्ये तन्मूर्छादिकारिणः स्वामिनो भवन्ति 2 // साध्यते येन तत् साधनम्, केन चात्मा साध्यते ? उच्यते-नान्येनासौ सततं समवस्थितत्वाद बाह्यान् वा पुद्गलान् अपेक्ष्य देवादिजीवः साध्यत इति तैस्तत्तत्स्थानं नीयत इति यावत् 3 // अधिकरणमाधारः, कस्मिन्नात्मा निश्चयस्य स्वात्मप्रतिष्ठत्वात् स्वात्मनि, व्यवहारस्य शरीराकाशादौ 4 // स्थितिरात्मरूपादनपगमः। कियन्तं कालमेष जीवभावेनावतिष्ठते / / भवाननङ्गीकृत्य सर्वस्मिन् काले, देवादींस्तु भवानङ्गीकृत्य यावती यत्र स्थितिस्तावन्तं कालं तत्रावतिष्ठत इति 5 // विधानं प्रकारः, कतिप्रकारा जीवाः 1 त्रसस्थावरादिभेदाः 6 // एवं शेषा अपि सिद्धान्तानुसारिण्या धियाऽवलोक्य पारमर्षे प्रवचनं वाच्याः, ग्रन्थगौरवभयात् तु नादद्रे भाष्यकारः / तथा यदर्थ शास्त्रप्रवृत्तिस्तत्रापि योजनां निर्देशादीनां कुर्वनाह मा०–सम्यग्दर्शनपरीक्षायाम् / किं सम्यग्दर्शनं द्रव्यम् ? / सम्यग्दंष्टिजीवोऽरूपी नोस्कन्धो नोग्रामः // 'गुण्यक्रिया' इति क-न-पाठः / 2 'प्राधान्यं' इति क-ख-पाठः / 3 कस्मिन् वा' इति स्व-पादः / Page #81 -------------------------------------------------------------------------- ________________ सम्यक्त्वस्य सूत्र] स्वोपज्ञभाष्य टीकालङ्कृतम् टी-सम्यग्दर्शनपरीक्षायामित्यादि / यदा सम्यग्दर्शनं परीक्ष्यते तदापि सम्यग्दर्शनं किं गुणः क्रिया द्रव्यमिति पृष्टे निर्देशो भवति, निर्देश: * उच्यते-द्रव्यम् , ये जीवेन शुभाध्यवसायविशेषेण विशोध्य पुद्गलाः प्रतिसमयमुपभुज्यन्ते अतस्ते सम्यग्दर्शनस्य निमित्तम्, तदुपष्टम्भजन्यत्वात् श्रद्धानपरिणामस्य, ततश्च कारणे कार्योपचाराद् द्रव्यं सम्यग्दर्शनम् / मुख्यया तु वृत्या रुचिरात्मपरिणामो ज्ञानलक्षणः श्रद्धासंवेगादिरूपः सम्यग्दर्शनं तदप्या. 'मद्रव्यमेव द्रव्यनयस्य, पर्यायनयस्य तु गुणमात्रमवसेयमिति / यदि तर्हि पुद्गला द्रव्यखभावा रुचिमापादयन्तः सम्यग्दर्शनमिति भण्यन्ते, न तर्हि क्षीणदर्शनमोहनीयस्य छद्मस्थकेवलिसिद्धजीवस्य सम्यग्दर्शनं प्राप्नोतीत्युक्ते आह-सम्यग्दृष्टिजीव इति / सम्यक शोभना दृष्टिा सत्पदार्थावलोकिनी सा सम्यग्दृष्टिर्यस्य क्षीणदर्शनमोहनीयस्य स सम्यग्दृष्टिजीवः / एतत्कधयति, क्षीणे दर्शनमोहनीये नैवासौ सम्यग्दर्शनी भण्यते, कस्तर्हि ? सम्यग्दृष्टिरेवासौ भण्यते, वतः सिद्धसाध्यता, स पुनः क्षीणदर्शनमोहः किं रूपी ? नेत्याह-अरूपी / अविद्यमान रूपमस्येत्यरूपी, सर्वधर्मादिषु क्षेपः / नासौ.रूपादिधर्मसमन्वितः अमूर्त आत्मेति / छद्मस्थकेबलिनोर्यद्यपि कर्मपटलोपरागः :तथाप्यात्मा न खभावमुपजहाति, आगन्तुकं हि कर्मरजो मलिनयत्यात्मानमश्रादीव. चन्द्रमसम् / सिद्धः सर्वथाप्यरूप एव / सम्यग्दृष्टिरिदानीमाशइक्यते-किं स्कन्धो ग्राम इति, तनिरासायाह-नोस्कन्धः / अरूपत्वादेव न स्कन्धः, पुद्गलादिरूपस्वप्रदेशाङ्गीकरणात् स्यात् स्कन्धः, अथवा पञ्चास्तिकायसमुदितिः स्कन्धः, नो. शब्दस्य तद्देशवाचित्वान्नोस्कन्धः सम्यग्दृष्टिः / एवं नोग्रामोऽपि वक्तव्यः / एवं सम्यग्दर्शनिनः सम्यग्दर्शनकारणत्वात् पुद्गलानपादिक्षत् सम्यग्दर्शनं, तैर्वियुतः पुद्गलैः सम्यग्दृष्टिरिति॥ - भा०-स्वामित्वम् / कस्य सम्यग्दर्शनमिति ? एतदात्मसंयोगेन परसंपोगन उभयसंयोगेन चेति वाच्यम् / आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् / परसंयोगेन जीवस्याजीवस्य जीवयोरजीवयोर्जीवानामजीभारमपरोभयसंग भयसग वानामिति विकल्पाः / उभयसंयोगेन जीवस्य नोजीवस्य मेन सम्यक्त्व जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति, शेषाः सन्ति // टी–सम्प्रति स्वामित्वशब्दोच्चारणे स्वामित्वम् इत्यनेन कस्य स्वामिनः सम्यग्दनिमित्युद्देशवाक्यमेवं कृत्वा प्रवृत्तम् / किं यत् समवाय्येतत् तस्यैवैतत्, उत तदुत्पत्तिनिमित्तभूतखान्यस्यापि व्यवहारार्थमाश्रीयत इति / उच्यते-मुख्येन तावत् कल्पेन यद्यत्र समवेतं तत् तस्पैवेति, व्यवहारार्थ तु निमित्तभूतमप्याश्रीयते / एतदाह-आत्मसंयोगेनेत्यादि / आत्मसंयोगेनात्मसम्बन्धेन / यदा हि उत्पद्यमानस्य सम्यग्दर्शनस्य परतोऽपि निमित्तात् प्रतिमादि 'वियुतैः' इतिग-पाठः / Page #82 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 कामापेक्षा क्रियते प्रतिमादेः तदाऽसौ परिणाम आत्मनि समवेत इतिकृत्वा स एवात्मा तेन परिणामेन तानि तत्त्वान्येवमभिमन्यते, अतः आत्मसंयोगेन जीवस्य सम्यग्दर्शनम्, जीवस्य स्वामिनः सम्यग्दर्शनं रुचिरिति / परसंयोगेनेति / परं साधुप्रतिमादिवस्तु तन्निमित्तीकृत्य श्रद्धानपरिणाम उपजायते अतः स परिणामस्तकर्तृक इति तस्य व्यपदिश्यते / अत्र च परसंयोगे षड् विकल्पा भवन्ति जीवस्येत्यादयः / यदाऽस्य जन्तोः परमेकं मुनिमालम्ब्य क्रियानुष्ठानयुक्तं सा रुचिरुपजायते, क्षयोपशमो हि द्रव्यादिपञ्चकमुररीकृत्य प्रादुरस्ति, अतो बहिरवस्थितस्य साधोरुत्पादयितुः सा रुचिः, स्वं कुम्भ इव कुम्भकारस्येति / एवमेकमजीवाख्यं पदार्थ प्रतिमादिकं प्रतीत्य यदा क्षयोपशमः समुपाजनि तदा तस्यैवाजीवस्य सम्यग्दर्शनं नात्मन इति / यदा पुनद्वौ साधू निमित्तं क्षयोपशमस्य विवक्षितौ नात्मा तदा जीवयोः सम्यग्दर्शनम् / यदा पुनरजीवौ प्रतिमाख्यावुभौ निमित्तीकृतौ तदा तयोः स्वामित्वविवक्षायां तत् सम्यग्दर्शन मिति / यदा पुनर्बहवो जीवाः साधवस्तस्योत्पत्तौ निमित्तं भवन्ति तदा जीवानां सम्यग्दर्शनं नतु यत्र समवेतमिति / यदा पुनर्बह्वीः प्रतिमा भगवतां दृष्टा तत्त्वार्थश्रद्धानमाविर्भवति तदा च तासामेव तत्कर्तृत्वान्नात्मन इति // उभयसंयोगेनेति / यदात्मनोऽन्तरङ्गस्य बहिरङ्गस्य च साध्वादेस्तद् विवक्ष्यते तदा उभौ तस्य सम्यग्दर्शनस्य स्वामिनौ भवत इत्युभयसंयोगोऽभिधीयते / अत्र च लापविक आचार्यों हेयान् विकल्पान् दर्शयति / आदेयाः पुनरुपात्तव्यतिरिक्ताः / अयं तावदत्र विकल्पो न सम्भवति जीवस्य सम्यग्दर्शनमिति, यतोऽनेन षष्ठयन्तेन सम्यग्दर्शनस्य यः समवाय्यात्मा स वा भण्यते बाह्यो वा तीर्थकरादिर्यमवलोक्य स तादृशः परिणतिविशेषः समुदभूदिति, तत्र यद्यात्मा समवायी सम्बध्यते, नास्ति तदा परस्य सम्बन्धः, उभयसंयोगेन चैतचिन्त्यते, अथ बाह्यस्तीर्थकरादिमिरमिसम्बध्यते तदा नात्मादिसम्बन्धः अतस्त्याज्य एवायं विकल्पः / एवं नोजीवस्येति। अजीवस्येत्यर्थः / एकस्याः प्रतिमाया विवक्षितत्वादुभयसंयोगाभाव इति हेयो विकल्पः / तथा जीवयोः सम्यग्दर्शन मिति न सम्भवति यस्माद् द्वावत्र समवायिनौ पुरुषो स्वामितया विवक्षितौ मम च सम्यग्दर्शनमस्य च सम्यग्दर्शनमुत्पन्नमिति, यतस्तु तदालम्व्योत्पन्न विवक्षव स्वामितया उत्पादकनिमित्तयोश्चोभयसंयोगो विवक्षितः अतस्त्यज्यते / तथा अजीवयोः सम्यग्दर्शनमिति द्वयोः प्रतिमयोरालम्बनीकृतयोर्भेदेन तद् विवक्षितम्,यत्र तु समवेतं तत्राविवक्षातस्त्यज्यते अयमपि विकल्पः / तथा पञ्चमोऽपि त्याज्यः / जीवानामिति / अत्र हि बहव एव सम्यग्दर्शनसमवायिनो विवक्षिता जीवा मम अस्य चास्य चेति न तु येनालम्बनेन तेषामुत्पन्नं तस्यालम्ब्यस्य तत् सम्यग्दर्शनं विवक्षितम्, तस्मादयमपि त्याज्यः / षष्ठोऽपि अजीवानामिति त्यज्यते, आलम्ब्यानां बहूनां प्रतिमानामेतत् सम्यग्दर्शन मिति विवक्षितं, यत्र तूत्पन्नं तत्राविवक्षितं यत्र नोत्पन्नं तत्र विवक्षितमिति त्याज्य एव षष्ठो विकल्पः। एवमेते उभयसंयोगविवक्षायां षडपि त्यक्ताः // आदेया अपि षडेव, यथा जीवस्य च जीवस्य Page #83 -------------------------------------------------------------------------- ________________ सूत्र 7]. स्वोपज्ञभाष्य-टीकालङ्कृतम् ___57 * च, यस्य तदुत्पन्नं तस्य तत्परिणन्तुः यं च निमित्तीकृत्य साधुमुपजायते दर्शनं तस्य च तदिति उभयोर्विवक्षितत्वेन जीवस्य च जीवस्य च विकल्पः सम्भाव्यते।। तथा यस्य तदुत्पन्न तस्य च विवक्षितम्, याभ्यां च दृश्यमानाभ्यां साधुभ्यां तदुत्पादितं तयोश्च साधुजीवयोस्तत् सम्यग्दर्शनमुभयत्रापि स्वत्वेन विवक्षितत्वात् जीवस्य जीवयोश्च द्वितीयविकल्पः / 2 / तथा यस्य तदुत्पन्नं तस्य विवक्षितं यैश्च दृश्यमानैः साधुभिरुत्पादितं तेषां च तत् सम्यग्दर्शनं सम्भ. वीति विकल्यो जीवस्य जीवानां चेति / 3 / तथा यस्य जीवस्य तदुत्पन्नं तस्य च विवक्षितं यया च दृश्यमानया प्रतिमया अजीवरूपयोत्पादितं तस्याश्च तदिति तदा जीवस्य च तत् तस्याश्च प्रतिमायास्तदिति सम्भाव्यते विकल्पः जीवस्याजीवस्य चेति / 4 / तथा जीवस्य त(य)स्य तदुत्पन्नं याभ्यां च प्रतिमाभ्यां दृश्यमानाभ्यां तदुत्पादितमुभयत्र विवक्षितत्वात् सम्भाव्ययं विकल्पो जीवस्याजीवयोश्चेति / 5 / तथा त(य)स्य तदुत्पन्न याभिश्च प्रतिमाभिः दृश्यमानाभिरुत्पादितं सर्वत्र विवक्षितत्वात् जीवस्याजीवानां चेति भङ्गकः सम्भाव्यते / 6 / एतदाह-शेषाः सन्ति, पडित्यर्थः / सम्प्रति तृतीयद्वार परामृशन्नाहसाधनम् इति / साध्यते-निर्वय॑ते येन तत् साधनम् / अत्र पृच्छयमानं, तदाह - भा०–साधनम् / सम्यग्दर्शनं केन भवति। निसर्गादाधेगमाद् वा भव .. तीत्युंक्तम् (1-3) / तत्र निसर्गः पूर्वोक्तः / अधिगमस्तु क्षयोपशमादीनां / सम्यग्व्यायामः / उभयमपि तदावरणीयस्य कर्मणः क्षयेणासाधनता पशमेन क्षयोपशमाभ्यामिति // टी-सम्यग्दर्शनं केन भवति-या सौ रुचिः सुविशुद्धसम्यक्त्वदलिकोपेता सा केन भवतीत्यर्थः / इतर आह-निसर्गादधिगमाद् वा भवतीत्युक्तम् , एतत् कथयति-न तावेव निसर्गाधिगमौ तादृशीं रुचिं जनयतः, किन्तु निसर्गाधिगमाभ्यां क्षयोपशमादयः कर्मों जन्यन्ते, ततः क्षयोपशमादेः सम्यग्दर्शनं सम्भवति, तावपि च निसर्गाधिगमौ कर्मणां क्षयोपशमादेरेव भवतः, ततस्ताभ्यामुत्तरोत्तरक्षयोपशमं विशुद्धं विशुद्धतरमापा. दयमानाभ्यां यदा प्रतिविशिष्टः क्षयोपशम आपादितो भवति तदा तस्मात् प्रतिविशिष्टात् क्षयोपशमात् सम्यग्दर्शनं भवति इति कथयति / तत्र निसर्गे बहु वक्तव्यमिति प्राक् तद्दर्शितमेव, एकेन च वाक्येन न शक्यं तत् समस्तं दर्शयितुमित्यतिदिशति-तत्र निसर्गः पूर्वोक्तः। अधिगमोऽल्पविचारत्वादेकेनैव वाक्येन, समस्ताधिगमोपसंहारभावादाह-अधिगमस्तु सम्यव्यायाम इति / गुर्वादिसमीपाध्यासिनः शुभा या क्रिया सम्यग्दर्शनोत्पादनशक्ता सा सम्यग्व्यायाम इत्युच्यते / उभयमपीत्यादि / उभयमपीति निसर्गसम्यग्दर्शनमधिगमसम्यग्दर्शनं च, तौ च निसर्गाधिगमावुभावपि कथं भवतः ? / आह-तदावरणीयेत्यादि / वस्थ रुचिलक्षणस्य ज्ञानस्य यदावरणीयकं तत् तदावरणीयं, आवरणीयशब्दाच निश्चीयते 'व्याख्यायाम' इति क-ख-पाठः / 2 'कर्मणां' इत्यधिकः क-ख-पाठः / 2 'व्याख्यायाम' इति -ब-पाठः। Page #84 -------------------------------------------------------------------------- ________________ 58 सम्यक्रवत्तिः तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ज्ञानम्, तदन्यत्र हि ज्ञानदर्शनावरणीयवर्जिते कर्मणि नावरणीयव्यवहारः प्राय इति / कि पुनस्तदावरणीयम् ? मतिज्ञानाद्यावरणीयम्, अनन्तानुबन्ध्यादि च निमित्ततया आवरणीयम्, यतस्तस्मिन्नुपशान्तेऽनन्तानुबन्ध्यादिकर्मणि तत् मतिज्ञानावरणीयं क्षयोपशमावस्थां भजते एतावता तदावरणीयं भण्यते / एतच्च पुरस्ताद भावितमेव, अतः तदावरणीयस्य कर्मणः क्षयण-उक्तलक्षणेन उपशमेन च क्षयोपशमाभ्यामिति च प्राप्यत इति // ननु च ज्ञानावरणीयस्योपशमो नास्ति, त्वया चैतनिरूपितं ज्ञानावरणमस्यांवरणमिति, तत् कथमेतत् / / उच्यते-सत्यमेतदेवं, किन्तु मोहनीयोपशमादस्य ज्ञानावरणस्य क्षयः क्षयोपशमो वा भवति, ततः क्षयात् क्षयोपशमाञ्च सम्यग्दर्शनमिति भावितमेव किं भवता विस्मार्यते 1 // सम्प्रत्यधिकरणद्वारं स्पृशति भा०-अधिकरणं त्रिविधमात्मसन्निधानेन परसन्निधानेनोभयसन्निधानेनेति वाच्यम् / आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः / परसन्निधानं बाह्यसन्निधानमित्यर्थः / उभयसन्निधानं अभ्यन्तरबाह्ययोः आत्मपरोभयेषु / यषु सन्निधानमित्यर्थः / कस्मिन् सम्यग्दर्शनम् ? / आत्मसन्नि धाने परसन्निधाने उभयसन्निधाने इति / आत्मसन्निधाने तावतू जीवे सम्यग्दर्शनं जीवे ज्ञानं जीवे चारित्रमित्येतदादि / बायसन्निधाने जीवे सम्यग्दर्शनं नीजीवे सम्यग्दर्शन मिति यथोक्ता विकल्पाः। उभयसन्निधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति // , टी-अधिकरणमिति / अधिक्रियते यत्र तदधिकरणम्-आधार आश्रय इति / स चाधारस्त्रिविधः-आत्मा वा यत्समवेतं दर्शनं मुख्यतः, उपचारात् परत्रापि भवति, यद् वस्तु समालम्ब्य तदुपजातं तस्मिन्नपि, तदुभयविवक्षायां चोभयत्र तद् आत्मनि परत्र च / एतदेव त्रैविध्यं दर्शयन्नाह-आत्मसन्निधानेनात्मन्येव स्थितमित्यर्थः, परसन्निधानेन परत्र स्थितमिति, आत्मस्थमपि सदस्मिन् पक्षे न विवक्ष्यते, उभयसन्निधानेनात्मनि परत्र चेति वाच्यम्-व्याख्येयमिति / आत्मसभिधानमिति चास्याथै सुहृद् भूत्वा कथयतिआत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः / आत्मैवाधार आत्मसभिधानम्, प्रसिद्धतरेण शब्देनाभ्यन्तरसविधानमिति व्यपदिष्टः, आन्तर आसन्नस्तस्य सम्यग्दर्शनस्येति / परसन्निधानमिति चास्यार्थ विवृणोति-बाह्यसन्निधानं, बाह्य-प्रतिमादि कल्पितरूपम् इति / एवमुभयभावना कार्या / अधुनाऽऽधारे त्रिविधे कथिते परस्यैतदेव सन्देहकारणं जातम् / क तर्हि सम्यग्दर्शन मिति पृच्छति-कस्मिन् सम्यग्दर्शनम् ? अथवा अन्यथा प्रश्नः-सम्यग्दर्शनमित्येष गुणः, गुणस्य चावश्यमाश्रयेण भवितव्यम्, स पुनराश्रयः १.अस्य सम्यग्दर्शनस्य' इति क-टी-पाठः / 2 'बाह्याभ्यन्तरसंनिधानं' इति ग-घ-पाठः / 3 'बाहप्रतिमादिः कल्पितरूप'इतिक-न-पाठः / Page #85 -------------------------------------------------------------------------- ________________ सूत्र 7 ]. स्वोपक्षमाष्य-टीकालङ्कृतम् 'किमभ्यन्तरमात्मा उत बाह्य प्रतिमादिवस्तु यदुपष्टम्भेनोपजातमुतोभयमिति प्रनित आहमात्मसग्निधाने तावदित्यादि / आत्माधारविवक्षायां जीवे सम्यग्दर्शनं, तस्यान्यप्रादर्शनात, यथा रुचिः, एवं ज्ञानचारित्रे अपीति, एतदाह-जीवे ज्ञानं जीवे चारित्रमिति / न च ज्ञानदर्शनचारित्राणि विरहय्यान्यो जीवोऽस्तीति काल्पनिकमपदिशति / कथम् ? बदा. तावज्जीवे सम्यग्दर्शनं तदा ज्ञानचारित्रे आधारभावं प्रतिपद्येते, ज्ञानचारित्रात्मनि जीवे सम्यग्दर्शनम् / यदा जीवे ज्ञानं तदा दर्शनचरणयोराधारता, यदा जीवे चारित्रं तदा ज्ञानदर्शनयोराधारता, चारित्रमाधेयमिति / एतदादि इति / एतानि ज्ञानादीनि आदियस्य गुणान्तरस्य तदेतदादि, तदपि जीवे आधारे दृश्यम्, भव्याभव्यत्वादि / पालसन्निधाने जीवे सम्यग्दर्शनमित्यादि // ननु चात्मन्येवोपलभ्यत इत्युक्तं कथमिदानी परस्मिन्नपि व्यपदिशति / उच्यते-न यदेव यत्राविभागेनावस्थितं तदेव तत्रेत्युच्यते, किन्तु अन्यत्राप्यवस्थितमन्यत्र अपदिश्यते, देवदत्ते धनमिति गेहस्थमेव तत्रेत्युच्यते / जीवे सम्यग्दर्शनमित्यादयो विकल्पाः पूर्व भाविता एव, इहाप्याधारभेदं केवलमुच्चारयता सर्व तथैव भावनीयम् / उभयसन्निधाने चाभूताः सद्भूताश्च षडेव यथोक्ता भङ्गा एव विकल्पाः भङ्गेषु वा विकल्पा इति // स्थितिद्वारम्, स्थितिरित्येतद् विवृणोति- भा०—स्थितिः। सम्यग्दर्शनं कियन्तं कालम् ? / सम्यग्दृष्टिर्द्विधा / समयदर्शनस्य सादिः सपर्यवसाना सादिरपर्यवसाना च / सादिसपर्यसम्यग्दृष्टेश्च विधा वसानमेव सम्यग्दर्शनम् / तजघन्येनान्तर्मुहूर्तम, उत्कृष्टेन - स्थितिः षट्षष्टिः सागरोपमानि(णि) माधिकानि / सम्यग्दृष्टिः सादिरपर्यवसाना / सयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चति // : टी०-सम्यग्दर्शनं कियन्तं कालं सम्पन्नं सदवतिष्ठते ? "कालाध्वनोः" (पाणिनिः ब. 2, पा० 3, सू० 5) इति द्वितीया / प्रश्नयितुरयमभिप्रायः प्रागभूत्वा थ्यादृष्टेदेर्शनमाविश्वकास्ति, यच्चोत्सत्तिमत् त(त्किञ्चित् सादि सपर्यवसानं दृष्टं मनुष्यत्वादिवत, किश्चित् सादि अपर्यवसानं सिद्धत्वादिवत्, आचार्योऽपि प्रश्नाभिप्रायानुरूपमेवोत्तरमाहसम्यग्दृष्टिईिविधेत्यादि / द्विविधेति सादिः सपर्यवसाना सादिरपर्यवसाना चेत्येवं विविधा शोभना दृष्टिः / का च शोभना ? या शुद्धदलिककृता, या च दर्शनमोहनीरक्षयात् त्रयाणां भवति छमस्थस्य श्रेणिकादेरिव, अपरा भवस्थस्यापायसद्व्यपरिक्षये देवलिनः, अपरा सिद्धस्येति / तत्र याऽपायसद्व्यवर्तिनी श्रेणिकादीनां सदद्रव्यापगमे . भवति अपायसहचारिणी सा सादिसपर्यवसाना, यस्मिन् काले श्रेणिकादिमि नमोहसप्तकं क्षपयित्वा रुचिराप्ता स आदिस्तस्याः, यदा त्वपायः-आमिनिवोधिकअपगतं भविष्यति केवलज्ञाने उत्पने सोऽन्तोऽस्याः सम्यग्दृष्टेः, एतदाह-सादिः सपर्यव 'अन्यथा' इति पाठान्तरम् / 2 'मन्यत्वं' इति क-ख-पाठः / Page #86 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 सानेति / या तु भवस्थकेवलिनो द्विविधस्य सयोगाऽयोगभेदस्य सिद्धस्य वा दर्शनमोहनीयसप्तकक्षयादपायसदद्रव्यक्षयाचोदपादि सा सादिरपर्यवसानेति। यस्मिन् काले दर्शनमोहनीयं क्षपयित्वा प्राप्ता स आदिः तस्याः / एवमेतत् तत्त्वमित्येवंविधा या रुचिः सा न कदाचित् तस्यापैष्यतीति / एवं यथाक्रममुपन्यस्य स्वयं व्याख्यानयति—सादिसपर्यवसानेति यदुक्तं तस्येदं व्याख्यानम्-सादिसंपर्यवसानमेव सम्यग्दर्शनम् / यच्चापायसद्व्यवर्ति तच्च सम्यग्दर्शनमितीह भणति / यच्च सद्रव्यविगमे अपायसम्भवे श्रेणिकादीनां तच्च भणति / कथं च सादीति ? सहादिना वर्तत इति सादि, यस्मिन् काले मिथ्यादर्शनपुद्गलान् विशोध्य स्थापयति सम्यग्दर्शनतया तदा सादि, यदा त्वनन्तानुबन्ध्युदयात् पुनर्मिथ्यादर्शनतया परिणाममानेष्यति क्षपयित्वा वा तान् सम्यग्दर्शनपुद्गलान् केवली भविष्यति तदा सपर्यवसानम् / सह पर्यवसानेन यद् वर्तते तत् सपर्यवसानमेव सम्यग्दर्शनम् / यदा च दर्शनसप्तकं क्षपयित्वा प्राप्नोति श्रेणिकादिः स आदिस्तस्य केवलप्राप्तावन्त इति / तत् पुनः सम्यग्दर्शनं सादिसपर्यव. सानम् / शुद्धदलिकसहवर्तिनी रुचिः कियन्तं कालं भवतीति यत् पुरस्ताचोदितं तद भावयन्नाह -तजघन्येनेत्यादि / तत्-सम्यग्दर्शनं जघन्येन अन्तर्मुहूर्तम्, मुहूर्तो घटिकाद्वयं, मुहूर्तस्य मध्यं अन्तर्मुहूर्तम् / तदवतिष्ठते जघन्येनेति / 'सुप्सुपे'ति समासो भवति / अत्यन्तसंयोगे कालस्य द्वितीया / एतद् भवति तथा कश्चिजन्तुः सम्यग्दर्शनं द्विघटिकान्तस्तपरिणाममनुभूय मिथ्यादर्शनी भवति केवली वा परतः, एवं च जघन्यां स्थितिमाख्यायोस्कृष्टां निरूपयन्नाह-उत्कृष्टेनेत्यादि / उत्कर्षेण कियन्तं कालमास्ते षट्षष्टिः सागरोपमाणि साधिकानि, तद्भावना-इहाष्टवर्षेः सम्यग्दर्शनमधिगम्य समासादितदीक्षः पूर्वकोटी विहत्याष्टवर्षानाम् अपरिच्युतसम्यग्दशेनो विजयादीनां चतुणोमन्यतमस्मिन् विमाने उदपादि स्थितावुत्कृष्टायां, त्रयस्त्रिंशत्सागरोपमस्थितिः, तत्क्षयाचं प्रच्युत्य मनुजेषु सहदर्शनः समजनि, पुनस्तेनैव प्रकारेण संयममनुष्ठाय तदेव विमानं तावत्स्थितिमनुप्रापत् , पुनः स्थितौ क्षीणायामक्षीणतत्त्वार्थश्रद्धानः (नरत्वमनुगतः )संयमं प्राप्यावश्यन्तया सिद्धयति / एवं द्वे त्रयस्त्रिंशतौ षट्षष्टिः पूर्वकोटीत्रयातिरिक्ता, अच्युतकल्पे वा द्वाविंशतिसागरोपमस्थितिस्तिस्रो वाराः समुत्पद्यते, अतः परमवश्यम्भाविनी तस्य सिद्धिरिति / यदुक्तं पुरस्तात्-सम्यग्दृष्टिर्द्विविधा सादिः सपर्यवसानेति सोंऽशो भावितः / स्थितिरेव सादिरपर्यवसानेति योऽशस्तं भावयत्यनेन–सम्यग्दृष्टिः सादिरपर्यवसाना सयोग इत्यादिना / सह योगैमनोवाककायलक्षणैः सयोगकेवली, उत्पन्ने केवलज्ञाने यावच्छैलेशी नो प्रतिपद्यते तावत् सयोगकेवली, शैलेशीप्रतिपत्तौ तु निरुद्धयोगत्वादयोगः / एतदेवाह-शैलेशीप्राप्त इति / शिलानां समूहाः शैलाः तेषामीशो मेरुस्तस्य भावः शैलेशी अचलतेतियावत् तां प्राप्तः / स चेयान् कालो ज्ञेयः-मध्यमया वृत्त्या पञ्च हस्ताक्षराण्युच्चार्यन्ते यावत् , ततः परं सिद्धयत्येव / एष द्विविधोऽपि केवली सयोगायोगाख्यो भवस्थः साद्यपर्यवसानः सम्यग्दृष्टिरुच्यते / सिद्धश्च Page #87 -------------------------------------------------------------------------- ________________ सूत्रं 7] स्वोपनमाष्य-टीकालङ्कृतम् 61 सर्वकर्मवियुत इति / यतः सादिरप्यसौ रुचिर्न कदाचिदपैष्यतीति / सम्यग्दृष्टिः सादिरपर्यवसानैवेत्ययं स्त्रीलिङ्गनिर्देशः भवस्थकेवलिनः सयोगायोगस्य च सिद्धस्य च तस्या रुचेरनन्यत्वख्यापनार्थो, नासौ ततोऽन्य इति / अथवा सम्यग्दृष्टिः सादिरपर्यवसाना यामिहिता तामनुभवति सयोगादिरिति नेयम् // सम्प्रति विधानद्वार परामृशन्नाह-". . भा०-विधानम् / हेतुत्रैविध्यात् क्षयादि त्रिविधं सम्यग्दर्शनम् / तदावरणीयस्य कर्मणो दर्शनमोहनीयस्य च क्षयादिभ्यः / तद्यथा-क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति / अत्र चौपशमिकक्षायोपशमिकक्षायिकाणां परतः परतो विशुद्धिप्रकर्षः // 7 // किं चान्यत् // टी.-विधानमिति। विधीयते तदिति विधानं भेदः प्रकार इति // ननु च साधनद्वा _ रेऽभिहित एव भेदो निसर्गसम्यग्दर्शनम्, अधिगमसम्यग्दर्शनमिति च, साधन-विधानPATI- किं पुनर्भेद आख्यायते ? / उच्यते-तत्र न सम्यग्दर्शनस्य भेदः प्रतिपर पिपादयिषितः, किन्तु निमित्तम् , तत्र क्षयादि यदुत्पत्तौ कारणतां प्रति , पद्यते तद्भेदो विवक्षितः, इह तु तेन निमित्तेन यत् कार्यमुपजनितं तस्य भेदः प्रतिपाद्यत इति, एवं च कृत्वा वक्ष्यमाणस्य सङख्याद्वारस्यास्य च विधानद्वारस्य स्पष्ट एव खेदो निदर्शितः स्यात् / विधानं सम्यग्दर्शनस्य भेदकं, क्षयसम्यग्दर्शनम् उपशमसम्यग्दर्शनं धयोपशमसम्यग्दर्शनमिति। सङ्ख्याद्वारेषु तद्वतो भेदः प्रतिपाद्यते, कियत् सम्यग्दर्शनम् ? कियन्तः सम्यग्दर्शनिन इत्यर्थः / निर्णयवाक्येऽपि चासङ्ख्येयानि सम्यग्दर्शनानीत्यस्मिन्नसंख्येयाः सम्यग्दर्शनिन इत्यर्थः,मतुब्लोपादभेदोपचारात् अर्शआदिपाठा वा,तस्माद्युक्तं त्रयाणां साधनविधानसङ्ख्याद्वाराणां परस्परेण भेद इति / सम्प्रति भेदकथने प्रवर्तमान एकस्याश्च भेदरूपता रुचेरयुक्तरूपेति मन्यमानः कारणोपाधिकं भेदं दर्शयन्नाह-हेतुत्रैविध्यात् क्षयादि त्रिविधमित्यादि / तिस्रो विधा यस्य स त्रिविधो हेतुः अन्यपदार्थः, विविधस्य भावस्त्रैविध्यम्, हेतोस्वैविध्यं हेतुत्रैविध्यम्, तस्माद्धेतुत्रैविध्याद् वर्तमानसामीप्यादिवत् समासः / हेतुत्रैविध्यप्रदर्शनायाह-क्षयादि त्रिविधं सम्यग्दर्शनम् इति / कार्यनिर्देश एषः, न च त्रिभिः सम्भूयैकं जन्यते मृदुदकगोमयैरिवोपवेशनकं, किन्तु क्षयेणान्यैव रुचिरात्यन्तिकी सकलदोपरहिताऽऽविर्भाव्यते, क्षयोपशमेनापि चान्यादृश्येव, तथोपशमेनेति, अतस्त्रिविधं सम्यग्दर्शनम् / यत्कार्य क्षयादिहेतुभिः / के पुनस्ते हेतव इति ? / उच्यते-क्षयादयः, कस्य ते क्षयायोऽत आह-तदावरणीयस्येत्यादि / तस्य-सम्यग्दर्शनस्य, आवरणीयम्-आच्छादकं शलाञ्छनस्येवाभ्रादि, तस्य चावरणीयं कर्म ज्ञानावरणीयं, मत्याद्यावरणीयमित्यर्थः। तस्य तदावरणीयस्य कर्मणः / तथा दर्शनमोहनीयस्य च इति, कस्येति चेत् ? उच्यते-अनन्तानुबव्यादिदर्शनमोहनीयस्य चेति, अनन्तानुबन्ध्यादिदर्शनसप्तकस्य क्षयादिभ्य इति च-क्षयउउसमक्षयोपशमेभ्यो हेतुभ्यस्तदुपजायते, सम्यग्दर्शनावरणीयस्येति च ब्रुवता ज्ञानावरणीयम Page #88 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् [अध्यायः 1 भ्युपगतम्, तदभ्युपगमे च ज्ञानत्वं सम्यग्दर्शनस्य सुप्रतिपाद्यम् / तथा दर्शनमोहनीयस्येति ब्रुवता इदमभ्युपगतम्-दर्शनमोहनीयस्य क्षयादिषु सत्सु तत्प्रादुर्भावो न पुनदर्शनमोहस्तदावरणमित्येतद भावितमेव पुरस्तात् / ग्रन्थकारस्याप्ययमेवाभिप्रायः पुनरुद्घट्टित इति / तद्यथा इति / एभ्यो हेतुभ्यो यत् कार्यमुपजातं तत् प्रदश्यते-क्षयसम्यग्दर्शनमिति / मत्याधावरणीयदशेनमोहसप्तकक्षयादुपजातं क्षयसम्यग्दर्शनमभिधीयते, तेषामेवोपशमाज्जातं उपशमसम्यग्दर्शनमुच्यते, तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति प्रवचनाभिज्ञाः / एषां च क्षयादीनां प्राग्भावना कुरीव, इह केवलं तदावरणीयेषु लगनीया इति / एवं क्षयादिहेतुकं यत् कार्यमुपाजनि तत् प्रदाधुना एतत् पृच्छयते-किमेकरूपाण्येवैतानि उतास्ति कश्चित् प्रकर्ष एषामिति ? / उच्यते___अत्र चेत्यादि / अत्रेति एषु क्षयादिसम्यग्दर्शनेषु, यथा कार्यभेदोऽभ्युपगतः एवं प्रकर्षभेदोऽभ्युपगन्तव्य इति कथयत्येतच्चशब्दः। तं च प्रकर्ष दर्शयन्नाह-औपशमिकेत्यादि। पूर्व च क्षयसम्यग्दर्शनं प्रधानस्वादुपन्यस्येदानी प्रकर्षस्य निदर्यत्वादन्ते तदुपन्यस्यति / उपशमेन-उदयविधातरूपेण निवृत्तमोपशमिकं, क्षयेण-उपरिशाटरूपेणोपशमेन च निवृत्तं क्षायोपशमिकम्, क्षयेण निवृत्तं क्षायिकम्, अत एषामौपशमिकादीनामिमा रचनामाश्रित्य परस्य परस्य विशुद्धिप्रकर्षों निर्मलता स्वच्छता तत्त्वपरिच्छेदितेत्यर्थः। औपशमिकं हि सम्यग्दर्शनं सर्वमलीमसम्, अल्पकालत्वात्, भूयश्च मिथ्यात्वगमनात्, यतोऽन्तर्मुहर्तमानं भवेत्, यदि च कालं तत्रस्थो न करोति एवं सति मिथ्यादर्शनमेवं प्रतिपद्यत इत्यागमः / तसाचौपशमिकतः क्षायोपशमिकसम्यग्दर्शनं विशुद्धतरम्, बहुकालावस्थायित्वात्, यत उत्कृष्टेन षट्षष्टिः सागरोपमाणि साधिकानि तदुक्तम्, अत एव च तस्य वस्तुपरिच्छेदे स्पष्टं ग्रहणसामर्थ्यमनुमातव्यमागमाच्चास्मात् , ततश्च क्षायिकं विशुद्धतमम् , सर्वकालावस्थायित्वात् स्पष्टवस्तुपरिच्छेदाच्चेति // 7 // किं चान्यदित्युत्तरसूत्रसम्बन्धवाक्यं, न केवलमेमिरेवैमिश्च निश्चयः कार्य इति, कैरिति चेदित्यत आह सूत्रम्-सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहत्वैश्च // 1-8 // - टी-सत्सङ्ख्येत्यादि / सच्छब्दं च सङ्ख्यादिविशेषणं कश्चिदाश्रयेदित्यतो निराकरणार्थ विविच्य दर्शयति भा०-सत्, सङ्ख्या , क्षेत्र, स्पर्शनं, कालः, अन्तरं, भावः, अल्पबहुत्वमित्येतेश्च सद्भूतपदप्ररूपणादिभिरष्टाभिरनुयोगदारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति / कथमिति चेत्, उच्यते-सत्, सम्यग्दर्शनं किमस्ति नास्ति ? अस्तीत्युच्यते / वास्तीति चेत्, उच्यते-अजीवेषु तावन्नास्ति, जीवेषु 'तत्वानां ' इत्यधिकः क-ख-पाठः / Page #89 -------------------------------------------------------------------------- ________________ सूत्र 8] स्वोपज्ञभाष्य टीकालङ्कृतम् तु भाज्यम् / तद्यथा-गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगदारेषु यथासंभवं सद्भूतप्ररूपणा कर्तव्या // - टी-सत् सङ्ख्या क्षेत्रमित्यादि युक्तमेवैतद् द्वारमिति / इतिशब्द इयत्तायाम् / इयद्भिरेव येऽन्ये तेऽत्रैवान्तर्भवन्ति, एतैश्च सूत्रोक्तैः / एतदेव विशेषयति-सद्भूतपद्प्ररूपणादिभिः, सद्भूतस्य–विद्यमानार्थस्य सम्यग्दर्शनपदस्य प्ररूपणा-तत्त्वकथनं सा आदिर्येषां तानि सद्भूतपदप्ररूपणादीनि तैरिति विवेकेन फलं दर्शयति-अष्टाभिरिति / तेषां च व्याख्यानाङ्गतां कथयति-अनुयोगद्वारैरिति / सर्वभावानाम इत्यनेनैषां व्यापितां कथयति-सदादीनां विकल्पश इत्यादि व्याख्यातमेव / कथामिति चेदित्यनेन पराभिप्रायमाशङ्कते-केन प्रकारेण एभिर्विस्तरेणाधिगमः क्रियत इत्येवं मन्येथाः? उच्यते-यथा क्रियते विस्तराधिगम इति, सदित्यनेनाद्यद्वार परामृशति, कथं चैतस्य द्वारस्योत्थानं ? यथा शङ्कते परः-किमस्ति नास्तीत्येवम्, अन्यथा सत्त्वे निर्माते अयुक्तमेवैतत् कथनमिति, अत आशङ्कावाक्यं दर्शयति-सम्यग्दर्शनं किमस्ति नास्तीति / अस्माचार्य संशयः, यतः शब्दोऽसत्यपि.बाह्येऽर्थे शशविषाणादिकः प्रवर्तमानो दृष्टः, सति च बहिरनेऽर्थे घटादौ दृष्टो घटादिः, अतः किं सत्यर्थे उतासति सम्यग्दर्शनशब्दः प्रवृत्तो बहिरर्थ इति प्रश्नयति / मरिराह-अस्तीत्युच्यते / विद्यते सम्यग्दर्शनशब्दवाच्योऽर्थो घटादिशब्दवाच्यवत् / कथं चानेन निरचायि, आप्तोपदेशात् प्रशमसंवेगनिदाद्यनुमानाच्च / इतरेणाव्यक्तामिधानवत् प्रतिपद्य पुनश्थोद्यते-क चैतदिति / गुणो ह्ययं तेन च परतन्त्रत्वात् साधिकरणेन भवितव्यम् रसेनेवाणुव्यापिनेत्येतदाशङ्कय पराभिप्रायमाचार्य आह-वास्तीति चेत् मन्यसे, उच्यते-द्वये पदार्थाः-जीवा अजीवाश्च / तत्राजीवेषु तावन्नास्ति, निश्चयावलम्बनेन धर्माधर्माकाशपुद्गलेषु, यतो ज्ञानाख्यश्चेतनावत्सु समवेतो गुणः स कथमन्यधर्मः सन्नन्यत्र वर्तते / यच्चोक्तं कस्येति स्वामित्वचिन्तायां अजीवस्य प्रतिमादेः सम्यग्दर्शनमिति तदुपचारात, नत्वसौ मुख्यः कल्पः / इह तु मुख्यां वृत्तिमशिश्रियद वाचकमुख्यः, अजीवेषु तावदुक्तक्रमेण नास्तीति / अथ जीवेषु का वार्तेत्यत आह-जीवेषु तु भाज्यम् / तुशब्द एवकारार्थे भाज्यमेव, नावश्यम्भावि / सर्वेषु भजनां च कथयन्ति तद्यथा-गतीन्द्रियेत्यादिना / गत्यादीनि चान्यत्रावश्यकादौ प्रपञ्चेनोक्तानि, अशून्यार्थ तु किश्चिद् दर्श्यते-गत्यादिषु पूर्व प्रतिपन्नाः प्रतिपद्यमानाश्च सम्यक्त्वं चिन्त्यन्ते / तत्र नारकप्रभृतिषु गतिषु चतसृष्वपि पूर्व प्रतिपन्नाः प्रतिपद्यमानाश्च जीवाः सन्ति, नरकगतौ क्षायिकक्षायोपशमिके स्यातां, तियेग्गतावप्येते, मनुष्यगतो त्रीण्यपि क्षायिकादीनि सन्ति, देवगतो १'प्ररूपणादीनि' इति क-ख-पाठः। Page #90 -------------------------------------------------------------------------- ________________ 64 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 क्षायिकक्षायोपशमिके भवेताम् / इन्द्रियाणि सामान्येनाङ्गीकृत्य सन्ति पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्च विकल्पशः, एकेन्द्रियेषु न पूर्वप्रतिपन्नाः न प्रतिपद्यमानकाः। द्वित्रिचतुरिन्द्रियेष्वसंज्ञिपञ्चेन्द्रियेषु च पूर्वप्रतिपन्ना भाज्याः सास्वादनसम्यक्त्वं प्रति प्रतिपद्यमानास्तु न सन्त्येव, संज्ञिपञ्चेन्द्रियेषु द्वयमप्यस्ति / कायान् पृथिव्यादीनाश्रित्य सामान्येन द्वयमप्यस्ति, विशेषेण धरणिजलानलानिलतरुषु द्वयं न सम्भवत्येव, द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियेषु पूर्वप्रतिपन्नाः स्युः नाधुना प्रतिपद्यन्ते, संज्ञिपञ्चेन्द्रियत्रसकाये द्वयमपि स्यात् / योगे मनोवाक्कायेषु सामान्येन द्वयमपि, काययोगभाजां पृथिव्यादीनां तरुपर्यन्तानां न द्वयं, कायवाग्योगयुजां द्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां पूर्वप्रतिपन्नाः स्युः न प्रतिपद्यन्त इति / मनोवाकाययोगानां द्वयम् / अनन्तानुबन्धिनामुदये न द्वयं, शेषकषायोदये द्वयम् / वेदत्रयसमन्वितानां द्वयमस्ति सामान्येन; विशेषेणापि स्त्रीवेदे द्वयं पुरुषवेदे द्वयं, नपुंसकवेद एकेन्द्रियाणां न द्वयं, विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियपर्यवसानानां पूर्वप्रतिपन्नाः केचित् सन्ति, न प्रतिपद्यमानकाः, संज्ञिपञ्चेन्द्रियनपुंसकेषु द्वयं, नारकतिर्यमनुष्यामरेषु लेश्यासु उपारेतनीषु द्वयम्, आद्यासु प्रतिपन्नाः स्युः न तु प्रतिपद्यन्ते / किं सम्यग्दृष्टिः प्रतिपद्यते मिथ्यादृष्टिवो ? / अत्र निश्चयनयस्य सम्यग्दृष्टिः प्रतिपद्यते, अभूतं नोत्पद्यत इति शशविषाणादिवत् / व्यवहारस्य मिथ्यादृष्टिः प्रतिपद्यते, प्रतिपत्तेरभूतभावविषयत्वात, असत् कारणे कार्यमिति दर्शनात् / एवं ज्ञानी निश्चयस्याज्ञानी व्यवहारनयस्य / चक्षुर्दशनिषु द्वयम् एका(चतुर)क्षाद्यसंशिषु पूर्वप्रतिपन्नाः स्युन तु प्रतिपद्यमानकाः, संज्ञिपञ्चेन्द्रियचक्षुर्दर्शनिषु द्वयम्, (अचक्षुर्दर्शनिषु द्वैयम् ) अचक्षुर्दर्शनिषु पृथिव्यादिषु पञ्चसु द्वयं नास्ति, शेषेषु द्वित्रिचतुरसंज्ञिप्वचक्षुर्दर्शनिषु पूर्वप्रतिपन्नाः स्युने तु प्रतिपद्यन्ते, संज्ञिपश्चेन्द्रियाचक्षुदेशनिषु द्वयम् / चारित्री पूर्वप्रतिपन्न एव, अचारित्रः पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च स्यात् / आहारकेषु द्वयम्, अनाहारकः पूर्वप्रतिपन्नः न तु प्रतिपद्यमानकोऽन्तरगतौ सम्भविता / उपयोग इति, साकारोपयुक्तः प्रतिपद्यते उत अनाकारोपयुक्त इति, उच्यते-साकारोपयुक्तः प्रतिपद्यते पूर्वप्रतिपन्नश्च, अनाकारोपयुक्तस्तु पूर्वप्रतिपन्नः स्यात् नतु प्रतिपद्यमानकः, यतः " सर्वाः किल लब्धयः साकारोपयोगोपयुक्तस्य भवन्ति" (प्रज्ञापनासूत्रे उपयोगपदे ) पारमर्षवचनप्रामाण्यात् / एतेषु त्रयोदशस्वनुयोगद्वारेषु व्याख्यानाङ्गेषु यथासम्भवमिति यत्र सम्भवति यत्र न सम्भवति यथा वा क्षायिकादि सम्यग्दर्शनं यत्र सम्भवति तथा वाच्यं, सद्भूतपदार्थस्य सम्यग्दर्शनपदस्य प्ररूपणा व्याख्या कर्तव्या उन्नया / भाषकपरित्तादयस्तु नादृता भाष्यकारेण, प्रायस्तेषामुपात्तानुयोगद्वारान्तर्गतेरिति, यतो भाषकः पञ्चेन्द्रियेष्ववतरति, परितोऽपि कायेषु पर्याप्तस्तेष्वेव, सूक्ष्मसंज्ञिभवचरमाच तेष्वेव, अतो नादृता इति // द्वितीयद्वारमुपन्यस्यन्नाह 1 धनुचिहगतो भागः ग-पाठः / Page #91 -------------------------------------------------------------------------- ________________ सूत्र 8) स्वोपज्ञभाष्य-टोकालङ्कृतम् ___ भा०–सङ्ख्या। कियत् सम्यग्दशनम् / किं सङ्ख्येयमसङ्ख्येयमनन्तमिति ? / उच्यते-असङ्ख्ययानि सम्यग्दर्शनानि, सम्यग्दृष्टयस्त्वनन्ताः॥ टी०-सङ्ख्येति। सङ्ख्या इयत्ता, सा चैका गणितव्यवहारानुवर्तिनी द्वयादिका शीर्षप्रहेलिकान्ता गणितविषयातीता च, असंख्येया जघन्यमध्यमोत्कृष्टसख्येयादि ____संज्ञिता, अपरा तदतिक्रमेण व्यवस्थिता अनन्ता, साऽपि जघन्यादिसङ्ख्यास्वरूपमा भेदत्रयानुगता अनुयोगद्वाराद(सू०१४९)विस्तरार्थिनाऽधिगमनीया। - य एते सम्यग्दर्शनसमन्विताः सत्त्वा गत्यादिषु ते कियन्त इति तद्वन्त इह पृच्छयन्ते। उक्तं चेदं पुरस्तात् , ततः पृच्छति-कियत् सम्यग्दर्शनं-किंपरिमाणास्ते सम्यग्दर्शनिन इत्यर्थः, स्वयमेवोद्घट्टयति सङ्ख्याभिज्ञः सन्-कि सङ्ख्येयं सम्यग्दर्शनराशिमभ्युपगच्छामः, उतासङ्ख्येयं, उतानन्तमिति?। एवं पृष्टे आह-उच्यते-असङ्ख्येयानि सम्यग्दर्शनानि, न सङ्ख्येया नाप्यनन्ताः, किं तर्हि ? असङ्ख्येयाः सम्यग्दशेनिन इति / क्षयसम्यग्दृष्टीन् सिद्धान् केवलिनश्च विरहय्य शेषाः संसारवर्तिनो यावन्तः क्षयादिसम्यग्दर्शनिनस्ते निर्दिश्यन्ते असंख्येयानि सम्यग्दर्शनानीत्यनेन / ये तर्हि केवलिनः सिद्धाश्च ते सर्वे कियन्त इत्याह-सम्यग्दृष्टयस्त्वनन्ताः / भवस्थकेवलिनः सिद्धांश्चाङ्गीकत्योक्तं सम्यग्दृष्टयस्त्वनन्ता इति // द्वारान्तरस्पर्शनेनाह भा०-क्षेत्रम् / सम्यग्दर्शनं कियति क्षेत्रे 1 / लोकस्यासङ्ख्येयभागे // ... टी०-क्षेत्रम्। क्षियन्ति-निवसन्ति यत्र जीवादिद्रव्याणि तत् क्षेत्रम्-आकाशम् , यत एतेऽसङ्ख्येयतया निर्धारिता अनन्ततया च, एभिः पुनः कियदाकाशं व्याप्तमिति संशये सति पृच्छति-सम्यग्दर्शनं कियति क्षेत्रे ? // ननु च सम्यग्दर्शनमेतेन पृच्छयते निर्णयोऽपि तस्यैव, सम्यग्दृष्टयस्तु न चोद्यन्ते न निर्णीयन्त इति / उच्यते-इहायं सम्यग्दर्शनशब्दो भावसाधनः सम्यग्दृष्टिसम्यग्दर्शनसमवायी उभयोर्वाचकोऽभ्युपगन्तव्यः, अपायसदद्रव्यसम्यग्दर्शनिनस्तद्वियुतस्य च सिद्धभवस्थकेवल्याख्यस्य, निर्णयवाक्येऽप्येवमेव दृश्यम्, अथवा सम्यग्दर्शनिषु निर्मातेषु सम्यग्दृष्टयोऽप्यनेनैव रूपेण ग्रहीष्यन्त इति सम्यग्दर्शनिनः प्रश्नयति, अथवा एकं जीवमुद्दिश्यायं प्रावृतत् प्रश्नः, एकत्रावधृते क्षेत्रेऽन्यत्राप्यनुमानात् तत् तथा प्रतिपत्स्येऽहमिति पृच्छति-सम्यग्दर्शनं कियति क्षेत्रे इति / एकस्मिँश्च पृच्छयमाने सम्यग्दर्शने कियति क्षेत्रे इत्येकवचनमपि सुघटं भवति / सूरिराह-लोकस्यासङ्ख्येयभागे इति / यदेकः पृष्टः एकस्यैवोत्तरं तदा कोऽर्थः ? योऽहं सम्यग्दर्शनी सोऽहं कियति क्षेत्रे-आधारे स्थितः 1 पृष्टे उत्तरं-लोकस्यासङ्ख्येयभागे, धर्माधर्मद्रव्यद्वयपरिच्छिन्नः आकाशदेशो जीवाजीवाधारक्षेत्रं लोकः, तस्यासङ्ख्येयभागे त्वं स्थितः, यतः असङ्ख्येयप्रदेशो जीवः अतोऽसङ्ख्येयभाग एवावगाहते सर्वस्य लोकस्य, बुद्धया असङ्ख्येयभागखण्डकल्पितस्य य एकोऽसङ्ख्येयभागस्तत्र स्थित इति / अथापि सर्वानेवाङ्गीकृत्य प्रश्नः तथाप्यसख्येयभागे पूर्वसादधिकतरे लोकस्य सर्वे वर्तन्त इति युक्तमुत्तरम् // Page #92 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् अध्यायः 1 . भा०-स्पर्शनम् / सम्यग्दर्शनेन किं स्पृष्टम् 1 / लोकस्यासङ्ख्येयभागः, अष्टौ चतुर्दशभागा देशोनाः, सम्यग्दृष्टिना तु सर्वलोक इति // अत्राह-सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेष इति ? / उच्यते-अपायसद्व्यतया सम्यग्दर्शनम् , अपाय:-आभिनिबोधिकम् , तद्योगात् सम्यग्दर्शनम् / तत् केवलिना नास्ति / तस्मात् न केवली सम्यग्दर्शनी, सम्यग्दृष्टिस्तु भवति // ___टी-स्पर्शनम् / आकाशप्रदेशैः पर्यन्तवर्तिभिः सह यः स्पर्शस्तत् स्पर्शनम् , अस्मिन् द्वारे पृच्छयते-सम्यग्दर्शनेन किं स्पृष्टम् इत्यनेन / अत्रापि सम्यग्दर्शनशब्दः सामान्यवाची दृश्यः, एकं चाङ्गीकृत्य प्रवृत्त इति मन्तव्यम् , उत्तरम्-लोकस्यासमुख्ययभागः; स्पृष्ट इत्येकानेकप्रश्नानुरोधेन नेयम् / यः पुनः समुद्घातप्रतिपन्नः चतुर्थसमयवर्ती भवस्थकेवली तेन किं स्पृष्टं लोकस्येति ? / उच्यते-सम्यग्दृष्टिना तु सर्वलोक इति / यतोऽभिहितं "लोकव्यापी चतुर्थे तु" (प्रशम-रतौ)। तुशब्दोऽवधारणे, सम्यग्दृष्टिनैव समुदघातगतेनैव समस्तलोकः छुप्यत इति / एतस्मिन् व्याख्याने चोदकोऽचूचुदत्-सम्यग्दृष्टिसम्यग्दर्शनशब्दयोयुत्पत्तौ क्रियमाणायां भावे कारके नास्त्यर्थभेद इति, भवांचाह सम्यग्दर्शनेन लोकासंख्येयभागः स्पृष्टः, सम्यग्दृष्टिना तु सर्वलोक इति, तन्नूनं भवता कश्चिदर्थभेदः परिकल्पित इति, अतः प्रश्नेनोपक्रमते-सम्यग्दृष्टिसम्यग्दर्शनयोः को विशेष इति / सूरिराह-अत्रोच्यतेअपायसद्व्येत्यादि / अपायो-निश्चयज्ञानं मतिज्ञानांशः, सद्व्याणि पुनः शोभनानि प्रशस्तत्वात् विद्यमानानि वा द्रव्याणि मिथ्यादशेनदलिकानि अध्यवसायविशोधितानि सम्यग्दर्शनतया आपादितपरिणामानि, अपायश्च सद्व्याणि च अपायसदद्रव्याणि तेषां भावः अपायसदद्रव्यता, इत्थंभूतलक्षणा तृतीया, यावत् सोऽपायः सम्भवति यावद् वा तानि सम्भवन्तीत्येषाऽपायसद्रव्यता तया सम्यग्दर्शनम्। अपाययुक्तानि सद्रव्याणीति विनाशाशङ्कानिराचिकीर्षया सुहृद भूत्वा सरिराचष्टे-अपाय:-आभिनिवाधिकम् , तृतीयो भेदः आभिनिबोधिकस्य निश्चयात्मकः प्रसिद्धः तेन योगस्तद्योगः तसाद तेनापायेन योग इति वोच्यते, यतः सम्यग्दर्शनपुद्गलेषु सत्सु चापगतेषु च भवतीति, व्यापी स इत्यर्थः, तद्योगात् सम्यग्दर्शनम् , एतेनापायेन यावदस्ति सम्बन्ध इति, तेन च सम्बन्धः(धे) सत्सु च सद्व्येष्वक्षीणदर्शनसप्तकस्यासत्सु च सद्रव्येषु क्षीणदर्शनसप्तकस्य, उभय्यामप्यवस्थायां सम्यग्दर्शनं द्रष्टव्यम् / उभय्यामप्यवस्थायां सम्यग्दृष्टिव्यपदेशो नास्ति / तत् केवलिनो नास्तीत्यादि। तदिति सम्यग्दर्शनं सद्द्रव्यापाययोगजनितव्यपदेशं केवलिनोऽतीन्द्रियदर्शित्वात् न समस्ति / अतो न सम्यग्दर्शनी केवली / कस्तर्हि ? आह-सम्यग्दृष्टिस्तु केवलीति / तानि च बुद्धया आदाय अपायसदद्रव्याणि तत्र केवलिनि सम्यग्दर्शनिव्यपदेशो निषिध्यते / तैस्तु विना यदि सम्यग्दर्शनिव्यपदेशः कल्प्यते भावसाधनोऽर्थोऽविशिष्ट इतिकृत्वा तदा नास्ति निषेध इति / तुशब्दोऽभुमेवार्थमवद्योतयति / एवं च कृत्वा पूर्वप्रश्नेष्वपि सुघर्ट भाष्यं भवति // द्वारान्तरं छुपति Page #93 -------------------------------------------------------------------------- ________________ सूत्रं 8] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-कालः। सम्यग्दर्शनं कियन्तं कालमिति। अत्रोच्यते तदेकजीवेन नानाजीवैश्च परीक्ष्यम् / तद्यथा-एकजीवं प्रति जघन्येनान्तर्मुहूर्तम् , उत्कृष्टंन षट्षष्टिः सागरोपमाणि साधिकानि, नानाजीवान् प्रति सर्वोद्धा // टी०-काल इति / यदेतत पूर्वकैवारैर्निरूपितं तत् सम्यग्दर्शनं कियन्तं कालं भवतीति प्रश्नयति // ननु च स्थितिद्वारेऽप्येतदेव पृष्टमुक्तं च, किमर्थं च पुनः पिष्टपेषणं क्रियते इति / उच्यते-न कालः स्थितिमन्तरेण कश्चिदस्तीत्यस्यार्थस्य ख्यापनार्थ, तथा च वर्तमानादीन्येव काललिङ्गानि पठन्ति / अथवा एकजीवाश्रयणेन नानाजीवसमाश्रयणेन चास्ति स्थितिद्वारे साक्षाद विधानमिति, अतो युज्यते प्रश्नः / तथा च " पुव्वभणियं तु जंभण्णएं" (निशीथ-भाष्ये) इत्यादि। अतस्तत् सम्यग्दर्शनमेकजीवाङ्गीकरणेन सर्वजीवाङ्गीकरणेन च परीक्ष्यम् / एतदुक्तं भवति-एकेन प्राप्तं तत् कियन्तं कालमनुपाल्यत इति, नानाजीवैश्व कियन्तं कालं धार्यत इति परीक्ष्यम् / एकजीवं प्रतीत्यादि, पूर्वभावित एव ग्रन्थ इति, स्थितिद्वारे नानाजीवान् प्रति सर्वाद्वा-सर्वकालं, महाविदेहादिक्षेत्रमाश्रित्याव्यवच्छेदात् / इयं तु स्थितिः क्षायोपशमिकस्य चिन्तिता, औपशमिकस्य तु यथासम्भवं अन्तर्मुहूर्तप्रमाणेति, क्षायिकस्य तु सर्वदावस्थानम् // अतोऽनन्तरमन्तरद्वारं स्पृशति___ भा०–अन्तरम् / सम्यग्दर्शनस्य को विरहकालः 1 / एकजीवं प्रति जघन्यनान्तर्मुहूर्तम् , उत्कृष्टेन उपाधपुद्गलपरिवर्तः / नानाजीवान् प्रति नास्त्यन्तरम् // ___टी-अन्तरमित्यनेन सम्यग्दर्शनं प्राप्य पुनश्चोज्झित्वा मिथ्यात्वदलिकोदयात् पुनः कियता कालेन लप्स्यत इति पृच्छति-सम्यग्दर्शनस्य को विरहकाल इति / सम्यग्दर्शनं प्राप्य पुनश्चोज्झित्वा पुनर्यावन्न सम्यग्दर्शनमासादयति स विरहकालः-सम्यग्दर्शनेन शून्यः कालः कियानिति, औपशमिकक्षायोपशमिके निश्चित्य निर्णयवाक्यं प्रवृत्तम् / एकजीवं प्रतीत्यादि / एको जन्तुरौपशमिकं क्षायोपशमिकं वा प्राप्य उझित्वा पुनः कश्चिन मुहूर्तस्यान्तर(रेव) लभते,कश्चित् तु अनन्तेन कालेन लभते, से चान्तरकाल एवमाख्यायते, उत्कृष्टेनोपार्धपुद्गलपरावर्तः, पुद्गलपरावर्तो नाम यदा जगति यावन्तः परमाणवस्ते औदारिकादितया सर्वे परिभुक्ता भवन्ति, स पुद्गलपरावर्तः औदारिकवैक्रियतैजसभाषाप्रापुद्गलपरावर्त"स्यार्थः। णापानमनःकर्मभेदात् सप्तधा, एतत्समुदायस्याधं गृह्यते किश्चिदूनम् / - एतत् कथं प्रतिपादयितुं शक्यत इति चेत्, उपार्धपुद्गलपरावर्त इत्यनेनोच्यते 'समुदायेषु हि शब्दाः प्रवृत्ता अवयवेष्वपि वर्तन्त' इति न्यायात् / अयं चार्ध 1 'परीक्ष्यन्ते' इति क-ख-पाठः। 2 पूर्वभणितं तु यद् भण्यते। ३'व्यवच्छेदास्ता यत्' इति ख-ग-पाठः / 4 'सचानन्तरं काल' इति क-ख-पाठः / Page #94 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् __ [अध्यायः 1 शब्दः समप्रविभागवचनः किश्चिन्न्यूनामिधायित्वात् स पुल्लिङ्गः, उपगतोऽर्धः उपाधः, किञ्चिन्यून इति प्रादिसमासः / नानाजीवानिति / सर्वजीवानाश्रित्य नास्त्यन्तरं, विदेहादिषु सर्वकालं समवस्थानादिति / क्षायिकस्य त्वनपगमानास्त्यन्तरम् / ग़तमन्तरद्वारम् // द्वारान्तराभिधित्सयाऽऽह भा०-भावः। सम्यग्दर्शनमौपशमिकादीनां तमो भावः / उच्यतेऔदयिकपारिणामिकवर्ज त्रिषु भावेषु भवति // टी-भाव इति / येयं रुचिः जीवस्य जिनवचनश्रद्धायिनी सा कस्मिन् भावे औपशमिकादीनां समवतरतीति प्रश्नयति-सम्यग्दर्शनमित्यादिना / सम्यग्दर्शनमित्यविशिष्ट रुचिं क्षयादिरूपां त्रिविधामपि जिज्ञासते-ककैते इति, (कैतदिति ?) तथा प्रतिवचनमपि भवि प्यति-त्रिषु भावेष्विति। औपशमिकादीनामुक्तलक्षणादीनांकतमो भावः कतमावस्थेति यावत् , सूरिस्तु हेयभावनिरसिसिपया आदेयं त्रिष्वित्यनेन कथयति, औदयिक-गतिकषायादिरूपं पारिणामिकं च भव्यत्वादिलक्षणं विहाय येऽन्ये त्रयः क्षायिकादयस्तेषु भावेषु भवति, औदयिकपारिणामिकयोर्गत्यादिभव्यत्वाद्यवधारणान्नानयोः समस्ति, अनादित्वाच, एष इति सूच्यते त्रिषु भवति, नौदयिकपारिणामिकयोरिति // द्वारान्तरं स्पृशति भा०-अल्पबहुत्वम् / अत्राह-सम्यग्दर्शनानां त्रिषु भावेषु वर्तमानानां किं तुल्यसंख्यात्वमाहीस्विदल्पबहुत्वमस्तीति ?।'उच्यते___टी-अल्पबहुत्वमित्यनेन / अत्रैतस्मिंत्रिषु भावेष्विति व्याख्याते / आहान्यः-एषां क्षायिकादीनां सम्यग्दर्शनानां त्रिषु क्षायिकादिषु परिणामेषु वर्तमानानां किं तुल्यसङ्ख्यत्वमुत नेति, आश्रयभेदेन चाल्पबहुत्वचिन्तेहाश्रिता, अल्पबहुत्वमितिः अल्पबहुभावः / किश्चिदल्पमत्रास्ति किश्चित् तु बहिति कथं भावनीयम् / उच्यते भा०-सर्वस्तोकमौपशमिकम् / ततःक्षायिकमसख्येयगुणम् / ततोऽपि क्षायोपशमिकमसङ्ख्येयगुणम् / सम्यग्दृष्टयस्त्वनन्तगुणा इति। एवं सर्वभावानां नामादिभियासं कृत्वा प्रमाणादिभिरभिगमः कार्यः / उक्तं सम्यग्दर्शनम् / ज्ञानं वक्ष्यामः // 8 // ____टी-सर्वस्तोकमौपशमिकम्, यत ईदृशी परिणतिं श्रेण्यारोहादिस्वभावां न बहवः सम्प्राप्नुवन्तीत्यागमात् , ततःक्षायिकमसंख्येयगुणम् , ततः औपशमिकात् क्षायिकमिति च / अत्रायं विशेषः प्रेक्ष्यः-छद्मस्थानां श्रेणिकादीनां यत् क्षायिकं तद् गृह्यते, अपायसद्भावात, छद्मस्थवर्तिनश्च औपशमिकस्यावधितयोपात्तत्वात् तत इत्यनेनावधिमतापि तादृशेन भवितव्यम् / तत औपशमिकात् क्षायिकं छमस्थस्वामिकमसङ्ख्येयगुणमिति, योऽसावौपशमिको राशिः सोऽसङ्ख्येयेन राशिना गुण्यते, औपशमिका बहुतरमितियावत् / तंतोऽपि क्षायिकात् क्षायोपशमिकं भवत्यसङ्ख्येयगुणं, सर्वगतिषु बहुस्वाम्याधारत्वात् / असङ्ख्येय १'भावानां ' इत्यधिको घ-पाठः / Page #95 -------------------------------------------------------------------------- ________________ सूत्र 9] स्वोपज्ञभाष्य-टीकालङ्कृतम् गुणमिति च योऽसौ क्षायिकराशिः सोऽसङ्ख्येन गुण्यते,अतः क्षायिका बहुतरमास्त इतियावत् / यत् तर्हि क्षायिकं कैवल्याधारं तत् कियत् ? / उच्यते-सर्वकेवलिनामानन्त्यादनन्तगुणं, कैवल्याधारमेतद् दृश्यमिति, अतः सम्यग्दृष्टयस्त्वनन्ता इति। केवलिनोऽनन्ता इत्यर्थः। ततस्तवयंप्यनन्तमेव / इति द्वारपरिसमाप्तिसूचकः। अथ किं सम्यग्दर्शनस्यैव निर्देशादिसदादिभिद्वारैरधिगमः क्रियते उत ज्ञानादीनामपीति ? / उच्यते-ज्ञानादीनामपि, किन्तु एकत्र सम्यग्दर्शने योजना कृताऽन्यत्राप्येवं दृश्येत्यतिदिशति-एवं सर्वभावानाम् / एवमिति यथा सम्यग्दर्शनस्य तथा सर्वभावानां ज्ञानादीनां नामस्थापनादिभी रचनां कृत्वा प्रमाणनयनिर्देशादिसदादिभिः परीक्ष्याभिगमः कार्य इति / यत् प्रस्तुतं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (1-1) इति तत्र यत् सम्यग्दर्शने विचार्यं तदभिहितम् , तदभिधानाञ्च परिसमापितं सम्यग्दर्शनमित्येतदाह-उक्तं सम्यग्दर्शनम् / द्वितीयावयवव्याचिख्यासाप्रस्तावप्रदर्शनायाह-ज्ञान वक्ष्यामः // 8 // ___ कीदृक् तदिति चेदुच्यतेसूत्रम्-मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् // 1-9 // टी-मतिश्च श्रुतं चावधिश्च मनःपर्यायश्च केवलं च मतिश्रुतावधिमनःपर्यायकेवलानि, ज्ञानमिति चानेन पश्चाप्येतानि एकज्ञानमिति नैवं ग्राह्यम् यथा सम्यग्दर्शनादीनि त्रीण्यपि एको मोक्षमार्ग इति, किन्तु ऐकैकमत्र ज्ञानमिति / यद्येवं ज्ञानमित्येकवचन ज्ञानानीतिभवितव्यम, ज्ञानबहुत्वात् उच्यते,-सत्यमेव, प्रतिज्ञारूपं " तु प्रतिवचनं भवतीतिकृत्वा एकवचनं कृतं, प्रतिज्ञातं चानेन ज्ञानं वक्ष्याम इति, अतस्तदनुरोधेनैकवचनं चकार आचार्यः / एकैकस्य ज्ञानतां प्रख्यापयन्नाह भा०-मतिज्ञानं श्रुतज्ञान अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानमित्येतत् मूल विधानतः पञ्चविधं ज्ञानम् / प्रभेदास्त्वस्य पुरस्ताद् वक्ष्यन्ते // 9 // टी-मतिज्ञानं श्रुतज्ञानमित्यादि। मननं मतिः परिच्छेद इत्यर्थः। शेषकारके .. प्वपि यथासम्भवं ज्ञेया, ज्ञप्तिान वस्तुस्वरूपावधारणमित्यर्थः। मतिमतिज्ञानादीनां " ज्ञानं, मतेानमिति समासो नैव कार्यः, मतेर्ज्ञानं किं ? येन सा गृह्यते, व्याख्या साना ना सा च गृह्यते केवलादिना, ततश्चोत्तरपदार्थप्राधान्यात् तत्पुरुषस्य तन्मात्रग्रहणं स्यात्, नत्विन्द्रियानिन्द्रियनिमित्तमिति, तस्मात् ज्ञानशब्दो व्यभिचारी सामान्यज्ञानवाचकः सन्निन्द्रियानिन्द्रियनिमित्तोपजातया भत्या समानाधिकरणतया विशेष्यते, मतिश्च सा ज्ञानं च मतिज्ञानम् / तच श्रोत्रेन्द्रियव्यतिरिक्तं चक्षुरादीन्द्रियानक्षरोपलब्धिर्या तन्म तिज्ञानम् / श्रुतज्ञानमिति / श्रूयते तदिति, अस्मिन् पक्षे शब्दमानं गृह्यते, श्रुतिः श्रवणमित्यस्मिन् पक्षे ज्ञानविशेष उच्यते, स एव च ग्राह्यः श्रुतमित्यनेन / कीदृशः स इति चेत् ? 1 'बहुतममास्त' इति क-ख-पाठः / 2 'ज्ञायते ज्ञानं' इति क-ख-पाठः / - फलम् Page #96 -------------------------------------------------------------------------- ________________ 70 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 उच्यते-शब्दमाकर्णयतो भाषमाणस्य पुस्तकादिन्यस्तं वा चक्षुषा पश्यतः घ्राणादिमिर्वा अक्षराणि उपलभमानस्य यद् विज्ञानं तत् श्रुतमुच्यते, तेन ज्ञानं विशेष्यते, श्रुतं च तज्ज्ञानं चेति श्रुतज्ञानम् / अवधिज्ञानमिति / अवशब्दोऽधःशब्दार्थः, अवधानादवधिः, ज्ञानपरिच्छेदः / एतदुक्तं भवति-अधोविस्तृतविषयमनुत्तरोपपादिकादीनां ज्ञानमवधिज्ञानम्, यतो बहुत्वं च विषयस्योररीकृत्यैवं व्युत्पत्तिः, अन्यथा तिर्यगूल वा विषयं परिच्छिन्दानस्यावधिव्यपदेशो न स्यात् / अथवा अवधिः-मर्यादा, अमूर्तद्रव्यपरिहारेण मूर्तिनिवन्धनत्वादेव तस्यावधिज्ञानत्वम् / तच्च चतसृष्वपि गतिषु जन्तूनां वर्तमानानामिन्द्रियनिरपेक्षं मन:प्रणिधानवीर्यकं प्रति विशिष्टक्षयोपशमनिमित्तं पुद्गलपरिच्छेदि देवमनुष्यतिर्यङ्नारकस्वामिकमवधिज्ञानमिति / अवधिश्च स तज्ज्ञानं च तदित्यवधिज्ञानम् / मनःपर्यायज्ञानमिति / मनो द्विविधं-द्रव्यमनो भावमनश्च, तत्र द्रव्यमनो मनोवर्गणा, भावमनस्तु ता एव वर्गणा जीवेन गृहीताः सत्यो मन्यमानाश्चिन्त्यमाना भावमनोऽभिधीयते / तत्रेह भावमनः परिगृह्यते, तस्य भावमनसः पर्यायास्ते चैवंविधाः-यदा कश्चिदेवं चिन्तयेत् किंस्वभाव आत्मा ? ज्ञानस्वभावोऽमूर्तः कर्ता सुखादीनामनुभविता इत्यादयो ज्ञेयविपयाध्यवसायाः परगतास्तेषु यज्ज्ञानं तेषां वा यज्ज्ञानं तन्मनःपर्यायज्ञानम् / तानेव मनःपर्यायान् परमार्थतः समवबुध्यते, बाह्यांस्त्वनुमानादेवेत्यसौ तन्मनःपर्यायज्ञानम् / केवलज्ञानमिति / केवलं-सम्पूर्णज्ञेयं तस्य तस्मिन् वा सकलज्ञेये यज्ज्ञानं तत् केवलज्ञानम् , सर्वद्रव्यभावपरिच्छेदीतियावत् / अथवा केवलं एकं मत्यादिज्ञानरहितमात्यन्तिकज्ञानावरणक्षयप्रभवं केवलज्ञानं आवेद्यमानस्वप्रभेदम् / विशुद्धिप्रकर्षापेक्षा चैषामानुपूर्वीविन्यासविरचनेति, इतिरियत्तायां, एतावदेव नान्यदस्तीति / एतत् इत्यवयवप्रविभागेन यदाख्यातं, मूलम्-आद्यं विधान-भेदः, मूलं च तद्विधानं च मूलविधानं, मूल विधानेन-मूलविधानतः, पञ्चविधं मत्यादिशेयपरिच्छेदि ज्ञानम् / एतदुक्तं भवति-मौलान् भेदानङ्गीकृत्य पञ्चविधमेव भवति / अथ किमन्ये एषां पञ्चानां प्रभेदाः सन्ति उत नेति ? / सन्तीत्युच्यते-प्रभेदास्त्वस्येत्यादि। प्रभेदाः-अंशा अवयवाः अस्यपञ्चविधस्योपरिष्टाद् वक्ष्यन्ते, मूलभेदास्तु न, कथितत्वादिति / मतिज्ञानस्यावग्रहादयः श्रुतस्याङ्गानङ्गप्रविष्टादयः, अवधिज्ञानस्य भवप्रत्ययादयः, मनःपर्यायज्ञानस्य ऋजुमत्यादयः, केवलज्ञानस्य तु न सन्त्येव // 9 // अथ पुरस्तात् प्रमाणनयैरधिगम इत्युक्तं, तत्र न ज्ञायते किं प्रमाणमित्यत आह सूत्रम् तत् प्रमाणे // 1-10 // टी-तत्प्रमाणे इति / अथवाऽन्यैरनेकधा प्रमाणमभ्युपेतं, कापिलैविधा प्रत्यक्षानु ___ मानागमभेदात्, अक्षपादेन चत्वारि सहोपमानेन, मीमांसकैः पडर्था___पत्यभावाभ्यां सह, मायासूनवीयर्दै प्रत्यक्षानुमाने, काणभुजैश्च द्वे त्रीणि वा दर्शनभेदात्, भवतां कथमित्यत आह..... भा०—तदेतत् पञ्चविधमपि ज्ञानं दे प्रमाणे भवतः परोक्षं प्रत्यक्षं च // 10 // प्रमाणसंख्या Page #97 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् सूत्र 10 ] टी-तच्छब्द एतदित्यस्यार्थे, पञ्चविधमपि मत्यादिज्ञानं द्वे प्रमाणे भवत इत्येतदत्र विधीयमानं, द्वे एव प्रमाणे भवतः, नान्यत् प्रमाणमस्ति // ननु चान्यैरनेकधा कल्पितं, कथं पुनरवधियते द्वे एवेति / उच्यते-अन्येषामत्रैवान्तर्भावात् प्रमाणान्तरत्वं निवार्यते, न प्रमाणत्वम् / कानिचिच्च नैव प्रमाणानि, एतच्च द्वयमुत्तरत्र भाष्यकार एव दर्शयिष्यति / अथ दे प्रत्यक्षानुमाने इत्येवं द्वयं ग्राह्यमुतान्यथेत्याह-एवं चान्यथेति च दर्शयति, 'परोक्षं प्रत्यक्ष चेति प्रत्यक्षमित्येवं परोक्षमिति च अन्यथा, परोक्षं चास्साद अनुमानमिति नोक्तं, सिद्धान्ते परोक्षमित्युपन्यासात् / “तं समासओ दुविहं पन्नत्त, तंजहा-पञ्चक्खं परोक्खं चे (नन्दीसूत्रे सू० २)"इति / परैः इन्द्रियैरुक्षा-सम्बन्धो यस्य ज्ञानस्य तत् परोक्षं ज्ञानम् / एतदुक्तं भवतिइन्द्रियैर्निमित्तैः सद्भिर्यज्ज्ञानमात्मनि सम्बन्धमनुयाति तत् परोक्ष-मतिश्रुतरूपम् / यत् पुनरिन्द्रियादिनिरपेक्षमात्मन एवोपजायते तत् प्रत्यक्षम्, द्विविधेऽपि प्रत्यक्षपरोक्षे ज्ञाने यः साकारांशः स प्रमाणव्यपदेशमश्नुते, यथाभिहितम् "साकारः प्रत्ययः सर्वो, विमुक्तः संशयादिना / - साकारार्थपरिच्छेदात्, प्रमाणं तन्मनीषिणाम् // " इति, साकारांशस्य प्रमाणताऽवसेयेति / प्रमीयतेऽनेनेति प्रमाणम , मीयतेऽनेनेति मानं, परिनिष्पनेन मानशब्देन सह प्रशब्दस्योपपदसमासः, प्रगतं प्रकृष्टं मानं प्रमाणस्य : प्रमाणम् , प्रमेयपरिच्छेदार्थिनः प्रमातुस्तत्परिच्छेदसिद्धिप्रधानाङ्गम तिशयोपकारित्वात् प्रकृष्टं मानं प्रमाणम् / वाक्यज्ञानद्वैविध्यात् द्विविधं, प्रत्यक्षपरोक्षभेदाद् वा / अथवा सर्वमेव ज्ञानं प्रत्यक्षं मनइन्द्रियजीवेष्वक्षशब्दस्य रूढत्वात्,सावरणानावरणविशेषात् तु भिद्यते / सावरणानां तावत् त्रितयाभिमुख्येनासदादीनां प्रत्यक्षमेव ज्ञानम्, तद्यथा-आत्माभिमुख्येन स्वप्ने भयहर्षरोगगमनराज्यलाभादि, मनआभिमुख्येन स्मरणप्रत्यभिज्ञानवितर्कविपर्ययनिर्धारणादि, इन्द्रियाभिमुख्याच्चक्षुरादिविषयं रूपादिवत्, निरावरणानामात्माभिमुख्येनैव, अभ्यात्मं तु स्वयंदृशां प्रत्यक्षज्ञानिनां, विशुद्धशब्दनयाभिप्रायेण चेदमेकमेव प्रत्यक्षं प्रमाणमिति // आचार्यसिद्धसेनोऽप्याह "अभित्रि मादृशां भाज्यमभ्यात्मं तु स्वयंदृशाम् / एकं प्रमाणमर्थैक्या-दैक्यं तल्लक्षणैक्यतः॥" प्रमाण-द्वात्रिंशिकायाम् ___ अर्थैक्यं कुतः 1 / तल्लक्षणैकत्वात् अर्यते-गम्यते परिच्छिद्यत इति / अथवा प्रमातव्यं प्रमेयं प्रमातुमीप्सिततमं प्रमाणार्ह वा कर्मसाधनत्वानतिक्रमादेकलक्षणत्वम् // 10 // अयमिदानी विवेको नावधृतः पञ्चविधस्य मध्ये-किं परोक्षं किं वा प्रत्यक्षमिति, तद्विवेकावधारणाय आह शब्दार्थः 1 तत् समासतो द्विविधं प्रज्ञप्तं, तद्यथा-प्रत्यक्षं च परोक्षं च / Page #98 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 सूत्रम्-आद्ये परोक्षम् // 1-11 // भा०-आदौ भवमाद्यम् / सूत्रक्रमप्रामाण्यात् प्रथमद्वितीये शास्ति, तदेवमाये-मतिज्ञानश्रुतज्ञाने परोक्षं प्रमाणं भवतः। कुतः / निमित्तापेक्षत्वात् अ. पायसद्व्यतया मतिज्ञानम् / तदिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते। तत्पूर्वकत्वात् परोपदेशजत्वाच्च श्रुतज्ञानम् // 11 // टी-सूत्रोपात्ताद्यशब्दार्थोऽन्यथाऽवगमयितुं न शक्यते परसायित्यतो व्युत्पत्याहआदौ भवमाद्यम्, यस्मात् परमस्ति न पूर्वमादिः सः विवक्षावशात्, तत्र भवं, दिगादित्वाद्यत, आद्यं चायं चेत्याये इति, प्रतिविशिष्टेन च क्रमेण व्यवस्थितानां आयव्यपदेशो दृश्यते, तद्यथा-अयं यतिरेषां विशिष्टक्रममाज़ामाद्य इति / एवमत्रामूर्तानां ज्ञानानां क्रमसन्निवेशो दुरुपपाद इति मत्त्वा ब्रवीति-आये इति, सूत्रक्रमप्रामाण्यात, सूत्रं चासनमप्यनन्तरं त्यज्यते, तत् प्रमाणे (1-10) इति सन्निवेशाभावात्, तस्मात् परमेव मतिश्रुतादि ग्राह्यम् , तत्र क्रमः-परिपाटी, सूत्रे क्रमः सूत्रक्रमः, तस्य प्रामाण्यम्--आश्रयणं तस्मात् / प्रथमद्वितीये मतिश्रुते, शास्तीति च ग्रन्थकार एव द्विधा आत्मानं विभज्य सूत्रकारभाध्यकाराकारेणैवमाह-शास्तीति, सूत्रकार इति शेषः / अथवा पर्यायभेदात् पर्यायिणो भेद इत्यन्यः सूत्रकारपर्यायोऽन्यश्च भाष्यकारपर्याय इत्यतः सूत्रकारपरोक्षप्रमाणम् पर्यायः शास्तीति / तदेवमाद्यव्यपदेशे सिद्धे सुखेन वक्तुं शक्यते, किमिति चेत्, उच्यते-मतिज्ञानश्रुतज्ञाने द्वे अपि परोक्षं प्रमाणं भवतः, शेषमनूद्य परोक्षप्रमाणता विधीयते / कुत इति च प्रश्नयितुरयमभिप्रायः-यमयं हेतुमुपन्यसिष्यति वक्ष्यमाणं तत्रास्य व्यभिचारं दर्शयिष्यामीति, इतरोऽपि सविशेषणं हेतुं बुद्धौ न्यस्याह-निमित्तापेक्षत्वादिति / धृमादग्निज्ञानं परोक्षमुपजायते निमित्तापेक्षं, तद्वन्मतिश्रुते, इन्द्रियानिन्द्रियनिमित्तभावः स्पष्टो मतेः, श्रुतस्य च / न च निमित्तापेक्षिता अनैकान्तिकी, कथं तविधिज्ञानादित्रयं निमित्तमपेक्षते ? यतोऽवधिरान्तरनिमित्तं क्षयोपशममालम्ब्य बहिरङ्गं च विषयमुत्पद्यते, तथा मनःपर्यायज्ञानमपि, केवलज्ञानमपि कर्मणां ज्ञानावृतां समस्तक्षयमाश्रित्य विषयं चोत्पद्यत इति ? / उच्यते-इतरः सविशेषणोऽयं हेतुरित्याहअपायसद्व्येत्यादि / अनेन च प्रतिज्ञार्थं विशिष्यापायसद्रव्येत्यादिना ततो हेतुं सविशेषणं करिष्यति तदिन्द्रियानीत्यादिना। यन्मतिज्ञानं धर्मितयोपात्तं तत् कीदृशं, परोक्षं प्रमाणं वा साध्यते ? / उच्यते-अपायसद्व्य तया मतिज्ञानं धर्मित्वेनोपन्यस्तम्, अपायो निश्चय ईहानन्तरवर्ती / सद्व्यमिति, शोभनानि द्रव्याणि-सम्यक्त्वदलिकानि, अपायश्च सद्रव्याणि च तेषां भावः-स्वरूपादप्रच्युतिः, तयेत्थंभूतया मतिज्ञानं धर्मि / एतदुक्तं भवति-मतिज्ञानस्यावग्रहादिभेदस्य मध्ये योऽपायोंऽशस्तन्मतिज्ञानं परोक्षं प्रमाणमिति / १.शेषः' इति क-पाठः / 2 'प्रतिज्ञानार्थ' इति स्व-पाठः / 3 'वा' इति ख-पाठः / Page #99 -------------------------------------------------------------------------- ________________ 73 सूत्रं 11] स्वोपज्ञभाष्य-टीकालङ्कृतम् अवग्रहेहयोरनिश्चितत्वान्न समस्ति प्रमाणम् / स चापायः सद्व्यानुगतो यदि न भवति तन्मिथ्यादृष्टेरिवाशुद्धदलिककलुषितः, अतो योऽपायः सद्व्यानुप्रामाण्यम् वर्ती स प्रमाणं मतिभेदः। यदा तर्हि दर्शनसप्तकं क्षीणं भवति तदा सद्व्याभावे कथं प्रमाणता श्रेणिकाद्यपायांशस्य ? उच्यतेसद्व्यतयेत्यनेनार्थत इदं कथ्यते-सम्यग्दृष्टेर्योऽपायांश इति / भवति चासौ सम्यग् दृष्टेरपायः। अथवा एकशेषोऽत्र द्रष्टव्यः, अपायश्चापायश्चापायौ सद्रव्यं अपायसद्रव्ये परोक्षता च सदद्रव्यं च सद्रव्ये अपायौ च सद्रव्ये चापायसद्व्याणि तेषां भावस्तयेति। इदमुक्तं भवति-अपायसद्व्यानुगतो यः अक्षीणदर्शनसप्तकस्य स परिगृहीतः, एकेन अपायसद्व्यशब्देन, तथा द्वितीयेनापायो यः सदद्रव्यं शोभनं द्रव्यं, कश्चापायः सद्व्यम् ? यः क्षीणदर्शनसप्तकस्य भवति / एतेनैतदुक्तं भवति-सम्यग्दर्शनिनः क्षीणाक्षीणदर्शनसप्तकस्य योऽपायो मतिज्ञानं तत् परोक्षं प्रमाणम् / सविकल्पमिति निमित्तापेक्षत्वाद् धृमादग्निज्ञानवदिति, एवं श्रुतज्ञानस्याप्यपायांसः प्रमाणयितव्यः / सम्प्रति निमित्तापेक्षत्वादित्यस्य यो व्यभिचारः पुनः पुरस्तादवाचि तत्परिजिहीषयेदमाह-तदिन्द्रियानिन्द्रियनिमित्तमिति वक्ष्यते इत्यनेन / तदिति मतिज्ञानम्, इन्द्रियाणि-श्रोत्रादीनि अनिन्द्रियं-मनः ओघज्ञानं च तानि निमित्तं कारणं यस्य ज्ञानस्य तदिन्द्रियानिन्द्रियनिमित्तम्, न हीन्द्रियाण्यनिन्द्रियं च विरहय्य तस्य ज्ञानस्य सम्भवोऽस्तीति, ततश्च हेतुरेवंविधो ज्ञा(जा)तः-इन्द्रियानिन्द्रियनिमित्तत्वादिति / विशिष्टमेव निमित्तमिन्द्रियानिन्द्रियाख्यमुररीकृत्य निमित्तापेक्षत्वादिति मया प्रागभ्यधायि, नास्त्यतो व्यभिचारः / श्रुतज्ञानस्या पीन्द्रियानिन्द्रियनिमित्ततैव, किंतु अन्यथापि निमित्तं कथ्यते, तदाह-तत्पूर्वकत्वात् / तदिति मतिज्ञानं पूर्व-पूरकं पालकं यस्य तत् तत्पूर्वकं तद्भावस्तत्पूर्वकत्वं तस्मात् तत्पूर्वकत्वात, यावन्मतिस्तावत् तद् भवति, न त्वीदृश्यवस्थाऽस्ति यत्र तन्मतिज्ञानेन विना प्रादुःष्यात्, अतस्तन्मतिज्ञानं श्रुतज्ञानस्य पालकं भवतीतिकृत्वा मतिज्ञानमेव तस्यात्मलाभनिमित्तं भवति, तस्मिन् सति तस्य भवनात्, अतः श्रुतं मतिं निमित्तीकृत्य प्रवर्तमानमिन्द्रियानिन्द्रियनिमित्तं सत् कथं प्रत्यक्षव्यपदेशं लभेत ? श्रुतस्य परोक्षता तथा परोपदेशजत्वाच / श्रुतज्ञानं परोक्षं, परः-तीर्थकरादिस्तस्यो पदेशः, उपदिश्यते उच्चायते इत्युपदेशः-शब्दस्तस्मात् परोपदेशात्-तीर्थकरादिशब्दश्रवणादुपजायते यत् तदिन्द्रियानिन्द्रियनिमित्तं श्रुतज्ञानं, तत्पूर्वकत्वात् परोपदेशादिति च, अनेन निमित्तभूयस्त्वं ख्यापितम् / यतः श्रुतज्ञानमुपजायमानं स्वतः प्रत्येकबुद्धादीनां मनसि सति मतिज्ञाने च सति समस्ति, अतो निमित्तद्वयमाश्रितं भवति / तथा यस्यापूर्वमेवेदानीं प्रादुरस्ति तस्य सति परोपदेशे सत्यां मतो सत्सु चेन्द्रियानिन्द्रियेपूदेति, अतो निमि 1' श्रुतमतिं ' इति क-ख-पाठः / 2 'श्रितं च ' इति ख-पाठः / Page #100 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 त्तभूयस्त्वापेक्षत्वात् परोक्षं तद् भण्यते // ननु चेन्द्रियोपष्टम्भेनोपजायमानस्य ज्ञानस्य प्रत्यक्षत्वं लोके प्रथितं, तदपाकरणप्रवृत्तस्य लोकविरोधः, तथा इदं रूपं प्रत्यक्षमिति योऽयं प्रत्ययो नायं परोक्षे दृष्टः / नहि धूमादग्निमवगच्छतोऽयमग्निरिति संप्रत्ययो भवति, ततश्च स्वप्रतीतेरपि विरोध इति / उच्यते-इदं रूपं प्रत्यक्षमिति न तत्र मुख्यया वृत्त्या रूपं प्रत्यक्षं, ज्ञानमेव तु प्रत्यक्षं, तेन प्रत्यक्षेण ज्ञानेनावच्छिन्नोऽर्थः प्रत्यक्ष इत्युच्यते, तस्य युक्ता प्रत्यक्षता / किंच-न सर्वथेन्द्रियनिमित्तस्य ज्ञानस्य प्रत्यक्षता, निषेधात्, यतः सर्वथा तं विषयं न परिच्छेत्तुमलं, चक्षु रूपं गृह्णात्याराद्भागवति, न परमध्यभागावस्थितम्, तथा श्रोत्रादि वाच्यम्, अवध्यादित्रयं पुनः सर्वात्मनाऽवगच्छति, अतस्तस्यैव युक्ता प्रत्यक्षता। किंच न सर्वथेन्द्रियनिमित्तस्य ज्ञानस्य प्रत्यक्षव्यपदेशो निषिध्यते, यतोऽयं निश्वयमङ्गीकृत्य भाष्यकृता प्रत्यक्षव्यपदेशो निषिध्यते, व्यवहारात्विष्यत एव / यतोऽभिहितं नन्द्याम् (सू० 2-3) "तं समासओ दुविहं पण्णत्तं, (तं० पच्चक्खं च परोक्खं च / से किं तं पञ्चक्खं ? पञ्चक्खं दुविहं पण्णत्तं ) तं०-इन्दियपच्चक्खं नोइन्दियपञ्चक्खं चे" इन्द्रियप्रत्यक्षमिति ब्रुवता व्यवहारप्रत्यक्षता भवति, भाष्यकारस्यापि योगविभागात् तस्येन्द्रियजस्य ज्ञानस्य सिद्धा प्रत्यक्षता, स चैवं योगो विभजनीयः-आद्ये परोक्षं निश्चयतः ततः प्रत्यक्षं, प्रत्यक्षं चाद्ये व्यवहारः, ततोऽन्यत् अवध्यादि एकान्तेनैव प्रत्यक्षमिति // 11 // ___ एवं परोक्षं प्रदश्य प्राक प्रतिज्ञातं प्रत्यक्षं प्रमाणं कथयन्नाह सूत्रम्-प्रत्यक्षमन्यत् // 1-12 // टी०-अन्यदिति चोक्ते जायते विचारणा-कुतोऽन्यदिति ? अवधीकृतमेव विच्छेदकारणं ख्यापयन् “ते भा०–मतिश्रुताभ्यां यदन्यत् त्रिविधं ज्ञानं तत् प्रत्यक्षं प्रमाणं भवति। कुतः। अतीन्द्रियत्वात् / प्रमीयन्तेऽस्तैरिति प्रमाणानि / अत्राह-इह अवधारितं-द्वे एव प्रमाणे प्रत्यक्षपरोक्षे इति // टी-मतिश्रुताभ्यामिति / मतिज्ञानश्रुतज्ञानाभ्यां यदन्यत् , तस्य चैकैकस्य प्रत्य क्षतांप्रकाशयन्नाह-त्रिविधमिति / उक्तेऽपि चैतस्मिन् किं तत् त्रिविधमिअवध्यादेः त्याह-ज्ञानं, प्रत्यक्षं प्रमाणं भवतीति / प्रत्यक्ष भवतीत्येतद् विधीयप्रत्यक्षता तेऽत्र,शेषस्यानुवाद इति। कुत इति च प्रश्नयितुरभिप्रायोऽयम्-यद्यान्तरनिमित्तं क्षयोपशमः प्रत्यक्षतायाः कारणभावं प्रतिपद्यते स सर्वेषां मत्यादीनां साधारणः क्षयोपशमः कारणमस्तीति सर्वप्रत्यक्षत्वप्रसङ्गः, अथ प्रत्यक्षतायाः पृथग् निमित्तं तदुच्यतामिति, इतरस्तु असाधारण त्रयाणां प्रत्यक्षतायाः प्रकटीकुर्वन् निमित्तमाह-अतीन्द्रियत्वादिति / अतिक्रा 1 'निषेध्यते ' इति ख-पाठः। 2 तत् समासतो द्विविधं प्रज्ञप्त, ( तद्यथा-प्रत्यक्षं च परोक्षं च / अथ किं तत् प्रत्यक्षम् ? प्रत्यक्षं द्विविधं प्रज्ञप्तम् ) तद्यथा-इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च। Page #101 -------------------------------------------------------------------------- ________________ 75 सूत्र 12 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् न्तमिन्द्रियाणि अतीन्द्रियं ज्ञानं तद्भावोऽतीन्द्रियत्वं तस्मादिति, यत् प्राणिनां ज्ञानदर्शनावरणक्षयोपशमात् क्षयाच इन्द्रियानिन्द्रियद्वारनिरपेक्षमात्मानमेव केवलमभिमुखीकुर्वदेति तत प्रत्यक्षं-अवध्यादि। एवं तत् प्रमाणे (1-10) इति द्वित्वसङ्ख्यायाः परोक्षप्रत्यक्षाख्यो यो विपयस्तमुपदर्य प्रमाणशब्दार्थकथने प्रावृतद् भाष्यकारः-प्रमीयन्तेऽस्तैिरिति प्रमाणानीति। (प्रमीयन्ते)-परिच्छिद्यन्ते-यथावनिश्चीयन्ते सदसन्नित्यानित्यादिभेदेनार्था-जीवादयस्तैरिति प्रमाणानि, करणे ल्युट्, करणं ज्ञानमात्मनः, आहितप्रधानकारणस्य स्वतन्त्रस्य कर्तुरनेककारकशक्तियुक्तस्य साधकतमत्वविवक्षावशादवच्छेदिका शक्तिरर्थस्य करणव्यपदेशमश्नुते, तया करणभूतया परिच्छिनत्ति-अवबुद्धयते ज्ञानपरिणतिरूपयाऽऽत्मैव / तैरिति / प्रमाणद्वयेऽभ्युपगते बहुवचनमयुक्तमिति चेत्, न, व्यक्तिपक्षसमाश्रयणादिति, यतो मत्यादिकाः पञ्च व्यक्तयः, तासां बहुत्वात् समीचीनमेव बहुवचनमिति / एवं द्वे परोक्षप्रत्यक्षे प्रमाणे भवत इति ख्यापिते चोदयति-इह शास्त्रे निर्धारितमेतद्-द्वे एव प्रमाणे, अन्यथा तत् प्रमाणे इत्यत्र या द्वित्वसङ्ख्या सा व्यथैव स्यात्, यद्यवधारणतया नाश्रीयेत, तस्मादवश्यंतया तद् . वचनं नियमकारि प्रतिपत्तव्यम्-द्वे एव प्रमाणे, के च ? प्रत्यक्षपराक्षे अनुमानादीनां . इति, ततश्चान्येषामप्रमाणता आपन्ना, न च न सन्त्येवान्यानि, यतोऽनुप्रामाण्यविचारः " मानादीनि प्रमाणानि मन्यन्ते, साङ्ख्याः प्रत्यक्षानुमानागमाख्यानि श्रीणि, नैयायिकाः प्रत्यक्षानुमानोपमानागमाख्यानि, प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावा इति जैमिनीयाः / एतदाह भा०-अनुमानोपमानागमार्थापत्तिसम्भवाभावान्यपि प्रमाणानि इति केचित् मन्यन्ते / तत् कथमेतदिति ? / अत्रोच्यते टी०-अनुमानोपमानेत्यादि / तत्रानुमानं तावत् पक्षधर्मान्वयव्यतिरेकजनितं अनुमानादीनां ज्ञानम्, प्रसिद्धसाधयात् साध्यसाधनमुपमान, यथा गौस्तथा व्याख्या गवयः / " प्रसिद्धेन हि साधाव, साध्यसाधनमिष्यते / उपमानं परैस्तच्च, यथा गौर्गवयस्तथा // " तथा आप्तोपदेश आगमस्तदनुसारि ज्ञानमागम उच्यते प्रमाणं वर्णपदवाक्यात्मकः / तथाापत्तिद्विधा शब्दार्थापत्तिार्थापत्तिश्चेति। तत्र शब्दार्थापत्तिर्देवदत्तो दिवा न भुङ्क्तेऽ. नुपहतेन्द्रियशरीरश्चेति, रात्रौ तर्हि भुङ्क्ते इति / तथा अर्थार्थापत्तिरपि नीलं पश्यतो यदिन्द्रियानुमानं समस्ति तत् किमपीन्द्रियं येनैतनीलं परिच्छिन्नमिति / सम्भवोऽपि प्रमाणंप्रस्थे कुडवः समस्ति, अस्मिन् प्रस्थाख्ये आधारे कुडव आधेयः सम्भवतीति एप सम्भवः / तथाऽभावोऽपि प्रमाणाभावविषयः, यत्र विषये प्रत्यक्षादिप्रमाणानामप्रवृत्तिरसावभावस्तद्विपयमपि ज्ञानमभाव इति व्यपदिश्यते / अत एव तान्यनुमानादीनि केचिदाचार्याः प्रमाणा Page #102 -------------------------------------------------------------------------- ________________ GA तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 नीति मन्यन्ते, तत् कथमित्येवं मन्यन्ते, किमेषां तानि न सन्ति प्रमाणत्वेन ? उत प्रमाणान्तराणि न भवन्तीति / अत्रोच्यते मया भा०-सर्वाण्येतानि मतिश्रुतयोरन्तर्भूतानि, इन्द्रियार्थसन्निकर्षनिमित्तस्वात् / किश्चान्यत् / अप्रमाणान्येव वा। कुतः 1 / मिथ्यादर्शनपरिग्रहात् , विपरीतोपदेशाच // टी-सर्वाणि इत्यादि / सर्वाणि-समस्तानि एतानि-अनुमानादीनि मति __ ज्ञानश्रुतज्ञानयोरेव अन्तर्भूतानि-प्रविष्टानि / कयोपपत्त्येति चेत् तामुअनुमानादीनामि : पपत्तिमाह-इन्द्रियार्थेत्यादि / इन्द्रियाणि-चक्षुरादीनि तेपामर्थान्द्रियार्थसंबन्ध रूपादयः इन्द्रियाणि चार्थाश्च इन्द्रियार्थास्तेषां सन्निकर्षः-सम्बन्धः स इन्द्रियार्थसन्निकर्षो निमित्तं यस्य अनुमानादेस्तदिन्द्रियार्थसन्नि कर्षनिमित्तम्-अनुमानादि / कथं पुनरिन्द्रियार्थसन्निकर्पः कारणमनुमानादेः ? / उच्यतेअनुमानं तावच्चक्षुरादीन्द्रियधूमाद्यर्थसन्निकर्षजम्, अन्यथा तस्यासम्भवात्, इन्द्रियनिमित्तत्वात् सपरार्थस्यानुमानस्येति / उपमानमपि चक्षुरादीन्द्रियगवाद्यर्थसन्निकर्षजम् / आगमाख्यमपि श्रोत्रेन्द्रियस्य अनिन्द्रियस्य वा आप्तवचनार्थस्य सन्निकर्ष सति प्रादुरस्ति / शब्दा पत्तिरप्येवमेव / अर्थार्थापत्तिस्तु चक्षुरादेरिन्द्रियस्य नीलादे रूपस्य च सन्निकर्ष एवोपजायते / सम्भवोऽपि प्रस्थमर्थ दृष्ट्वा श्रुत्वा वा प्रादुरस्ति, एवं चक्षुःश्रोत्रयोः प्रस्थार्थप्रस्थशब्दयोः सन्निकर्षे सति तदुदेति / अभावोऽपि प्रमाणं प्रमेयाभावविषयः, मनसा विकल्प्यार्थमुत्तरत्र स एव विषयीभवति विकल्पितोऽर्थो, नानुमानादसौ भिद्यत इति, एवमिन्द्रियार्थ सन्निकर्षनिमित्तान्येतानि मतिश्रतयोरन्तर्भाव यान्तीति // किंचान्यअनुमानादीनामप्रामा': दिति पक्षान्तरमाश्रयति / अप्रमाणान्येव वा / नैवानुमानादीनि प्रमा ॐ णानि, मिथ्यादर्शनसमन्वितत्वात्, अयथार्थोपदेशव्यापृतत्वात् उन्मत्तकवाक्यविज्ञानवत, एतदेवाह-मिथ्यादर्शनेत्यादि / मिथ्यादर्शनम्-एकनयाश्रयणं तेन गृहीत मिथ्यादर्शनपरिग्रहो भण्यते, यत एव च मिथ्यादर्शनपरिग्रहोऽत एव विपरीतोपदेशादिति / विपरीतम्-अन्यथावस्थितं नानाधर्मकं सद्वस्तु एकधर्मकमाश्रितं विपरीत भण्यते, तस्य उपदेशः कथनं विपरीतोपदेशस्तस्मात् , यत एतान्येकनयावलम्बीन्यनुमानादीनि विपरीतमेकान्तपक्षाश्रितं वस्तु विच्छिन्दन्ति तस्मादप्रमाणानि परिकल्पितानीति / न च मिथ्यादृष्टिगृहीतं कदाचिदपि ज्ञानं भण्यते, किन्त्वज्ञानमेव, संसारहेतुत्वात्, एतच्चोत्तरत्र निदर्शयिष्यत्येव / यत आह भा०-मिथ्यादृष्टेहि मतिश्रुतावधयो नियतमज्ञानमेवेति वक्ष्यते (1-32 ) / नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद् (1-35) 'विकल्पिताऽर्थो' इति क-ग-पाठः / 2 'धर्मकदम्बकं सदस्त ' इति क-ग-पाठः। - Page #103 -------------------------------------------------------------------------- ________________ सूत्र 13 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् वक्ष्यामः // 12 // अत्राह-उक्तं भवता मत्यादीनि ज्ञानानि उद्दिश्य-तानि विधामतो लक्षणतश्च पुरस्ताद विस्तरेण वक्ष्याम इति। तदुच्यतामिति / अत्रोच्यते टी-मिथ्यादृष्टहीत्यादि / यस्मान्मिथ्यादृष्टेज॑न्तोर्मतिश्रुतावधयस्त्रयोऽपि निश्चयेन कुत्सितमेव ज्ञानमज्ञानमिति भणिष्यते। यद्येवं कथं तर्हि मतिश्रुतयोरन्तभूतानीत्युक्तम् ? उच्यते-नयवादमाश्रित्यैतदुक्तम् / केन तर्हि नयवादान्तरेण मतिश्रुतान्तर्गतानीत्याहनयवादान्तरेण तु इत्यादि / नया-नैगमादयः तेषां वादः-स्वरुचितार्थप्रकाशनं नयवादः तस्य अन्तरं-भेदो नयवादान्तरं तेन नयवादभेदेनैव / यथा मतिश्च श्रुतं च मतिश्रुते तयोविकल्पा-भेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा पुरस्तात् नयविचारणायां वक्ष्यामः (1-35) इतिशब्देन यस्य हि मिथ्यादृष्टिरज्ञो वा नास्तीति वक्ष्यति तन्मतेन तु प्रमाणानीति // 12 // __अत्रेति / एतस्मिन् ज्ञानपञ्चके कथिते सामान्येन प्रमाणद्वये च-प्रत्यक्षपरोक्षरूपे विहिते, परोऽवोचत्-उक्तं-प्रतिपादितं त्वया, किमिति चेत् उच्यते-मत्यादीनि पञ्च ज्ञानानि-मतिश्रुतावधिमनःपर्यायकेवलान्येव उद्दिश्य, तत इदमभिहितं तदुच्यते -तानि विधानतो लक्षणतश्च पुरस्तादू विस्तरेण वक्ष्याम इत्येतत् // ननु च नैवंविधं तत्र सूत्रे भाष्यमस्ति-विधानतो लक्षणतश्चेति, कथमयमध्यारोपः क्रियते गुरोरिति ? / उच्यते-सत्यमेवंविधं भाष्यं नास्तीति, एवं पुनः समस्ति-प्रभेदास्त्वस्य पुरस्ताद वक्ष्यन्त इति (1-9) / अतः प्रभेदा-मतिज्ञाने विधानलक्षणरूपाः प्रतिपाद्यन्ते तत्र माष्ये, अतो नाध्यारोप इति / विधान-भेदः, मतिज्ञानं सभेदकं वक्ष्यामीति प्रतिज्ञातम् , तथा लक्षणम्-असाधारणं यच्चिद्रं मत्यादेस्तच्च वक्ष्यामीति प्रत्यज्ञायि, तदुच्यतां विधानं लक्षणं चेति, एवं पयेनुयुक्त आह-अत्राच्यत इति // ___अत्रैतास्मंश्चोदिते उच्यते मया, लक्षणमल्पविचारत्वात् , अनेन सूत्रेण मतिः स्मृत्यादिना / अथवा नैव मतिज्ञानस्यानेन सूत्रेण लक्षणं कथयति, प्रतीतत्वात् , प्रतीतं हि लोके इन्द्रियानिन्द्रियजं ज्ञानं, यच्च प्रतीतं न तस्य लक्षणमाचक्षते विचक्षणाः, नहि हुताशनस्योप्णतालाञ्छनमत्यन्तप्रतीतत्वादभिदधते विद्वांसः, किं तर्हि सूत्रेण प्रतिपादयति ? उच्यतेलक्षणं द्विविधं तत्स्थमतत्स्थं चेति, तत्स्थमनेरोष्ण्यवत्, अतत्स्थं वारिणो बलाकादिवत् , मतिज्ञानस्य लक्षणं यत्तत्स्थं न पुनस्ततो ज्ञानाद् भिन्नमित्येतदादर्शयति सूत्रेण // सूत्रम्-मतिःस्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनान्तरम् // 1.13 // री-मतिः स्मृतिः संज्ञेत्यादि। अत एव च ज्ञानशब्दं प्रत्येकं लगयति भा०-मातिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं आभिनिबोधिकज्ञानमित्यनर्थान्तरम् // 13 // 'तत्र' इति क-ग-पाठः / Page #104 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 टी-मतिज्ञानं स्मृतिज्ञानमित्यादि / येयं मतिः सैव ज्ञानमित्यस्य ख्यापनार्थ मननं मतिस्तदेव ज्ञानं मतिज्ञानमिति / मतिज्ञानं नाम यदिन्द्रियामतेः पर्याया। निन्द्रियनिमित्तं वर्तमानकालविषयपरिच्छेदि / स्मरणं स्मृतिः सैव ज्ञान स्मृतिज्ञानं, तैरेवेन्द्रियैर्यः परिच्छिन्नो विषयो रूपादिस्तं यत् कालान्तरेण विनष्टमपि स्मरति तत् स्मृतिज्ञानम् , अतीतवस्त्वालम्बनमेककर्तृकं चैतन्यपरिणतिस्वभावं मनोज्ञानमितियावत् / संज्ञाज्ञानं नाम यत्तरेवेन्द्रियैरनुभूतमर्थ प्राक् पुनर्विलोक्य स एवायं यमहमद्राक्षं पूर्वाह इति संज्ञाज्ञानमेतत् / चिन्ताज्ञानमागामिनो वस्तुन एवं निष्पत्तिर्भवति अन्यथा नेति, यथैवं ज्ञानादित्रयसमन्विते तत्रैव परमसुखावाप्तिरन्यथा नेत्येतचिन्ताज्ञानं मनोज्ञानमेव / आभिनिबोधिकम् अभिमुखो निश्चितो यो विषयपरिच्छेदः सर्वैरेवैभिः प्रकारैस्तदाभिनिवोधिकमिति / यदा चैतल्लक्षणसूत्रं तदा इतिशब्द एवमित्यस्यार्थे, एवंलक्षणमेभिः पर्यायनिरूपितं मतिज्ञानं ज्ञेयमिति / एवमेतत् कियताऽप्यंशेन भेदं प्रतिपद्यमानमनान्तरमिति व्यपदिशति / नैपां मतिज्ञानविरहितोऽर्थो विकल्पनीय इति / अपरे तु सर्वे पर्यायशब्दा एवैते शतक्रतुशक्रादिशब्दवदिति मन्यन्ते, नात्र भेदेनार्थः कल्पनीय इति / तथा चास्य सूत्रस्य पूर्वपक्षमन्यथा रचयन्ति, एवं-लोके स्मृतिज्ञानं अतीतार्थपरिच्छेदि सिद्धम् , संज्ञाज्ञानं वर्तमानार्थग्राहि, चिन्ताज्ञानमागामिकालविषयमिति, इह तु सिद्धान्ते आमिनिबोधिकज्ञानमेवोच्यते, स्मृत्यादीनि तु नोच्यन्ते, तत्रानभिधाने प्रयोजनं वाच्यम् / उच्यतेआभिनिबोधिकज्ञानस्यैव त्रिकालविषयस्यैते पर्याया नार्थान्तरतेति मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यस्यानान्तरमेतदिति // 13 // इह हि प्रतिक्षणं प्राणिनांमन्यदन्यच्च ज्ञानमुदेति, घटालम्बनज्ञानापगतौ पटालम्बनज्ञानाविर्भावः, यच्चोत्पद्यते तत्कारणायत्तजन्म वदन्ति सन्तः-यथा घटः पुरुषमृत्तिकादण्डाघपेक्ष्य कारणमाविरस्ति, एवमस्य ज्ञानस्य समुपजायमानस्य किं निमित्तमिति ? / उच्यते सूत्रम्-तदिन्द्रियानिन्द्रियनिमित्तम् // 1.14 // मा०-तदेतत् मतिज्ञानं द्विविधं भवति-इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च। री-तदेतदित्यनन्तरलक्षणोपेतं मतिज्ञानं किंनिमित्तमिति ? / उच्यते-हेतोद्वैविध्यात विविधं भवति, तेनैव हेतुना द्विविधेन तत्कार्यमादर्शयति-इन्द्रियनिमित्तमनि न्द्रियनिमित्तं च। तत्रेन्द्रियाणि-स्पर्शनादीनि पञ्च निमित्तं यस्य तदिमतेः कारणानि न्द्रियनिमित्तम्, नहि श्रोत्रेन्द्रियमन्तरेणायं प्रत्ययो भवति शब्दोऽयमिति, न च स्पशेनमन्तरेणायं प्रत्ययः समुत्पद्यते-शीतोऽयमुष्णो वा, एवं शेषेष्वपि वाच्यम् / तथानिन्द्रियनिमित्तमिति इन्द्रियादन्यदनिन्द्रियं-मनः ओघश्चेति तत 'प्राणिनामन्यच्च' इति ख-पाठः / Page #105 -------------------------------------------------------------------------- ________________ सूत्र 14 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् निमित्तमस्य मतिज्ञानस्य तदनिन्द्रियनिमित्तमिति, स्मृतिज्ञानहेतुर्मनः / एवं चैतद् द्रष्टव्यम्इन्द्रियनिमित्तमेकम् , अपरमनिन्द्रियनिमित्तम्, अन्यदिन्द्रियानिन्द्रियनिमित्तमिति विधा, तत्रैकमिन्द्रियनिमित्तमेव ज्ञानं मत्याख्यम्, यथाऽवनिवारिदहनपवनवनस्पतीनामेकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणामसंज्ञिनां च पश्चेन्द्रियाणां, मनसोऽभावात्, तथाऽनिन्द्रियनिमित्तं स्मृतिज्ञानम् , इतरेन्द्रियनिरपेक्षं चक्षुरादिव्यापाराभावात्,तथा इन्द्रियानिन्द्रियनिमित्तं जाग्रदवस्थायां, स्पर्शनेन मनसोपयुक्तः स्पृशत्युष्णमिदं शीतं चेति, इन्द्रियं मनश्चोभयं तस्योत्पत्ती निमित्तं भवति इति / तदेतत् सर्वमेकशेषाल्लभ्यत इति, इन्द्रियं चानिन्द्रियं च :इन्द्रियानिन्द्रिये इन्द्रियानिन्द्रियाणि च तानि निमित्तं यस्य तदिन्द्रियानिन्द्रियनिमित्तमिति / एतदेवाह-इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चशब्दादुभयनिमित्तं चेति, अपेक्षाकारणं चाङ्गीकृत्य मूत्रं पपाठ आचार्यः तदिन्द्रियानिन्द्रियनिमित्तमिति / अपेक्षाकारणं चालोकविषयेन्द्रियाणि, सति प्रकाशे विषये च चक्षुरादिषु च सत्सु ज्ञानस्योद्भवो दृष्टः, तेषामपि मध्येऽन्तरङ्गमपेक्षाकारणमिन्द्रियानिन्द्रियाणि पठितम्, पारमार्थिकं तु कारणं क्षयोपशमो मतिज्ञानावरणपुद्गलानाम् , नहि तदावरणक्षयोपशममनपेक्ष्य ज्ञानस्योत्पत्तिरिप्यते / यदि तान्तरं निमित्तं क्षयोपशमः स एवोपादेयः किं बाह्येनेन्द्रियानिन्द्रियनिमित्तेनाधीतेनेति ? / उच्यते-स क्षयोपशमः सर्वसाधारण इतिकृत्वा न पठितः, चशब्देन वा गृहीतो द्रष्टव्यः, इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चशब्दात् क्षयोपशमनिमित्तमिति, न वा, भावेन्द्रियस्य तद्रूपत्वात् इति // तत्रेन्द्रियनिमित्तं स्वयमेव भावयति भा०-तन्द्रियनिमित्तं स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेव स्वविषयेषु / अनिन्द्रियनिमित्तं मनोवृत्तिरोघज्ञानं च // 14 // टी.-तत्रेन्द्रियेत्यादिना। तत्र तेषां त्रयाणां मध्ये इन्द्रियानिमित्तं तावद् भण्यते . स्पर्शनादीनामिति / स्पर्शनरसनघागचक्षुःश्रोत्राणां पञ्चानामेव इन्द्रियानिन्द्रिय र पश्चस्वव इत्यन्यस्याभावानियमयति, स्वे-आत्मीया विषया येषु प्राणिनः निमित्तता मते सक्तिं भजन्ते तेषु स्वेषु विषयेषु, तद्यथा-स्पर्शनस्य स्पर्शे, रसनस्य रसे, घाणस्य गन्धे, चक्षुषो रूपे, श्रोत्रस्य शब्दे, अत एषां स्पर्शनादीनां स्वविषयेषु प्रवर्तमानानां माहितया यदुपजायते ज्ञानं तत् तानीन्द्रियाण्यालम्ब्योत्पद्यमानमिन्द्रियनिमित्तमिति भण्यते / इदानीमनिन्द्रियनिमित्तमाचष्टे-अनिन्द्रियं-मनस्तन्निमित्तं यस्य तदनिन्द्रियनिमित्तम् / कीटक तदित्याह-मनोवृत्तिर्मनोविज्ञानमिति / मनसो भावाख्यस्य वर्तनं-विषयपरिच्छेदितया परिणतिर्मनोवृत्तिः, ओघज्ञानं चेति / ओघः-सामान्यं अप्रविभक्तरूपं यत्र न स्पर्शनादीनीन्द्रियाणि तानि मनोनिमित्तमाश्रीयन्ते, केवलं मत्यावरणीयक्षयोपशम एव तस्य ज्ञानस्योत्पत्तौ निमित्तम्, यथा वल्लयादीनां नीबाघभिसर्पणज्ञानं न स्पर्शननिमित्तं न मनोनिमितमिति, तस्मात् तत्र मत्यज्ञानावरणक्षयोपशम एव केवलो निमित्तीक्रियते ओघज्ञानस्य // 14 // १'पठन्ति' इति ख-पाठः / Page #106 -------------------------------------------------------------------------- ________________ अवग्रहाद्या तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 तत् पुनरिन्द्रियनिमित्तमनिन्द्रियनिमित्तं वा ज्ञानं किमेकरूपमुतास्ति कश्चिद् भेदकलापः 1 / अस्तीत्याह / यद्यस्ति ततो भण्यताम् / उच्यते सूत्रम्-अवग्रहहापायधारणाः॥ 1-15 // भा०-तदेतत् मतिज्ञानमुभयनिमित्तमप्येकशश्चतुर्विधं भवति। तद्यथा -अवग्रह ईहा अपायो धारणा चेति / टी-तदेतत् मतिज्ञानं लक्षणविधानाभ्यां यदुक्तम् उभयनिमित्तमिन्द्रियनिमि __ त्तमनिन्द्रियनिमित्तम् अपिशब्दादिन्द्रियानिन्द्रियनिमित्तमपि // अथे "न्द्रियानिन्द्रियनिमित्तसमुदायरूपेण स्थितं चतुर्विधं किं ग्राह्यम् / मतेर्भेदाः " नेत्याह-एकशः, एकै स्पर्शनेन्द्रियनिमित्तं चतुर्विधं, रसनेन्द्रियनिमत्तं चतुर्विधं, घ्राणेन्द्रियनिमित्तं चतुर्विधम्, चक्षुरिन्द्रियनिमित्तं चतुर्विधं, श्रोत्रेन्द्रियनिमित्तं चतुर्विधं, मनोनिमित्तं चतुर्विधमिति / चतस्रो विधा यस्य तच्चतुर्विधम् / कास्ताश्वतस्रो विधा इत्याह-अवग्रह ईहा अपायो धारणेति / स्पर्शनावग्रहः स्पर्शनेहा स्पर्शनापायः स्पर्शनधारणेति, एवं सर्वत्र दृश्यं यावन्मनोधारणेति / पर आह-नितिं चातुर्विध्यमेकैकस्य, इदं तु न विज्ञातं किंस्वरूपा अवग्रहादय इत्यतः स्वरूपमवग्रहादीनां ब्रूहि, एवमुक्ते सूरिः स्वरूपप्रचिकाशयिपयाऽऽह अवग्रहादीनाम् भा०-तत्राव्यक्तं यथास्वमिन्द्रियैर्विषयाणामालोचनावधारणमवग्रहः / अवग्रहो ग्रहो ग्रहणमालोचनमवधारणमित्यनर्थान्तरम् // टी०-तत्राव्यक्तमित्यादिना। तत्रेति चतुर्ववग्रहादिषु प्रक्रान्तेषु अवग्रहोऽभिधीयते। अवग्रहणमवग्रहः सामान्यार्थपरिच्छेद इत्यर्थः। यद् विज्ञानं स्पर्शनादीन्द्रियजं व्यञ्जनावग्रहादनन्तरक्षणे सामान्यस्यानिर्देश्यस्य स्वरूपकल्पनारहितस्य नामादिकल्पनारहितस्य च वस्तुनः परिच्छेदकं सोऽवग्रहः अव्यक्तं ज्ञानमितियावत् / यदाह-अव्यक्तम्-अस्फुटम् अवधारणमित्यनेन सम्बन्धः अव्यक्तं यदवधारणम्-अव्यक्तो यः परिच्छेद इत्यर्थः / कस्याव्यक्तं कैर्वा तदव्यक्तमिति ? / उच्यते-यथास्वमित्यादि / यथाशब्दो वीप्सायां, यो य इति, स्वशब्द आत्मीयवचनो, यो य आत्मीय इत्यर्थः / यथास्वं विपयोऽभिसम्बन्ध्यते, योऽयमात्मीयो विषयस्तस्यात्मीयस्य विषयस्य इन्द्रियैः स्पशेनादिभिः करणभूतैर्य विषयाः परिच्छे. धन्ते तेषां विषयाणां स्पर्शादीनां अव्यक्तमवधारणम्, कीदृशमत आह-आलोचनावधारणम् , आमर्यादायाम् आलोचनं-दर्शनं, परिच्छेदो मर्यादया यः स आलोचना / यथोक्तं पुरस्ताद् वस्तुसामान्यस्यानिर्देश्यस्य स्वरूपनामजात्यादिकल्पनावियुतस्य अवग्रहस्वरूपम् यः परिच्छेदः सा आलोचना मर्यादया भवति / आलोचना च सा अवधारणं च तदालोचनावधारणम् / अत एतदुक्तं भवति-उक्तमालोचनावधारणं स्पर्शनादिभिरिन्द्रियैः स्पर्शनादीनामात्मीयानां विषयाणामात्मनो यद् भवति सोऽ 1 'निर्देशस्य ' इति ख-पाठः / 2 'च विमुक्ती' इति ख-पाठः / 3 ' अनिर्देशस्य ' इति स्व-पाठः / Page #107 -------------------------------------------------------------------------- ________________ सूत्रं 15] स्वोपज्ञभाष्य-टीकालङ्कृतम् 81 वग्रहः, किं पुनः कारणमाद्ये क्षणे तं विषयं परिच्छेत्तुं यथावन्न शक्नोति परतश्च यथावच्छत्यति ? / उच्यते-मतिज्ञानावरणीयकर्मणः स तादृशः क्षयोपशमो येनादौ तं विषय सामान्येन परिच्छिनत्ति, ईहायां चान्यादृशः क्षयोपशमो यतस्तमेव स्फुटतरमीहिष्यते, अपाये चान्यादृशः क्षयोपशमो येन तमेव विषयं स्फुटतरमवच्छिनत्तीति, धारणायामप्यन्या शो येनावधारयिष्यतीति, तस्मान्मलीमसत्वात् क्षयोपशमस्यादावव्यक्तमवधारणं यत् सोऽवग्रह इत्युच्यते। एवं स्वचिह्नतोऽवग्रहं निरूप्य पर्यायशब्दस्तमेव कथयति-अव(ग्रहो ग्रहो)ग्रहणमालोचनावग्रहोऽभिधीयते अवधारणं चेति, योऽसौ सामान्यपरिच्छेदः स एभिः शब्दैरर्थतो नानात्वमप्रतिपद्यमानैरभिधीयते / एवमवग्रहं कथयित्वा ईहायाः स्वरूपमाचिख्यासुराह भा०-अवगृहीतम्। विषयार्थैकदेशाच्छेषानुगमनम् / निश्चयविशेषजिज्ञासा चेष्टा ईहा / ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनर्थान्तरम् / / टी-अवगृहीतमित्यादि / अवगृहीतमित्यनेन क्रमं दर्शयति-सामान्येन गृहीते ईहा प्रवर्तते न पूर्वमेवेहेति, यदा हि सामान्येन स्पर्शनेन्द्रियेण स्पर्शसाहायाः स्वरूपम् मान्यमागृहीतमनिर्देश्यादिरूपं तत उत्तरं स्पर्शभेदविचारणा ईहाभिधीयत इति / एतदाह-विषयाथै केत्यादि। विषयः-स्पर्शादिः स एव परिच्छेदकालेय॑माणत्वात्-परिच्छिद्यमानत्वादर्थ इत्युच्यते, विषयश्वासावर्थश्च विपयार्थः तस्यैकदेशः सामान्यमनिर्देश्यादिरूपं तस्मात् विषयार्थैकदेशात् परिच्छिन्नादनन्तरं यत् शेषानुगमनं शेषस्य-भेदविशेषस्येत्यर्थः / अनुगमनं विचारणं, शेपस्यानुगमनं विशेषविचारणमित्यर्थः। किमयं मृणालीस्पर्शः उताहो सर्पस्पर्श इति / न चैतत् संशयविज्ञानमिति युज्यते वक्तुम्, यतः संशयविज्ञानमेवंरूपं भवति यदनेकार्थावलम्बनमूर्ध्वतासामान्यं पश्यतः किमयं स्थाणुरुत पुरुष इति नैकस्यापि परिच्छेदं शक्तं कर्तुमिति तत् संशयविज्ञानमभिधीयते / ईहा पुनरेवंविधलक्षण'विपरीता, यतः स्पर्शसामान्य उपलब्धे तदुचरकालं मृणालस्पर्शे सद्भूतविशेषादानप्रवृत्ता, असद्भूतविशेषपरित्यागप्रवृत्ता चेहेत्यभिधीयते। अमी पूर्व मृणालस्पशे मया सद्भूता विशेषा अनुभूता इत्यतस्तदभिमुखाऽसौ, अमी च नानुभूता इति तत्परित्यागाभिमुखा, अतो न संशपविज्ञानेनास्याः साम्यमस्तीत्येतदाह-निश्चयविशेषजिज्ञासा ईहा / निश्चीयतेऽसाविति निश्चयः / कोऽसौ ? विशेष इत्याह, विशिष्यते-भिद्यतेऽन्यस्मादिति विशेषः, निश्चयश्चासौ विशेपश्च निश्चयविशेषः, निश्चितो विशेप इत्यर्थः, तस्य ज्ञातुमिच्छा या सा जिज्ञासा, विद्यमानाविद्यमानविशेषादानपरित्यागाभिमुखेत्यर्थः / सैवंविधा ईहाभिधीयते / एवं स्वचिह्नन ईहां निरूप्य पर्यायशब्देरर्थतो नानात्वमप्रतिपद्यमानैरसम्मोहाथ तामेवाचष्टे-ईहा ऊहा इत्यादि। यत्तद्विशेषविचारणं सा तदीहेत्येवात्राभिधीयते, चेष्टा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेस्येवं नास्त्यर्थभेद एषां शब्दानाम् , सत्यपि चार्थभेदेऽन्यत्रेहा नार्थान्तरभूता एवैते, एकरूपस्वात् / ईहायाः स्वरूपमाख्याय अपायस्य तदनन्तरवर्तिनः स्वरूपं दिदर्शयिषुराह 'अवगृहीते' इति घ-पाठः, समीचीनतरक्ष / Page #108 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 भा०-अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणा अध्यवसायापनोदोऽपायः / अपायोऽपगमः, अपनोदः अपव्याधः, अपेतमपगतमपवि. द्धमपनुत्यमित्यनन्तरम् // टी०-अवगृहीते इत्यादि / अनेनापि क्रममाचष्टे, सामान्येनावगृहीते स्पर्शसा मान्यविषये अनिर्देश्यादिरूपेःतत उत्तरकालमीहायां प्रवृत्तायां, कथमिति अपायस्य चेत् ? उच्यते-सम्यगसम्यगित्येवं मृणालीस्पर्शः किमुताहिस्पर्श इति / स्वरूपम् मृणालीस्पर्श इत्येवमादानाभिमुखत्वात् सम्यक् न अहिस्पर्शोऽयमित्येवं परित्यागाभिमुखत्वादसम्यगिति, तत उत्तरकालं सम्यगित्यपायः प्रवर्तते, नत्वसत्येतस्मिन् द्वय इति / स पुनः किंरूपोऽपाय इति ? उच्यते-गुणदोषेत्यादि / गुण इति यस्तस्मिन् साधारणो धर्मो मृणाले स गुणः, दोपस्तु यस्तत्र न सम्भवति धर्मः स दोषः, गुणश्च दोषश्च गुणदोषौतयोर्विचारणा-मार्गणा गुणदोषविचारणा तया गुणदोपविचारणया यः प्रवर्ततेऽ ध्यवसाय:-चित्तं, कीदृशम् ? अपनोद इत्येवंरूपः, अपनुदतीत्यपनोदः सोऽध्यवसायोऽपनुदति तत्रासन्निहितधर्ममिति मृणालस्येवायं स्पर्शः अत्यन्तशीतादिगुणसमन्वितत्वादिति अस्यैवायमिति यः प्रत्ययोऽन्यस्य न भवतीति सः अपायः। संप्रत्येवं लक्षणतो निर्धारितस्वरूपं पर्यायशब्देस्तमेव व्यपदिशत्यनान्तरभूतैः अपायोऽपगम इत्यादिभिः / अपैतीत्यपायः, निश्चयेन परिच्छिनत्तीत्यर्थः / अपगच्छत्यपनुदति अपविध्यतीत्यर्थः / पुनश्वापाय इत्यस्य भावार्थमुररीकृत्य भावाभिधायिभिरेव कथयति-अपेतमपगतमित्यादिभिः / मृणालस्यैवार्य स्पर्श इति येयं फलरूपा परिच्छित्तिस्वभावता ज्ञानस्येति सा भावाभिधायिभिरेभिरुच्यते, अपेतमपगतं परिच्छिन्नमेतन्मया एवमेतन्नान्यथेत्यर्थः। एवं निश्चितस्यार्थस्योत्तरकालं यदविसरणम् , अधुना यदा चान्यत्रार्थे उपयुक्तो भवति तदापि या वासना लब्धिरूपा यद् वाऽन्यस्मिन् कालान्तरेऽनुसरणमेतन्मया प्रागासेवितमित्येपा त्रिरूपा धारणांभिधीयते तां दर्शयति भा०-धारणा प्रतिपत्तियथास्वं मत्यवस्थानमवधारणं च। धारणा प्रतिपत्तिरवधारणावस्थानं निश्चयः अवगमः अवबोध इत्यनन्तरम् // 15 // टी०-धारणाप्रतिपत्तिरित्यादिना। धारणेति लक्ष्यम्, प्रतिपत्तियेथास्वमित्यनेनाचं भेदमादर्शयति, अस्मिन् काले निश्चितस्यार्थस्य यावदन्यत्र नोपयोगं याति धारणाया: तावत् अर्थस्य यद् दर्शनमप्रच्युतिः साप्रतिपत्तिः यथास्वमित्युच्यते,प्र __ तिपत्तिः-अप्रच्युतिः यथास्वं-यथाविषयं यो यः स्पर्शादिपिय आगृहीतः तस्याऽनाश इत्यर्थः। मत्यवस्थानमित्यनेन द्वितीयां लब्धिरूपांधारणां कथयति, यदा अपायं स्पर्शादेविषयस्य कृत्वाऽन्यत्रोपयुक्तो भवति तदाऽप्यसौ लब्धिरूपा धारणा समस्ति, अतो मत्यवस्थानमिति ब्रूते / मतेः धारणाख्याया अवस्थानं शक्तिरूपं मत्यवस्थानं भण्यते / अवधारणं चेत्यनेन तृतीयभेदं कथयति / यदा कालान्तरे तमेव प्रागनुभूतं विपयमालम्व्य ज्ञान 1 'विचारणया' इति ख-पाठः। २०मपनुत्त०' इति घ-पाठः। 'वधारणमव०' इति घ-पाठः / स्वरूपम् Page #109 -------------------------------------------------------------------------- ________________ सूत्र 16] स्वोपज्ञभाष्य-टीकालङ्कृतम् मुदेति तदा तदेवावधारणमिति भण्यते यस्मादवधारयति कालान्तरानुभूतमर्थमेवमेतन्मया सेवितमिति / सम्प्रति पर्यायशब्देस्तामेव त्रिप्रकारामाचष्टे-धारयत्यर्थ त्रिभिरप्येभिः प्रकारैः सा धारणा। प्रतिपत्तिर्नाम परिच्छिन्नेऽर्थे यावदन्यत्रोपयोगं न याति तावदनाशस्तस्यार्थस्य तस्मिन् विज्ञान इति / अवधारणं पुनः कालान्तरानुस्मरणमागृहीतम् / अवस्थानमित्यनेन तु अन्यत्र पदार्थे उपयुक्तस्य या लब्धिरूपा धारणा सा गृहीना / पुनरेषामन्ये त्रयो यथास ख्यकेन भेदा निदश्यन्ते-निश्चयोऽवगमोऽवबोध इति / निश्चय इत्ययं प्रतिपत्तिरित्यस्य पयोयः, अवगम इत्ययं तु मत्यवस्थानस्य लब्धिरूपस्येति / अथवा अविशिष्टधारणायाः सर्व एते पर्याया इत्यनर्थान्तरमित्याह / भावना चैवं कार्या-अपवरकाद्यन्धकारस्थितेन पुंसा यदा स्पर्शनेन्द्रियेणोपलब्धमाद्यक्षणे सामान्यमनिर्देश्यमशेषकल्पनारहितं सोऽवग्रहः / यदा पुनस्तमेव विचारयति किमयं मृणालस्पर्श उताहिस्पर्श इति सेहा / यदाऽस्य निश्चित भवति मृणालस्यैवायं नाहेरिति सोऽपायः / यदा तु निश्चितं सन्तमविच्युतिरूपेण धारयति लब्धिरूपेण वा कालान्तरानुस्मरणे वा सा धारणा / एवं रसनादिभिः रसादीनां योपलब्धिः सकेका चतुर्विधा मावनीयेति // 15 // __ अत्राह-एते ह्यवग्रहादयो ज्ञानविशेषाः क्षयोपशमवैचित्र्यात् स्पर्शादिकमर्थमन्यथा पाऽन्यथा निश्चिन्वन्तस्तथाव्यपदेशभाज इत्युक्तम् / / अथैषां स्वस्थाने क्षयोपशमवैचित्र्यमस्ति नास्तीति ? / उच्यते-अस्ति, यतोऽवग्रहः क्षयोपशमोत्कर्षापकर्षांपेक्षोऽनेकधा बहादेरथस्य परिच्छेदकः, एवमीहादयोऽपीति, एतदनेन प्रतिपादयति सूत्रेणसूत्रम्-बहुबहुविधक्षिप्रानिश्रितासन्दिग्धध्रुवाणां सेतराणाम् // 1-16 // ____टी-बहुवहुविधेत्यादिना। श्रुतानुमितैश्च पदैः प्रायो व्याख्या सूत्राणाम् , इष्टेऽपि अनुमीयमानैरवग्रहादिमिर्बहादीनां सम्बन्धं लगयन्नाह भा०-अवग्रहादयश्चत्वारो मतिज्ञानविभागाः एषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः / सेतराणामिति-सप्रतिपक्षाणामित्यर्थः / / टी-अवग्रहादयश्चत्वार इत्यादि / अवग्रहादयः प्रागत्र (1.15) निरूपितस्वरूपाः _ मूलभेदतश्चत्वार इति, क्षयोपशमवैचित्र्यात् तु नानाभेदास्त एव भवन्तीति 1. मत्वा चत्वार इत्याह / मतिज्ञानस्य च प्रकृतत्वात् तद्भदा एत इति " मतिज्ञानविभागा इत्याह, अवग्रहादयः / एतेऽवग्रहादयः एषां सूत्रोपन्यस्तानां बहादीनां षण्णाम् अर्थानाम् अर्यमाणानामित्यर्थः / बहादीनां पण्णामर्थानां सेतराणां च तेऽवग्रहादयो ग्राहका इत्यर्थ इत्याह-सेतराणां भवन्तीति / एकश इति पाएकैकस्य बहादेरर्थकलापस्य सेतरस्य ग्राहका इति एकैकोऽवग्रहादिरेकशः। सेतर इत्यस्य पार्थो नैवं ग्राह्यः-बहोरर्थस्य क्षिप्रार्थ इतर इति शक्यं वक्तुम्, एवं बहादीनामनिश्रितादिरितर नाऽन्यथा' इति ब--पाठः। 2' त्रितानुकधुवा.' इति घ-पाठः / अपग्रहादे दया भेदार Page #110 -------------------------------------------------------------------------- ________________ तवार्थाधिगमसूत्रम् [ अध्यायः 1 इति, एतन्निरासायाह-सेतराणाम् , सप्रतिपक्षाणामित्यर्थः। एतत् कथयति-इतरशब्दस्य विरोधी योऽर्थः स वाच्यो भवति, बह्वर्थस्य च स्तोकार्थो विरोधी प्रतिपक्षः, इत्येवं शेषाणां प्रतिपक्षता ज्ञेया, एवं सम्बन्ध लगयित्वाऽर्थ कथयति भा०-बहवग्रहणाति अल्पमवगृह्णाति / बहुविधमवगृहात एकविध .... मवगृह्णाति।क्षिप्रमवगृहपातिचिरेणावगृहणाति / निश्रितमवअल्पावग्रह गृहणाति अनिश्रितमवगृह्णाति। असन्दिग्धमवगृह्णाति सन्दिग्धमवगृहणाति'। ध्रुवमवगृहणाति अध्रुवमवगृह्णाति। इत्येवमीहादीनामपि विद्यात् // 16 // टी-बहवगृह्णाति इत्यादिना // ननु चावग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे (1-15), बहादयश्चेह पष्ठयन्ता इति तत्रैवमर्थकथनं युक्तं-बहोरर्थबहवग्रहस्य स्यावग्रहः अल्पस्यार्थस्यावग्रह इति?। उच्यते-नायं दोषः, यतोऽवग्रहादयः स्वरूपम् ____कर्तृसाधनाः तत्र श्रुताः, अवगृह्णातीत्यवग्रहः, ईहत इति ईहा, अपैतीत्यपायः, धारयतीति धारणा, यश्चासौ ज्ञानांशोऽवगृह्णातीत्यादिरूपस्तस्यावश्यं कर्मणा भवितव्यम्, तच्चेह बहादिभेदं सूत्रेण विषयात्मकं भण्यते, अतो नास्त्यर्थभेदो बहोरवग्रहः बहुमवगृह्णातीति, अनयोः एक एवार्थः, केवलं तु शब्दभेद उच्यते। स्पर्शनावग्रहस्तावदेवं बहुमवग्रह्णाति-शय्यायामुपविशन् पुमान् तत्स्थयोपितपुष्पवस्त्रचन्दनादिस्पर्श बहुं सन्तमेकैकं भेदेनावबुध्यते, अयं योपित्स्पर्शोऽयं च तल्लग्नपुष्पस्पर्शोऽयं च तद्गात्रानुलनचन्दनस्पर्शोऽयं चैतत्परिहितवस्त्रस्पर्शः अयमेतदाबद्धरसनास्पर्श इति, अतो बहुलस्पर्श भिन्नजातीयमव. गृहातीति / / ननु चावग्रह एकसामयिकः शास्त्रे निरूपितो न चैकस्मिन् समये चैवैकावग्रह एवंविधो युक्तोऽल्पकालत्वादिति / उच्यते-सत्यमेवमेतत्, किंतु अवग्रहो द्विधा-नैश्चयिको व्यावहारिकश्च // तत्र नैश्चयिको नाम सामान्यपरिच्छेदः, स चैकसामयिकः शास्त्रेऽभिहितः, ततो नैश्चयिकादनन्तरमीहैवमात्मिका प्रवर्तते-किमेष स्पर्श उतास्पर्श इति, तस्याश्चानन्तरोऽपायः स्पर्शोऽयमिति, अयं चापायः अवग्रह इत्युपचर्यते, आगामिनो भेदानङ्गीकृत्य यस्मादेतेन सामान्यमवच्छिद्यते / यतः पुनरेतसादीहा प्रवर्तिष्यते कस्यायं स्पर्शः ? पुनश्चापायो भविष्यत्यस्यायमिति, अयमपि चापायः पुनरवग्रह इत्युपचर्यते, अतोऽनन्तरवर्तिनीमीहामपायं चाश्रित्य, एवं यावदस्यान्ते निश्चय उपजातो भवति, यत्रापरं विशेषं नाकाङ्क्षतीत्यर्थः / अपाय एव भवति न तत्रोपचार इति / अतो य एष औपचारिकोऽवग्रहस्तमङ्गीकृत्य बहु अवगृहणातीत्येतदुच्यते, नत्वेकसमयवर्तिनं नैश्चयि कमिति, एवं बहुविधादिषु सर्वत्रौपचारिकाश्रयणाद् व्याख्येयमिति / सम्प्रति बहित्यस्य प्रतिपक्षं कथयति-अल्पमवगृह्णातीत्यनेन, यदा तेषामेव योपिदा 'अनुक्तम गृह्णाति उक्तमवगृह्णाति ' इति घ-पाठः। 2 ‘विन्यात् ' इति क-पाठः / 3 'तत्रा. श्रिताः' इति क-ख-पाठः / 4 'बहुलस्पर्श' इति ग-पाठः / Page #111 -------------------------------------------------------------------------- ________________ 85 सूत्र 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् दिस्पर्शानां यं किश्चिदेकं स्पर्शमवगृह्णाति अन्यान् सतोऽपि क्षयोपशमापकर्पात् न गृहणाति तदाल्पम्-एकमवगृह्णातीत्युच्यते / बहुविधमवगृह्णातीति। बढ्यो विधा यस्य स बहुविधः तमवगृह्णाति / बहुविधो नाम स एव योपिदादिस्पर्श एकैकः शीतस्निग्धमृदुकठिनादिरूपो यदाऽवगृह्यते तदा बहुविधं गुणैर्भिन्नं स्पर्श परिच्छिन्दत् तज्ज्ञानं बहुविधमवगृह्णातीत्युच्यते। यदा तु योपिदादिस्पर्शमेवैकगुणसमन्वितं शीतोऽयमिति वा स्निग्धोऽयमिति वा मृदुरयमिति वेत्येवमवच्छिनत्ति तदा एकविधमवालातीत्युच्यते / तमेव भूयो योषिदादिस्पर्शमाशु स्वेनात्मना यदाऽवच्छिनत्ति तदा क्षिप्रमवगृह्णातीति भण्यते / यदा तु तमेव योपिदादिस्पर्श स्वेनात्मनावच्छिनत्ति बहुना कालेन तदा चिरेणावगृह्णातीत्युच्यते / चिरेणेति बहुना कालेन / अनिश्रितमवगृहणातीति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यथिकाकुसुमानामत्यन्त शीतमृदुस्निग्धादिरूपः प्राक स्पर्शोऽनुभूतस्तेनानुमानेन लिङ्गेन तं विषयं न यदा परिच्छिन्दत् तज्ज्ञानं प्रवर्तते तदा अनिश्रितं अलिङ्गमवगृहातीत्युच्यते / यदा त्वेतस्मादाख्याताल्लिङ्गात् परिच्छिनत्ति निश्रितं तदा स लिङ्गमवगृह्णातीति भण्यते / उक्तमवगृह्णातीत्ययं तु विकल्पः श्रोत्रावग्रह विषय एव न सर्वव्यापीति / यत उक्तमुच्यते शब्दः स चाप्यक्षरात्मकः तमवगृह्णातीति / अनुक्तस्तूक्तादन्यो " नजिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थ(गतिः)" (परिभाषेन्दशेखरे 10 74 ) इति अनया कल्पनया शब्द एवानक्षरात्मकोऽभिधीयते तमवगृह्णाति अनुकमवगृह्णातीति भण्यते / अव्याप्तिदोपभीत्या चापरैरिमं विकल्पं प्रोज्झ्य अयं विकल्प उपन्यस्तो निश्चितमवगृह्णातीति, निश्चितं सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृहृत् ज्ञानं योषित एव पुष्पाणामेव चन्दनस्यैवेत्येवं यदा प्रवर्तते तदा निश्चितमवगृणातीत्युपदिश्यते / अनिश्चितमवगृह्णातीति च कदा व्यपदिश्यते / यदा तमेव स्पर्श संशयापन्नः परिच्छिनत्ति स्पर्शोऽयं भवति एवं तु न निश्चिनोतियोषित एवायं, विलोमधर्मादेरपीदृशो भवति स्पर्श इति संशयप्रादुर्भावात् / ध्रुवमवगृहणातीति / ध्रुधमत्यन्तं सर्वदेत्यर्थः / यदा यदा तस्य तेन स्पर्शन योगो भवति गोषिदादिना तदा तदा तमर्थमवच्छिनत्तीत्यर्थः / एतदुक्तं भवति-सति चोपयोगे यदाऽसौ विषयः स्पर्शाख्यः स्पृष्टो भवति तदा तमवगृह्णाति, एवम् अध्रुवमवगृहणातीति / सतीन्द्रिये सति चोपयोगे सति च विषयसम्बन्धे कदाचित् तं विषयं तथा परिच्छिनत्ति कदाचिन्नेत्येतदध्रयमवगृह्णातीत्युपदिश्यते। एवमित्यनेनैतत् कथयति-यथा विपयस्य बहादेर्मेदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः क्षयोपशमोत्कर्षापकर्षाद् एवम् ईहादीनामपि ईहापायधारणानामपि जानीयाद, बहीहते अल्पमीहते बहुविधमीहते एकविधमीहते क्षिप्रमीहते चिरेणेहते अनिश्रितमीहते निश्रितमीहते उक्तमीहते अनुक्तमीहते, द्वितीय विकल्प निश्चितमीहते सन्दिग्धमीहते ध्रुवमीहते अध्रुवमीहते / एवमपायेऽपि बहपैतीत्यादयो द्वादश विकल्पाः, धारणायां च बहु धारयतीत्यादयो द्वादशैव, एवमवग्रहादीनां स्वस्थाने द्वादशविधत्वम् // 16 // Page #112 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 ग्राह्यमेदाद् भेदं प्रतिपायेदानीमेषामेवावग्रहादीनां विषयं निर्धारयन्नाह सूत्रम्-अर्थस्य // 1-17 // भा०-अवग्रहादयो मतिज्ञानविकल्पा अर्थस्य भवन्ति // 17 // टी०-अर्थस्येति / कस्य विषयस्य ग्राहका अवग्रहादय इति मन्येथास्त्वम् 1 / अर्थस्येति अमः। अर्थश्च स्पर्शरसगन्धवर्णशब्दात्मकः तस्य स्पर्शादेरर्थस्य अवग्रहादयोऽवच्छेदका मतिज्ञानविकल्पाः मतिज्ञानस्येन्द्रियादिभेदेनाविभक्तस्य विकल्पाः अंशा इत्यर्थः / तदेवं विभज्यमानमेभिर्भेदैरवतिष्ठत इति यदि तर्हि स्पशोदेविषयस्य ग्राहकाः अवग्रहादयोऽभ्युपगम्यन्ते न तर्हि द्रव्यस्य ज्ञानं चक्षुरादिजं किञ्चिद्ग्राहकं समस्ति छानस्थिकम् ? / उच्यतेस्पर्शादयो द्रव्यपर्यायाः, पर्यायग्रहणाच द्रव्यमवच्छिन्नमेवावसातव्यं, तेन रूपेण द्रव्यस्यैव भवनात् , यतो न द्रव्यवियुताः पर्यायाः, पर्यायविरहितं वा द्रव्यम् , अन्यतरानुपलब्धावन्यतरस्यानुपलब्धेः / प्रतीन्द्रियप्राप्त्या द्रव्यस्यैव रूपादिविशेषणभाक्त्वात् , विवक्षावशाच्च प्रधानगुणभावाभ्युपगमः प्रतिपद्यते जैनैः, अतः स्पर्शादिग्रहणे द्रव्यग्रहणमवश्यंभावि द्रव्यग्रहणे वा स्पर्शादिग्रहणम् , अन्योन्यानुगमात् / अर्थस्य स्पर्शादेः सामान्यानिर्देश्यस्वरूपस्य नामादिकल्पनारहितस्य अवग्रहो ग्राहकः, तस्यैव स्पर्शादेः किमयं स्पर्श उतास्पर्श इत्येवं परिच्छेदिका ईहा, तस्यैव स्पर्शोऽयमित्येवं परिच्छेदकोऽपायः, तस्यैव स्पर्शादेरर्थस्य परिच्छिन्नस्योत्तरकालमविस्मृतिर्या सा धारणा / एवं रसादिष्वपि प्रत्येकमवग्रहादयो योज्याः / इदं च साधारणमवगम्यम्-अवग्रहादय एवार्थस्य मतिज्ञानविकल्पा ग्राहकाः नान्यो मतिज्ञा. नांश इति // 17 // अथ किमन्योऽप्यस्ति कश्चिन्मतिज्ञानांशो योऽर्थस्य ग्राहको न भवतीति नियमेनापास्यते? / उच्यते-अस्ति, यः सामान्यमात्रग्राहिणोऽप्यवग्रहादुक्तस्वरूपादत्यन्तमलीमसरूपोऽवग्रह इति / स तर्हि कस्य ग्राहक इति ? / उच्यते सूत्रम्--व्यञ्जनस्यावग्रहः॥ 1-18 // भा०-व्यञ्जनस्यावग्रह एव भवति नेहादयः / एवं विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च / ईहादयस्त्वर्थस्यैव // 18 // टी०-व्यञ्जनस्यावग्रह इति / तत्र व्यज्यतेऽनेनार्थ इति व्यञ्जनं सन्तमसावस्थितघटरूपप्रदीपादिवत् , तत् पुनर्व्यञ्जनं संश्लेषरूपं यदिन्द्रियाणां स्पर्शनादीनामुपकरणाख्यानां स्पर्शाद्याकारेण परिणतानां पुद्गलद्रव्याणां च यः परस्परं संश्लेषस्तद्वयञ्जनं, तस्य व्यञ्जनस्यावग्रह एवैको भवति ग्राहकः / का भावनेति चेत् ? उच्यते-यदोपकरणेन्द्रियस्य स्पर्शनादेः पुद्गलैः स्पर्शायाकारपरिणतः सम्बन्ध उपजातो भवति न च किमप्येतदिति गृणाति किन्त्वव्यक्तविज्ञानोऽसौ सुप्तभत्तादिसूक्ष्मावबोधसहितपुरुषवदिति तदा तैः पुद्गलैः स्पर्शनाद्यु१"विशेषेण' इति क-ख-पाठः / Page #113 -------------------------------------------------------------------------- ________________ सूत्रं 19:] स्वोपज्ञभाष्य-टीकालङ्कृतम् पकरणेन्द्रियसंश्लिष्टैर्या च यावती च विज्ञानशक्तिराविरस्ति सैवंविधा विज्ञानशक्तिरवग्रहाख्या, तस्य स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टस्पर्शाद्याकारपरिणतपुद्गलराशेर्व्यञ्जनाख्यस्य प्राहिकाऽवग्रह इति भण्यन्ते / तेनैतदुक्तं भवति-स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टाः स्पर्शनाद्याकारपरिणताः पुद्गलाः व्यञ्जनं भण्यन्ते, विशिष्टार्थावग्रहकारित्वात् , तस्य व्यञ्जनस्य परि छेदकोऽव्यक्तोऽवग्रहो भण्यते, अपरोऽपि तस्मान्मनाक निश्चिततरः किमप्येतदित्येवंविधः सामान्यपरिच्छेदोऽवग्रहो भण्यते, ततः परमीहादयः प्रवर्तन्ते, अतः सूक्तं व्यञ्जनस्यावग्रह एव अत्यन्तमलीमसपरिच्छेदक इति, नेहादयः, ईहापायधारणास्तस्य व्यञ्जनस्य ग्राहिका न भवन्ति, स्वांशे-भेदमार्गणनिश्चयधारणाख्ये तासां नियतत्वात् / एवमुक्तेन प्रकारेण, मूत्रद्वयाभिहितेनेत्यर्थः / द्विविध इति च / विषयस्य द्विरूपत्वात् द्विविध इत्युक्तम्। एतदेवाह-व्यञ्जनस्यार्थस्य च परिच्छेदे प्रवर्तमानो द्विविध उच्यते, ईहादयस्त्वर्थस्य स्पर्शादेरेव विशेषका भवन्ति, नेहापायधारणास्ववग्रहस्य द्वैरूप्यमस्तीति // 18 // अथ किं स्पर्शनादीनामिन्द्रियाणां सर्वेषां व्यञ्जनावग्रहः समस्ति, उत कस्यचिन्नेति / उच्यते-कस्यचिन्न सम्भवतीत्यपि / एतद् दर्शयति सूत्रम्-न चक्षुरनिन्द्रियाभ्याम् // 1-19 // भा०-चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति, चतुर्भिरिन्द्रियैः शेषैर्भवति / एवमेतत् मतिज्ञानं द्विविध, चतुर्विधमष्टाविंशतिविधमष्टषष्टयुत्तरशतविधं, षट्त्रिंशत्त्रिशतविधं च भवति // 19 // ___ अत्राह-गृह्णीमस्तावन्मतिज्ञानम् / अथ श्रुतज्ञानं किमिति अत्रोच्यते // ___टी०-करणे सहार्थे वैषा तृतीया, चक्षुषा उपकरणेन्द्रियाख्येन सह नोइन्द्रियण षा मनओघज्ञानरूपेण सह ते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाः वस्तुविशेषाः संश्लेष न यान्ति, अतो व्यञ्जनम् चक्षुरुपकरणेन्द्रियनोइन्द्रिययो रूपाद्याकारपरिणतिपुद्गलानां च यत् संश्लेषरूपं तद्वयञ्जनमेवंविधं नास्ति, तदभावाच तदवग्रहोऽपि नास्ति, एतदाह-व्यञ्जनस्यावग्रहो न भवति / एतदुक्तं भवति-ये ते दृश्यमानाश्चिन्त्यमानाश्च वस्तुविशेषाः न _ ते चक्षुरिन्द्रियेणोपकरणरूपेण नोइन्द्रियेण च सह संश्लेपमिताः नेत्रस्याप्राप्य परिच्छिद्यन्ते, यतो योग्यदेशावस्थितं वस्तु चक्षुः शरीरस्थमेव सत् कारित्वम्। " परिच्छिनत्ति, न गत्वा विषयपरिच्छेदे व्याप्रियते, न वा विषयमागतं धान्यमसूरकाकृतिके इन्द्रियदेशेऽवगच्छति, अतश्च लोचनमप्राप्तविषयग्राहि, न खलु ग्राह्येण तस्यानुग्रहोपघातानुभवो दृष्टः, स्वान्तस्येव, नापि धान्यममराकृतीन्द्रियदेशपर्तिविषयपरिच्छेदि विलोचनं, यदि स्यात् ततस्तद्गतमञ्जनादि परिच्छिन्द्यात्, न च परिच्छिनत्ति, अतो निश्चीयतेऽनागतं विषयमवबुध्यते तत्, न वा गत्वा विषयदेशमित्यतो न व्यञ्जनावग्रहस्तस्य / मनसोऽप्येवमेव, न चिन्त्यमानं विषयं प्राप्य मनः चिन्तयति, न वा आगतं स्वात्मन्यवस्थितं विषयं मनः पर्यालोचयति, यदि च संश्लिष्य विषयं परिच्छिन्द्यात् Page #114 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 मनस्ततो ज्ञेयकृतमनुग्रहं विक्लेदादिरूपमनुभवेद् उपघातं वा दाहादिरूपमिति // अथामूर्तस्वान्न दह्यत इति, तदप्ययुक्तम् , आहेतस्य हि पुद्गलात्मकत्वात् मूर्तता मनस्यसिध्यत्, शरीरस्थं वा मनो विषयं निश्चिनोति, यथा हि स्पर्शनं करणमगत्वेति न वा शरीरात् तस्य निःसरणं, स्पर्शनं हि करणं सन्न निस्सरद्दष्टम् , अतो मनश्चिन्त्यमानैर्वस्तुभिः सह न श्लिष्यतीति व्यञ्जनावग्रहाभाव आख्यायते / चतुर्भिरिति चक्षुर्मनोव्यतिरिक्तानि चत्वार्येवेति, अन्यानि सांख्याभिमतानि निरस्यति-चतुर्भिरेव नातो व्यतिरिक्तैरिन्द्रियैरिति, स्पर्शनरसनघ्राणश्रोत्रैः शेषैरिति, उपर्युक्तवजैः भवति, व्यञ्जनावग्रहः सम्भवतीति यावत् / किमिति यदि एतानि चत्वार्यप्युपकरणेन्द्रियेण सह श्लिष्टं स्पर्शादिकं विषयमवच्छिन्दते नान्यथेति अतः प्राप्तविषयग्राहित्वादेषां सम्भवति व्यञ्जनावग्रह इति / एवमेतदिति लक्षणविधानाभ्यां . यन्निरूपितं मतिज्ञानं तस्य पुनः सम्पिण्डय भेदान् कथयति द्विविधमतिज्ञानस्य भेद- मित्यादिना / द्विविधमिति, इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च / चतुविचार विधमवग्रहादिभेदतः / अष्टाविंशतिविधमिति, स्पर्शनादीनां मन:पर्यवसानानां षण्णामेकैकस्य चत्वारो भेदा अवग्रहादयस्ते समुदिताः सर्वेऽपि चतुर्विंशतिरुपजाताः, ततोऽन्यच्चक्षुर्मनोवर्जस्पर्शनादीनां यो व्यञ्जनावग्रहः चतुर्भेदः स प्रक्षिप्तः, ततोऽष्टाविंशतिविधं भवति / अष्टषष्टयुत्तरशतविधमिति, तस्या एवाष्टाविंशतेरेकैको भेदः पइविधो भवति बह्लादिभेदेन अत अष्टषष्टयुत्तरशतविधं भवति / तस्या एवाष्टाविंशतेरेकैको भेदो द्वादशधा भवति सेतरवह्नादिद्वादशकेन, अतः षट्त्रिंशत्रिशतभेद(विध)मिति // 19 // __ अत्र-अस्मिन्नवकाशे चोदकः आह-गृह्णीमो जानीमस्तावत् क्रमेण पूर्वमुद्घट्टितं लक्षणविधानरूपं मतिज्ञानं, तदनन्तरं तु यच्छुतज्ञानमुक्तं तन्न विद्म' इत्यतः पृच्छयते मया-अथ श्रुतज्ञानं किंलक्षणमिति ? / अस्मिन् चोदिते गुरुराह-उच्यते मयेति सूत्रम्-श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् // 1-20 // टी-श्रुतमिति लक्ष्यं, मतिपूर्वमिति लक्षण, व्यादिविधानं, श्रुतमिति च श्रूयते ... स्म श्रुतम् / एवंविधायां च कल्पनायां शब्दोऽभिधीयते न श्रुतिः, श्रुत - श्रवणमिति भवासाधनतामभ्युपैति, प्रकृतेन ज्ञानग्रहणेन श्रुतमिति ज्ञानं ग्राह्य, न शब्दः, ज्ञान विचारप्रस्तावात् / यदि तु श्रुतज्ञानस्यान्तर्वर्तिनः स शब्दो निमित्तता प्रतिपद्यमानः श्रुतव्यपदेशमनुते न कश्चिद् दोषः, उपचारस्य व्यवहाराङ्गत्वात् / मुख्यया तु वृत्या श्रुतमित्यनेन ज्ञानमुच्यते, एतदाह भा०-श्रुतज्ञानं मतिज्ञानपूर्वकं भवति / श्रुतमाप्तवचनं आगमः उपदेश ऐतिधमाम्नायः प्रवचनं जिनवचनमित्यनान्तरम् // 7 श्रुतशब्दर Page #115 -------------------------------------------------------------------------- ________________ सूत्र 20 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-श्रुतज्ञानमिति / मतिपूर्वमित्यस्यार्थ विवृणोति-मतिज्ञानपूर्वकं भवतीत्यनेन / मत्या कृतया ज्ञानं विशेषयति-मतिज्ञानमिति / तन्मतिज्ञानं पूर्व यस्य तन्मतिपूर्व भण्यते, अपेक्षाकारणं चेह पूर्वमित्यनेनोच्यते, यथा घटस्योत्पत्तावपेक्षाकारणं व्योमाद्यपेक्ष्यते, तेन विना तदभावात, एवमिह सति मतिज्ञाने लब्धिरूपे ततः श्रुतज्ञानस्योत्पत्तिरिष्टा न मतिज्ञानाभावे, किं पुनः कारणं तदेव मतिज्ञानं न श्रुतज्ञानीभवतीति मृत्तिकावद् घटरूपेण ? उच्यते-एवं सति श्रुतज्ञाने प्रादुर्भूते मतिज्ञानस्य नाशः स्यात्, न चैतदिष्यते / यत आह-"जत्थ मई तत्थ सुअं, जत्थ सुअं तत्थ मई ( जत्थ आभिणियोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणियोहियनाणं"' नन्दी०सू० 24) / तस्मादपेक्षाकारणमेव मतिज्ञानं तस्योत्पत्तौ लब्धिरूपं भवति, न पुनः समवायिकारणमिति / एतच लक्षणमुक्तमेव, यतो मतिज्ञानभावे लक्ष्यते श्रुतमिति / एतच्च श्रुतज्ञानमेवमात्मकमिन्द्रियमनोनिमित्तं ग्रन्थानुसारि विज्ञानं यदिति, तं च ग्रन्थं दर्शयति बहुभिः पर्यायशब्दैः-श्रुतमाप्तवचनमित्यादिभिः। श्रूयते तदिति श्रुतम् , अस्मिन् पक्षे शब्दोऽभिधीयते, तस्य शब्दस्य श्रुतज्ञान-परिच्छेदकारि श्रुतज्ञानमिति गृह्यते / एवं सर्वेष्वाप्तवचनादिपु पष्ठीसमास आश्रयणीयः, आप्तवचनस्य ज्ञानं यत्परिच्छेदकारि इत्येवम्, आप्तो-रागादिवियुतः तस्य वचनमिति // ननु चार्थमेव कथयति तीर्थकृत्, न सूत्रं प्रथ्माति, गणधरास्तु मूत्रसन्दर्भेण व्याप्रियन्ते, कथं तर्हि इदमुच्यते-आप्तस्य-तीर्थकृतो वचनं द्वादशाङ्गं-गणिपिटकमिति ? / उच्यते-गौणीकल्पनामाश्रित्योक्तमाप्तस्य वचनमित्येतत् / कथम् ? यदा हि भगवान् जीवादिकमर्थ केवलज्ञानभास्व प्रभावप्रकाशितं गणधरेभ्य आचष्टे तदाऽसौ जीवादिरर्थस्तस्मिन् केवलज्ञानदर्शनात्मके तीर्थकृति समारूढ इव लक्ष्यते प्रतिविम्बाकारेणोपजायमानत्वात् अतोऽसावप्यर्थ आप्तो भवति, तदध्यारोपात, तस्याप्तस्यार्थस्य तद्गणधरवचनं प्रतिपादकमित्याप्तवचनं भण्यते। यद्वा गणधरवचनमेवाप्तवचनम्, निश्रयोपजायमानत्वात् आप्तवचनमुच्यते / एवमागमादिष्वपि घटमान . मायोज्यमिति / आगच्छत्याचार्यपरम्परया वासनाद्वारेणेत्यागमः, उपदिआगमादीनां न श्यते-उच्चार्यते इत्युपदेशः, ऐतिह्यमेवमेतद वृद्धाः स्मरन्तीति, आम्ना " यते-अभ्यस्यते निर्जरार्थिभिरित्याम्नायः, प्रकर्षेण नामादिनयप्रमाणनिर्देशादिभिश्च यत्र जीवादयो व्याख्यातास्तत् प्रवचनम्, जिना रागादिसन्तानविजि (वर्जि?) तास्तेपामिदं वचनमिति / एवमे भिरनन्तरवर्तिभिः एकोऽर्थः प्रतिपाद्यते द्वादशाङ्गं गणिपिटकमितियावत्, स चावश्यकादिराचारादिश्च // एवं लक्षणतः पयोयतश्चाभिधायामिधानं दर्शयति व्युत्पत्त्यर्थः 1 यत्र मतिस्तत्र श्रुतं, यत्र श्रुतं तत्र मतिः (यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानं, यत्र श्रुतक्षानं तत्राभिनिबोधिकज्ञानम् ) / 2 'दकमपीस्याप्त ' इति स्व-पाटः / 12 Page #116 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 मा०-तद् द्विविधमङ्गबाह्यमङ्गप्रविष्टं च / तत् पुनरनेकविधं द्वादशविधं च यथासङ्ख्यम् / अङ्गयाह्यमनेकविधम् / तद्यथा-सामायिकं, श्रुतशानस्य भेद-. 5 चतुर्विशतिस्तवः, वन्दनं, प्रतिक्रमणं, कायव्युत्सर्गः, प्रत्याप्ररूपणा ख्यानं, दशवैकालिकं, उत्तराध्यायाः, दशाः, कल्पव्यवहारी, निशीथमृषिभाषितानीत्येवमादि // टी.-तद् द्विविधमित्यादिना / द्वौ चानेकश्च द्वादश च द्वथनेकद्वादश ते भेदा यस्य तद् द्वयनेकद्वादशभेदम् , तच्छ्रतं द्विविधमिति, परोपाधिकं द्विविधत्वमिति वक्ष्यति / अङ्गमाद्यामिति / अङ्गानि-अवयवा आचारादयस्तेभ्यो बाह्यमिति अङ्गबाह्यम् , अङ्गेष्वाचारादिषु प्रविष्टम्-अन्तर्गतम् अङ्गप्रविष्टम्, अङ्गबाह्यमङ्गप्रविष्टम् च पुनरनेन भेदेन भेद्यम्अनेकविधम्-अनेकप्रकारम् , अङ्गबाह्य, द्वादशविधं-द्वादशभेदम् अङ्गप्रविष्टमेवं यथासङ्ख्यं यथोपन्यस्तमितियावत् / अङ्गबाह्यमनेकविध सामायिकादि / समभावो अगबाह्यादीनां यत्राध्ययने वर्ण्यते तत्तेन वर्ण्यमानेनार्थेन निर्दिशति-सामायिकमिति / सामायिकादीनां व्याख्या गाना एवं सर्वेषु वक्ष्यमाणेष्वर्थसम्बन्धाद् व्यपदेशो दृश्यः / चतुर्विंशतीनां ___ पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां वर्ण्यते स चतुर्विंशतिस्तव इति / वन्दनम्-प्रणामः स कस्मै कार्यः कस्मै च नेति यत्र वर्ण्यते तत् वन्दनम् / असंयमस्थानं प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्तनं यत्र वयेते तत् प्रतिक्रमणम् / कृतस्य पापस्य यत्र कायपरित्यागेन क्रियमाणेन विशुद्धिराख्यायते स कायव्युस्सगे। प्रत्याख्यानं यत्र मूलगुणा उत्तरगुणाश्च धारणीया इत्ययमर्थः ख्याप्यते तत् प्रत्याख्यानम्। दशविकाले पुत्रहिताय स्थापितान्यध्ययनानि दशवैकालिकम् / आचारात् परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेन उत्तराध्ययनानि / पूर्वेभ्य आनीय सङ्घसन्ततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते। दशा इति व्यवस्थावचनः शब्दः, काचित प्रतिविशिष्टावस्था यतीनां यासु वयेते ता दशा इति / कल्पव्यवहारौ कल्प्यन्ते-भिद्यन्ते मूलादिगुणा यत्र स कल्पः, व्यवहियते प्रायश्चित्ताभवद्व्यवहारतयेति व्यवहारः। निशीथम् अप्रकाशं सूत्रार्थाभ्यां, यद् ऋषिभिर्भाषितानि प्रत्येकयुद्धादिभिः कापिलीयादीनि, एवमादि सर्वमङ्गबाह्यं दृश्यम् // भा०-अङ्गप्रविष्टं द्वादशविधम् / तद्यथा-आचारः, सूत्रकृत, स्थानं, समवायः, व्याख्यामज्ञप्तिः, ज्ञातधर्मकथाः, उपासकाध्ययनदशाः, अन्तकृशाः, अनुत्तरोपपातिकदशाः, प्रश्नव्याकरणं, विपाकसूत्रं, दृष्टिपात इति // अत्राहमतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति / अत्रोच्यते Page #117 -------------------------------------------------------------------------- ________________ सूत्रे 20 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी०-अङ्गप्रविष्टं द्वादशविधं भण्यते / तद्यथा, आचारो ज्ञानादिर्यत्र कथ्यते स . आचारः / सूत्रीकृता अज्ञानिकादयो यत्र वादिनस्तत् सूत्रकृतम् / अङ्गप्रविष्टानां ना यत्रैकादीनि पर्यायान्तराणि वर्ण्यन्ते तत् स्थानम् / सम्यगवायनं वर्षधरआचारादीनां PM नद्यादिपर्वतानां यत्र स समवायः। व्याख्यायन्ते जीवादिगतयो यत्र नयद्वारेण प्ररूपणाः क्रियन्ते सा व्याख्याप्रज्ञप्तिः / ज्ञाता-दृष्टान्तास्तानुपादाय धर्मो यत्र कथ्यते ताः ज्ञातधर्मकथाः / उपासकैः-श्रावके रेवं स्थातव्यमिति येष्वध्ययनेषु दशसु वर्ण्यते ता उपासकदशाः / अन्तकृतः-सिद्धास्ते यत्र ख्यायन्ते वर्धमानस्वामिनस्तीर्थ एतावन्त इत्येवं सर्वकृतान्ताः अन्तकृद्दशाः / अनुत्तरोपपादिका देवा येषु ख्याप्यन्तै ताः अनुत्तरोपपादिकदशाः / प्रनितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् प्रश्नव्याकरणम् / विपाकः-कर्मणामनुभवस्तं सूत्रयति-दर्शयति तद् विपाकसूत्रम् / दृष्टीनाम् अज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तासां वा तत्र पातः / अत्रावसरे चोदक आह-उक्तं लक्षणं विधानं च श्रुतस्य, किन्तु यथाऽयं विपयं निरूपयिष्यते तथा न कश्चिद् भेदोऽस्तीति पृच्छति मतिश्रुतयोः को भेद इति ? / भण्यते भा०–उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम्, श्रुतज्ञानं तु . त्रिकालविषयम, उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति // अत्राहमतिश्रुतयोः ___ गृह्णीमो मतिश्रुतयोर्नानात्वम् // अथ श्रुतज्ञानस्य द्विविधमनेक प्रतिविशेषः - द्वादशविधमिति किंकृतः प्रतिविशेष इति ? / अत्रोच्यतेटी- उत्पन्नेत्यादिना / उत्पन्नः--स्वेन रूपेण जातः स्पर्शादिरों घटादिगतः, स चोत्पन्नो यदि तेन रूपेण सन्तिष्ठते न तु कपालाद्यवस्था प्राप्तस्तदा स्पर्शनमतिज्ञानमेवं परिच्छिनत्ति--घटस्यायं स्पर्श इति, स चाप्युत्पन्नाविनष्टो यदि योग्यदेशस्थो भवति तदा परिच्छिनत्ति, न तु विप्रकृष्टदेशस्थमित्येतदाह-साम्प्रतकालविषयमिति / अनेन वर्तमानकालविषयता मतिज्ञानस्यावेदयते / श्रुतज्ञानं तु, तुशब्दः भेदप्रदर्शनपर इति / तं भेदमाहत्रिकालविषयम् / पुनश्चेदमैदम्पर्य व्याख्यानयति-उत्पन्नेत्यादिना / उत्पन्नो--वर्तमानस्तमपि नोइन्द्रियं मनआख्य परिचिन्तयति-कीदृशोऽयं कर्करस्पर्श इति, विनष्टमप्यन्यत्र लग्नं शर्करास्पर्शमतीतं चिन्तयति-अस्याः प्राक शर्करायाः मया स्पर्शोऽनुभूत इति / अनुत्पन्नम्आगामिनमेवंविध एषां क्षीरगुडादीनां प्रतिविशिष्टात् संस्कारात् स्पर्श उपयास्यतीति, अत उत्पन्नादिग्राहकम् / पुनश्चोदयति-अवगतो विशेष एतयोः, अथ श्रुतज्ञानस्य द्विविधादिभेदः किंकृत इति ? सर्वं तद्रव्यश्रुतं भावश्रुतस्य निमित्तमिति शक्यं वक्तुम् / एवमुक्ते मूरिराह भा०-वक्तृविशेषाद् द्वैविध्यम् / यद् भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरहद्भिस्तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्वु 1 'श्चैदमेव पदं' इति ख-पाठः / Page #118 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् - [अध्यायः 1 द्विसम्पन्नैर्गणधरैदृब्धं तदङ्गप्रविष्टम् / गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धा. गमैः परमप्रकृष्टवाङ्मतिबुद्विशक्तिभिराचार्यैः कालसंहननायुर्दोषादल्पशतीनां शिष्याणामनुग्रहाय यत् प्रोक्तं तदङ्गबाह्यमिति // ___टी०-वक्तृविशेषादित्यादिना / वक्तारः तस्य ग्रन्थराशेर्निबन्धकास्तेषां विशेषोमेदस्तस्माद् दैविध्यं-द्विविधत्वं-द्विभेदताऽनुमातव्या / यद्भगवद्भिरित्यादि। अयं पिण्डार्थः-तीर्थकृद्भिरर्थः कथितः स गणधरैर्गणधरशिष्यादिभिश्च रचित इति गणधरास्तद्वंशवर्तिनश्च द्वये वक्तारस्तद्भेदाद् द्विविधमिति / एतदाह-यद् उक्तं तैर्भगवद्भिरैश्वर्यादिगुणान्वितैः, सर्वद्रव्यपर्यायान् जानाति(नद्भिः) विशेषतः सर्वज्ञैः, तानेव सामान्यतः पश्यद्भिः सर्वदर्शिभिरिति / सामान्यकेवलिनो हि प्रधानभावं विभ्रति ऋषयः, प्रधानतरास्तीर्थकराः परमर्षिभिः इत्याह, पूजां त्रिदशादीनामर्हद्भिरित्यतोऽर्हद्भिः ( सम्बन्ध-का०७)। किमर्थं कृतकृत्या अर्हन्तो गणधरेभ्यः कथयन्त्यर्थमिति ? / उच्यतेतीर्थकरोपदेशे স্বাম " तत्स्वाभाव्यादिति / तेषामेष एव स्वभावस्तीर्थकृतां यतः - उत्पन्नदिव्यज्ञानैर्गणधरादिभ्यः प्रकाशनीयः सोऽर्थ इति, न च स्वभावेऽस्ति पर्यनुयोगो, भास्करप्रकाशवत् , किमर्थमयमंशुमाली जगत् प्रकाशयतीति न कश्चित् प्रश्नयति / अथवा अकृतार्थ एव तदा भगवान् , किमिति ? कर्मोदयभाक्त्वात् / कस्य कर्मण इति चेत् ? उच्यते-तीर्थकरनामाख्यस्य / तद्वयविशेषणमुपक्षिपति-परमशुभस्येत्यादि / परमं च तच्छुभं च परमशुभं तस्य / कथं परमशुभतेति चेद यतस्तस्मिन्नुदितेऽन्या असातादिकाः प्रकृतय उदिता अपि न स्वविपाकं प्रकटं दर्शयितुं शक्ताः; क्षीरद्रव्यापूरितकुम्भे पिचुमन्दरसबिन्दुवदिति / एवं परमशुभस्य, प्रवचनं द्वादशाङ्गं ततोऽनन्यवृत्तिर्वा संघस्तस्य प्रवचनस्य प्रतिष्ठापनं-निवर्तनं प्रयोजनमस्य तत्प्रवचनप्रतिष्ठापनफलं तस्य, तीर्थ तदेव गणिपिटकं सङ्घः, सम्यग्दर्शनादित्रयं वा तत् कुर्वन्ति-उपदेशयन्ति ये ते तीर्थकराः, तान् नामयति-करोति यत् तत् तीथकरनाम / तस्य तदेवाहदादिपूजाकरणाद्धेतोः क्रियमाणं कर्मेत्यभिधीयते तस्यानुभावात् , पश्चाद विपाकादित्यर्थः। अतस्तस्मादनुभावाद् यदुक्तं-प्रतिपादितं तीर्थकृद्भिः तदेव तीर्थकरप्रतिपादितमर्थजातम्-उत्पन्नमिति वा विनष्टमिति वा ध्रुवमिति वा इत्येवं तद् गृहीत्वा गणधरैः, तेषां त्रितयं विशेषणमुपक्षिपतिभगवच्छिष्यरित्यादिना स्वयं गृहीतलिङ्गतां निरस्यति / पुनश्च सामान्य पुरुषा न भवन्तीति दर्शयति-अतिशयवद्भिरिति / अतिशया:गणधरविशेष. णानां सार्थकता : विशिष्टाः शक्तयः। यथा-"पहू णं चउद्दसपुव्वी घडादो(ओ ? ) ___घडसहस्सं पडाओ पडसहस्स" इत्येवमादयः, ते येषां सन्ति तेऽतिशयवन्तस्तैरिति / तथा उत्तमातिशयेत्यादिना कुण्ठतां निरस्यति, यत उत्तमा अतिशयाः (बीज 1 प्रभुः चतुर्दशपूर्वी घटात् घटसहस्रं पटात् पटसहस्रम् (भगवत्यां सू० 199) / ' Page #119 -------------------------------------------------------------------------- ________________ सूत्रं 20] स्वोपज्ञभाष्य-टीकालङ्कृतम् कोष्ठादिबुद्धयः ) प्रसादादयः वाग्विवक्षितार्थप्रतिपादिका बुद्धिः वीजकोष्टकादि, यावद् भण्यते तत् सर्वमसौ गृह्णाति न किश्चित् न पश्यति तिलतुपमात्रमपीत्यर्थः / आभिरुत्तमाः अतिशयवाबुद्धिभिः सम्पन्ना-अन्वितास्तैः साधुवृन्दोपदेशनप्रवृतैर्गणधारिभिर्यत् दृब्धं-रचितं तदङ्गप्रविष्टमाचारादि भण्यते, अङ्गबाह्यं सम्प्रतितनैः कृतमिति तदुच्यते। गणधरा इन्द्रभूत्या. दयः तेषामनन्तरे ये साधवस्तेऽनन्तयोः शिप्या इत्यर्थः ते गणधरानन्तयोः जम्बूनामादयः आदिउँपांप्रभवादीनां ते गणधरामन्तर्यादयः, तैरत्यन्तनिर्मलागमैः परमप्रकृष्टा वाङ्मतिबुद्धिशक्तयो येषां तैरिति,वाग-भाषा स्पष्टवणा सकलदोषरहितामतिः,बुद्विश्चतुर्विधा,शक्तिः वादलब्ध्यादि / एवंविधैरपि नोज्झितचारित्ररित्येतदाह-आचार्यः ज्ञानाद्याचारानुष्ठायि मिरिति। किमर्थं तैस्तत एव प्रवचनादुद्धृत्य दशवकालिकादि रचितम्? उच्यते-अल्पशक्तीनामनुग्रहार्थम् / कस्मादल्पशक्तय इति चेत्? उच्यते-कालसंहननेत्यादि / कालदोषात् कालस्य दुःख(पमाभिधानस्य स्वभावात् पुरुषा अल्पशक्तयो भवन्ति, संहननच्छेदवर्ति स एव दोषस्तद्वाऽल्पसामर्थ्यम् , आयुः-जीवितं तदल्पं यः सर्वचिरं जीवेत् स वर्षशतमिति, अ. एतस्मात् कालादिदोषादल्पशक्तयः पुमांसो भविष्यन्तीत्येवं मन्यमानैर्गणधरैवंशजैः मूरिभिः शिष्याणां अनुग्रहाय-उपकारायाल्पेनैव ग्रन्थेन सुबहुमर्थमूहिष्यन्त इति मन्यमानैर्यत् प्रोक्तं दशवकालिकादि तदङ्गबाह्यमिति / अत एव द्विविधकारणात् मतेः सकाशात् महाविषयता सिद्धा, एतदाह भा०-सर्वज्ञप्रणीतत्वादानन्त्याच ज्ञेयस्य श्रुतज्ञानं मतिज्ञाश्रुतज्ञानस्य महा महा नान्महाविषयम् / तस्य महाविषयत्वात् तांस्ताननधिकृत्य विषयत्वात् अादिभेदः। प्रकरणसमाप्त्यपेक्षमङ्गोपाङ्गनानात्वम् / किंचान्यत् / सुख ग्रहणविज्ञानापोहप्रयोगार्थ च / टी०-सर्वज्ञप्रणीतत्वादित्यादि। सर्वस्तीर्थकृद्भिः प्रणीतत्वादुपदिष्टत्वात् महाविषयं श्रुतम् , यतः सङ्ख्यामतिक्रान्तानपि भावानाख्यातुं शक्तोऽनन्तान् श्रुतज्ञानानुसारेण पदार्थान् , किंच आनन्त्याज्ज्ञेयस्य, अनन्तं हि ज्ञेयमनेन निरूपयितुं शक्यते सामान्यतः, मन्तुमत्या सम्प्रतितनार्थग्राहिकया, श्रुतज्ञानं-ग्रन्थानुसारि मतिज्ञानादिन्द्रियसमुत्थात् महाविषयमनेकार्थपरिच्छेदीत्यर्थः। तस्य श्रुतज्ञानस्य महाविषयत्वाद्-बर्थविषयत्वात् ताँस्तान् जीवादीनर्यमाणानाश्रित्य / एतदुक्तं भवति-तत्र ग्रन्थे गणिपिटके ये विप्रकीर्णा अर्थास्तान् संकुलतया स्थितान् पश्यद्भिस्तैर्गणधरैस्तच्छिष्यादिभिश्च कथन्त्विदमेतावति ग्रन्थे परिसमाप्यत इति मन्यमानैरिदमङ्गमाचारादीदं च तदुपाङ्गमिति स्थापितम् , एतदाह-प्रकरणेत्यादि / प्रकरणं यत्र विवक्षित आचार इत्यादिरूपोऽर्थो निष्ठां याति तद भण्यते तस्य समाप्तिः तामपेक्षते यत् तत् प्रकरणपरिसमाप्त्यपेक्षम् , किं तद्? अङ्गोपाङ्गनानात्वमिति। किश्चान्यत् इतश्च कारणादङ्गोपाङ्गनानात्वमिति / सुखग्रहणेत्यादि / सुखेन-अनायासेनापूर्वस्य ग्रहणं करिष्यन्ति अङ्गा 1 चिह्नितोऽयं ख-पाठः। 2 ' ०पदेशेन ' इति ख-पाठः / 3 ' गणधरादिभिः ' इति स्व-पाठः / Page #120 -------------------------------------------------------------------------- ________________ 94 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 नङ्गाना, सुखेन च गृहीतं धारयिष्यन्ति बुद्धया, सुखेन विज्ञानं तस्मिन्नर्थे शृण्वत उत्पादयिष्यन्तीति, सुखेन अपोहं-निश्चयं करिष्यन्ति इति एवमेपोऽर्थः स्थित इति, सुखेन च प्रयोगव्यापारं करिष्यन्ति प्रत्यवेक्षणादिकाले तेन विदितेनेति // भा०-अन्यथा ह्यनिबद्धमङ्गोपाङ्गशः समुद्रप्रतरणवद् दुरंध्यवसानं स्यात्। एतेन पूर्वाणि वस्तूनि प्राभृतानि प्राभृतप्राभृतानि अध्ययनान्युद्देशाश्व व्याख्याताः॥ ____टी०-अन्यथेत्यादि / अन्यथेति भेदेन रचनाया अभावे हि यस्मादनिबद्धमरचितं, कथमिति चेत, अङ्गोपाङ्गशः, अङ्गानि आचारागादीनि, उपाङ्गानि राजप्रसेनकीयौपपातिकादीनि, ताभ्यामकोपा भ्यां परिमिताविशिष्टार्थाभिधायिभ्यामङ्गोपाङ्गशः, अल्पार्थाच्छम् / समुद्रस्य प्रतरणम्-उत्तरणं तेन समुद्रप्रतरणेन तुल्यं यतेते समुद्रप्रतरणवत्, दुरध्यवसानं स्यादिति / दुःखेनाध्यवसीयते दुरध्यवसानम् / यावदेतदुक्तं भवति-ययेतच्छृतज्ञानमङ्गोपाङ्गादिभेदेन न रच्येत एवं सत्यानन्त्याद ग्रन्थस्य चातिबहुत्वाद् दुःखेन शिष्यस्तत्र रतिं बध्नीयात् / यथा महार्णवं पश्यतः पुंसो नभवति चेतोवृत्तिर्बाहुभ्यां प्रतरामीति, प्रतरणप्रवृत्तोऽपि चान्तराल एव रसभङ्गं प्रतिपद्यते, एवमिहापि यदा पुनरङ्गोपाङ्गादिकल्पनया रचनया प्रविभक्तो भवति स महान् ग्रन्थराशिस्तदाऽदभ्रनदीतडामतरणवत् सुगमो भविष्यतीत्यतोऽड्रोपाङ्गनानात्वमिति // अथ पूर्वादिरचना किमर्था इत्येवमाशङ्कथेत ? / उच्यते-तत्रापि नान्यत् करणे प्रयोजनमस्ति, किन्त्वेतदेव, तदाह-एतेनेत्यादि / एतेनाङ्गो. पाङ्गभेदप्रयोजनेन सुखग्रहणादिना पूर्वाणि दृष्टिपातान्तःपातीनि पूर्व प्रणयनात्, वस्तूनि पूर्वस्यैवांशोऽल्पः वस्तुनः प्राभृतमल्पतरं, प्राभृतात् प्राभृतप्राभृतमल्पतरं, ततोऽध्ययनं ग्रन्थतोऽल्पतरं, तत उद्देशकोऽल्पतर इति / व्याख्यातानीति / सुखग्रहणादि यदेवाङ्गोपाङ्गादिकरणे फलं तदेवात्रापीति // भा०-अत्राह-मतिश्रुतयोस्तुल्यविषयत्वं, वक्ष्यति द्रव्येष्वसर्वपर्यायेषु (1-27 ) इति / तस्मादेकत्वमेवास्त्विति / अत्रोच्यते___टी-सम्प्रत्येवं मन्यते परः-श्रुतज्ञानस्य द्विविधादिकरणे सूक्तमनेन प्रयोजनं, यदुक्तं मया-कः पुनर्मतिज्ञानश्रुतज्ञानयोर्विशेष इति, तत्रानेन सांप्रतार्थग्राहि मतिज्ञानं त्रिकालविषयं तु श्रुतज्ञानमित्ययं विशेषो दर्शितः, तत्रैतावताऽप्यपरितुष्यन् विषयकृतं च साम्यमुभयोरस्तीति मन्यमानः अत्रावसरे ब्रवीति-मतिश्रुतयोरुक्तस्वरूपयोस्तुल्यविषयत्वममिजग्राह, नासावाचक्ष्यते इहैवोत्तरत्र तस्य वक्ष्यमाणस्य सूत्रस्यैकदेशमुपन्यस्यति-द्रव्येष्वसर्वपर्यायेषु इति // सर्वेषु धर्मादिद्रव्येष्वसर्वपर्यायेषु मतिश्रुतयोः प्रवृत्तिर्निबन्ध इति। तस्माद्-विषयादेकरूपात् एकत्वमेव मतिश्रुतयोर्भवतु, न भेद इति, अत्रोच्यतें १"गृहीत्वा' इति ख-पाठः। २'दुरध्यवसेयं ' इति ख-पाठः। 3 'रूपस्य ' इति ख-पाठः / 4 'व्याख्याता इति' इति प्रतिभाति / ५'तत्रैवापरितुष्यन्' इति क-ख-पाठः / 6 'वाचष्टे' इति प्रतिभाति / Page #121 -------------------------------------------------------------------------- ________________ सूत्र 21 ) स्वोपज्ञमाध्य-टीकालङ्कृतम् भा-उक्तमेतत् साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं, विशुद्धतरं च। किंचान्यत् / मतिज्ञानमिन्द्रियानिन्द्रियश्रुतस्य शुद्धता, निमित्तम् , आत्मने ज्ञस्वाभाव्यात पारिणामिकं, श्रुतज्ञानंत "तत्पूर्वकमातोपदेशाद् भवतीति // 20 // अत्राह-उक्तं श्रुतज्ञानम् / अथावाधज्ञानं किमिति / अत्रोच्यते टी-उक्तमेतदिति भदप्रयोजनं पुरस्तात् , तदेवोद्घटयति-वर्तमानकालविषय-वर्तमानमर्थमालम्बते मतिज्ञानम् , श्रुतज्ञानं पुनस्त्रिकालविषयं-त्रैकालिकमर्थमालम्बते, विशुद्धतरंच, व्यवहि विप्रकृष्टानेकसूक्ष्माद्यर्थग्राहित्वाद् विशुद्धतरमित्युच्यते, किंचान्यदिति / तथा अयमपरस्तयोवशेषः-मतिज्ञानमिन्द्रियाणि-स्पर्शनादीनि, अनिन्द्रियं-मन ओघज्ञानं च निमित्तमुररीकृत्य प्रवर्तते, आत्मनो-जीवस्य ज्ञस्वाभाव्यादिति / नानातीति ज्ञः, ञत्वमेव स्वाभाव्यं ज्ञस्वाभाव्यमात्मरूपता, तस्मात् ज्ञस्वाभाव्यादिति / पारिणामिकमिति सर्वकालवर्ति, न कदाचित् संसारे, पर्यटत एतद् भ्रष्टम् , यतो निगोदजीवानामपि 'अक्षरस्यानन्तभागो नित्योद्घाट' इत्यागमः अतः पारिणामिकम् / श्रुतज्ञानं पुनवं सर्वदा जीवस्य भवति, यतस्तत्पूर्वकम् , मतिज्ञाने सति भवति नासतीत्यर्थः / तत्पूर्वकत्वेऽपि च सत्युपदेशमपेक्षते, यत आप्तोपदेशाद् भवतीति, आप्ताःरागादिविवर्जिताः अहंदादयः तेभ्य उपदेशो-वचनं ( तस्मात् ), द्वचनमपेक्ष्य ग्रन्थानुसारि श्रुतज्ञानमुदेतीत्यर्थः / तस्मादेकं नित्यमपरं चानित्यमिति स्थापितम् // 20 // ____ अत्रावसरे चोदक आह-प्रतिपादितं श्रुतज्ञानं भवद्भिः, अस्मादनन्तरं यदवधिज्ञानं पुरस्तानिरदिवद् भवान् (किमिति) किंलक्षणं किंस्वरूपं तदित्याह सूत्रम्-द्विविधोऽवधिः // 1-21 // टी-द्विविधोऽवधिः द्वे विधे-द्वौ भेदौ यस्य स द्विविधः। तावेव द्वौ भेदौ दर्शयतिअवधेर्भदौ भा०-भवप्रत्ययः, क्षयोपशमनिमित्तश्च // 21 // टी-भवप्रत्यय इत्यादिना // ननु च लक्षणे पृष्टे भेदकथनमन्याय्यम् , आम्रप्रश्ने कोविदारकथनवदप्रस्तावापास्तमिति ? / उच्यते-तदेव लक्षणं भेदद्वयकथनेन निरूप्यते इति न किश्चिद दुष्यति, भवेन-देवनारकाख्येन तल्लक्ष्यतेऽतो भवो लक्षणं ज्ञानं पुनर्लक्ष्यं भवतीति, तथा क्षयोपशमो लक्षणं ज्ञानं तु लक्ष्यम् / एतदुक्तं भवति-भवक्षयोपशमाभ्यां लक्ष्यमाणो द्विविधोऽवधिरिति नान्यत् किंचन कथ्यते, भवन्ति-वर्तन्ते कर्म(वश)वर्तिनो जन्तव इत्यस्मिन् भवो देवात्मतया यत्र स्थाने शरीरमाददते जीवाः स भवः नारकात्मतया च, प्रत्ययो निमित्तं कारणमिति, भवः प्रत्ययो यस्य स भवप्रत्ययः / अवश्यं ह्युत्पन्नमात्रस्यैव देवस्य नारकस्य वा सोऽवधिरुद्भवति, एतावता स भवप्रत्यय इत्यभिधीयते, तद्भावे भावात् तद 1' कियदस्यानन्तरमुद्दिष्टमिति ' इति क-ख-पाठः / Page #122 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिमगसूत्रम् [ अध्यायः 1 भावे चाभावादिति / मुख्यं तु कारणं तस्याप्यवधेः क्षयोपशम एव, न ह्यवधिज्ञानदर्शनावरणीयस्य कर्मणः क्षयोपशममपहाय देवनारकाणामवघेरुत्पत्तिरस्तीति, तस्यैव तु क्षयोपशमस्य स भवो निमित्ततां बिभर्ति, कारणत्वात् , देवनारकावधिर्निमित्ती, तस्य कारण क्षयोपशमः, क्षयोपशमस्य कारणं भव इति / अशुद्धनयमतेन च कारणकारणमपि कारणं मण्यते / एवं भवस्य प्रत्ययता क्षयोपशमनिमित्तता चेति, यदा अवधिज्ञानदर्शनावरणीयकर्मणां क्षयः-परिशाटः संजातो भवत्युदितानामनुदितानां चोपशमः- उदयविघातलक्षणः संवृत्तो भवति स उपशमस्ताभ्यां क्षयोपशमाभ्यां कारणभूताभ्यां य उदेति स क्षयोपशमनिमित्त इति मनुष्याणां तिरश्चां चेति // 21 // सूत्रम्-तत्र भवप्रत्ययो नारकदेवानाम् // 1-22 // टी०-तत्रेति तयोरुद्घट्टितयोद्वयोराद्यस्तावदुच्यते, तमाह-भवप्रत्ययोऽवधिः नारकदेवानाम् / नारकदेवानामित्यमुमवयवं विवृणोति भा०-नारकाणां देवानां च यथास्वं भवप्रत्ययमवधिज्ञानं भवति / भवप्रत्ययं देवनारक्योरवधिः र भवहेतुकं भवनिमित्तमित्यर्थः / तेषां हि भवोत्पत्तिरेव तस्य व भवहेतुका" हेतुर्भवति, पक्षिणामाकाशगमनवत्, न शिक्षा न तप इति // 22 // टी-नारकाणामित्यादिना / नारकाः शर्करासनिविष्टोष्ट्रिकाकृतयः तेषु भवाः अतिप्रकृष्टदुःखोपेताः प्राणिनो नारकाः, देवा भवनपत्यादयः शुभकर्मभुजः तेषाम् / यथास्वमिति / यस्य यस्यात्मीयं यद्यदित्यर्थः / तद् यथा-रत्नप्रभापृथिवीनरकनिवासिनां ये सर्वोपरि तेषां अन्यादृशम् , ये तु तेभ्योऽधस्तात् तेषां तस्यामेवावनावन्यादृक् प्रस्तरापेक्षयेति। एवं सर्वपृथिवीनारकाणां यथास्वमित्येतन्नेयम् / देवानामपि यद् यस्य सम्भवति तच्च यथास्वमिति विज्ञेयम्, भवप्रत्ययं-भवकारणं अधोऽधो विस्तृतविषयमवधिज्ञानं भवति / प्रत्ययशब्दश्च विज्ञाने प्रसिद्ध इत्यतोऽर्थान्तरवृत्तितां दर्शयति-भवप्रत्ययं भवहेतुकं भवति / भवनिमित्तमिति, भवः प्रत्ययो-हेतुर्निमित्तमस्य तद्भवप्रत्ययमिति // ननु च क्षयोपशमनिमित्तता ज्ञानाज्ञानादिसूत्रे कथयिष्यति, भवावधेः कथमौदयिको भवोऽस्य निमित्तमिति ? / उच्यते-तस्मिन्नेव क्षयोपशमलब्धेरवश्यंभावादित्युक्तं किं विस्मार्यते भवता?, एतदाहतेषामित्यादिना / तेषां-नारकदेवानां यस्मानारकदेवभवोत्पत्तिलाभ एवं तस्य अवधिज्ञानस्य हेतु:-कारणं भवतीति / भवोत्पत्तिरेवेति च नियम एव दृश्यो विद्यमानमपि क्षयो. पशममनङ्गीकृत्य यदेव क्षयोपशमस्य कारणमसाधारणं तत्रैवादरमादधान एवमुक्तवान्भवोत्पत्तिरेवेति, न पुनर्भव एवास्य निमित्तमिति, क्षयोपशमस्याप्याश्रितत्वादिति / यथा वाऽन्यत्रापि भव एव केवलो निमित्तं भवति कस्यचित् कार्यविशेषस्य तथा दर्शयति-पक्षिणामित्यादिना। पक्षिणां-मयूरशुकसारिकादीनां यथा आकाशगमनशक्तिः प्रादुर्भवति 1 'क्षयोपशमनिमित्तताश्चेति' इति क-ख-पाठः / Page #123 -------------------------------------------------------------------------- ________________ सूत्र 23] स्वोपज्ञभाष्य-टीकालङ्कृतम् शिक्षा अन्योपदेशरूपां तपश्च अनशनादिरूपमन्तरेण तद्वन्नारकदेवानां शिक्षा तपश्चान्तरेण तदवधिज्ञानं प्रादुरस्तीति // 22 // द्विविधोऽवधिरित्युक्तम्, तत्रैकं भेदं प्रतिपाद्य द्वितीयभेदं दर्शयन्नाह-यथोक्तमित्यादि। अथवा यथा देवनारकावधिर्भवं क्षयोपशमं चोभयमपेक्षते एवं किं क्षयोपशमोऽपि अवश्यं मनुष्यादिभवे प्राप्ते भवत्येव उत नेति ? / उच्यते-नातत्र भवः सन्नपि कारणतयाऽभ्युपेयते, तद्भावेऽप्यभावादवधेः, किंतु क्षयोपशम एव प्राधान्येन निरूप्यते सूत्रम्-यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् // 1-23 // टी-यथोक्तनिमित्त इत्यादिना। यथा-येन प्रकारेण उक्तं-उदितं निमित्तं-- नरतिरश्चां हेतुरस्य स यथोक्तनिमित्तः // ननु भवोऽपि उदितं निमित्तं तस्येत्याषड्विधोऽवधिः शङ्कय स्वयमेनं यथोक्तं निमित्तशब्दमुच्चार्यार्थ कथयति__ भा०—यथोक्तनिमित्तः, क्षयोपशमनिमित्त इत्यर्थः / तदेतद्वधिज्ञानं क्षयोपशमनिमित्तं षड्विधं भवति / शेषाणामिति नारकदेवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां च / अवधिज्ञानावरणीयस्य कर्मणः क्षयोपशमाभ्यां भवति षड्विधम् / तद् यथा टी०-यथोक्तनिमित्त इति / क उक्त एवं बुद्धिर्भवेत् 1 / उच्यते-एवं क्षयोपशमनिमित्त इत्यर्थः, क्षयचोपशमश्च क्षयोपशमौ तौ निमित्तमस्य अत एवमभिधीयते क्षयोपशमनिमित्त इति, यथा सम्यग्दर्शनादि क्षयोपशमनिमित्तं तद्वदेष इति / षडिति सङ्ख्येयप्रधानसङ्ख्याभिधायी, विकल्प इत्यनेकरूपं यत् कल्पनं यावत् स्थान रूपैरित्यर्थः / पइ विकल्पा यस्य स पड्विकल्प इत्यवधिसम्बन्धे पइविकल्पोऽवधिः पुल्लिङ्गः। यदा त्ववधिशब्दः प्रकृतस्य ज्ञानस्य विशेषणं भवति तदा नपुंसकलिङ्गता पविधमिति / एतदाह-तदेतदित्यादि / तदिति पुरस्ताद् यदुक्तं, एतदिति भवतः प्रत्यक्षं, हृदि विपरिवर्तमानत्वात्, अवधिज्ञानं क्षयोपशम, नेतरत् , षड्विधं भवति, षड्विधक्षयोपशमसद्भावादित्यर्थः / केषां पोढा ? अत आह-शंषाणाम् / अस्य चार्थ विवृणोति-शेषाणामित्यादिना। शेषाणामुपयुक्तवर्जितानाम् , ते के चोपयुक्ताः ? देवनारकाः, तेभ्यो देवनारकेभ्यः शेषाणाम् , तद्वजोश्च नान्ये तिर्यमनुष्यान् अन्तरेण सन्तीत्यत आह-तिर्यग्योनिजानां मनुष्याणां च, तिरश्चांगवादीनां योनिः-उत्पत्तिस्थानं गर्भादि तत्र जन्यन्त इति तिर्यग्योनिजाः पञ्चेन्द्रियाः पर्याप्ताः संझिनो ग्राह्याः, तेपामेव तेन योगात् , असंज्ञिपञ्चेन्द्रियादीनां तु तदभावः, अतस्तेषां, मनुप्याणां च गर्भजादिविशिष्टानां, न तु संमृर्छजानामिति / कथं पुनरे सत् पड्विधमिति व्यपदिश्यते / आह-उपाधिभेदात् / स चोपाधिः क्षयोपशमोऽनेकरूपः ज्ञानावरणीयकर्मण इत्येतद् दर्शयति-ज्ञानमवधिस्तस्यावरणीयम्-आच्छादकं भास्करस्येवाभ्रादि तस्य ज्ञाना. वरणीयस्य कालान्तरकृतस्य कर्मणः क्षयोपशमाभ्यां उक्तस्वरूपाभ्यां षविधं भवति, Page #124 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 द्विवचनं चास्मात् क्षयोपशमाभ्यामित्येतत् क्रियते-यत उभावपि तस्य समुदितौ सन्तो निमित्तं भवतः, नैकैक इति / यतो न क्षायिकं किञ्चिदवधिज्ञानं, नाप्यौपशमिकं सिद्धान्ते पठितं, निमित्तं तूक्तम् / तत् पइविधं यैः प्रकारैर्व्यवस्थितं तथोपन्यस्यति भा०-अनानुगामिकं, आनुगामिकं, हीयमानकं, वर्धमानकं, अनवस्थितं, अवधरनानगामि- अवस्थितमिति / तत्रानानुगामिकं यत्र क्षेत्रे स्थितस्योत्पन्न कादिका भेदाः ततः प्रच्युतस्य प्रतिपतति, प्रश्नादेशपुरुषज्ञानवत् // टी०-अनानुगामिकमित्यादिना / उपन्यस्य चार्थ कथयति-तत्र तेषु षट्सु अनानुगामिकं अनुगच्छत्यवश्यमनुगामि तदेवानुगामिकमापूर्वम् , अनुगमप्रयोजनं वा आनुगामिकं, तस्य प्रतिषधोऽनानुगामिकमिति / अर्थमस्य भावयति-यत्रेत्यादिना / यत्र क्षेत्रे प्रतिश्रयस्थानादौ स्थितस्येति कायोत्सर्गक्रियादिपरिणतस्य उत्पन्नम्--उद्भूतं भवति तेन चोत्पनेन यावत् तस्मात् स्थानान्न निर्याति तावन्जानातीत्यर्थः / ततोऽपक्रान्तस्य स्थानान्तरवर्तिनः प्रतिपतति-नश्यति / कथमिव ? उच्यते-प्रश्नादेशपुरुषज्ञानवत्। प्रश्न:पृच्छनं जीवधातुमूलानां तं प्रश्नमादिशतीति प्रश्नादेशः, प्रश्नादेशश्चासौ पुरुपश्चेति प्रश्नादेशपुरुषः, तस्य ज्ञानं तेन तुल्यमेतद् दृश्यम् , पुरुषप्रश्नादेशज्ञानवदित्येवं गमकत्वम् , अथवा प्रश्नादेशः-प्रधानपुरुषस्तनिष्ठः-तत्परायणस्तस्य ज्ञानं तद्वदिति / का पुनभावना ? यथा नैमित्तिकः कश्चिदादिशन् कस्मिंश्चिदेव स्थाने शक्नोति संवादयितुं न सर्वत्र पृच्छयमानमर्थम्, एवं तदप्यवधिज्ञानं यत्र स्थितस्योपजातं तत्रस्थ एवोपलभते तेन नान्यत्रेति // भा०-आनुगामिकं यत्र कचिदुत्पन्नं क्षेत्रान्तरगतस्यापि न प्रतिपतति, भास्करप्रकाशवत् घटरक्तभाववच्च // टी-आनुगामिकमेतद् विपरीतमिति। यत्र क्वचिदाश्रयादावुत्पन्नं तस्मात् क्षेत्रान्तरगतस्यापिन प्रच्यवते, भास्करप्रकाशवत्, यथाऽऽदित्यमण्डलभवः प्रकाशः प्राच्यां दिशि प्रकाशनीयं प्राचीकशत् तथा प्रतीचीमुखचुम्बिनोऽपि सवितुस्तावत् तमवकाशमुद्योतयति प्रकाशो, मनागपि न क्षीयते, कुम्भरक्ततावद् वा भावनीयम् , नहि घटस्यापाकादुदधृतस्य तडाकादिना तस्य रक्तता भ्रंशमश्नुते तद्वदानुगामिकमवधिज्ञानमिति / पूर्वदृष्टान्ते च परोक्षः प्रकाशस्तावत्त्वेन क्षेत्रान्तरप्राप्तस्य सवितुः संदिग्धः अतः प्रत्यक्षं घटरक्ततादृष्टान्तमुपादिताचार्यः // भा०-हीयमानकम् , असङ्ख्येयेषु दीपेषु समुद्रेषु पृथिवीषु विमानेषु तियेगूर्वमधो वा यदुत्पन्नं क्रमशः संक्षिप्यमार्ण प्रतिपतति आ अङ्गलासङ्ख्येय. भागात् , प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत् // टी-हीयमानकं हीयते क्रमेणाल्पीभवति यत् तद्धीयमानकम् , असङ्ख्येयेषु अतिक्रान्तशीर्षप्रहेलिकागणितेष्वितियावत् / दीपा जम्बूद्वीपादयः समुद्रा लवणादयः तेषु पृथि Page #125 -------------------------------------------------------------------------- ________________ सूत्र 23 ] स्वोपज्ञगाष्य-टीकालङ्कृतम् वीषु रत्नप्रभादिकासु, विमानेषु ज्योतिर्विमानादिषु, तिर्यग् द्वीपसमुद्रेषु, ऊर्ध्व विमानेषु, अधः पृथिवीषु यवधिज्ञानमुत्पन्नं भवति ततः क्रमशः परिसंक्षिप्यमाणं-हीयमानं प्रतिपतति / यस्माद् यद्वीपानपश्यत् तत् तेषामेकं क्रोशं पुनर्न प्रेक्षते शेपं पश्यति, पुनरर्धयोजनं न पश्यत्येवं हीयमानं तावद्धीयते यावदङ्गलासख्येयभागः शेषः, एतदाह-आ अङ्गलस्यासंख्येयभागात् अङ्गलपरिमाणस्य क्षेत्रस्य असंख्येयानि खण्डानि कृतस्य एकस्मिन् असंख्येयभागे यावन्ति द्रव्याणि समवस्थितानि तानि पश्यतीत्यर्थः / ततः कदाचिदवतिष्ठते कदाचित् प्रतिपतत्येव, तान्यपि न पश्यतीत्यर्थः। अङ्गुलशब्दच परिभाषितार्थो द्रष्टव्यः, अन्यथाऽङ्गुलासंख्येयभागादिति भवितव्यम्, अन्येषां त्वेवंविधमेव भाष्यमिति / कथं हीयत इति चेद् ? दृष्टान्तमुपन्यस्यति-परिच्छिन्नेत्यादि / परितः----सर्वासु दिक्षु छिन्ना इन्धनंपलालादि तस्योपादान-प्रक्षेपः तस्य सन्ततिरन्तर्यण प्रक्षेपः, सा विशेष्यते परिच्छिन्नेति, नातः परमिन्धनप्रक्षेपः अतः परिच्छिन्ना इन्धनोपादानसन्ततिः, एतदुभयं पुनरपि शिखाया विशेषणम् , परिच्छिन्ना इन्धनोपादानसन्ततिर्यस्यामग्निशिखायां सा परिच्छिन्नेन्धन पादानसन्ततिः, अग्नेः शिखा अग्निशिखा, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखा तया तुल्यमेतद्धीयमानमवधिज्ञान, यथाऽपनीतन्धनानिज्वाला नाशमाशु प्रतिपद्यते तद्वदेतदपीति // ___ भा०-वर्धमानकं यदङ्गलस्यासंख्येयभागादिषूत्पन्नं वर्धते आसर्वलोकातू। अधरोत्तरारणिनिर्मथनासन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवत् // टी-वर्धमानकं यद्गुलासङ्ख्येयभागादिषु / अङ्गुलस्यासंख्येयभागमात्रे क्षेत्रे ततोऽङ्गुलमात्रे ततोऽरत्निमात्रे इत्यादिषूत्पन्नं तावद् वर्धते यावत् सर्वलोको धर्माधर्मद्रव्यद्वयपरिच्छिन्नो व्याप्तो भवति तदा आसर्वलोकात् , कथमिव वर्धते अत आह-अधरोतरेत्यादि / अधरः-अधोवर्ती उत्तर:-उपरिवर्ती तावेवारणी ताभ्यामधरोत्तरारणिभ्यां निर्मथनं-संघर्पणं तेन निष्पन्न-उद्धृतः, तदेवमुत्पन्नोऽवधिवृद्धि गच्छति यथा तथाह-उपात्तेत्यादिना / उपात्तं प्रक्षिप्तं शुष्कमाद्रं न भवति करीपादि तेनोपात्तेन शुष्केण उपचीयमानः वृद्धिं गच्छन्नित्यर्थः, आधीयमानः प्रक्षिप्यमाणोऽन्योऽपि पुनः पुनः इन्धनानां पलालादीनां राशिः-समूहो यत्रानौ सः अधरोतरारणिनिर्मथनोत्पन्नापात्तशुष्कोपचीयमानाधी मानेन्धनराश्यग्निः, तेन तुल्यमेतदिति, यथाऽग्निः प्रयत्नादुपजातः सन पुनरिन्धनलाभाद् वृद्धिमुपगच्छत्येवं परमशुभाध्यबसायलाभादसौ पूर्वोत्पन्नो वर्धत इत्यर्थः // भा०--अनवस्थितं हीयते वर्धते वर्धते हीयते च / प्रतिपतति चोत्पद्यते घेति / पुनः पुनरूमिवत् // १'तानि तानि' इति ग-टी-पाठः। ' निर्मथनोत्पन्नोपात.' इति घ-पाठः / Page #126 -------------------------------------------------------------------------- ________________ तस्वार्थाधिगमसूत्रम् [अभ्यायः 1 ____टी-अनवस्थितमिति / नावतिष्ठते कचिदेकस्मिन् वस्तुनि शुभाशुभानेकसंयमस्थानलाभात्, यत आह-हीयते योजनं दृष्ट्वा तस्यैवार्धमवगच्छति तस्याप्यर्धमेवादि, वर्धते चार्धक्रोश दृष्ट्वा क्रोशमवैत्यर्धयोजनं योजनमेवमादि, कदाचिदुभयीमवस्थामनुभवति वर्धते हीयते च, तस्यैव क्रोशस्यैकस्यां दिश्यपरक्रोशो वृद्धिः अन्यस्यां तस्य कोशस्था हीनमिति / अथवा प्रतिपतति चोत्पद्यते चेति कचित् कालान्तर उदितं पुनर्नश्यति पुनश्चोदेति, क्षयोपशमवैचित्र्यात्, पुनः पुनर्नाशोत्पादस्वभावमूर्मिवत् यथा महति सरसि स्वच्छवारिभारिणि पूर्णे प्रबलानिलवेगविक्षिप्यमाणजलेऽदम्रोर्मयः समुपजाताः समासादित रोधसः शमं शनैः शनैर्भजन्ते, पुनश्चाभिघातविशेषात् प्रादुःष्यन्ति, अतो यथोर्मयोऽनवस्थिता एवमवधिज्ञानमपीति // __ भा०-अवस्थितं यावति क्षेत्रे उत्पन्नं भवति ततो न प्रतिपतत्याकेवलप्रा. सेरवतिष्ठते, आभवक्षयाद वा जात्यन्तरस्थायि भवति लिङ्गवत् // 23 // उक्तमवधिज्ञानम् / मनःपर्यायज्ञानं वक्ष्यामः // . दी-अवस्थितमिति / अवतिष्ठते स्म अवस्थितं, यया मात्रयोत्पन्नं तो मात्रांन जहातीतियावत् , एतदाह-यावति क्षेत्र इत्यादि। यावति यत्परिमाणे क्षेत्रेऽङ्गुलासङ्ख्येयभागादावुत्पन्नमासर्वलोकात् तत इति तस्मात् क्षेत्रान्न प्रतिपतति-न नश्यति, सर्वकालमास्ते, कुतोऽवधेर्यावदास्त इतिः उच्यते-आकेवलप्राप्तेः, आमर्यादायाम् / केवलज्ञानं तस्य प्राप्तिः-लाभः आकेवलप्राप्तेर्यावत् केवलज्ञानं न प्राप्नोति, प्राप्ते तु केवले छानस्थिकं ज्ञानं व्यावतते / अथवा मरणात् तदाह-आभवक्षयात्, भवो-मनुष्यादिजन्म यावत् तत्र जीवति तावद, भवति ततः परं न, तसाद् भवक्षयात्, ततः परं नश्यति / अथवा जात्यन्तरमपि गच्छन्तं जीवं न मुश्चति तदवधिज्ञानं, तेनान्वित एवं गच्छति,लिङ्गवजात्यन्तरं (जात्यन्त)रावस्थायि वा भवतीत्येतदाह-जातेरन्या जातिः जात्यन्तरं तत्रावतिष्ठति तच्छीलं च, कथमिव तदादाय गच्छति ? आह-लिङ्गवत् पुरुषवेदादि लिङ्गं त्रिधा तेन तुल्यं वर्तत इति लिङ्गवत् , यथा इह जन्मन्युपादाय पुरुषवेदं जन्तुर्जात्यन्तरमाधावत्येवमवधिमपि // // 1-23 // प्रस्तुतवस्तुपरिसमाप्ति सूचयन्युक्तमवधिज्ञानमित्यनेन उक्तं लक्षणतो विधानतश्व अवधिज्ञानं न पुनर्वाच्यमिति, तदनन्तरानुसारि मनःपर्यायज्ञानं वक्ष्यामः सूत्रम्-ऋजुविपुलमती मनःपर्यायः // 1-24 // / भा०-मनःपर्यायज्ञानं द्विविधम्-ऋजुमतिमनःपर्यायज्ञामनापर्यायस्य भेदौ नम विपलमतिमनःपर्यायज्ञानं च // 24 // अत्राह-कोऽनयोः प्रतिविशेष इति ? / अत्रोच्यते१.रोधस्सु' इति स्न-पाठः / 2 चिह्नितोऽयं ख-पाठः। Page #127 -------------------------------------------------------------------------- ________________ ऋजुमति-विपुल सूत्र 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 101 - टी-ऋजुविपुलत्यादि / ऋजुश्च विपुला च ऋजुविपुले एते च मती ऋजुविपुलमती, ऋज्वी मतिर्विपुला च मतिरिति // ननु च मतिरित्यनेन ज्ञानमभिधीयते, ज्ञानस्य च ऋजुत्वं विपुलत्वं चायुक्तं, 'निर्गुणा गुणा' (अ०५, सू० 40 ) इति वक्ष्यमाणत्वात् , मृर्तेषु चैप व्यवहारः, ऋज्वी विपुला चाङ्गलिरिति, ज्ञाने त्वमूर्ते ऋजुत्वविपुलत्वकल्पना न साधीयसीति / उच्यते-ऋजुता विपुलता वा ग्राह्यविपया समस्ति, मत्यो स्वरूपम् पुल तया ज्ञानस्योपदेशो भविष्यति, या मतिः सामान्यं गृह्णाति सा - ऋज्वीत्युपदिश्यते, या पुनर्विशेषग्राहिणी सा विपुलेत्युपदिश्यते, ऋजु व सामान्यमेकरूपत्वात् , विशेषास्तु विविक्ता बहवः। यदि सामान्यग्राहिणी ऋजुमतिर्मनःपर्यायज्ञान प्राप्तं तर्हि मनःपर्यायदर्शनमपि, यस्मात् सामान्यग्राहि दर्शनमिष्यते, न चाराधितराद्धान्तेर्मनःपर्यायदशेनमध्यगायि, आह-यद्यप्येवमुच्यते सामान्यग्राहिणी ऋजुमतिरिति तथाऽप्यसौ सामान्यभेदरूपमेव परिच्छिनत्ति, यतो बहून् भेदान् न शक्नोति परिच्छेत्तुम् , अतः सामान्यग्राहिणी, परमार्थतस्त्वसौ विशेषमेकं द्वौ त्रीन् वा गृह्णन्ती प्रवर्तते, अतः स्तोकाभिधायी सामान्यशब्दोऽत्र, या तु विशेपान् बहून् गृह्णाति सा विपुलमतिः / केचित तु मन्यन्ते प्रज्ञापनायां मनःपर्यायज्ञाने दर्शनता पठ्यते, तत्सम्भवे सामान्यग्राहिणी घटितपदा, अतः ऋजुमतिविपुलमतिश्च / किम् ? मनःपर्यायः, मन इति च मनोवर्गणा जीवेन मन्यमाना द्रव्यविशेपा उच्यन्ते,तस्य मनसः पर्यायाः-परिणामविशेषाः मनःपर्यायाः,मनसि वा पर्यायाः, तेषु मनःपर्यायेषु यज्ज्ञानं तन्मनःपर्यायज्ञानमिति / इह साधोः सकलप्रमादरहितस्य मनःपर्यायज्ञानावरणीयकर्मक्षयोपशमात् प्रतिविशिष्टं ज्ञानमुदयते, येन ज्ञानेन मनःपर्याप्तिभाजां प्राणिनां पश्चेन्द्रियाणां मनुष्यलोकवर्तिनां मनसः पर्यायानालम्बते-जानाति मुख्यतः, ये तु चिन्त्यमानाः स्तम्भकुम्भादयस्ताननुभानेनावगच्छन्ति / कथम् ? उच्यते-अस्यैतानि मनोद्रव्याण्यनेनाकारेण परिणतानि लक्ष्यन्ते अतः स्तम्भादिश्चिन्तितः, तस्य परिणामस्य स्तम्भाधविनाभावात् , न पुनः साक्षाद् बहिरेव्याणि जानीते इति, क्षयोपशमवैचित्र्यात् , कस्यचित् तदेवंविधं मनःपर्यायज्ञानं भवति येन सामान्यं घटमानं चिन्तितमवगच्छति तच्च ऋजुमतिर्मनःपर्यायज्ञानम् / अपरस्य तु तदावरणीयकर्मक्षयोपशमोत्कर्षापेक्षयैवंविधं भवति तद विपुलमतिर्मनःपर्यायज्ञानम् , उभयमपीन्द्रियानिन्द्रियनिरपेक्षम् , घटमात्रावच्छेदि प्रथमम् , द्वितीयं तु पर्यायशतैर्मृण्मयरक्तशुक्लादिप्रमाणादिभिर्विचिन्तितं घटमवबुद्धयते, अत एव क्षयोपशमद्वविध्यात् , प्रकृतेन च ज्ञानग्रहणेन मनःपर्यायं सम्बनिन् भाष्यकृदाहमनःपर्यायज्ञानं द्विविधम् / मनःपर्यायस्य तेषु वा ज्ञानं मनःपर्यायज्ञानं, द्वे विधे यस्य तद् द्विविधं, ते द्वे विधे दर्शयति ऋजुमतिर्मनःपर्यायज्ञानम् , ऋजुमतिरेव मनःपर्यायज्ञानं, घटादिमात्रचिन्तितपरिज्ञानमिति, विपुलमतिरेव मनःपर्यायज्ञानं, प्रसङ्गतः पर्यायशतैः परिज्ञानमिति // 24 // एवं द्वैविध्ये दर्शिते चोदकोऽभिधत्ते-मनःपर्यायाणामुभयत्र दर्शनम् अतीन्द्रियत्वं चोभयोः ऋजुविपुलमत्योः समानम् , अतः किंकृतं नानात्वमिति प्रश्नयति कोऽ 'सामान्यं ' इति क-ख-ग-पाठः / 2 'शब्दार्थः ' इति क-ख-ग-पाठः / Page #128 -------------------------------------------------------------------------- ________________ 102 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 नयोः प्रतिविशेषः / क इत्यसम्भावने, नैव कश्चित् सम्भाव्यते, अनयोरिति ऋजुविपुलमत्योः प्रतिविशेषः-स्वगतो मेद इति, उच्यते गुरुणा सूत्रम्-विशुद्धयप्रतिपाताभ्यां तद्विशेषः॥ 1-25 // भा०—विशुद्धिकृतश्च अप्रतिपातकृतश्चानयोः प्रतिविशेषः / तद्यथाऋविपुलमत्यो ऋजुमतिमनःपर्यायज्ञानाद् विपुलमतिमनःपर्यायज्ञानं विशुद्धविशेषः तरम्। किश्चान्यत् / टी०-विशुद्धथप्रतीत्यादि / विशुद्धेः कारणात् तयोः ऋजुविपुलमत्योर्विशेषः अप्रतिपाताच,विशुद्धया-बहुतरपर्यायज्ञानरूपया कृतो-जनितः विशुद्धिकृतः,चशब्दः समुच्चये, अप्रतिपातेन-अच्यवनरूपेण कृतः अप्रतिपातकृतश्चानयोः ऋजुविपुलमत्योः प्रतिविशेषो नानात्वं बोद्धव्यम् / तत्र विशुद्धिकृतं तावद् भेदं दर्शयति-ऋजुमतिमनःपर्यायज्ञानात् सामान्यग्राहिणः विपुलमतिमनःपर्यायज्ञानं नानाविधविशेषग्राहि विशुद्धतरमिति,यद्रव्यं यावद्भिः पर्यायैरवच्छिनत्ति ऋजुमतिस्तदेव द्रव्यं बहुतरैः पर्यायैर्विपुलमतिरवगच्छति, यथा घटे चिन्तिते ऋजुमतिमनःपर्यायज्ञानेनैतावद् व्यज्ञायि-घटोऽनेन चिन्तितः, विपुलमतिमनःपर्यायज्ञानं पुनस्तमेव घटं पार्थिवत्वरक्तत्वप्रमाणादिभिर्बहुभिर्भेदैरवबुद्ध्यते, अतो विशुद्धतरमुच्यते / किञ्चान्यदिति भेदस्य उपपत्त्यन्तरसम्भावनाद्वारेण प्रयुज्यते, इहान्योऽपि नानात्वकार्यस्ति हेतुरिति, तमाह . भा० ऋजुमतिमनःपर्यायज्ञानं प्रतिपतत्यपि भूयः, विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपततीति // 25 // अत्राह-अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति। अत्रोच्यते टी०-ऋजुमतिमन:पर्यायज्ञानं प्राप्तमप्यप्रमत्तसंयतेन प्रतिपतति-प्रच्यवते, अपिशब्दात् कदाचिन्न प्रतिपतत्यपि, भूयः-पुनः विपुलमतीत्यादि, यस्य पुनर्विपुलमतिमनःपर्यायज्ञानं समजनि तस्य नैव प्रतिपतत्या केवलप्राप्तेरिति // 25 // ____एवं भेदे ऋजुविपुलमत्योः प्रतिपादिते अवधेर्मनःपर्यायज्ञानस्य चातीन्द्रियत्वे समाने रूपिद्रव्यनिवन्धनत्वे च विशेषमपश्यन् ब्रते-अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति / स चैवं पूर्वपक्षवादी चोदयति-कुतः प्रतिविशेष इति हेत्वभावं मन्यमानः, उत्तरपक्षवादी तु हेतून् विशुद्धयादीन् पश्यन्नेवमाह-अत्रोच्यते सूत्रम्-विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः // 1-26 // अवधिमनःपर्या- भा०-विशुद्धिकृतः, क्षेत्रकृतः, स्वामि कृतः, विषयकृतश्चाययाविशेषः नयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः / तद्यथा टी०-विशुद्धीत्यादि / विशुद्धिः-बहुतरपर्यायपरिज्ञानकारणत्वं, क्षेत्र-आकाशं ह. श्यमानादृश्यमानरूप्यरूपिद्रव्याधारः, स्वामी ज्ञानस्योत्पादयिता,विषयो ज्ञानगम्यः पदार्थः, Page #129 -------------------------------------------------------------------------- ________________ सूत्र 26 स्वोपज्ञभाष्य-टीकालङ्कृतम् 103 एभ्यो हेतुभ्योऽवधिमनःपर्यायज्ञानयोर्विशेषोऽवगन्तव्यः, पञ्चम्यर्थं च कृतशब्देनाचष्टे, विशुद्धया कृतो विशुद्धिकृतः क्षत्रेण कृतः स्वामिना कृतः विषयेण कृतः विषयकृत इति। अनयोरिति अवधिमनःपयोयज्ञानयोः प्रतिविशेषो-भेदोऽवधिमनःपर्यायज्ञानयोरिति, तद्यथा-एते यथा घटन्ते तथा कथ्यन्ते भा०-अवधिज्ञानात् मनःपर्यायज्ञानं विशुद्धतरम् / यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मनःपर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते / किंचान्यत् / टी-अवधिज्ञानादुक्तलक्षणात् मनःपर्यायज्ञानं विशुद्धतरम् , कथं ? विशुद्धतरता स्वयमेव भाष्यकृदाह-यावन्ति-यत्परिमाणानि नियमादनन्तानि, हिरेव इत्यस्यार्थे, यावन्त्येव, रूपमेपामस्ति रूपीणि, प्रदर्शनं चैतद्रपरसगन्धस्पर्शशब्दवन्ति, द्रव्याणि गुणसध्यातात्मकानि अवधिज्ञानी जानीते, पश्यति चेति दृश्यम्, तेषामवधिज्ञानेनोपलब्धानां रूपिद्रव्याणां यावन्ति मनःपर्यायज्ञानिनो विषयभूयमास्कन्दन्ति तान्यसौ मनःपर्यायज्ञानी विशुद्धतराणि-बहुतरपर्यायाणि जानीते इत्यर्थः / तान्यपि च मनोगतानीति-मनोव्यापारभाञ्जीत्यर्थः, असश्चिन्त्यमानानि तु नैव जानीते साक्षात् / किश्चान्यदिति, अयं चापरो भेदहेतुरिति // ___ भा०-क्षेत्रकृतश्चानयोः प्रतिविशेषः। अवधिज्ञानमङ्गुलस्यासङ्ख्येयभागादिषूत्पन्नं भवत्यासर्वलोकात्, मनःपर्यायज्ञानं तु मानुषक्षेत्र एव भवति, नान्यक्षेत्र इति // किंचान्यत् / टी-क्षेत्रकृतश्चानयोरवधिमनःपर्याययोः प्रतिविशेषो-भेदो दृश्यः, एतद भावयति-अवधिज्ञानमगुल्लेत्यादि / अङ्गुलस्यासङ्ख्येयानि खण्डानि कृतानि, तत्रैकस्मिन्नसख्येयभागमात्रे क्षेत्रे यावन्ति रूपिद्रव्याणि समवगाढानि सर्वस्तोकानि यः पश्यति, ततः स एव वर्धमानेन तेन बहूनि बहुतराणि च द्रव्याण्यवगच्छति यावत् सर्वलोकावस्थितानि रूपिद्रव्याणि पश्यति, शुभाध्यवसायविशेषादिति, एतदाह-अङ्गुलस्यासङ्ख्येयभागादिपुत्पन्नं भवत्यासर्वलोकादिति / मनःपर्यायज्ञानस्य तु नैतावत् क्षेत्रमस्ति, यतो मनःपर्यायज्ञानं मानुषेत्यादि, मानुषक्षेत्रे-अर्धतृतीयेषु द्वीपसमुद्रेष्वित्यर्थः, नान्यक्षेत्रे इति न वा शर्कराप्रभादिनरकेष्विति // भा०-स्वामिकृतश्चानयोः प्रतिविशेषः। अवधिज्ञानं संयतस्य, असंयतस्य, [संयतासंयतस्य चं] (वा) सर्वगतिषु भवति, मनःपर्यायज्ञानं तु मनुष्यसंपतस्यैव भवति, नान्यस्य / / किंचान्यत् / १'रूपाणि' इति घ-पाठः / 2 'मनोरहस्यगतानीव' इत्यपि ग-टी-पाठः। 3 'मनुष्यक्षेत्रे' इति क-ख-पाठः। 'या' इति घ-पाठः। Page #130 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ____टी-स्वामिकृत इत्यादि / अवधिज्ञानं संयतस्य-साधोर्विरतस्येत्यर्थः / असंयतस्य-अविरतस्य, वाशब्दात् संयतासंयतस्य वा, सर्वगतिषु नारकादिकासु चतसृष्वपि भवेत् , यतो नारकादीनां सर्वेषामवविज्ञानमुत्पद्यते, मनःपर्यायज्ञानं पुनर्मनुष्य संयतस्यैव भवति, मनुष्यग्रहणात् नारकादिव्युदासः, संयतग्रहणात् मिथ्यादृष्टयादीनां प्रमत्तान्तानां पण्णां व्युदासः, एवकारेण नियमयति-मनुष्यसंयतस्यैव फलं नियमस्य दर्शयति-नान्यस्येति, देवादे तदुत्पद्यत इत्यर्थः // __ भा०—विषयकृतश्चानयोः प्रतिविशेषः / रूपिद्रव्येष्वसर्वपर्यायेष्ववधेविषयनिवन्धो भवति / तदनन्तभागे मनःपर्यायस्येति // ___टी-विषयकृत इत्यादि / रूपिषु परमाणुद्रव्येषु, असर्वपर्यायेष्विति / सर्वेसम्पूर्णाः पर्याया-उत्पादादयो येषां तानि सर्वपर्यायाणि न सर्वपर्यायाण्यसर्वपर्यायाणि तेषु, तानि हि रूपिद्रव्याण्यवधिज्ञानी सर्वाणि जानाति न तु तेषां सर्वान् पर्यायानिति, एकैकस्य तु परमाणोः कदाचिदसङ्ख्येयान् पर्यायान् जानाति कदाचित् सङ्ख्येयान् , जघन्येन चतुरो रूपरसगन्धस्पर्शानिति, न पुनरेकैकस्य परमाणोरनन्तान ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि च सर्वानेव जानीयात् केवल्येवासौ स्यात् // “जे एगं जाणति से सव्वं जाणति"" इति [ आचाराङ्गनामकात् (सू० 122)] आगमात् / अतोऽसर्वपयोयेषु अवधेः-अवधिज्ञानस्य विषयनिबन्धः-विषयगोचर इति / मनःपर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयः, यतस्तेषामवधिज्ञानानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्तभागस्तस्मिन् मनःपर्यायज्ञानस्य विषयनिबन्धः / तस्मादतीन्द्रियत्वे तुल्येऽपि विशुद्धयादेर्भेदोऽवधिमनःपर्याययोरिति // भा०-अत्राह-उक्तं मनःपर्यायज्ञानम् / अथ केवलज्ञानं किमिति / अत्रो. केवलानभिधान च्यते-केवलज्ञानं दशमेऽध्याये वक्ष्यते-मोहक्षयात् ज्ञानदर्शनाकारणम् वरणान्तरायक्षयाच केवलमिति (10-1) // 26 // अत्राह-एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति / अत्रोच्यते टी०-अत्रावकाशे ब्रवीति-प्रतिपादितं मनःपर्यायज्ञानं, तदनन्तरं केवलज्ञानमुद्दिष्ट, तत् किंस्वरूपमिति प्रश्नयति केवलज्ञानं किंस्वरूपमिति / उच्यते-क्रमागतमपीह न भण्यते, यस्मात् केवलज्ञानस्योत्पत्तिः ज्ञानावरणीयादीनां घातिकर्मणामात्यन्तिकक्षयात् , स चात्यन्तिकक्षयः संवरेण प्राप्यते, संवरच नवमेऽध्याये वक्ष्यते, तत्समनन्तरं केवलज्ञानं दशमेऽध्यायेऽभिधास्यते, दशमाध्यायादिसूत्रं च तस्य प्रदेशकै पठति-मोहक्षयादित्यादि / मोहनं 1 'भवति' इति ग-टी-पाठः / 2 'सूक्ष्मद्रव्याणि' इति ख-पाठः / 3 य एकं जानाति स सर्व जानाति / 4'. मवधिज्ञानज्ञातानां ' इति प्रतिभाति / 5 ' प्रदर्शकं' इति क-ख-पाठः। Page #131 -------------------------------------------------------------------------- ________________ सूत्रे 27-28] स्वोपज्ञभाष्य-टीकालङ्कृतम् 105 मोहः-मोहनीयं दर्शनमोहादिभेदमष्टाविंशतिविधं तस्य यो नाशस्तस्मात् मोहक्षयादात्यन्तिकात् ज्ञानं-मत्यादि, दर्शनं-चक्षुदशेनादि, तयोज्ञोनदर्शनयोरावरणीयं--आच्छादकं, अन्तरायं-दानलब्ध्यादिविघाति, अत एपां च ज्ञानदर्शनावरणीयान्तरायाणां क्षयातूशाटादात्यन्तिकात् केवलज्ञानं प्रादुरस्ति सकलद्रव्यभेदसंग्राहीति // 26 // एवं मतिज्ञानादीनां पञ्चानामपि ज्ञानानां स्वरूपेऽवते तस्य मत्यादेर्यो विषयस्तमजानन् पृच्छति-एषां पूर्वोदितानां मतिज्ञानादीनां को विषयनिवन्धः कस्य ज्ञानस्येति / उच्यतेसूत्रम्-मतिश्रुतयोनिवन्धः सर्वद्रव्येष्वसर्वपर्यायेषु // 1-27 // भा०-मतिज्ञानश्रुतज्ञानयोर्विषयनिवन्धो भवति सर्वद्रव्येष्वसर्वपर्यायेषु / मतिश्रुतयोर्निबन्धः ताभ्यां हि सर्वाणि द्रव्याणि जानीते, न तु सर्वैः पर्यायैः // 27 // टी-मतिश्रुतयोनिबन्ध इत्यादि / प्रकृतेन ज्ञानेन मातेश्रुते विशेपयन्नेवमुक्तवान्मतिज्ञानश्रुतज्ञानयोर्विषयनिबन्ध इति / विषयव्यापारो-विषयगोचरो भवतीति, सर्वद्रव्येषु सवाणि च तानि द्रव्याणि च सवेद्रव्याणि तेषु धमोधमोकाशपुद्गलजीवास्तिकायाख्येषु / असर्वपर्यायेष्विति सर्वे निरंवशेषा उत्पादादयः पर्याया येषां तानि सर्वपर्यायाणि, न सर्वपयोयाण्यसर्वपर्यायाणि तेषु / एतदेव भावयति-ताभ्यां हीत्यादि, हि-यस्मात् ताभ्यांमतिश्रुताभ्यां सर्वाणि द्रव्याणि-धर्मादीनि जानाति, न तु तेषां सर्वान् पर्यायानुत्पादादीनिति / कथं पुनस्ताभ्यां सर्वद्रव्यविषयोऽधबोधः ? / मतिज्ञानी तावत् श्रुतज्ञानेनोपलब्धेष्वर्थेषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविद्यो द्रव्याणि ध्यायति तदा मतिज्ञानविषयः सर्वद्रव्याणि, न तु सर्वान् पर्यायान् , अल्पकालत्वान्मनसश्चाशक्तेरिति, तथा श्रुतग्रन्थानुसारेण सर्वाणि धर्मादीनि जानाति, न तु तेषां सर्वपर्यायानिति // 27 // सम्प्रत्यवधिज्ञानस्य विषयनिबन्धनं कथयति सूत्रम्-रूपिष्ववधेः // 1-28 // भा०-रूपिष्वेव द्रव्येष्ववधिज्ञानस्य विषयनिवन्धो भवति, असर्वपर्यायेषु / .. सुविशुद्धेनाप्यवधिज्ञानेन रूपीण्येव द्रव्याण्यवधिज्ञानी जानीते, अवधविषयः तान्यपि न सर्वैः पर्यायैरिति // 28 // टी-रूपिष्ववधेरिति / रूपिष्वेव-पुद्गलद्रव्येष्वेव अवधेः अतीन्द्रियस्य विषयनिपन्धो भवति सर्वेषु असर्वपर्यायेषु / किं योऽपि परमावधिरत्यन्तज्ञानविशुद्धस्तेनापि रूपीण्येव, नारूपीणि जानातीत्यारेकित आह-सुविशुद्धनापि--परमप्रकर्षप्राप्तेनापि, यो ह्यलोके लोकप्रमाणान्यसंख्येयानि खण्डानि पश्यति तेनाप्यवधिना पुद्गलद्रव्याण्येवावसीयन्ते, न १'अत्यन्तविशुद्ध' इति ग-पाठः / 14 Page #132 -------------------------------------------------------------------------- ________________ 106 तत्त्वार्थाधिगमसूत्रम् (अध्यायः 1 धर्मादीनि चत्वारि / किं सर्वपर्यायः 1 नेत्याह-तान्यपिन सर्वैरित्यादि / तान्यपि-रूपिद्रव्याणि न सर्वैः अतीतानागतवर्तमानैरुत्पादव्ययध्रौव्यादिभिरनन्तैः पर्यायैरिति // 28 // मनःपर्यायज्ञानस्याधुना विषयनिवन्धनमाचिख्यासुराह सूत्रम्-तदनन्तभागे मनःपर्यायस्य // 1-29 // भा०- यानि रूपीणि द्रव्याण्यवधिज्ञानी जानीते ततो नन्तभागे मनः _ पर्यायस्य विषयनिबन्धो भवति / अवधिज्ञानविषयस्यानन्तमनःपयायस्य विषयः भागं मनःपर्यायज्ञानी जानीते, रूपिद्रव्याणि मनोरहस्यविचारगतानि च मानुषेक्षेत्रपर्यापन्नानि विशुद्धतराणि चेति // 29 // टी-तदनन्तभागे मनःपर्यायस्य / तेपामवधिज्ञानविषयीकृतरूपिद्रव्याणामनन्तभागस्तदनन्तभागस्तस्मिन् मनःपर्यायज्ञानस्य विषयनिबन्धः / एतद विवृणोति-यानि शुक्लादिगुणोपेतानि रूपीणि द्रव्याणि जानात्यवधिज्ञानी तेषामवधिज्ञानदृष्टानामनन्तभागो यस्तस्मिन्ननन्तभागे एकस्मिन् मनःपर्यायस्य विषयनिवन्धो दृश्यः। तदित्यनेन अवधिज्ञानविषयोऽभिसंबध्यते / तस्यावधिज्ञानविषयस्य सर्वरूपिद्रव्यात्मकस्य योऽनन्तभागः एकस्तं मनःपर्यायज्ञानी जानीते / एतदाह-अवधिज्ञानविषयेत्यादिना। तान्यपि चावधिविषयानन्तभागवर्तीनि रूपीण्यवगच्छति-रूपरसाद्युपेतानि एवंगुणसम्प्राप्तात्मकानि द्रव्याणि, तान्यपि न कुडयाद्याकारव्यवस्थितानि जानाति, किन्तु मनारहस्यविचारगतानि मन:-अनिन्द्रियं प्रतिविशिष्टपुद्गलप्रचितं चेतस्तदेव च रहस्यम्-अप्रकाशस्वरूपं अन्तर्वर्तमानं मनोरहस्ये विचारो-विचारणा अन्वेषणा, कथमयं पदार्थोऽवस्थित इत्येवंरूपा, तत्र मनोरहस्यविचारणायां गतानि-प्रविष्टानि चिन्त्यमानानि जीवेनेतियावत्, तान्यपि न सर्वलोकवर्तीनि, किन्तु मनुष्यक्षेत्रम् आमानुषोत्तरात् तस्मिन् मनुष्यक्षेत्रे पर्यापन्नानि व्यवस्थितानीतियावत्, अवधिज्ञानिनश्च सकाशाद् विशुद्धतराणि बहुतरपर्यायाणि जानीत इतियावत् // 29 // सम्प्रति केवलज्ञानस्य विषयमाचष्टे सूत्रम्-सर्वद्रव्यपर्यायेषु केवलस्य // 1-30 // . _ भा०-सर्वद्रव्येषु सर्वपर्यायेषु च केवलज्ञानस्य विषयकेवलस्य विषयः निबन्धो भवति। तद्धि सर्वभावग्राहकं सम्भिन्नलोकालोकविषयम् / नातः परं ज्ञानमस्ति / न च कवलज्ञानविषयात् परं किश्चिदन्यज्ज्ञेयमस्ति॥ टी.-सर्वद्रव्येत्यादि। सर्वद्रव्येषु धर्मादिषु सर्वपर्यायेषु उत्पादादिषु, धर्मादीनां च त्रयाणां परत उत्पादविगमा, पुद्गलानां जीवानां च स्वतः परतश्च, १'पयांयस्याधुना' इति ग-पाठः। २'मनुष्यः ' इति घ-टी-पाठः। Page #133 -------------------------------------------------------------------------- ________________ सूत्र 30] स्वोपज्ञभाष्य-टीकालङ्कृतम् 107 यथा शुक्लतया विगच्छन्नीलतयोपजायमानः पुद्गल इत्यवतिष्ठते, जीवोऽपि सुरतयोत्पद्यते मनुष्यतया विगच्छति जीवत्वेन च सदावस्थित इति, अतः सर्वेषु पर्यायेप्वेवमात्मकेषु केवलज्ञानस्य विषयनिबन्धो गोचरो भवति / कथं पुनः केवलस्य सर्वाणि द्रव्याणि सर्वे पर्यायाश्च गोचरीभवन्ति ? / उच्यते-ततू केवलज्ञानं यस्मात् सर्वभावग्राहकं सर्वेषां भावानां ग्राहक-द्रव्यक्षेत्रकालभावविशिष्टानां तत् परिच्छेदकम्--अवभासकम् , अत एव सम्भिन्नलोकालोकविषयं लोको-धर्माधर्मद्रव्यद्वयाविच्छिन्नमाकाशं, यत्र त्वाकाशे तौ धर्माधर्मों न स्तः सोऽलोकः, लोकश्चालोकश्च लोकालोको सम्मिन्नौ च तो लोकालोको च सम्भिन्नलोकालोको विषयो-गोचरो यस्य तत् सम्मिन्न लोकालोक विषयम् / एतदुक्तं भवति-यदिह लोके अलोके वोऽस्ति किश्चिज्ज्ञेयं तद् यथा बहिः पश्यत्येवमन्तः, एवं सम्भिन्नलोकालोकविषयं, सम्भिन्नमिति सम्पूर्णम् , अथवा सर्वैः पर्यायैरथवा यथात्मानं तथा परम् , अथवा स्वपर्यायैः परपर्यायैश्च / अथ किमेतस्माज्ज्ञानात् प्रकृष्टतरमन्यत् किश्चिज्ज्ञानमस्तीति ? / उच्यते-नातः परं ज्ञानमस्ति अस्मात् केवलात् परं-प्रधानतरं ज्ञानं--ज्ञेयपरिच्छेदि नास्ति किञ्चित् / एतस्माद् यद्यपि ज्ञानं न प्रधानतरमस्ति विषयस्तर्हि अप्रकाशितोऽस्ति तेन केवलज्ञानेनेति, तन्न, यतः--न च केवलेत्यादि / केवलज्ञानस्य विषयः सर्वद्रव्याणि सर्वपयोयाश्च, एतस्माद् विषयात् परमन्यत् किञ्चिज्ज्ञेयं नास्ति यदप्रकाशितं केवलेनेति // एवं विषयमाख्याय केवलस्य तस्यैव पर्यायकथनं करोति भा०-केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं स्वरूपम् सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः // 30 // अत्राह-एषां मतिज्ञानादीनां युगपदेकस्मिन् जीवे कति भवन्तीति ? / अत्रोच्यते टी-केवलं परिपूर्ण भण्यते, सकलं द्रव्यभावजालं परिच्छिन्दन् परिपूर्णमिति, यथैकं जीवपदार्थ तथा परमपि परिच्छिन्दत् समग्रमिति व्यपदिश्यते, असाधारणं मत्यादिज्ञानरतुल्यत्वात् , निर्गता आलोपेन्द्रियादिरूपा अपेक्षा यत्र तन्निरपेक्षं, ग्राह्यं मुक्त्वा नेन्द्रियादीन्यपेक्षत इतिवायत् , विशुद्धं अशेषज्ञानदर्शनावरणमल विलयनात् . सर्वभावज्ञापकमिति सर्वेषां जीवादीनां भावानां ज्ञापकं-प्ररूपकम् / / ननु च मृकं तत् केवलज्ञानं, तत् कथं प्ररूपकं भण्यते ? शदो हि ज्ञापको मतः, उच्यते-उपचारात् ज्ञापकं, यतः केवलज्ञानेन सर्वद्रव्यभावान् दृष्टान् शब्दः प्रकाशयति, ततः वेवलज्ञानमेव प्रकाशकं भप्यते / लोकालोको विषयोऽस्य तत् लोकालोक विषयम् / कथमिति चेत् , यतः अनन्ताः पर्यायाः-परिणामाः यस्य तत् अनन्त पर्यायं, ज्ञेयं वाऽनन्तपर्यायमितिकृत्वा तदप्यनन्तपर्यायमभिहितं, ज्ञेयानुरोधेन / / 30 / / १'चास्ति' इति क-पाठः / २'जातं ' इति क-ख-पाठः / 3 'प्ररूपकं ज्ञापकं भव्य ते ' रति ग-पाठः। Page #134 -------------------------------------------------------------------------- ________________ * 108 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ____ एवं सर्वेषां मत्यादीनां विषये प्रकाशितेऽत्रावकाशे ब्रूते अन्तेवासी-एषामनन्तरख्यापितानां मतिज्ञानादीनां युगपद्-एकस्मिन् काले एकस्मिन् जीवे कति भवन्त्याधेयानि? किमेकं द्वे त्रीणि चत्वारि पश्चापि ? सर्वाणि तावन्न सङ्गच्छन्ते सर्वप्राणिनाम्, एवं सति समता स्यात् , सर्वेषां च सर्वज्ञता भवेत् , विरोधश्च स्यात् क्षायिकक्षायोपशमिकानां परस्परेण, तस्माद् यथैते दोषा न सन्ति तथा वाच्यम्, उच्यते अत्र- . सूत्रम्-एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्यः // 1-31 // भा०-एषां मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानि युगपदे कस्मिन् जीवे आ चतुभ्यः / तद्यथा-कस्मिंश्चिज्जीवे मत्यादीनायुगपदेकजीवे मेकं भवति / कस्मिंश्चिज्जीवे वे भवतः। कस्मिंश्चित् त्रीणि ज्ञानसंख्या भवन्ति / कस्मिंश्चिच्चत्वारि भवन्ति // टी-एकादीत्यादि / एकशब्दः प्राथम्ये वर्तते, एकः-प्रथम आदिरेषां तान्येकादीनि-प्रथमादीनि भाज्यानि-विकल्प्यानि स्युन वा, युगपद्-एकस्मिन् कालेऽवधीकृते एकस्मिन् प्राणिनि, आ चतुर्थ्य इति आङभिविधौ न मर्यादायाम् , यत्रास्य मर्यादाऽभिप्रेता सूरेः तत्र प्राग्ग्रहणं करोति, 'विग्रहवती च संसारिणः प्राक चतुर्व्यः' (अ०२,सू०२९) तथा 'प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात्' (अ०२,०३९ ) तस्मादिहाभिविधावाङ्, आ चतुर्यो ज्ञानेभ्यः एकस्मिन् जीवे सम्भव इति, चत्वार्येकत्र जीवे सम्भवन्तीति / भजनां च दर्शयतिकस्मिंश्चिदित्यादिना / कस्मिंश्चिन्मनुष्यादिके जीवे मत्यादीनां पञ्चानां ज्ञानानामेकं सम्भवति, कथं ? येन निसर्गसम्यग्दर्शनं प्राप्तं तस्य मतिज्ञानमाद्यमेवैकं समस्ति, न श्रुतं, यतस्तल्लब्धा सामायिकादिश्रुतं न पठति, अन्तरेणापि च श्रुतज्ञानमष्टौ प्रवचनमातरः संगृह्यन्ते तेन, अतस्तस्त्र ग्रन्थानुसारि विज्ञानं श्रुताख्यं न सम्भवति, एक-प्रथम मतिज्ञानमेव / कस्मिंश्चिज्जीवे हे भवतः-सम्यग्दर्शनसमन्वितस्य श्रोत्रेन्द्रियोपलब्धिः श्रुतं द्वादशाङ्गं, शेषेन्द्रियोपलब्धिर्मतिज्ञानम् / कस्मिंश्चित् प्राणिनि त्रीणि, द्वे मतिश्रुते तृतीयं चावधिज्ञानं यस्योत्पन्नम् / कस्मिंश्चिचत्वारि, एतानि त्रीणि चतुर्थ मनःपर्यायज्ञानम्, प्रतिपन्नचारित्रस्य तीर्थकृत इव // अथ यस्मिन् श्रुतज्ञानमेकं कचित् प्राणिनि स किं न प्रदर्श्यते ? यतो मतिरेवैका प्रदर्श्यते, उच्यते-यत्र श्रुतज्ञानं तत्रावश्यं मतिज्ञानम् , यत्र मतिज्ञानं तत्र श्रुतं स्याद् वा न वेति, तस्मान्मतिज्ञानमेवैकं कचिनिदर्श्यते, एतदाह भा०–श्रुतज्ञानस्य तु मतिज्ञानेन नियतः सहभावस्तत्पूर्वकत्वात् / यस्य श्रुतज्ञानं तस्य नियतं मतिज्ञानम् / यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद् वा न वेति / अत्राह-अथ केवलज्ञानस्य पूर्वैर्मतिज्ञानादिभिः किं सहभावो भवति नेति / अत्रोच्यते भादेभ्यः' इति क-ख-पाठः / Page #135 -------------------------------------------------------------------------- ________________ 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-श्रुतज्ञानेत्यादि / श्रुतज्ञानस्य एवं ग्रन्थानुसारिणो मतिज्ञानेन इन्द्रियानिन्द्रियनिमित्तेन नियतो-निश्चितः सहभावः एकत्रवृत्तिरूपः, किं कारणम् ? तत आह-- तरपूर्वकत्वात्-मतिज्ञानपूर्वकत्वात् श्रुतस्य, सति हि मतिज्ञाने श्रुतज्ञानसम्भव इति, अतो यस्य जन्तोः श्रुतज्ञानं ग्रन्थानुसार्यस्ति तस्य जन्तोनियतमिन्द्रियानिन्द्रियनिमित्तं मतिज्ञानं सम्भवति, तस्माच्छतज्ञानं यत्र प्राणिनि तत्र द्वे मतिश्रुते अवश्यं दृश्ये, यस्य तु जीवस्य मतिज्ञानं केवलं निसर्गसम्यग्दर्शनकालेऽनवाप्ताक्षरश्रुतस्य तस्य श्रुतज्ञानं स्याद् उत्तरकालं पठतो, न वाऽनधीयानस्येति, तस्माद यत्रैकं दयते तत्र मतिज्ञानं निदर्श्यते, श्रुताभावेऽपि भावादिति / एवं भजनायां निदर्शितायां चोदयत्यत्रावसरे--अथ केवलज्ञानस्य सकलज्ञेयग्राहिणः पूर्वैः-पूर्वकालप्राप्यैः पूर्वैर्वा सन्निवेशमङ्गीकृत्याभिधीयते मतिज्ञानादिभिश्चतुर्भि:सह किं सहभावः-सहावस्थानं भवति नेति ? / उच्यते अन्यमतप्रचिकटयिषयाऽऽह भा०-केचिदाचार्या व्याचक्षते-नाभावः, किन्तु तदभिभूतत्वादकिञ्चिकेवले शेषशाना___कराणि भवन्तीन्द्रियवद / यथा वा व्यभ्रे नभसि आदित्य ना उदित भूरितेजस्त्वादादित्येनाभिभूतान्यन्यतेजांसि ज्वलनमम सद्भावेऽन्यमतम् / णिचन्द्रनक्षत्रप्रभृतीनि प्रकाशनं प्रति अकिञ्चित्कराणि भवन्ति तद्वदिति / . टी-केचिदित्यादि, मत्तोऽन्ये व्याचक्षते सूरयः, नाभाव एवास्ति, कथं हि सतो वस्तुनः आत्यन्तिको नाशः स्यात् ? यदि च स्यात् ततो यथैव केवलभास्वति जाते ज्ञानचतुष्टयमेवमन्येऽपि शमवीयदर्शनसुखितत्वादयो नश्यन्तु, न च तेषां नाशोऽभ्युपेयते, तस्मात् सहावस्थानमस्त्येव, यदि तपस्ति सहावस्थानं मत्यादिज्ञानचतुष्टयस्य केवलेन सह ततः किमिति स्वमर्थं न प्रकाशयन्ति ? उच्यते--अभिभवात् , तदाह-किन्त्वभिभूतत्वात्हतप्रभावत्वात अकिश्चित्कराणि न किञ्चिदपि कर्नु प्रकाशनं प्रभवन्ति / तत्र दृष्टान्तमाह-पथा हि केवलिनः सदपि चक्षुरादीन्द्रियं न व्याप्रियते विषयग्रहणं प्रति, प्रकाशितत्वात् केवलज्ञानेन, एवं मत्यादिचतुष्टयमपि अकिश्चित्कर, तदीयस्य ज्ञेयस्य केवलभास्वता प्रकाशितत्वात् / अथैतदपि सन्दिह्यते भगवतः केवलिनो यन्नेत्रं तद् विपयग्रहणं प्रति अकिश्चिकरमिति, एवं सति असन्देहरूपं दृष्टान्तं दर्शयामः-यथा वा व्यभ्र इत्यादि, येन प्रकारेणैतन स्थितं लोके, विगतान्यभ्राणि यत्र तत् व्य_ तस्मिन् व्यभ्रे नभसि वियति आदित्येकिरणमालिनि उदिते-प्रकटीभूते ज्वलनादीनि प्रकाशनं प्रत्यसमर्थानि भवन्ति, किमिति ? भूरितेजस्त्वाद-बहुतेजस्त्वात् , आदित्येन सवित्रा अभिभूतानि-तिरोहितस्वसामर्थ्यानि अन्येषां तेजांसि अन्यतेजांसि, अन्यानि वा तेजआत्मकानि ज्वलनादीनि, ज्वलनोऽग्निः मणिः सूर्यकान्तादिः चन्द्रः-शशी नक्षत्रम्-अश्विन्यादि, एतानि ज्वलनादीनि प्रभृतिःआदिर्येषां तेजसा तानि ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि तेजांसि तेजोमयानि प्रकाशनम्१'न्यथाऽऽचक्षते ' इति क-पाठः / Page #136 -------------------------------------------------------------------------- ________________ 110 तत्वार्थाधिगमसूत्रम् [अध्यायः उद्योतनं प्रति अकिश्चित्कराणि भवन्ति न किश्चिद् बहिरवस्थितं कुडयादिविषयं प्रकाशयन्ति, हतप्रभावत्वात् , तद्वदिति तेन प्रकारेण केवलभास्वता भूरितेजसाऽऽक्रान्तानि न विपयप्रकाशनं प्रति व्याप्रियन्ते // सम्प्रति पराभिप्रायेणैव मत्यादिज्ञानचतुष्टयस्य केवलेन सहानवस्थानं दर्शयति भा०-केचिदयाहुः-अपायसद्व्य तया मतिज्ञानं, तत्पूर्वकं श्रुतज्ञानम्, अवधिज्ञानमनःपयोयज्ञाने च रूपिद्रव्यविषये, तस्मान्नैतानि केवलिनः सन्तीति॥ टी०-कचिदप्याहुरित्यादि / केचित् पुनर्बुवते-नैतानि मत्यादीनि केवलिनः सन्ति, यस्मान्मतिज्ञानं अपायसदद्व्यतया भवति, अपायो नाम श्रोत्रादीन्द्रियोपलब्धस्येहितस्या र्थस्य निश्चयः, नैवंविधोऽपायः केवलिनोऽस्ति, यावच्च शोभनानि सम्यग्दलिकानि सन्ति तावन्मतिज्ञानं, तदेतद द्वयमपि दूरोत्सारितं केवलिन इति नास्ति मतिज्ञानं केवलिनः, मतिज्ञानाभावे च मतिपूर्वकस्य श्रुतस्य सुतरामभाव इत्यतः श्रुतमपि नास्ति, अवधिमनःपर्यायज्ञाने च रूपिद्रव्यविषये गदिते, न चैवंविधोऽस्ति विषयः केवलिनः, सम्भिन्नलोकालोकग्राहित्वात् , तस्मात् ते अपि न स्त इति, तस्मादुपपत्तिबलादेतानि चत्वारि केवलिनो दिव्यदृश्वनो न सन्ति। भा०–किश्चान्यत् / मतिज्ञानादिषु चतुर्यु पर्यायेणोपयोगो भवति, न युग पत् / सम्भिन्नज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत् कमयुगपदुषः सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसमयमु. योगी पयोगो भवति // किं चान्यत् / -किश्चान्यदित्यादिना स्वाभिप्रायद्वयं प्रकाशयन्ति-मतिज्ञानादिषु चतुर्यु मतिश्रुतावधिमनःपर्यायज्ञानेषु पर्यायेण-क्रमेण उपयोगः-स्वीयविषयग्राहिता भवति न युगपत् , कस्मिन् काले न स्वस्व विषये एषां व्यापारः 1 यदा मतिज्ञानी मतिज्ञानेनोपयुक्तो न तदा श्रुतादीनामन्यतमेन केनचित् , यदा च श्रुतज्ञानेनोपयुक्तो न तदा मत्यादीनामन्यतमेनेति, केवलिनस्तु न क्रमेणैतज्ज्ञानगतोऽस्त्युपयोगः, यतः सम्भिन्न इत्यादि / ज्ञानं - विशेषग्राहि, दर्शनं-सामान्यग्राहि, ज्ञानं च दर्शनं च ज्ञानदर्शने, सम्भिन्ने-सर्वद्रव्यपर्यायग्राहके ज्ञानदर्शने यस्य स सम्भिन्नज्ञानदर्शनः तस्य, एवं माहात्म्यादिगुणान्वितस्य भगवतः, केवलं-सर्वार्थप्राहि ज्ञानं यस्यास्ति तस्य केवलिनः, युगपत्-एकस्मिन् समये, केवलज्ञाने अनुसमयमुपयोगो भवति दर्शने च / कीशि केवलज्ञाने दर्शने वा ? / उच्यतेसर्वभावग्राहके / सर्वे भावाः-पश्चास्तिकायास्तेषां ग्राहक, विशेषेण परिच्छेदकमित्यर्थः / निरपेक्षे / निर्गता अपेक्षा ज्ञेयं मुक्त्वाऽन्यत्र इन्द्रियादौ यस्य तनिरपेक्षं तस्मिनिरपेक्षे केवलज्ञाने विशेषग्राहिणि दर्शने च सर्वभावग्राह के निरपेक्षे सामान्यग्राहिणि / अनुसमयमुपयोगो भवतीति / अनुगतः-अव्यवहितः समयः-अत्यन्ताविभाग: कालो यत्र कालसन्ताने स कालसन्तानोऽनुसमयस्तमनुसमयं कालसन्तानमुपयोगो भवति, “कालाध्व Page #137 -------------------------------------------------------------------------- ________________ सूत्र 31 ] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 111 नोरत्यन्तसंयोगे" ( पाणिनिः अ० 2, पा० 3, सू० 5 ) इति द्वितीया, “अव्ययीभावो या विभनत्यादिपु" (पा० अ० 2, पा० 1, 90 6 ) वारंवारेणोपयोगो भवतीतियावत् / एकस्मिन् समये केवलज्ञानोपयोगे वृत्ते ततोऽन्यस्मिन् केवलदर्शनोपयोग इति, एवं सर्वकालमवसेयम् / यद्यपि फेचित् पण्डितम्मन्याः सूत्राण्यन्यथाकारमर्थमाचक्षते तर्कवलांनुविद्धबुद्धयो वारंवारेणोपयोगो नास्ति, तत् तु न प्रमाणयामः, यत आम्नाये भूयांसि सूत्राणि वारंवारेणोपयोग प्रतिपादयन्ति-"नाणम्मि देसणम्मि य एत्तो एगयाम्मि उवउत्ता" (प्रज्ञापनायाम्)। तथा-" सव्वस्स केवलिस्सवि जुगवं दो नत्थि उवओगा" (वि० 3096 ) इत्यादीनि / अथैवं मन्येथाः सूत्राणामेपामन्य एवार्थोऽन्य एर्वोव्युत्पन्नबुद्धिभिराख्यायत इत्येतदपि तु दुःश्रद्धानम् , यतः सर्वस्त्राण्यन्धपुरुपस्थानीयानि सुधिया गृहीतानि शक्नुवन्त्यर्थं ख्यापयितुं, यथा श्वेतो. धावतीत्यादि, एवंविधेषु च सूत्रेष्ववश्यमाप्तसम्प्रदाय एवान्वेपणीयो भवति, स चाविच्छेदेनार्थसम्प्रदायः समस्तश्रुतधरादधिकारिणः परिप्लवमानो मुनिपरम्परया याबदद्येत्यागमादविगानेन वारंवारेणोपयोग इति, कुतः पुनरर्थागमोऽकस्मात् उपयोपवादिनः? स्वत एव चेत् प्रेक्षितः स्वमनीषिका सिद्धान्तविरोधिनी न प्रमाणमित्यभ्युपेयते / / अथागमात् प्रदर्शनीयः तासौ तस्माद् यत्किञ्चिदेतदिति / अथ मन्यसे साकारोऽनाकार इति शब्दभेदः केवलमत्र फेवलिनि अर्थस्त्वमिन्न एव, यतः सर्वमेव विशेपपरिच्छेदकं ज्ञानं केवलिनि समस्ति न दर्शनमिति, इदमपि न जावट्यते ज्ञानावरणं भगवतः क्षीणं दर्शनावरणीयं च निरवशेष, तत्रैकत्वे सति कोऽयमावरणभेदाभिमानो निष्प्रयोजनः ? / तथा साकारोपयोगोऽष्टधा दर्शनोपयोगश्चतुर्धेति, तथा ज्ञानं पञ्चधा दर्शनं चतुर्धेति, एकत्वे सति कुत इदमपि घटमानकं ? न चातीवाभिनिवेशोऽस्माकं युगपदुपयोगो मा भूदिति, वचनं न पश्यामस्तादृशम् , क्रमोपयोगार्थप्रतिपादने तु भूरि वचनमुपलमामहे, न चान्यथा जिनवचनं कर्तुं शक्यते सुविदुपा पीति, प्रकृतमनुस्रियते / एतस्मात् केवलज्ञानोपयोगात् केवलदर्शनोपयोगाच विनाऽन्यस्य उपयोगस्य अभावात् केवलिनि मत्यादिज्ञानचतुष्टयसहभावो न गम्यते / किंचान्यदित्युपपत्त्यन्तरमालम्बतेभायोपशमिकक्षा- भा०-क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि, क्षयादेव यिकतया भेदः केवलम् / तस्मान्न केवलिनः शेषाणि ज्ञानानि भवन्तीति॥३१॥ ____टी०-मत्यादीनि चत्वारि मनःपर्यायपर्यवसानानि ज्ञानानि मतिश्रतावधिमनःपर्यायावरणीयकर्मणां क्षयोपशमावुररीकृत्य प्रवर्तन्ते, तदावरणीयकर्मक्षयोपशमनिमित्तानि, केवलं पुनः क्षयकारणमेव, तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्तीति / अन्येषां तु १'नुविशुद्धबुद्धयः' इति क-ख-पाठः, 'तर्कबलात् तु विशुद्धबुद्धयः' इति घ-टी-पाटः। 2 ज्ञाने दर्शने च अनयोरेकतरस्मिन् उपयुक्ताः / सर्वस्यापि केवलिनो युगपद् द्वावुपयोगी न स्तः / 4 'एव व्युत्पन्न ' इति क-ख-ग-पाठः। ५'सन्तीति ' इति घ-पाठः / Page #138 -------------------------------------------------------------------------- ________________ 112 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ग्रन्थः 'ज्ञानदर्शनावरणयोस्तु कृत्लक्षयात् केवलज्ञानदर्शने भवतः तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्ति,' ज्ञानदर्शनयोर्विशेषसामान्यग्राहकयोर्ये आवरणे-आच्छादने तयोरेव कृत्लक्षयात् केवले ज्ञानदर्शने-विशेषसामान्यग्राहके उत्पद्येते, अतश्चत्वारि क्षयोपशमनिमित्तान्येकं क्षयादेव केवलं कथं पुनरत्र सहावस्थायिता घटेत?॥३१॥ एवं मत्यादि ज्ञानपञ्चकं प्रमाणं प्रदर्य प्रमाणाभासाविश्चिकीर्षया आह सूत्रम्-मतिश्रुतावधयो विपर्ययश्च // 1-32 // मा०-मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानमिति विपर्ययश्च भवति, अज्ञानं चेत्यर्थः / ज्ञानविपर्ययोऽज्ञानमिति / अत्राह-तदेव ज्ञानं तदेमत्यादीनां वि. - पण वाऽज्ञानमिति, ननु छायातपवच्छीतोष्णवच तदत्यन्तविरुद्ध मिति / अत्रोच्यतेटी-मतिश्रुतावधयो विपर्ययश्च, यथोक्तलक्षणा मतिश्रुतावधयस्त्रयोऽपि विपर्यपश्च भवत्यज्ञानं चेत्यर्थः, ज्ञानाधिकारस्य प्रकृतत्वात् ज्ञानस्य विपर्ययो-विपरीतता अज्ञानं, प्रमाणाभास इतियावत् / यदा यथार्थपरिच्छेदि तदा ज्ञानं, यदा त्वयथार्थ प्रवर्तते तदा ज्ञानाभासम् / एवमुक्ते पर आह-एकस्य विरुद्धधर्मद्वयसमारोपो न युक्त इति, तदेव मत्यादित्रयं प्रमाणं तदेव चाप्रमाणमिति छायातपवद् विरोधित्वादेकत्रासाम्प्रतम् , एतदाहननु छायातपवद् विरुद्धमेतत् , यो हि छायायामेवातपं मन्यते आतपे वा छायां तदत्यन्तविरुद्धं स्यात् / प्रतीतिविरोधश्च तथा, यो हि शीतमुष्णं ब्रूयात् उष्णं च शीतमिति प्रत्यक्षविरुद्धं च जायते / अत्रोच्यते-न ब्रूम एकत्राधारे एतत्त्रयं ज्ञानमज्ञानं च, किन्त्वन्यत्र ज्ञानमन्यत्र चाज्ञानमिति / क तर्हि ज्ञानम् ? सम्यग्दृष्टौ योऽवबोधस्तज्ज्ञानम् , आधारान्तरे मिथ्यादृष्टौ योऽवबोधस्तदज्ञानम् / एतदाह भा०-मिथ्यादर्शनपरिग्रहाद् विपरीतग्राहकत्वमेतेषाम् / तस्मादज्ञानानि भवन्ति, तद् यथा-मत्यज्ञानं, श्रुताज्ञानं, विभङ्गज्ञानमिति / अवधिर्विपरीतो विभङ्ग इत्युच्यते // ____टी-मिथ्यादर्शनेत्यादि / मिथ्यादर्शनेन-तत्त्वार्थाश्रद्धानरूपेण परिग्रहो यदा मत्यादित्रयस्य तदा विपरीतग्राहकत्वं-अयथार्थवस्तुपरिच्छेदित्वम् एतेषामिति मतिश्रुतावधीनां तस्मात् कारणात् अज्ञानानि कुत्सितान्ययथार्थपरिच्छेदीनि भवन्ति मत्यादीनि / मिथ्यादृष्टिपरिगृहीता मतिमत्यज्ञानं, मिथ्यादृष्टिपरिमिथ्याशाम - गृहीतं श्रुतं श्रुताज्ञानं, मिथ्यादृष्टिपरिगृहीतोऽवधिर्विभङ्ग इति / विभङ्ग शानिता इत्यस्य चार्थ प्रकाशयति-अवधिर्भवक्षयोपशमनिमित्तो विपरी. तोऽन्यथावस्तुपरिच्छेदी विभङ्ग इति, यथावस्थितवस्तुपरिच्छेदि च प्रमाणमिष्टं, न चैतत् तथेत्यतः अप्रामाण्यं मिथ्यादृष्टिपरिगृहीतानामिति / अत्राप्रामाण्ये ख्यापिते मिथ्यादृष्टिपरिगृहीतस्य मत्यादित्रयस्य चोदक आह Page #139 -------------------------------------------------------------------------- ________________ सूत्र 33 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 113 भा०-अत्राह-उक्तं भवता सम्यग्दर्शनपरिगृहीतं मत्यादि ज्ञानं भवस्यन्यथाऽज्ञानमेवेति / मिथ्यादृष्टयोऽपि च भव्याश्चाभत्र्याश्चेन्द्रियनिमित्तानविपरीतान् स्पर्शादीनुपलभन्ते, उपदिशन्ति च स्पर्श स्पर्श इति रसं रस इति, एवं शेषान् , तत् कथमेतदिति ? / अत्रोच्यते-तेषां हि विपरीतमेतद् भवति // 32 // टी-उक्तं भवता-प्रतिपादितं त्वया सम्यग्दर्शनेन जीवादितत्त्वश्रद्धानरूपेण परिगृहीतं मत्यादि ज्ञानं भवति / यथावद् वस्तुपरिच्छेदीतियावत् / अन्यथा तु मिध्यादृष्टिना परिगृहीतं मत्यादिवयं कुत्सितं ज्ञानमज्ञानमेवेति, तदेतन्न मृष्यते, यतः मिथ्येत्यादि / मिथ्यादृष्टयोऽभिगृहीतमिथ्यादर्शनाः शाक्यादयः, मिथ्यादृष्टीनां 1 अनभिगृहीतमिथ्यादर्शनाः, प्रवचनार्थसन्देहिनंश्च त्रिविधा इति / प्रकाराः . ____ अपिः सम्भावने, चः समुच्चये, ते मिथ्यादृष्टयो द्विधा भव्याश्चाभव्याश्च, सेत्स्यन् भव्यः, नैव कदाचित् सेत्स्यति यः सोऽभव्यः / ते मिथ्यादृष्टयो द्विविधा अपि, इन्द्रियनिमित्तानिति इन्द्रियाणि-श्रोत्रादीनि तानि निमित्तं कारणमाश्रित्य अविपरीतान्-यथावस्थितान् स्पर्शादीनिति स्पर्शरसगन्धरूपशब्दान् उपलभन्ते आत्मना, उपदिशन्ति च अन्येभ्यः / कथमुपलभन्ते कथं चोपदिशन्ति ? अवैपरीत्येन, तच्चावैपरीत्यं दर्शयति-स्पर्श-शीतादिकं स्पर्शमिति अविपरीततामाचष्टे, रसं-मधुरादिकं रसमिति एवमविपरीतमेवं शेषान्-शब्दरूपानवैपरीत्येन / तत् कथमेतदिति, बाधके हि प्रत्यये सत्ययथार्थता प्रत्ययान्तरस्य आश्रयितुं शक्या, यथा शुक्तिकाबुया रजतबुद्धिबोधिका शुक्तिकाबुद्धया निवत्यंते, नैवमत्र बाधकं कश्चित् प्रत्ययं पश्यामो यबलान्मिथ्यादृष्टीनां तदयथार्थ ज्ञानं मन्येमहीति ? / अत्रोच्यते-तेषांमिध्यादृष्टीनां यस्मात् तद् विज्ञानं विपरीतमेवेति, अयथार्थपरिच्छेदित्वात् // 32 // कुतः? सूत्रम्-सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवत् // 1-33 // टी-सदसतोरित्यादि / सद्-विद्यमान असद्-अविद्यमानं तयोः सदसतो:विद्यमानाविद्यमानयोः अविशेषाद्-यथावदवबोधाभावाद , विद्यमाने हि पदार्थ उत्पादादिरूपेणान्यथावबोध एकनयाश्रयेणेति, अविद्यमानेऽपि ललाटदेशाध्यास्यात्मा सामस्त्येन हृदयाधिष्ठानो वा, एवं सदसतोरविशेषादयथावबोधात् तदज्ञानं, यदृच्छोपलब्धरिति अनालोचिता अर्थोपलब्धिस्तस्या यदृच्छोपलब्धेः स्पर्शादिपरिज्ञानं भवति, उन्मत्तस्येव / / भा०-यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमतिविपरीतग्राही भवति / सोऽश्वं _ गौरित्यध्यवस्यति गां चांश्व इति लोष्टं सुवर्णमिति सुवर्ण लोष्ट मिथ्या अज्ञानित्वे हेतुः 2 इति लोष्टं च लोष्ट इति सुवर्ण सुवर्णमिति तस्यैवभाविशेषण ___ लोष्टं सुवर्ण सुवर्ण लोष्टमिति विपरीतमध्यवस्यतो नियत१'चाश्व इति' इति घ-पाठः, 'चाश्वमिति' इति ग-पाठः / Page #140 -------------------------------------------------------------------------- ________________ 114 तत्त्वार्थाधिगमसूत्रम् (अध्यायः 1 मज्ञानमेव भवति / तदन्मिथ्यादर्शनोपहतेन्द्रियमतेमतिश्रुतावधयोऽप्यज्ञानं भवन्ति // 33 // ___टी०-यथोन्मत्तो वायुपिशाचादिगृहीतः कर्मोदयात्-कर्मणां पुराकृतानां विपाकाद् यदा उपहतेन्द्रियमतिः उपहतेन्द्रिय उपहतमनाश्च संवृत्तो भवति तदा विपरीतग्राहीअन्यथावस्थितवस्तुपरिच्छेदी भवति, यतः स उन्मत्तः अश्वं सन्तं गौरयमित्येवमध्यवस्यति एवं गृह्णात्युपदिशति च, गां च सती अश्वोऽयमित्यध्यवस्यति स्वयमन्येभ्यथोपदिश्यत्यश्वोऽयमिति / सर्वपदार्थेष्वेव चोन्मत्तस्य यदृच्छयोपलब्धिर्न कतिपयेष्वित्येतदुदाहरणभूयस्त्वेन कथयति-लोष्टं सुवर्णमित्यादिना / लोष्टं पृथिवीपरिणाम सन्तं मृदात्मकं सुवर्णमित्यध्यवस्यति, सुवर्ण च लोष्टमित्यध्यवस्यति, कदाचिच्च लोष्टं लोष्टमेवाध्यवस्यति,कदाचिद् वा सुवर्ण सुवर्णमित्येव, तस्योन्मत्तस्यैवमुक्तेनाविशेषेण अयथावदवबोधेन लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः नियतं-निश्चितमज्ञानमेव, कुत्सितमेव तज्ज्ञानं भवतीति / सम्प्रति दार्शन्तिके योजयति-तद्वन्मिथ्यादर्शनेनोपहते. .न्द्रियमनस्कस्य मतिश्रुतावधयस्त्रयोऽप्यज्ञानमेव भवन्ति, एकनयमतसमाश्रयणे तु न सर्ववस्तुपरिच्छेदः, न च तावन्मानं तद् वस्तु, नयमतान्तरेणान्यथापि परिच्छेदात, अतः अज्ञानता त्रयाणाम् , समग्रनयसामग्रीप्रत्ययेनैकैकनयावलम्बी प्रत्ययो निवर्त्यत इति विद्यते हि सर्वनयसामग्रीप्रत्ययो बाधक इति // 33 // . . मामाभिधान भा०- उक्तं ज्ञानम् / चारित्रं नवमेऽध्याये वक्ष्यामः / प्रमाणे हेतुः चोक्ते / नयान् वक्ष्यामः / तद्यथा टी-प्रकृतपरिसमाप्ति सूचयति-उक्तं ज्ञानम्, सम्यग्दर्शनज्ञानचारित्राणीत्युपक्षिप्त त्रयमिति, सम्प्रत्यवसरप्राप्तं चारित्रं, तच्चेह लब्धावकाशमपि नाभिधीयते, यत इहाभिधायापि पुनः संवरप्रस्तावे -- आश्रवनिरोधः संवरः', 'स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः'.(अ० 9, सू० 1-2) इत्यत्र चारित्रद्वारे संवरप्ररूपकेऽभिधातव्यमेवातो ग्रन्थस्य लाघवमिच्छता तत्रैव. नवमेऽभिधास्यते इत्याह-चारित्रं नवमेऽध्याये वक्ष्यामः। 'प्रमाणनयैरधिगमः' (अ०१, सू०६) इति च यदुक्तं तत्र प्रमाणमेतदेव पञ्चविधं सम्यग्दृष्टिपरिगृहीतं ज्ञानं, तदाह-प्रमाणे च प्रत्यक्षपरोक्षे उक्त, नयास्तु पूर्व नोक्ता इत्यतो नयान् वक्ष्यामः, ते च यथा स्वरूपतो व्यवस्थितास्तथा निर्दिश्यन्ते सूत्रम्--नैगमसमहव्यवहारर्जुसूत्रशब्दा नयाः // 1-34 // .. भा०-नैगमः, सङ्ग्रहः, व्यवहारः, ऋजुसूत्रः, शब्द नयभेदाः / चमन इत्येते पञ्च नया भवन्ति // 34 // टी०-नैगमेत्यादि / कृतद्वन्द्वसमासानां पञ्चानामपि प्रथमाबहुवचनान्तता। नया 'नयानत्र ' इति ख-पाठः। Page #141 -------------------------------------------------------------------------- ________________ सूत्र 34] स्वोपज्ञभाष्य-टीकालङ्कृतम् इति च अनेकधर्मकदम्बकोपेतस्य वस्तुन एकेन धर्मेणोन्नयनमवधारणात्मकं नित्य एवानित्य एवेत्येवंविधं नयव्यपदेशमास्कन्दति, स चाध्यवसायविशेष इति / निगम्यन्ते-परिच्छिधन्ते इति निगमाः-लौकिका अर्थाः, तेषु निगमेषु भवो योऽध्यवसायो ज्ञानाख्यः स नैगमस्य निर्देशः ... नैगमः / स च सामान्येनापि व्यवहरति सामान्यबुद्धिहेतुना सामान्यया वचनहेतुना च, अत्यन्तं भेदेभ्योऽन्यत्वरूपेण सत्तामात्रेण, तथा विशेषेणापि विशेषबुद्धिहेतुना विशेषवचनहेतुना च अत्यन्तं सामान्यादन्यत्वरूपेण व्यवहरति परमाणुनिष्ठितेन, तथा सामान्य विशेषेणापि गवादिना सर्वगोपिण्डेष्वनुवृत्त्यात्मकेन अश्वादिव्याच्यात्मकेन च व्यवहरति, यथा लोको व्यवहरति तथाऽनेन व्यवहर्तव्यमिति, लोकश्वोपदिष्टः प्रकारैः समस्तैर्व्यवहरति / प्रवचने च वसतिप्रस्थकनिदर्शनद्वयेन विभावितः काणभुजराद्धान्तहेतुरव गन्तव्यः / अभेदेन सङ्ग्रहात् सर्वस्य सङ्ग्रह्णाति इति सङ्ग्रहः / सझहस्य यदि भवनाभिसम्बद्धस्यैव भावस्य भावत्वमभ्युपगम्यते ततः परिसमा. स्वरूपम् पितात्मस्वरूपित्वाद् भावस्य भ्रान्तिसमुपनिवन्धनघटादिविकल्पप्रकसनानर्थक्यम् , यदि घटादि वस्त्वपि भवनप्रवृत्तितन्त्रमेवेत्येवं सति भाव एव, तदनीन्तरत्वात् तत् स्वात्मवत् , भवनार्थान्तरत्वे वा व्योमोत्पलादिवदसत्त्वं विकल्पानां रासभविषाणादिसत्त्वं वा घटादिवद् भवनार्थान्तरत्वात् , एतद्दर्शनपुरस्सरा एव च सर्वनित्यत्वैकत्वभारणमात्रत्वादिवादाः कालपुरुषस्वभावदैवादयश्चेति भावः / निश्चयासद्गृहीतानां विधिपूर्वक मवहरणं व्यवहारः। यदि घटादिभेदश्रुत्या स्वसामान्यानुवद्धस्य वारस्य व्याख्या निरस्तसामान्यान्तरसम्बन्धस्य श्रूयमाणत्वानुगुणमेव ग्रहणं न स्यात् , किन्तु सर्वव्यपदेशविशेषाभिव्यङ्गयो भाव एव तेन तेन रूपेणाभिव्यज्यते, ततो घटाधन्य. तरभेदश्रुतौ सर्वरूपभेदभावप्रतीतिप्रसङ्गस्ततश्च घटपटोदकादिरूपव्यतिकरभावानिश्चयाभावप्रसङ्गः, उपदेशक्रियोपभोगापवर्गव्यवस्थादीनां चाभावात् सर्वसंव्यवहारोच्छेदः, सर्वविशेषध्याकरणे च निर्निबन्धनभवनाभावाद् भावाभाव एव, अविशेषत्वाभेदत्वानिरूप्यत्वादितमश्च नेवासो भावः खरविषाणादिवत् , तस्माद् व्यवहारोपनिपतितसामान्योपनिवन्धनं तु यदेव यद् यदा द्रव्यं पृथिवीघटादि व्यपदिश्यते तदेव तत् तदा त्रैलोक्याविभिन्नरूपं सततमवस्थितापरित्यक्तात्मसामान्यं महासामान्यप्रतिक्षेपेण संव्यवहारमार्गमास्कन्दतीति / एवंविधवस्तूपनिवन्धनैव च वर्णाश्रमप्रतिनियतरूपा यमनियमगम्यागम्यभक्ष्याभक्ष्यादिव्यवस्था, कुम्भकारादेश्व मृदानयनावमर्दनशिवकस्थासकादिकरणप्रवृत्ती वेतनकादिदानस्य साफल्यम् , अव्यवहार्यत्वाच्च शेपमवस्तु, व्योमेन्दीवरादिवदिति / ऋजु-सममकुटिलं सूत्रयति ऋजु ऋजसत्रस्य वा श्रुतम् आगमोऽस्येति सूत्रपातनवद् वा मजुसूत्रः, यस्मादतीतानागतवक्रपविचारः रित्यागेन वर्तमानपदवीमनुधावति, अतः साम्प्रतकालावरुद्धपदार्थत्वात् ऋजु ग 1 निश्चितेन ' इत्यपि पाठः / 2 'भावनिश्चया' इति क-ग-पाठः। 3 'दित इति ग-पाठः / Page #142 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 सूत्रः, एष च भावविषयप्रकारातीतानागतविषयवचनपरिच्छेदे प्रवृत्तः सर्वविकल्पातीतातिसम्प्रमुग्धसङ्ग्रहग्रहाविशिष्टत्वाद् व्यवहारस्यायथार्थतां मन्यमानः अचरणपुरुषगरुडवेगव्यपदेशवद् वतमानक्षणसमवस्थितिपरमार्थवस्तु व्यवस्थापयति, अतीतानागताभ्युपगमस्तु खरविषाणास्तित्वाभ्युपगमान्न भिद्यते, दग्धमृतापध्वस्तविषयश्चानाश्वासो न कस्यचिदपि स्यात् , अघटादिलक्षणमृदाद्यनर्थान्तरत्वाच्च घटादिकालेऽपि घटादितैव स्यात् , न च तदेव तदेकं मृद् द्रव्यमन्यथा वतेते, किं तर्हि ? अन्यदेव, अन्यप्रत्ययवशाद वाऽन्यथोत्पद्यत इति न पिण्डादिक्रियाकाले कुम्भकारव्यपदेशः, यदि चान्यदपि कुर्वनन्यस्य कर्तेत्युच्यते पटादिक रणप्रवृत्तोऽपि प्रत्याख्यातविज्ञानान्तरसम्बन्धः स्यादेव कुम्भकारः, ततश्चाशेषलोकव्यवहारोपरोध इत्यतः पूर्वापरभागवियुतः सर्ववस्तुगतो वर्तमानक्षण एव सत्यः, नातीतमनागतं चास्तीति, एतद्दर्शननिबन्धनं चैतदुपदिश्यते, "पिब च खाद च" इत्यादि "एतावानेष पुरुषः" इत्यादि वेति / शब्दनयः-शब्द एव, सोऽर्थकृतवस्तुविशेषप्रत्याख्यानेन शब्दकृतमेवार्थविशेषं मन्यते, यद्यर्थाधीनो विशेषः स्यात् न शब्दकृतः, तेन घटवर्तमानकाले घट एव निर्विशेषः स्यात् कर्मकरणसम्प्रदानापादानस्वाम्यादिविशेषान् नाप्नुयात् , ततश्च घटं पश्यत्येवमादिकारककृतो व्यवहारः छियेत, समानलिङ्गादिशब्दसमुद्भावितमेव वस्त्वभ्युपैति नेतरत, नहि पुरुषः स्त्री, यदीष्येत वचनार्थहानिः स्यात् , भेदार्थ हि वचनम् , अतः स्वातिः तारा नक्षत्रमिति लिङ्गतः, निम्बाम्रकदम्बा वनमिति वचनतः, स पचति त्वं पचसि अहं पचामि पचावः पचामः इति पुरुषतः, एवमादि सर्व परस्परविशेषव्याघातादवस्तु, परस्परव्याघाताच्चैवमाद्यवस्तु प्रतिपत्तव्यम्, यथा शिशिरो ज्वलनः, तथा विरुद्ध विशेषत्वात् तटस्तटी तटमित्यवस्तु, रक्तनीलमिति यथा, यद् वस्तु तदविरुद्ध विशेषमभ्युपयन्ति सन्तः यथा घटः कुटः कुम्भ इति / तथा चोच्यते-यत्र ह्यर्थो वाचं न व्यभिचरत्यभिधानं तत् , एवमयं समानलिङ्गसङ्ख्यापुरुषवचनः शब्दः, एतदर्शनानुगृहीतं चोच्यते-" अर्थप्रवृत्तितत्त्वानां शब्द एव निवन्धनम्" इति, एवमेते मूलनयाः पञ्च नैगमादयः / अत्र चाद्याश्चत्वारोऽर्थप्रधानत्वादर्थतन्त्रत्वात् , शब्दनयः पुनरर्थोपसर्जनः शब्दप्रधानः शब्दतन्त्र इति // 34 // अधुनैषां यथासम्भवं भेदप्रतिपिपादयिषयाऽऽह सूत्रम्-आद्यशब्दौ दित्रिभेदौ // 1-35 // टी-तत्र आद्यशब्दावित्यादि / तत्र नैगमादिषु पञ्चसु यौ आयशब्दो तो .. यथासङ्ख्यं द्वित्रिभेदौ भवतः, आद्यौ च तो शन्दौ चेति समानाआद्यशब्दनयभेदाः / " धिकरणसमासाशङ्कायामाह१'अन्यत्प्रत्यय ' इति ख-ग-पाठः। 2 'ख्यातेन ' इति ख-पाठः। 3 अस्योल्लेखो हरिकारिकायां शब्दाद्वैते / ४'तत्र आद्यशब्दो' इति ग-पाठः। Page #143 -------------------------------------------------------------------------- ________________ सूत्र 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 117 भा०-आद्य इति सूत्रक्रमप्रामाण्यानैगमनाह / स विभेदो-देशपरिक्षेपी सर्वपरिक्षपी चेति / शब्दस्त्रिभेदः-साम्प्रतः, समभिरूढः, एवम्भूत इति // टी-आद्य इति सूत्रक्रमेत्यादि / आदौ भव आद्यः इत्यनेन मूत्रकारः कमाह ? / उच्यते-नैगमं, कुत इति चेत् ? सूत्रक्रमप्रामाण्यात् अर्थसूचनात् सूत्रं नैगमादि क्रमः-परिपाटी तस्य प्रामाण्यमेवमाश्रयणं तस्मान्नैगमनयं ब्रवीति, स आयो नैगमो नैगमस्य द्वैवि र द्विभेदो द्वौ भेदावस्येति द्विभेदः, तौ च भेदावाचष्टे-देशपरिक्षेपी - सर्वपरिक्षेपी च / देशो-विशेषः परमाण्वादिगतस्तं परिक्षेप्तुं शीलध्यम् ___मस्येति देशपरिक्षेपी, विशेषग्राहीत्यर्थः / सर्वपरिक्षेपी सर्व-सामान्यम् एकं नित्यं निरवयवादिरूपं तत् परिक्षेप्तुं शीलमस्य स सर्वपरिक्षेपी, सामान्यग्राहीतियावत् / सामान्यविशेपरूपस्तु नोक्तः, अनुवृत्तिलक्षणश्चेत् सामान्यं, व्यावृत्तिलक्षणश्चेत् विशेषः, ततोऽन्यस्याभावात् / अथवा आद्यन्तयोर्ग्रहणात् तन्मध्यगतस्यापि ग्रहणम् / शब्दस्त्रिभेद् इति शब्दनयस्त्रिभेदः व्यंश इति, तानाह--साम्प्रत इत्यादिना, शब्दस्य त्रैविध्यम् - साम्प्रतं-वर्तमानं भावाख्यमेव वस्त्वाश्रयति यतोऽतः साम्प्रतः, - सम्प्रतिकाले यद् वस्तु भवत् तत् साम्प्रतं तद्वस्त्वाश्रयन् साम्प्रतोऽभिधीयते / / ननु च 'कालागु(?)ञ्' (पा० 4 / 3 / 11) इति साम्प्रतिक इति भवितव्यम् , नैष दोषः, वर्तमानक्षणवर्तिवस्तु विपयोऽध्यवसायस्तद्भवः शब्दः साम्प्रतः, स्वार्थिको वा प्रज्ञादित्वात् / एष च मौलशब्दनयाभिप्रायाविशिष्ट इति न पृथगुदाहरणेविंभावितः / यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढः, सोऽभिदधाति-यदि लिङ्गमात्र भिन्नमवस्तु, विसंवादित्वात् रक्तनीलतादिवत् , एवं सति मूलत एव भिन्नशब्दं कथं वस्तु स्यात् ? शब्देन ह्यर्थो निरुक्तीक्रियते एतस्मान्निरुक्तादेप इति, यत्र तद्भदस्तद्भिन्नमेव, यथा तु पूर्वनयेनैकं कृत्वोच्यते इन्द्रशक्रादि तथा यदवस्तु, घटज्वलनादिवद् भिन्ननिमित्तत्वात् , अनयोरेकत्वेनावस्तुता / एवं घटकुटयोरपि चेष्टाकौटिल्यनिमित्तभेदात् पृथक्ता, तथा प्रकृतिप्रत्ययोपात्तनिमित्तभेदाद् भिन्नौ शक्रेन्द्रशब्दावेकार्थों न भवतः, विविक्त निमित्तावबद्धत्वात् गवाश्वशब्दवत् / अथापि प्रतीतत्वादसंप्रमोहाल्लोके चैवं निरूढत्वात् इन्द्रशब्दस्य पुरन्दरादयः पर्याया इत्येतदनुपपन्नम, एवं हि सामान्यविशेषयोरपि पर्यायशब्दत्वं स्यादेव, यतः प्लक्ष इत्युक्ते द्राक् वृक्षेऽस्ति सम्प्रत्ययः, अस्तित्वासम्प्रमोहे च संज्ञान्तरकल्पनायामिहापि तर्युक्तादनुक्तप्रतिपत्तो सत्यां पर्यायत्वप्रसङ्गः प्रविश पिण्डी, भक्षयेत्यस्य गेमात् , तथाऽस्तिर्भवन्तीपरःप्रथमपुरुषेप्रयुज्यमानोऽप्यस्तीति गम्यते, वृक्षः प्लक्षोऽस्तीति गम्यते, न्यायादस्तिः पर्यायःप्राप्तः, तस्माद् भेदः साधीयान् दन्तिहस्तिनोश्चैकत्वाद् दन्तहस्तैकत्वप्रसङ्ग इति / एवं संज्ञान्तरोक्तः संज्ञा 'किमाह' इति क-ख-पाठः। २'गमनात् ' इति क-ख-पाठः / Page #144 -------------------------------------------------------------------------- ________________ 118 तत्त्वार्थाधिगमसूत्रम् [अध्यायः न्तराभिधानमवस्त्विति प्रतिपादिते एवम्भूतनय आह-निमित्तं क्रियां कृत्वा शब्दाः प्रवतन्ते, नहि यदृच्छाशब्दोऽस्ति, अतो घटमान एव घटः, कुटंश्च कुटो भवति, पूर्दारणप्रवृत्त एव पुरन्दरः, यथा दण्डसम्बन्धानुभवनप्रवृत्तदासस्यैव दण्डित्वम्, अन्यथा व्यव हारलोपप्रसङ्गः / न चासौ तदर्थः, अनिमित्तत्वाद् यथा बहुत्वैकवचनम्, इति समुच्चये परिसमाप्तौ च // भा०-अत्राह-किमेषां लक्षणमिति / अत्रोच्यते टी०-अबाहेत्यादि / अस्मिन्नवसरे नैगमादीनामध्यवसायविशेषाणां लक्षणजिज्ञासया विविक्तचिह्नपरिज्ञानाभिप्रायेणाह-किं लक्षणमेषामिति / अत्रोच्यते-लक्षणम् भा०-निगमेषु येऽभिहिताः शब्दास्तेषामर्थः शब्दार्थपरिनैगमलक्षणम् ज्ञानं च देशसमग्रग्राही नैगमः॥ टी-निगमेष्वित्यादि / न चैतानि सूत्राण्यवृत्तित्वात् , कैश्चित् पुनर्धान्त्या सूत्राणीति प्रतिपनम् , तत्र नैगम इत्यस्यावयवप्रविभागेन व्याख्यानं-निश्चयेन गम्यन्ते-उच्चार्यन्ते-प्रयुज्यन्ते येषु शब्दास्ते निगमा--जनपदाः तेषु निगमेषु-जनपदेषु ये इत्यक्षरात्मकानां ध्वनीनां सामान्यनिर्देशः अभिहिता-उच्चारिताः शब्दा-घटादयस्तेषामों-जलधारणाहरणादिसमर्थः,शब्दार्थपरिज्ञानं चेति शब्दस्य घटादिरर्थोऽभिधेयस्तत्परिज्ञानम्-अवबोधः, घट इत्यनेनायमर्थ उच्यते अस्य चार्थस्य अयं वाचक इति, यदेवं विधमध्यवसायान्तरं स नैगमः, स सामान्यविशेषावलम्बीत्येतद दर्शयति-देशसमग्रग्राहीति / यदा हि स्वरूपतो घटमयं निरूपयति तदा सामान्यघटं सर्वसमानव्यक्त्याश्रितं घट इत्यभिधानप्रत्ययहेतुमाश्रयत्यतः समग्रग्राहीति / तथा विशेषमपि सौवर्णो मृण्मयो राजतः श्वेत इत्यादिकं विशेष निरूपयत्यतो देशग्राहीति भण्यते नैगमनयः॥ सम्प्रति सङ्ग्रहस्य लक्षणमाहसाहलक्षणम् भा०-अर्थानां सर्वैकदेशग्रहणं सङ्ग्रहः // टी०-अर्थानामित्यादि। अर्थानां-घटादीनां सर्वैकदेशग्रहणमिति सर्वसामान्य एकदेशो-विशेषः तयोः सर्वैकदेशयोः--सामान्यविशेषात्मकयोरेकीभावेन ग्रहणम-आश्रयणमेवंविधोऽध्यवसायः सङ्ग्रहो भण्यते / एकीभावेन ग्रहणमेवं द्रष्टव्यम् - यौ हि सामान्यविशेषौ नैगमाभिमतौ तौ सम्पिण्डय सङ्ग्रहनयः सामान्यमेव केवल स्थापयति सत्तास्वभावम्, यतः सत्तातो न व्यतिरिच्यते विशेषः / व्यवहारलक्षणाभिधित्सयाऽऽहव्यवहारलक्षणम् भा०-लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः॥ टी०- लौकिकेत्यादि / लोके मनुष्यादिखभावे विदिताः लौकिकाः-पुरुषास्तै 'सूक्ष्माण्य ' इति ख-पाठः / 2 किचित् ' इति ख-ग-पाठः / Page #145 -------------------------------------------------------------------------- ________________ सूत्र 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 119 समः-तुल्यः, यथा लौकिका विशेषैरेव घटादिभिर्व्यवहरन्ति तथाऽयमपीत्यतस्त समः, उपचारप्राय इति / उपचारो नामान्यत्र सिद्धस्यार्थस्यान्यत्राध्यारोपो यः, यथा कुण्डिका स्रवति, पन्या गच्छति, उदके कुण्डिकास्थे स्रवति कुण्डिका स्रवतीस्युच्यते, पुरुषे च गच्छति पन्था गच्छतीति / एवमुपचारप्राय उपचारबहुल इत्यर्थः / विस्तृतो--विस्तीर्णोऽनेकोऽर्थो ज्ञेयो यस्य स विस्तृतार्थः अध्यवसायविशेषो व्यवहार इति निगद्यते // ___ऋजुसूत्रलक्षणव्याचिख्यासया आहऋजुसूत्रलक्षणम् भा०–सतां साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः॥ टी०–सतामित्यादि / सतां-विद्यमानानां, न खपुष्पादीनामसतां, तेषामपि साम्प्रतानां--वर्तमानानामितियावत् अर्थानां घटादीनां अभिधानं-शब्दः परिज्ञानम्-अवबोधो विज्ञानमितियावत् , अभिधानं च परिज्ञानं चाभिधानपरिज्ञानं यत् स भवति ऋजुसूत्रः / एतदुक्तं भवति-तानेव व्यवहारनयाभिमतान् विशेषानाश्रयन् विद्यमानान् वर्तमानक्षणवर्तिनोऽभ्युपगच्छन्नभिधानमपि वर्तमानमेवाभ्युपैति नातीतानागते, तेनानभिधीयमानत्वात् कस्यचिदर्थस्य, तथा परिज्ञानमपि वर्तमानमेवाश्रयति, नातीतमागामि वा, तत्स्वभावानवधारणात् , अतो.वस्त्वभिधानं विज्ञानं चात्मीयं वर्तमानमेवान्विच्छन्नध्यवसाय: स अजुसूत्र इति // शब्दनयस्य त्रिभेदस्य लक्षणप्रचिकाशयिषया आहशब्दलक्षणम् भा०-यथार्थाभिधानं शब्दः // ___टी०-यथेति / येन कारणेन भावरूपेण नामस्थापनाद्रव्यवियुतेनार्थो घटादियथार्थः तस्याभिधानं शब्दः यथार्थाभिधानं, तदाश्रयी योऽध्यवसायः स शब्दनयतयाऽभिधीयते / वर्तमानमात्मीयं विद्यमानं भावघटमेवाश्रयति नतरानिति // इदानीमस्य शब्दनयस्य यत् पुरस्तात् त्रैविध्यं दर्शितं 'शब्द-स्त्रिभेदः साम्प्रतः, समभिरूढ एवम्भूत' इति, अस्याद्यभेदलक्षणोदविभावयिषया आह-- साम्पतलक्षणम् भा०-नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रत्ययः साम्प्रतः॥ ____टी-नामेत्यादि / नामस्थापनाद्रव्यभावेषु नम्यमाने वस्तुनि घटादौ स्थाप्यमाने वाऽऽकारात्मना द्रव्ये च गुणसंद्रावात्मके भावे च प्रतिविशिष्टपर्यायरूपे प्रसिद्धपूर्वात् प्रसिद्धो-निर्जातः पूर्वमिति-संज्ञासंज्ञिसम्बन्धकाले प्रसिद्धोऽसौ घटादिशब्दोऽभिधानतया तेषां नामादीनामस्य घटादेरर्थस्यायं वाचक इत्येवं प्रसिद्धपूर्वाद् वाच्यवाचकलक्षणसम्बन्ध सङ्केतनाद् योग्यतालक्षणसम्बन्धावगतेर्वा, शब्दादिति, अभिधानात नाम्न इतियावत अर्थेअभिधेये यः प्रत्ययो-विज्ञानं स साम्प्रतो नयः / एतदुक्तं भवति-नामादिषु प्रतिविशिष्टवर्तमानपर्यायापन्नेष्वेव प्रसिद्धो वाचकतया यः शब्दस्तस्माच्छब्दात् भावाभिधा१ लक्षणाचिख्यासया' इति ग-टी-पाठः। २'लक्षणान्विभावयिषया' इति पाठः / Page #146 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 यिनः तद्वाच्येऽर्थे भावरूपे प्रवृत्तोऽध्यवसायः साम्प्रताख्यामासादयति / यतो भाव एव शब्दाभिधेयो भवति, तेनाशेषाभिलषितकार्यकरणादिति // __अधुना समभिरूढलक्षणं दर्शयन्नाहसमभिरूढलक्षणम् आ०-सत्स्वर्थेष्वसङ्क्रमः समभिरूढः // _____टी०-सत्स्वर्थेषु इत्यादि। सत्सु-विद्यमानेषु वर्तमानपर्यायापन्नेष्वित्यर्थः, अर्थेषुघटादिषु असक्रम इत्यन्यत्रागमनं शब्दस्य यत् सोऽसङ्कमः / यथा घट इत्यस्य शब्दस्य विद्यमानं घटं चेष्टात्मकं विरहय्य नान्यत्र कुटाद्यर्थे घटाभिधानसामर्थ्यमस्ति, अनभिधेय. त्वात् , यदि चास्य घटशब्दस्य कुटादिरर्थोऽभिधेयो भवेदेवं सति यथोक्ताः सर्वसङ्करत्वादयो दोषा उपजायेरन् नित्यतो न शब्दान्तराभिधेयोऽर्थोऽन्यस्य शब्दस्याभिधेयो भवति, एवमसङ्कमगवेषणपरोऽध्यवसायः समभिरूढः // एवम्भूतनयलक्षणोन्निनीषया आहएवंभूतलक्षणम् भा०-व्यञ्जनार्थयोरेवम्भूत इति // टी-व्यञ्जनेत्यादि / व्यञ्जनं-शब्दस्तस्यार्थः-अभिधेयो वाच्यम् तयोव्यञ्जनार्थयोरेवं संघटनं करोति घट इति यदिदमभिधानं तच्चेष्टाप्रवृत्तस्यैव जलधारणाहरणसमर्थस्य वाचकं, चेष्टां च जलाद्यानयनरूपां कुर्वाणो घटो मतः, न पुनः क्रियातो निवृत्तः, इत्थं यथार्थतां प्रतिपद्यमानोऽध्यवसाय एवम्भूतोऽभिधीयते इति // भा०-अत्राह-उद्दिष्टा भवता नैगमादयो नयाः। तत्रं नया इति कः . पदार्थ इति / अत्रोच्यते-नयाः प्रापकाः कारकाः साधका नयस्य शब्दार्थः निर्वतका निर्भासका उपलम्भका व्यञ्जका इत्यनान्तरम् // टी०-अनावकाशे चोदकः प्रश्नयति-उद्दिष्टा:-अभिहिताः लक्षणतस्त्वया-नैगमादयः पञ्च / तत्र नैगमादिसूत्रे, नया इति यदभिधानं तस्यानेककारकसन्निधाने सति कः प्रत्ययार्थो ग्राह्य इति संशयानः पृच्छति-तन्नया इति कः पदार्थः / तदित्यनेन बहवचनान्तमभिधानं नया इत्येतन्निर्दिशति, नया इति तु इतिशब्दः नया इत्यस्य पदार्थविपर्यासकृत, नया इत्यस्य शब्दस्य कः पदार्थः॥ ननु च कोऽर्थ इयता सिद्धः 1 तत्र पदार्थ इति पदग्रहणमतिरिच्यते ? / उच्यते-शब्दस्य हि सिद्धोऽर्थो वाच्यो गम्यश्च, यथा गुड इत्युक्ते द्रव्यं वाच्यम् , माधुर्यादयस्तु गम्याः, एवमिहापि वाच्योऽर्थो यः कश्चित् कादिरूपः शेषस्तु गम्य इति, तत्रेह वाच्यमर्थ पदग्रहणेन प्रश्नयति, पदस्यार्थो वाच्यः क इति, न तु गम्यमानम् , मरिराह-अत्रोच्यते-नयाः प्रापका इत्यादिना, कर्थः प्रदर्श्यते-नयन्त इति नयाः, सामान्यादिरूपेणार्थ प्रकाशयन्तीत्यर्थः / प्रापका इत्यनेन नयतेरन्तीतण्यर्थता ख्यायते, प्रापयन्ति आत्मनि तं तमर्थ स्वाभिमताभिरुपपत्तिपिरिति / कुर्वन्तीत्यादिभिस्तु 'बायः' इति ख-पाठः। २'तन्नया' इति व-पाठः, स एव च टीकाकारसम्मतः। Page #147 -------------------------------------------------------------------------- ________________ 121 सूत्र 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् नयतेरन्तरतापि शक्या कल्पयितुमित्येतद् दर्शयति-कुर्वन्ति तद् तद् विज्ञानमात्मन इति कारकाः, अपूर्व प्रादुर्भावयन्ति विज्ञानमितियावत् / तथा सिद्धिवचनोपायं साधयन्ति शोभनामन्योन्यव्यावृत्त्यात्मिकां विज्ञप्ति जनयन्त्यतः साधकाः / तथा वर्तमानार्थोऽपि निर्वर्तका इति निश्चितेन स्वेनाभिप्रायेणोत्पन्नाः तेऽध्यवसायविशेपा नाशमनासादयन्तो निर्वतका इति / तथा दीप्त्यर्थोऽप्ययम् / निर्भासकाः वस्त्वंशज्ञापनपरत्वात् / तथोपलब्ध्यर्थताऽप्यस्य उपलम्भका इति दर्शयत्यनेन, प्रतिविशिष्टक्षयोपशमापेक्षत्वात् तांस्तानर्थविशेषानत्यन्तसूक्ष्मानवगाहमानाः उपलम्भका इति / व्यञ्जनार्थोऽप्ययं व्यञ्जका इत्यनेन कथयति, व्यञ्जयन्तिस्पष्टयन्ति-स्फुटीकुर्वन्ति स्वाभिप्रायेण वस्तु, यथाऽऽत्मस्वभावे स्थापयन्तीत्यर्थः / एवमेते किश्चिद् भेदं प्रतिपन्ना अपि शब्दा भाष्यकारेणानन्तरमिति व्यपदिष्टा इत्यनर्थान्तरमिति // सकर्मकाणां प्राप्येण कर्मणा भवितव्यमिति दर्शयति भा०-जीवादीनू पदार्थान् नयन्ति प्राप्नुवन्ति कारयन्ति साधयन्ति निर्वतयन्ति निर्भासयन्ति उपलम्भयन्ति व्यञ्जयन्तीति नयाः // टी०-जीवादीन् पदार्थान् नयन्तीत्यादि / अत्र च णीजः प्रयोगो नयतेरर्थ इति जीवादीन शास्त्रप्रतिपाद्यान् सप्त पदार्थानित्यनेन वाच्यान् व्यपदिशति, न गम्यान् , तान् नयन्ति इति नयाः। नयन्तीत्यादिना च यः कर्ता दर्शितस्तमेवानन्यं क्रियातो दर्शयति, यतो नयाः नयन्त इत्यनेन कर्तुः प्राधान्यं क्रियायां गुणभाव इति कैश्चित् प्रतिपन्नं क्रियायाः प्राधान्यं कतुगुणभाव इति, इह तथा नात्यन्तिकः कतक्रिययोमैदोस्तीति, यतः स एव पदार्थः कर्तेत्येव व्यपदिश्यते स्वतन्त्रत्वात् , तथा स एव च साध्यात्मना वर्तमानः क्रियेत्याख्यायते, अतः कक्रिययोरनेनात्यन्तिकं भेदं निरस्यति-नयन्ति इत्यादिना // * नयशब्दार्थे निरूपिते चोदकोऽचूचुदत्भा०-अत्राह-किमेते तन्त्रान्तरीया वादिन आहोस्विद् स्वतन्त्रा एव चोदकपक्षग्राहिणो मतिभेदेन विप्रधाविता इति / अन्नोच्यते सा. नैते तन्त्रान्तरीयाः, नापि स्वतन्त्राः मतिभेदेन विप्रधाविताः / नान्तरता ज्ञेयस्य त्वर्थस्याध्यवसायान्तराण्येतानि / टी-य एते नैगमादयो वस्त्वंशपरिच्छेदव्यापृता नयाः किमेते तत्रान्तरीया इत्यादि, तन्यन्ते-विस्तार्यन्तेऽस्मिन्ननेन वा जीवादयः पदार्थाः तन्त्रं-जैनप्रवचनं तस्मादन्यत् काणभुजादिशास्त्रं तन्त्रान्तरं तस्मिन् भवाः कुशला वा तन्त्रान्तरीयाः / गहादित्वाच्छः / स्वशास्त्रसिद्धानानवश्यं वदन्तीति वादिनः, तत् किं वैशेपिसादयो वादिनो नया भण्यन्ते ? आहोस्वित् अथवेत्यस्य पक्षान्तरसूचकस्य निपातस्यार्थ प्रयुक्तः। स्वतन्त्रा एवेति / स्व-आत्मीयं तन्त्र-शास्त्रं येषां ते स्वतन्त्राः, स्वप्रधानाः जिनवचनमेव 1' तानासादयन्तो ' इति क-ख-पाठः / नयानामध्यवसा Page #148 -------------------------------------------------------------------------- ________________ 122 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 स्वबुद्धया विभजन्त एवमाहुः / चोदकपक्षग्राहिण इति / चोदको-दुरुक्तानुक्तादिसूचकस्तस्य पक्षो-विषयः तं चोदकपक्षं ग्रहीतुं शीलमेषामिति चोदकपक्षग्राहिणः मतिभेदोबुद्धिभेदस्तेन विप्रधाविताः,अयथार्थनिरूपका इतियावत् / एवं चोदयतोऽयमभिप्रायः-यद्ययं तन्त्रान्तरीयत्वमेषां दर्शयिष्यति नास्य वक्ष्यमाणो विप्रतिपत्तिदोष आपत्स्यते, अथ स्वतन्त्रा एवेति निश्चेष्यति तथा सति नैव स्वेच्छास्वतन्त्राणामभ्यनुज्ञातो वस्त्वंशोऽभ्युपेयो वस्तुभागश्च प्रोग्यः, यस्मादेकस्यापि पदस्यारोचनान्मिथ्यादर्शन मिति / एवंविधदोषोपचिक्षिप्सया चोदयति // अथ पक्षान्तरमाश्रयिष्यति तत्राप्यस्य सुखेन विप्रतिपत्तिदोषं चोदयिष्यामीति मत्वा प्रश्नयति, सूरिस्तूभयमप्येतत् परित्यजन् पक्षान्तरमाश्रयते अनोच्यते इति // नैते तन्त्रान्तरीयाः, नापि स्वतन्त्राः, किं तर्हि ? तदाह-ज्ञेयस्येत्यादि / विज्ञानगम्यस्य जीवादेः स्वसंवेद्यस्य वाच्यस्यार्थस्य घटपटादेः अध्यवसायान्तराणि विज्ञानभेदाः, आधिक्येनावसीयन्ते-परिच्छिद्यन्ते ततो येन सोऽध्यवसायः-प्रत्ययो विज्ञानम् अन्तराणीति भेदाख्यानम्, एतानीति नैगमादीनि पञ्च, एतत् कथितं भवति-वस्त्वेवानेकधर्मात्मकमनेकाकृतिना ज्ञानेन निरूप्यत इत्यतः स्वशास्त्रनिरूपणमेवेदम्, एतच्च दर्शयति भा०—तद्यथा-घट इत्युक्ते योऽसौ चेष्टाभिनिवृत्त ऊर्ध्वकुण्डलौष्ठायत__ वृत्तग्रीवोऽधस्तात् परिमण्डलो जलादीनामाहरणधारणसमर्थ नयावतारर उत्तरगुणनिर्वर्तनानिवृत्तो द्रव्यविशेषस्तस्मिन्नेकस्मिन् विशेषवति तजातीयेषु वा सर्वेष्वविशेषात् परिज्ञानं नैगमनयः॥ टी-तद्यथेत्यादिना / यथा ह्येते एकवस्तुविषया विज्ञानविशेषास्तथोदाहरणेन भावयति-घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते-योऽसाविति लोकसिद्धः, चेष्टाभिनिवृत्त इति धास्वर्थानुगतिमाविष्करोति, कुम्भकारचेष्टाभिनिवृत्तोऽर्थो निष्पन्नः / किमाकार इति चेद् 1 अत आह-ऊर्ध्वमित्यादि / ऊर्ध्वमुपरि कुण्डलौ वृत्तावोष्टौ यस्य आयता-दीर्घा वृत्ता-समपरिधिः ग्रीवा यस्य ऊर्ध्वकुण्डलौष्ठश्वासावायतवृत्तग्रीवश्चेति समानाधिकरणः, उपरि तावदेवमाकारः। अथ अधस्तात् किमाकार इत्यत आह-अधोभागे परिमण्डलः, समन्ताद् वृत्त इत्यर्थः / कस्य पुनः कार्यस्यासौ क्षम इत्याह-जलादीनामित्यादि / जलघृतक्षीरादीनामाहरणे-देशाद् देशान्तरसञ्चारणे समर्थः-शक्तः आनीतानां च धारणे प्रत्यलः। उत्तरेत्यादि / पाकजरक्तादिगुणपरिसमाप्त्या निष्पन्नद्रव्यविशेष इति / न द्रव्यं सामान्यमात्रं, किं तर्हि ? द्रव्यविशेषः, परमार्थे सति, वाचा न संवृत्तिसतीति, तस्मिन् एवमात्मके एकस्मिन् विशेषाः शुक्लपीतादयः कनकरजतादयः खण्डहुण्डादयो वा तद्वति सजातीयाः-तत्प्रकाराः व्यावर्णितघटप्रकाराः तेषु च सर्वेषु लोकप्रसिद्धेषु अविशेषात् अभेदेन परिज्ञानं-निश्चितावबोधः नैगमः देशसमग्रग्राही नैगम इति, पूर्वाभिहितलक्षणप्रपश्चोऽयं सामान्यविशेषवैचित्र्यप्रदर्शनार्थः // 1 'एवं च' इति ख-ग-पाठः / समयावतार: Page #149 -------------------------------------------------------------------------- ________________ 123 सूत्रं 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् .. अथ सङ्ग्रहः कथं घटमिच्छतीत्याह. भा०-एकस्मिन् वा बहुषु वा नामादिविशेषितेषु साम्प्रतातीतानागतेषु घटेषु सम्प्रत्ययः सङ्ग्रहः॥ ____टी. ---एकस्मिन्नित्यादि / एकस्मिन् घटे बहुषु घटेषु वा नामादिविशेषितेविति नामस्थापनाद्रव्यभावघटेष्वित्यर्थः। साम्प्रतेषु-वर्तमानेप्वतीतेषु-अतिक्रान्तेप्वनागतेषु-आगामिषु घटेषु यः सम्प्रत्ययः-सामान्यं घटो घट इति परिज्ञानं स सङ्ग्रहः, यस्मात् सामान्यमेव घटादिरूपेण निर्भासते, न सामान्यादन्ये विशेषाः सन्ति / व्यवहाराभिप्रायप्रकटनायाह भा०-तेष्वेव लौकिकपरीक्षकग्राह्येषूपचारगम्येषु यथास्थूलार्थेषु सम्प्रत्ययो व्यवहारः॥ ___टी-तेष्वित्यादि / एकद्विवहुत्वनामादिरूपेषु लोके विदिता लौकिकाः परीक्षकत्वेन ज्ञाताः लौकिकपरीक्षकाः-पर्यालोचकाः तेपां ग्राह्याः-आदेयाः जलाद्याहरणार्थ ये घटास्तेषु, उपचारगम्येष्विति लोकक्रियाधारेषु, यथास्थूलार्थेविति सूक्ष्मसामान्योरसजेनेषु, यतोऽस्य विशेषैरेव व्यवहारो भूयसा, न सामान्येनेति // ऋजुसूत्रनयमतं विवृणोतिभा०-तेष्वेव सत्सु साम्प्रतेषु सम्प्रत्ययः ऋजुसूत्रः॥ टी०–तेष्ववेत्यादि / घटेषु सत्सु-विद्यमानेषु वर्तमानसमयावधिकेषु सम्प्रत्ययः अजुसूत्र इति // अधुना साम्प्रताभिप्रायं निरूपयति. . भा०-तेप्वेव साम्प्रतेषु नामादीनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु सम्प्रत्ययः साम्प्रतः शब्दः // टी.-तेप्ववेत्यादि / ऋजुसूत्राभिप्रेतेषु वर्तमानकालाधिकेषु नामस्थापनाद्रव्यभावघटानां ये वाचकाः शब्दास्ते चान्यतमग्राहिणः, यस्माद् यस्य शब्दस्य नम्यमानः पदार्थों वाच्यो न तस्य स्थापना, यस्य वा स्थापना न तस्य द्रव्यं, यस्य द्रव्यं न तस्य भावः इत्यतो नामादीनां घटानां ये शब्दाः अन्यतमं-नामस्थापनादिकं गृह्णन्ति तेऽन्यतमग्राहिणस्तेषु शन्देषु उच्चारितेष्वन्यतमग्राहिषु यद् विज्ञानं स साम्प्रतः, ते शब्दा यदि प्रसिद्धाः पूर्व भवन्तिनिर्माताभिधेयसम्बन्धाः अस्येदं वाच्यमित्यनेन रूपेण, तथा गमका इत्येतदाह-प्रसिद्धपूर्वकेषु, प्रसिद्धः पूर्वो येषां प्रथमं सङ्केतस्ते प्रसिद्धपूर्वकास्तेषु नामादीनामन्यतमवाचकेषु सम्प्रत्यय इति // समभिरूढमतोद्विभावयिषया आह१' उच्च रितेषु ' इति ख-पाठः / Page #150 -------------------------------------------------------------------------- ________________ 124 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 मा०–तेषामेव साम्प्रतानामध्यवसायासक्रमो वितर्कध्यानवत् समभिरूढः॥ टी-तेषामेव घटानां सतां-विद्यमानानां वर्तमानकालावधिकानां सम्बन्धी योध्यवसायासक्रमः स समभिरूढः, अध्यवसायो-विज्ञानं तस्य विज्ञानस्योत्पादकत्वाभिधानमप्यध्यवसायस्तस्यासक्रमः-अन्यत्र वाच्येष्वप्रवृत्तिः, नहि घट इत्यस्याभिधानस्य कुटो वाच्यः, कुट इत्यस्य वा घट इति / अध्यवसायासक्रमं च दृष्टान्तेन भावयति-वितर्कध्यानवदिति / अन्यतमैकयोगानामेकत्वं वितकेमिति वक्ष्यति नवमेऽध्याये (सू०४१), वितक श्रुतं, वितर्कप्रधानं ध्यानं वितर्कध्यानं तद्वत् // नन्वाद्येऽपि शुक्लभेदे वितर्कप्रधानता समस्ति ? नैवम् , तत्र सङ्क्रमाभ्युपगमात् 'अविचारं द्वितीयम्' (अ०९,सू०४४) इति वचनात् एकत्ववितर्कपरिग्रह इति // एवम्भूताभिप्रायमाविष्करोतिभा०–तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थग्राहित्वमेवम्भूत इति // टी०--तेषामेवेत्यादि / तेषामेवानन्तरनयपरिगृहीतघटानां यौ व्यञ्जनार्थों तयोरन्योन्यापेक्षार्थग्राही योऽध्यवसायः स एवम्भूतः परमार्थः व्यञ्जनं वाचकः शब्दः, अर्थोऽभिधेयो वाच्यः / अथ का पुनरन्योन्यापेक्षा ?, यदि यथा व्यञ्जनं तथार्थो यथा चार्थस्तथा व्यञ्जनम् , एवं हि सति वाच्यवाचकसम्बन्धो घटते अन्यथा न, योग्यक्रियाविशिष्टमेव वस्तुस्वरूपं प्रतिपद्यत इति // एवं भाविते नयानामभिप्राये चोदकः स्वाभिप्रायमभिव्यनक्ति भा०-अत्राह-एवमिदानीमेकस्मिन्नर्थेऽध्यवसायनानात्वात् ननु विप्रतिपत्तिप्रसङ्ग इति / अनोच्यते टी-एवमिदानीमेकस्मिन्नित्यादिना भाष्येण / एवमिति यथा प्रतिपादितैरेकवस्तुनि परस्परविलक्षणैर्भेदैः, इदानीमित्येतत् पूर्वाभिहितनयवादकालापेक्षया प्रयुज्यते, एवमवस्थिते नयप्रस्थानेऽधुना इदमापनीपद्यते-एकस्मिन्नर्थे घटवस्तुनि, बहुष्वर्थेषु न दोषाशङ्काऽस्ति, प्रतिवस्तु नयप्रवृत्तेः, एकस्मिन् पुनरध्यवसायनानात्वाद् विज्ञानभेदात , ननुशब्दो मीमांसायां, मीमांसनीयमेतदेवं, विप्रतिपत्तिप्रसङ्ग इति, विरुद्धत्वप्रतीतिर्विप्रतिपत्तिस्तस्याः प्रसङ्गोऽनिष्टमितियावत् ,न ह्येकमेव वस्तु सामान्यं सत् पुनर्विशेषो भवति, त्रिकालिकः वर्तमानक्षणावधिको वा, नामादित्रयनिरासाद् वा भावमात्रं पर्यायशब्दानभिधेयो वा विशिष्टक्रियाविष्टो वा वस्तुविशेष इति, विरुद्धाः प्रतीतयः सकलाः प्रतीयन्त इति, न च विरुद्धप्रतीतिकः पदार्थो निश्चेतुं शक्यते, न चानिश्चयात्मकं तत्त्वज्ञानमित्याकुमारसिद्धिः / शास्त्रकारस्तु येनाभिप्रायेण ज्ञेयस्यार्थस्याध्यवसायान्तराण्येतानीत्युक्तवान् तं प्रचिकटयिषुराहअत्रांच्यते विप्रतिपत्तिपरिहारः १'त्रैकालिकः' इति ख-पाठः / Page #151 -------------------------------------------------------------------------- ________________ सूत्रं 35] स्वोपज्ञभाष्य-टीकालङ्कृतम् 125 सर्वस्यैकत्वादि . भा०-यथा सर्वमेकं सदविशेषात् / सर्व द्वित्वं जीवाजीवा वादि त्मकत्वात् / सर्व त्रित्वं द्रव्यगुणपर्यायावरोधात् / सर्व चतुप्रयं चतुर्दर्शनविषयावरोधात् / सर्वं पञ्चत्वं पश्चास्तिकायात्मकत्वात् / सर्व षट्कं षड्द्रव्यावरोधादिति / यथैता न विप्रतिपत्तयोऽथ चाध्यवसायस्थानान्तराज्येतानि, तन्मयवादा इति // टी०-यथेत्यादि / सकलं जगदनेकावयवात्मकमपि सत्तामात्रव्याप्तेरविशेषादेकमुच्यते / एकं च सद् द्विधा, जीवाजीवमात्रविवक्षावशात् / कथं पुनरेकसङ्ख्याव्यवच्छिन्नं सद् द्वित्वसङ्ख्यामा गोचरीभवति ?, न च काल्पनिकमेतत्, अंशसद्भावात्, तस्मान्नास्ति विरोधः, एवं नयेष्वप्यविरोधप्रतिपत्तिः साधीयसीति / तथा तदेवैकं त्रिधा, द्रव्यगुणपर्यायेषु सर्वस्यावरुद्धत्वाद्, गुणपर्यायाणामन्वयि द्रव्य, गुणा रूपादयः, पर्यायाः कपालादयः, सहभूत्वं क्रमभूत्वं चादाय भेदेनोपादानमिति / तथा तदेवैकं चतुर्धा, चक्षुर्दर्शनादिभिचतुर्भिः सर्वस्य विपयीकृतत्वात तन्मात्रता / तथा तदेव पञ्चस्वभावं निरूप्यते, पञ्चास्तिकायात्मकत्वात् , एतदाह-सर्व पञ्चत्वमस्तिकायावरोधात् , पश्चस्वभावं सर्वमिदं जगत्, पञ्चभिरस्तिकायैरवरुद्भूत्वात्, धर्माधर्माकाशजीवपुद्गलास्तिकायात्मकं यतः / तथा तदेव पञ्चस्वभावं पदस्वभावं, पद्रव्यसमन्वितत्वात्, तदाह-सर्व षट्कं षड्द्रव्यावरोधात्, सर्व पड्स्वभावं जगत्, कुतः ? पद्रव्यावरोधादिति / पड् द्रव्याणि कथम् ? उच्यते-पञ्च धर्मादीनि कालश्चेत्येक इति / यथा-येन प्रकारेण एताः एकद्वित्रिचतुःपञ्चषडात्मिका अवस्थाः एकत्र जगत्युपादीयमाना न विरुद्धाः प्रतिपतयो भवन्ति, अथ प ज्ञेयस्य जगतः अध्यवसायान्तराणि-परिच्छेदकारिविज्ञानान्येकादिरूपेण, तद्वत् तेन प्रकारेण नयानां वादा जल्पा अध्यवसायकृता न विरुध्यन्ते / एतत् कथयति-यो हि नाम यत्र वस्तुनि धर्मो न विद्यते स तत्र स्वेच्छयोपादीयमानस्तत्स्थेनापरेण धर्मेण विरोधं प्रतिपद्यते, यथाऽऽत्मनि अज्ञानिता उपादीयमाना ज्ञानरूपेणात्मस्थेन धर्मण विरुद्धा सती त्यज्यते, नैवं नयेषु, यथा वा व्योम्नि मूर्तता तत्स्थेनापरेणामूर्तेन धर्मेण विरुद्धा सती विप्रतिपत्तिरुच्यते, नैवं नयेषु, यतो वस्तु सामान्यविशेषधर्मसमन्वितं कश्चित् केनचिदाकारेण परिच्छिनत्ति / यदि ह्यसन्नेवासौ धर्मस्तेन नयेन तत्र वस्तुन्यध्यारोप्येत स्याद विप्रतिपत्तिप्रसङ्ग इति, न तु तथा / भा०-किंचान्यत् / यथा मतिज्ञानादिभिः पञ्चभिनिर्धर्मादीनामस्तिकापानामन्यतमोऽर्थः पृथक् पृथगुपलभ्यते, पर्यायविशुद्विविशेषादुत्कर्पण, न च तानि विप्रतिपत्तयो भवन्ति, तद्वन्नयवादाः // 1 'अस्तिकायावरोधात् ' इति घ-पाठः। २'ता' इति घ-पाठः। Page #152 -------------------------------------------------------------------------- ________________ 126 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ____टी-किश्चान्यदित्यनेनोपपत्त्यन्तरमप्यस्ति विप्रतिपत्तिदोषस्य परिहारार्थमिति दर्शयति-यथा मतिश्रुतावधिमनःपर्यायकेवलज्ञानैः पञ्चभिर्धर्माधर्माकाशजीवपुद्गलानामस्तिकायानामिति, अस्तीति-त्रैकालिकसत्तासंसूचको निपातः, अभूवन् भवन्ति भविष्यन्ति च यतोऽतः सूच्यन्तेऽस्तीत्यनेन, काय इत्यनेन प्रदेशावयवबहुत्वमाचष्टे, वक्ष्यति पञ्चमे असङ्ख्येयाः प्रदेशाः (अ०५,सू०७) इत्यादि, अतोऽस्ति च ते कायाचेति, तेषामन्यतमः अर्थ इति धर्मादिः, पृथक पृथगुपलभ्यत इति, अन्यथा चान्यथा च परिच्छिद्यत इत्यर्थः // ननु चैकस्वभावस्य धमोदेरस्तिकायस्य मत्यादिज्ञानरयुक्तोऽन्यथात्वेन परिच्छेद इत्येवं चोदिते आह-पर्यायविशुद्धीत्यादि / पयोया-भेदाः-विज्ञानस्वभावा मत्यादिरूपाः तेषां विशुद्धिः-स्वच्छता स्वावरणापगमजनिता तस्याः पर्यायविशुद्धेविशेषो-भेदस्तसात पर्यायविशुद्धिविशेषाद उत्कर्षेण-प्रकर्षेण तैर्मत्यादिभिस्तेषामस्तिकायानां पृथक पृथगुपलब्धिर्भवति, तद्यथा मतिज्ञानी मनुष्यपर्यायं वर्तमानं चक्षुरादिनेन्द्रियेण साक्षात परिच्छिनत्ति, तमेव च श्रुतज्ञानी आगमानुमानस्वभावेन, तमेवावधिज्ञानी अतीन्द्रियेण ज्ञानेन, तमेव मनःपर्यायज्ञानी तस्य मनुष्यपर्यायस्य यः प्रश्ने प्रवर्तते तद्गतानि मनोद्रव्याणि दृष्टया अनुमानेनैवतं मनुष्यपर्यायमवच्छिनत्ति, केवलज्ञानी पुनरत्यन्तविशुद्धेन केवलेनावबुध्यते / न चैता मत्यादिका विप्रतिपत्तयः-विरुद्धाः प्रतिपत्तयः, स्वसामर्थेन विषयपरिच्छेदात् , तद्वन्नयवादा इति किं नाश्रीयते / अथवा पर्यायविशुद्धिविशेषादुत्कर्षेणेत्यन्यथा वर्ण्यते, पर्यायाणां-क्रमभुवां मनुष्यादीनां जीवास्तिकायादिसम्बन्धिनां मत्यादिभिर्ज्ञानैः पृथक् पृथगुपलब्धिर्भवति, कथं ? प्रकर्पण, कस्मादिति चेत् ? उच्यते-विशुद्धिविशेषात् ज्ञानादीनां मत्यादीनां, यतो मतिज्ञानी मनुष्यादेर्जीवस्य काँश्चिदेव पर्यायान् परिच्छिनत्ति ततो बहुतरांश्च श्रुतज्ञानी जानीते, यतोऽभिहितं-" संखातीतेऽवि भवे" ( आव० नि० ) इन्यादि / श्रुतज्ञानिनोऽपि सकाशाद बहुतरानवधिज्ञानी पर्यवस्यति, विशुद्धिप्रकषोत् , ततो मनःपयोयज्ञानी, ततश्च सर्वात्मना केवलीति / न चैवमनेकधा परिच्छेदप्रवृत्ता मत्यादिका ज्ञानशक्तयो विप्रतिपत्तिव्यपदेशमनुवते,तद्वन्नयवादा इति किं नाभ्युपेयते?॥ उपपत्त्यन्तरमाह . भा०-यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणैरेप्रमाणार्थवत् तन्त्रा कोऽर्थः प्रमीयते. स्वविषयनियमात्, न च ता विप्रतिपत्तया भवन्ति, तद्वन्नयवादा इति // टी०-यथा वेत्यादिना / यथा वा गिरिगुहावस्थितोऽग्निरेकोऽनेकेन प्रत्यक्षादिना परिच्छिद्यते प्रमाणेन, सन्निकृष्टवर्तिना प्रत्यक्षेण, विप्रकृष्टवर्तिना लिङ्गज्ञानेन, अपरेणोपमया कनकपुञ्जपिञ्जरप्रकाशोऽनिरिति, अन्यः आप्तोपदेशादध्यवस्यत्यत्र वनगहनेऽग्निरिति, अत एवं प्रत्यक्षादिभिः प्रमाणैरेकोऽर्थः प्रमीयते, कुतः ? स्वविषयनियमात्, स्वः-आ 1 सल्यातीतानपि भवान् / न्तरता न Page #153 -------------------------------------------------------------------------- ________________ सूत्र 35] स्वोपज्ञभाष्य-टीकालङ्कृतम् 127 मीयो विषयो-ज्ञेयः स्वश्चासौ विषयश्च स्वविषयः तस्मिन्नियमात्-नियतत्वात् , यतः प्रत्यक्षादीनि स्वविषयमेव परिच्छिन्दन्ति, न च ताः-प्रत्यक्षादिका ज्ञानशक्तयः विरुद्धाःअयथात्मिकाः प्रतिपत्तय इति च युज्यतेऽभिधातुं, तद्वन्नयैरपि स्वविषयनियमानास्ति विप्रतिपत्तिप्रसङ्ग इति // सम्प्रति प्रक्रान्तनयलक्षणमुदाहरणं चादर्शितं संक्षिप्तरुचीनामनुग्रहार्थमार्याभिर्वक्तुकाम एवं प्रक्रमतेभा०--आह च नैगमशब्दार्थाना-मेकानेकार्थनयगमापेक्षः। नयकारिकाः देशसमग्रग्राही, व्यवहारी नैगमो ज्ञेयः ॥१॥-आर्या टी-आह चेत्यादि। आह चेत्यात्मानमेव पर्यायान्तरवर्तिनं निर्दिशति, निगमोजनपदस्तत्र भवाः नैगमाः-शब्दास्तेपाम् अर्थाः-अभिधेयाः अतस्तेषां नैगमशब्दार्थानामेको-विशेषः अनेकं-सामान्यम् अनेकव्यक्त्याश्रितत्वात् तावेव चार्थों एकानेकार्थों तयोरेकानेकार्थयोर्नयः-प्रकटनं प्रकाशनं एकानेकार्थनयः स एव गमः-प्रकारः एकानेकार्थनयगमस्तमपेक्षते अभ्युपैति यः स एकानेकार्थनयगमापेक्षः, पूर्ववाचोयुक्त्या पुनरमुमेवार्थमनुस्मरयन्नाह-देशेत्यादि / देशो--विशेषः समग्रं-सामान्य तयोराही-आ. अयिता, व्यवहारोऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यां अस्तीति व्यवहारी, नेगमो ज्ञातव्यः // 1 // सङ्ग्रहस्य स्मरणकारिकामाहभा०-यत् सङ्गहीतवचनं, सामान्ये देशतोऽथ च विशेषे। तत् सङ्ग्रहनयनियतं, ज्ञानं विद्यान्नयविधिज्ञः॥२॥ टी०-यत् सगृहीतेत्यादि / यदिति ज्ञानं सम्बध्यते, कीदृशं तदिति ? तत सङ्ग्रहीतवचनं सगृहीतं--सामान्यं वचनम् उच्यते तदिति वचनं, ज्ञेयमित्यर्थः / सङ्घहीतं वचनं यस्मिन् ज्ञाने, सामान्य ज्ञेयं यस्य ज्ञानस्येत्यर्थः, तज्ज्ञानं सगृहीतवचनं, तत् पुनरेवं ज्ञानं प्रवर्तते-सामान्ये-सत्तायां देश इति सामान्यविशेषे गोत्वादिके, अथ चेति अथवा विशेषे खण्डमुण्डादिके / एतेषु सर्वेषु सम्पिण्डनारूपेण प्रवर्तते यतः सामान्य विशेषो वा,न सत्तामन्तरेण कश्चिदस्तीत्येवं सम्पिण्डय यत् सत्तायां प्रक्षिपत् प्रवर्तते ज्ञानं तत् स पहनयनियतं तज्ज्ञानं सङ्ग्रहस्य नयस्य निश्चितमेवंस्वरूपं विद्यात्-जानीयात् नयविधिज्ञ इति नयभेदज्ञः // 2 // व्यवहाराभिप्रायानुस्मरणायाहभा०-समुदायव्यक्त्याकृति-सत्तासंज्ञादिनिश्चयापेक्षम् / लोकोपचारनियतं, व्यवहारं विस्तृतं विद्यात् // 3 // 1 'न युज्यते' इति क-ख-पाठः / 2 'देशतो विशेषाच्च' इति ख-पार्श्वलिखितपाठः। 3 तदिति चेत् ' इति क-पाठः। Page #154 -------------------------------------------------------------------------- ________________ 128 तस्वार्थाधिगमसूत्रम् [ अध्यायः / टी-समुदायेत्यादि / समुदायः-सङ्घातः व्यक्तिः-मनुष्य इति आकृतिःसंस्थानमवयवानां सत्ता-महासामान्यं संज्ञादयो-नामस्थापनाद्रव्यभावाः एषा समुदायादीनां निश्चयो-विशेषस्तमपेक्षते-अभ्युपैति यः स-समुदायव्यक्त्याकृतिसत्तासंज्ञादिनिश्चयापेक्षः / कथं निश्चयमेवापेक्षते न समुदायादीनीति ? उच्यते-नाहि समुदायस्त्रैलोक्यादिरूपः समुदायिनोऽन्तरेण कश्चिदप्यस्ति, न च व्यक्तिः सामान्यविशेपरूपा मनुष्य इत्यादिका मनुष्यानन्तरेणास्ति, न चाकार आकारवन्तमन्तरेणास्ति, न वा सत्ता सत्तावन्तमन्तरेणास्ति, न वा नामादयो नम्यमानादीनन्तरेण केचन सम्भवन्ति, अनुपलभ्यमानत्वाद् व्यवहाराकरणादित्यर्थः विशेषस्तु स्वप्रत्यक्ष इति, तस्मात् स एव सत्य इत्येवं समुदायादिनिश्चयापेक्षस्तं विद्यादिति सम्बन्धः / लोकोपचारनियतमिति / लोके उपचारः गिरिदह्यत इत्यादिकः, तस्मिन् लोकोपचारे नियतं-निष्पन्नं व्यवहारनयं विस्तृतमिति उपचरितानुपचरितार्थाश्रयणाद् विस्तीर्णमित्यर्थः, विद्याद्-अवबुध्येत // 3 // अजुसूत्रस्वभावमाहभा०–साम्प्रतविषयग्राहक-मृजुसूत्रनयं समासतो विद्याद् / विद्याद् यथार्थशब्द, विशेषितपदं तु शब्दनयम् // 4 // इति // ही०-साम्प्रतेत्यादि,साम्प्रतो-वर्तमानः विषयो-ज्ञेयस्तस्य ग्राहक, वर्तमानार्थाश्रयमित्यर्थः / समासत इति संक्षेपतः, यतो वर्तमानमात्मीयं नामादिकमित्यादिविशे. षणोपेतं, सङ्गच्छत्ययम् / उत्तरार्धेन शब्दस्वरूपमाह-विद्याद् यथार्थशब्दमिति / अनेन तु एवम्भूत इव प्रकाशितो लक्ष्यते, सर्वविशुद्धत्वात् तस्येति, यतः स एवमभ्युपैतियदाऽर्थश्चेष्टाप्रवृत्तस्तदा तत्र घट इत्यभिधानं प्रवयं, नान्यदिति / साम्प्रतसमभिरूढौ कसान्नामेडितावितिचेत् ? उच्यते-तावपि स्मारितावेव, यत आह-विशेषितपदं तु शब्दनयमिति, विशेषितपदमिति विशेषितज्ञानं, यतः साम्प्रतसमभिरूढयोरन्यादृशं ज्ञानं, नामादिषु प्रसिद्धपूर्वाच्छब्दादर्थे प्रतीतिः साम्प्रतः शब्दान्तरवाच्यश्चार्थः शब्दान्तरस नाभिधेयीभवतीत्येवं समभिरूढविज्ञानमिति, इतिः नयानुसरणपरिनिष्ठासूचकः // भा०-अनाह-अथ जीवो नोजीवः अजीवः नोअजीवः इत्याकारिते केन नयेन कोऽर्थः प्रतीयते ? इति। टी०- अत्राह परः-घटाद्यजीवपदार्थोद्देशेन नैगमादयो नया विभाजीवादौ नय. य विताः, सम्प्रति जीवपदार्थे विभावयन्नाह-अथ जीवो नोजीब इत्यादि / अथवा घटोदाहरणे विधिरेव केवलः प्रदर्शितः, अधुना विधिप्रतिषेधौ जीवे निरूपयति-अथेति प्रस्तुतानन्तयं द्योतयति, शुद्धपदे केवले आका. रिते-उद्दिष्टे उच्चरिते वा जीव इति, नोजीवः अजीव इति देशसर्वप्रतिषेधयुक्तयोर्वा 1. संज्ञादि निश्चयाः०' इति क-घ-पाठः, 'संज्ञाविनिश्चया.' इति ग-पाठः। २केले आदिष्टे ' इति / विचार क-ख-पाठः। Page #155 -------------------------------------------------------------------------- ________________ 129 सूत्रं 35] स्वोपज्ञभाष्य-टीकालङ्कृतम् जीवशब्दयोरुचरितयोः, नोअजीव इति प्रतिषेधद्वयसमन्विते जीवशब्दे उच्चरिते, केन नंगमादिना कोऽर्थः प्रतीयते ? मुरिराइ____ भा०-अत्रोच्यते-जीव इत्याकारिते नैगमदेशसङ्ग्रहव्यवहारर्जुसूत्रसाम्पतसमभिरूद्वैः पञ्चस्वपि गतिध्वन्यतमो जीव इति प्रतीयते / कस्मात् / एते हि नया जीवं प्रत्यौपशमिकादियुक्तभावग्राहिणः / नोजीव इत्यजीवद्रव्यं, जविस्य वा देशप्रदेशौ / अजीव इत्यजीवद्रव्यमेव / नोअजीव इति जीव एव, तस्य वा देशप्रदेशाविति // टी-शुद्धपदे जीव इत्याकारिते नैगमं समग्रग्राहिणं विहाय एवम्भूतं च शेपैर्देशनैगमादिभिः सर्वासु गतिषु वर्तमानोऽभ्युपगम्यते, तदाह-नैगमदशेत्यादि / नेगमेन देशग्राहिणा तथा व्यवहारेण-विशेषग्राहिणा ऋजुमूत्रेण वर्तमानवस्तुग्राहिणा साम्प्रतेन-वर्तमानभावग्राहिणा समभिरूढेन च-प्रतिशब्दं भिन्नार्थग्राहिणा, पञ्चस्वपीति नरकतिर्यामनुष्यदेवसिद्धिगतिषु, अन्यतम इति नरकादिगतिवर्ती जीवः प्राणी प्रतीयते, नाभावो नापि च भावान्तरम् / कस्मादिति चोदयति परः-किमत्रोपपत्तिरस्त्युत स्वेच्छया नैगमादयोऽभ्युपगच्छन्त्येवमिति ? / मूरिराह-अस्त्युपपत्तिः, तां च कथयति-एते हि नया इत्यादिना / एते नैगमादयो नया यस्मात् जीवं प्रति-जीवमङ्गीकृत्य, कीदृशं जीवमिच्छन्ति ? औपशमिकादिभिर्यो युक्तः स जीवः, औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकयुक्तः औपशमिकादियुक्तः, भाव इत्यर्थः। औपशमिकादियुक्तो योऽर्थः तं ग्रहीतुं शीलं येषां ते तद्ग्राहिणः / सर्वासु च नारकादिगतिषु अवश्यमापशमिकादीनां भावानां यः कश्चित् सम्भवति भावः, सिद्धिगतौ च यद्यप्यौपशमिकक्षायोपशमिकौदयिकाः न सन्ति, तथापि क्षायिकपारिणामिकौ सम्भवतः इत्यसावपि जीवः / नोजीव इत्युच्चरिते किं प्रतीयते तैर्नयः ? उच्यते--यदा नोशब्दः सर्वप्रतिषेधे वर्तते तदा ‘नयुक्तमवियुक्तं च ' इत्यनया कल्पनया वस्त्वन्तरमेव प्रतीयते, नाभावः, तच्चाजीवद्रव्यं पुद्गलादिकमित्यर्थः / यदा तु नोशब्दो देशप्रतिपेधकस्तदा देशस्यानिषिद्धत्वाज्जीवस्य देशश्चतुर्भागादिकः प्रदेशो वाऽत्यन्ताविभजनीय उच्यते नोजीव इत्यनेन, एतदाह-जीवस्य वा देशप्रदेशाविति / अजीव इतितूचरिते सर्वप्रतिषेधकत्वादफारस्य पर्युदासस्य वाऽऽश्रितत्वाजीवादन्यः अजीव इति अजीवद्रव्यमेव प्रतीयते पुद्गलादिकम् / नांअजीव इति पुनरभिहिते द्वयोरपि नोकाराकारयोः सर्वप्रतिषेधे यदा वृत्तिः आश्रिता तदा 'द्वौ प्रतिषेधौ प्रकृतं गमयतः' इति जीव इति प्रतीयते, यदा पुनरकारः सर्वनिषेधको नोशब्दश्च देशनिषेधको नोअजीव इत्याश्रीयते तदा नोनञोरपि कृतार्थतेवं स्याद यदि तस्य जीवस्य देशप्रदशौ गम्यते इत्यतो जीवस्य देशप्रदेशावत्र गम्येते, तदाह १'देशस्य ' इति ग-पाठः / 2' तस्याजावस् ' इति क-ख-ग-पाः / 17 Page #156 -------------------------------------------------------------------------- ________________ 130 तत्वार्थाधिगमसूत्रम् [ अध्यायः 1 तस्य वा देशप्रदेशाविति / एवं तावन्नैगमादयश्चतुर्यु जीव इत्यादिषु विकल्पेषु प्रवृत्ताः, एवम्भूतस्तु नैवं प्रतिपद्यते, कथं तीति चेदुच्यते भा०-एवम्भूतनयेन तु जीव इत्याकारिते भवस्थो जीवः प्रतीयते / कस्मात् / एष हि नयो जीवं प्रत्यौदयिकभावग्राहक एव / जीवतीति जीवः, प्राणिति प्राणान् धारयतीत्यर्थः। तच्च जीवनं सिद्धे न विद्यते, तस्माद् भवस्थ एव जीव इति / नोजीव इत्यजीवद्रव्यं सिद्धो वा / अजीव इत्यजीवद्रव्यमेव / नोअजीव इति भवस्थ एव जीव इति / टी-एवम्भूतेत्यादि / एवम्भूतनयेन जीव इत्युचरिते भवस्थो जीवः प्रतीयते, भवः-संसारश्चतुर्विधस्तस्मिन् स्थितो भवस्थः-संसारिजीवः प्रतीयते / कस्मात् सिद्धिस्थं त्यजतीति चेत् ? उच्यते-एष हीत्यादि, एवं यस्मादेवम्भूतनयो जीवं प्रत्येवं प्रवर्ततेय एव औदयिकेन गतिकषायादिस्वभावेनावस्थाविशेषेण युक्तस्तस्यैव ग्राहकः-तमेवौदयिकभावयुक्तं जीवमिच्छति, यतः शब्दार्थ एवमवस्थितो 'जीव प्राणधारणे' जीवतीति जीवः / किमुक्तं भवति ? प्राणितीति, 'अन प्राणने' इति वाऽस्यार्थे, जीव इत्यस्य च धातोः सकर्तृकत्वं कथयति प्राणान् धारयतीति / प्राणाः-इन्द्रियाणि, मनोवाक्कायास्त्रयः, प्राणापानौ एकः आयुश्च तान् धारयति न मुञ्चति यावत् तावदसौजीव इति मन्तव्यः, एतत् स्याद इन्द्रियादयः प्राणाः सिद्धेऽपि सन्ति, तन्न, सिद्धे हि सर्वकर्मापगमान्न सन्तीन्द्रियादयः प्राणा इत्येतदाह-तच्च जीवनमित्यादि / तदिति शब्दार्थतया जीव इत्यस्य जीवनं-प्राणधारणं सिद्धे-मोक्षप्राप्ते नास्ति, तस्माद् भवस्थ एव संसार्येव जीवः, न सिद्ध इति / तथा नोजीव इत्युच्चरिते नोशब्दः सर्वप्रतिषेधक एव, देशस्याभावात् , देश्येव देशो न वस्त्वन्तरं, न च देशिनो देशो भिन्न इत्यभिधातुं युक्तम् , यदि हि भिन्नः स्यात् नासो तस्य, भिन्नत्वाद् वस्त्वन्तरवत् , अथाभिन्नः देश्येव तद्यस्ति न कश्चिद् देशो नामेत्यतः सर्वप्रतिषेधको नोशब्दोऽतः नोजीव इत्युक्ते जीवादन्यद् वस्तु सम्पूर्ण परमाणुप्रभृति प्रतीयते, तदाह-नोजीव इति अजीवद्रव्यमेव सिद्धो वा, प्राणधारणस्याभावात् , सोऽपि निर्जीव एवेति, अतः सिद्धो वा गम्यते / अजीव इति तूचरिते अजीवद्रव्यमेव परमाण्वादिकं, सर्वप्रतिषेधकत्वादकारस्य प्रतीयते / नोअजीव इत्युक्ते 'प्रतिषेधौ द्वौ प्रकृतं गमयतः' इति भवस्थः-संसार्येव जीवो गम्यते // अथ कस्मानोजीव इत्यस्मिन् विकल्पे नोअजीव इत्यस्मिन् वा देशप्रदेशौ न गम्येते ? / उच्यते-देशप्रदेशयोरनभ्युपगमादनेन नयेनेति, एतदाह भा०–समग्रार्थग्राहित्वाचास्य नयस्य नानेन देशप्रदेशौ गृह्यते / एवं जीवौ जीवा इति द्वित्वबहुत्वाकारितेष्वपि, सर्वसङ्ग्रहणे तु जीवो, नोजीवः / १'एष स्यादेवंभूत ' इति क-ख पाठः। २'प्रत्येवं ' इति ख-पाठः, प्रतीत्येवं इति ग-पाठः / Page #157 -------------------------------------------------------------------------- ________________ सूत्र 35 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 131 अजीवो नोअजीवो जीवौ नोजीवा अजीवी नोअजीवौ इत्येकत्वद्वित्वाकारितेषु शून्यम् / कस्मात् // ___टी०-समग्रार्थेत्यादि / समग्रः-सम्पूर्णः अर्थो-वस्तु सम्पूर्ण वस्तु समग्रार्थः तं ग्रहीतुं शीलमस्य समग्रार्थग्राही, सम्पूर्णमेव हि वस्तु गृह्णातीत्ययं नयः, न देशं प्रदेशं वा, समग्रार्थग्राहिणोभावस्तथावर्तिता समग्रार्थग्राहित्वम् अतोनानेनैवम्भूतनयेन देशप्रदेशो स्थूलसूक्ष्मावयवात्मकौ गृह्यते / एवं तावञ्चत्वारो विकल्पा एकवचनेन दर्शिताः, यथा चैकवचनेन दर्शिताः एवं द्विवचनेन चत्वारो विकल्पा नेयाः, जीवौ 1 नोजीवौ 2 अजीवौ 3 नोअजीवी 4, तथा च बहुवचनेनापि चत्वार एव, जीवाः 1 नोजीवाः 2 अजीवाः 3 नोअजीवा 4 नेयाः, एकवचनप्रतिपत्त्येव, केवलं तु द्विवचन बहुवचनं वा विशेष इत्येतदाह एवं जीवा जीवा इति / इतिशब्द आद्यार्थः, द्वित्वबहुत्वाकारितेषु-द्विवचनबहुवचनाभ्यामुच्चारितेषु एवमेवाभ्युपगमो नैगमादीनाम् / / अथैतांश्चतुरो विकल्पान् सङ्ग्रहनयः कथमभ्युपैतीति? / उच्यतेसर्वसङ्ग्रहेणेत्यादि / सर्वसङ्ग्रहेण सामान्यवस्तुग्राहिणा एकवचनद्विवचनान्ता विकल्पा नाभ्युपगम्यन्ते, तांश्च विकल्पान् दर्शयति--जीवी नोजीव इत्यादिना / एकद्विवचनान्तेषञ्चरितेषु शून्यं भवतीति, नास्येवं काचित् प्रतिपत्तिरस्तीत्यर्थः। कस्मान्नास्तीति चेत् ? उच्यते___ भा...एष हि नयः सङ्ख्यानन्त्याज्जीवानां बहुतमेवेच्छति यथार्थग्राही / शंषास्तु नयाः जात्यपेक्षमेकस्मिन् बहुवचनत्वम् , बहुषु च बहुवचनं सर्वाकारितग्राहिण इति / एवं सर्वभावेषु नयवादानुगमः कार्यः / टी०----एष हीत्यादि / एपः-सङ्ग्रहो यस्मात् सङ्ख्याया जीवगताया आनन्त्यं प्रतिपद्यते, जीवानां पञ्चगतिवर्तिनां बहुत्वमेवेतिकृत्वा बहुवचनान्तानेव विकल्पान् समाश्रयते / अयं विशेपोऽनेन प्रतिपन्नो देशमङ्ग्रहव्यवहारादिभ्यः, भावना तु तद्वदेव, जीवा इत्युक्ते पञ्चस्वपि गतिषु वर्तमानानाश्रयति, नोजीवा इत्यजीवास्तेषां च देशप्रदेशानिति, अजीवा इति तु अजीवद्रव्याणि पुद्गला इति, नोअजीवा इति जीवानेव तेषां च देशप्रदेशानिति / अस्यैव बहुवचनान्ता प्रतिपत्तिः, शेषास्तु नैगमादयो नया एकद्विबहुवचनान्तानप्याश्रयन्ति एतान् विकल्पान् , यदा च जीवशब्दस्य एकोऽर्थो वाच्यो भवति तदैकत्वादेकवचनम् , यदापि च सामान्यं वाच्यं तदापि चैकत्वात् एकवचनप्राप्तौ सत्यां बहुवचनमन्विच्छन्ति नैगमादयः / कथमिति चेत् ? उच्यते-जात्यपेक्षं जातिः-सामान्यरूपा तामपेक्षतं यत् जान्यपेक्षं बहुवचनम् , एकस्मिन्नपि पदार्थेऽभिधेये "जात्याख्यायामेकस्मिन बहुवचनमन्यतरस्याम्" (पा०अ०१,पा०२,१०५८) इत्येनेन लक्षणेन / यदा पुनर्बहव एव अभिधेया जीवशब्दस्य प्राणिनस्तदा नैव बहुवचनं "जात्याग्व्यायामेकस्मिन बहुवचनमन्यतरस्याम्" उत्पादयन्ति, किन्तु लक्षणान्तरेण, तल्लक्षणं दर्शयति-"बहुपु चैव बहुवचनं भवति" 1 'न्यस्तं कस्मात्' इति क-ख-पाठः। 2 'नयवादाधिगमः' इति घ-पाठः Page #158 -------------------------------------------------------------------------- ________________ 132 तत्वार्थाधिगमसूत्रम् [ अध्यायः 1 इत्यनेन, अतः सङ्ग्रहो बहुवचनान्तानेव विकल्पानाश्रयति, शेषास्तु नया एकवचनबहुवचनान्तानप्याश्रयन्तीत्येतदाह-सर्वाकारितग्राहिण इति / सर्ववचनैरेकवचनादिभिराकारितानेतान् विकल्पान् गृहन्ति तच्छीलाश्च सर्वाकारितग्राहिण इति / सम्प्रति ग्रन्थगौरवं मन्यमान एकत्र च विकल्पानां दार्शतत्वादन्यत्र सुखेन ज्ञास्यतीत्येतदतिदिशति–एवं सर्वभावेष्वित्यादिना / सर्वभावेषु-सर्वार्थेषु धर्मास्तिकायादिषु नयवादानुगम इति नयवादेनानुगम-अनुसरणं-निभालनं कार्य तत्वान्वेषिणा पुंसा॥ एवं तावत् प्रमेयेण नयानां विचारः कृतः / सम्प्रति प्रमेयपरिच्छेदवे.प्रमाणेषु को नयः कथं प्रवर्तते इत्यस्मिन्नवसरे पर आह भा०-अत्राह-अथ पंञ्चानां सविपर्ययाणां कानि को नयः समाश्रयत इति ? / अत्रोच्यते टी--अथ पञ्चेत्यादि / अथेत्येतस्माद् विचारादनन्तरं पञ्चानां मत्यादीनां शानाज्ञानेषु ज्ञानानां ज्ञेयस्वतत्वतया ग्राहकाणां सविपर्ययाणामिति सह विपर्यनयविचार येण अज्ञानस्वभावेन यानि वर्तन्ते तेषां सविपर्ययाणां कानि मत्यादीनि को नयो नैगमादिः श्रयते-अभ्युपगच्छति ? / अत्रोच्यते भा०-नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते, ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवोनि षट् // ____टी०- नैगमादिनयास्त्रयः-नैगमसङ्ग्रहव्यवहाराः सर्वाणि निरवशेषाणि, कियन्तीति चेदुच्यते-अष्टी, मतिज्ञानं, मत्यज्ञानं, श्रुतज्ञानं, श्रुताज्ञानं, अवधिज्ञानं, विभङ्गज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानमष्टमम् / एतान्यष्टावपि यतोऽर्थ परिच्छिन्दन्ति, अतोऽभ्युपगच्छन्त्यष्टावपि / ऋजुसूत्रः पुनः षडेषां मध्ये श्रयते, मतिज्ञानमत्यज्ञानवर्जानि षट्, मति मत्यज्ञानं च नाभ्युपैति / ___ भा०-अत्राह-( अथ ) कस्मात् मतिं सविपर्ययां न श्रयत इति / अत्रोच्यते-श्रुतस्य सविपर्ययस्योपग्रहत्वात्, शब्दनयस्तु द्वे एव श्रुतज्ञान केवलज्ञाने श्रयते // टी-अत्राह-अथ कस्मात् मतिं सविपर्ययामिति मत्यज्ञानसहितामित्यर्थः न श्रयते नेच्छतीति ? / अत्रांच्यते-यस्मान्मतिमत्यज्ञाने श्रुतज्ञानस्य सविपर्ययस्येति श्रुताज्ञानसहितस्य उपग्रहं कुरुतः। कथमिति चेदुच्यते-यदेतदिन्द्रियजं चक्षु. रादिभ्य उपजातं तद् हि अवग्रहणमात्रेण प्रवर्तमानं न वस्तुनो निश्चयं कर्तुमलम् , यदा श्रुतज्ञानेनासावालोचितोऽर्थो भवति तदा यथावन्निश्चीयते इति, तस्मात् तदेवाभ्युपगन्तव्य श्रुतज्ञानं, किं मतिज्ञानेन ? इत्येवं श्रुतस्योपग्रहकरत्वात् न मतिज्ञानं सविपर्ययमाश्रीयते / शब्दनयस्तु भावार्थावलम्बी वे एव नान्यत् ताभ्यामित्युक्तम् , के ते ? उच्यतेश्रुतज्ञानालज्ञाने / अत्र शब्दमते परोऽसूयया ब्रूते Page #159 -------------------------------------------------------------------------- ________________ सूत्रं 35] स्वोपज्ञभाष्य-टीकालङ्कृतम् 133 भा०-अत्राह-अथ कस्मान्नेतराणि श्रयत इति ? / अत्रोच्यते-मत्यवधिमनःपर्यायाणां श्रुतस्यैवोपग्राहकत्वात् , चेतनाज्ञस्वाभाव्याच सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते / तस्मादपि विपर्ययान न श्रयत इति / अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति / / ___टी०-अथ करमान्नेतराणि मत्यादीनि श्रयते / अत्रोच्यते-मत्यवधिमनःपर्यापाणां श्रुतस्यैवागमानुरक्तस्य उपग्राहकत्वाद-उपकारकत्वात् , यतो मत्याद्यालोचितोऽर्थः न मत्यादिभिः शक्यः प्रतिपादयितुं मूकत्वान्मत्यादिज्ञानानाम् , अतस्तैरालोचितोप्यर्थः पुनरपि श्रुतज्ञानेनैवान्यस्मै स्वपरप्रत्यायकेन प्रतिपाद्यते, तस्मात् तदेवालम्बितुं युक्तं, नेतराणि / केवलज्ञानं तु यद्यपि मूकं तथाप्यशेषार्थपरिच्छेदात् प्रधानमितिकृत्वाऽवलम्व्यत एव, तथा विपर्ययं नाभ्युपैत्यस्मात् चेतनाज्ञस्वाभाव्याचेत्यादि, चेतना-जीवत्वं परिच्छेदकत्वसामान्यं गृह्यते, ज्ञ इत्यनेन तु विशेषपरिच्छेदिता ग्राह्या, तयोश्चेतनाज्ञयोः स्वाभाव्यं तथाभवनं तस्माचेतनाज्ञस्वाभाव्यात् सर्वजीवानां पृथिवीकायिकादीनां न विद्यते तेषां कश्चित् प्राणी मिथ्यादृष्टिः-अयथार्थपरिच्छेदी, सर्वे प्राणिनः स्वस्मिन् स्वस्मिन् विषये परिच्छेदकत्वेन प्रवर्तमानाः स्पर्श स्पर्श इत्येवं परिच्छिन्दन्ति रसं च रस इत्यादि, अज्ञो षा अज्ञानी वा, न कस्यचित् प्राणिनो ज्ञानमविद्यमान अस्य नयस्य मतेन / यथाऽभिहितम्'सव्वजीवाणंपि य णं अक्खरस्स अणंतो भागो निच्चुग्धाडितओ" (नन्दी० मू० 42), अत: सर्वे सम्यग्दृष्टयः सर्वे च ज्ञानिनः, अतो विपर्ययो नास्ति मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूप इति, अतः-अभावादेव विपययान् मत्यज्ञानादीन् नाश्रयते यतश्च छद्मस्थज्ञानानि सर्वाण्येव श्रुतेऽन्तर्भवन्ति, अतो यत् 'प्रत्यक्षमन्यत् ' (अ०१ सू०१२) इत्यस्मिन् सूत्रे प्रतिज्ञातं नगवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा पुरस्ताद्वक्ष्याम इति तदुपपन्नम् , अस्मिंश्योपपन्ने सर्वप्राणिनां सम्यग्दृष्टित्वात् ज्ञानित्वाच्च सर्वज्ञानानां प्रामाण्यम्, तदाह-अतश्च प्रत्यक्षानु. मानोपमानाप्सवचनानामपि प्रामाण्यमभ्युपगतं भवति / उक्तं चैपां प्राक् स्वरूपं प्रत्यक्षादीनां, प्रमाणनयविचारमनन्तरं सकलं चाध्यायार्थमुपसंहरन कारिकाः पपाठ--- भा०-आह च--- प्रध्यायार्थोपसंहारः विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च / विन्यस्य परिक्षेपात्, नयैः परीक्ष्याणि तत्त्वानि ॥१॥-आर्या ज्ञानं सविपर्यासं, त्रयः श्रयन्त्यादितो नयाः सर्वम् / सम्यग्दृष्टानं, मिथ्यादृष्टेर्विपर्यासः ॥२॥-आर्या ऋजुसूत्रः पटू श्रयते, मतेः श्रुतापग्रहादनन्यत्वात् / श्रुतकेवले तु शब्दः, श्रयते नान्यच्छ्ताङ्गत्वात् / / 3 ।।-आर्या 1 विपयेयो न धयत' इति ग-पाठः / 2 सर्वजीवानामपि चाक्षरस्यानन्तो भागो नित्योद्घाटितः / ३'श्रुतेन भवन्ति' इति ग-पाठः / Page #160 -------------------------------------------------------------------------- ________________ 134 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः मिथ्यादृष्टयज्ञाने, न अयते नास्य कश्चिदज्ञोऽस्ति / ज्ञस्वाभाव्याज्जीवो, मिथ्यादृष्टिने चाप्यस्ति // 4 ॥-आर्या इति नयवादाश्चित्राः, कचिद् विरुद्धा इवाथ च विशुद्धाः / लौकिकविषयातीताः, तत्त्वज्ञानार्थमधिगम्याः ॥५॥-आयो टी-आह चेत्यादि / विज्ञाय-ज्ञात्वा एकार्थानि पदानि जीवः प्राणी जन्तुरित्यादि, अर्थपदानि च निरुक्तपदानि परैरुक्षा-सम्बन्धनमुपक्रियेति परोक्षमित्यादीनि, विधान नामस्थापनादिकम् , इष्टं चेति निर्देशस्वामित्वादि सत्सङ्ख्यादीनि च, एतज्ज्ञात्वा ततो विन्यस्य नामादिभिः परिक्षेपात्-समन्तात् नयैः परीक्ष्याणि-मीमांस्यानि तत्त्वानिजीवादीनि सप्त // 1 // ज्ञान-मत्यादि सविपर्यासं-मत्यज्ञानादित्रयानुगतं नैगमादयस्त्रयः श्रयन्तिअभ्युपगच्छन्ति आदित-आदेरारभ्य नयाः-वस्त्वंशग्राहिणः सर्वम्-अष्टविधम् / कस्य पुनर्ज्ञानं कस्य च विपर्यासो भवतीत्येतदाह-सम्यग्दृष्टेः-अर्हदभिहिततत्त्वश्रद्धायिनः यदिन्द्रियजमनिन्द्रियजं च तत् सर्व ज्ञानं, मिथ्यादृष्टः सर्वमेव विपर्यासः॥२॥ ऋजुसूत्र उक्तस्वरूपः षट्-मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते, मतिं तु सविपर्यासां न श्रयते,अ(य)तः श्रुतस्य ग्रन्थारूषितस्य उपग्रहत्वात्-उपकारकत्वाद् उक्तेन विधिना, ततश्च श्रुतादनन्या मतिरतोऽनन्यत्वान्नाश्रयते / शब्दस्तु श्रुतज्ञानकेवलज्ञाने श्रयते, नान्यत्, किं कारणम् ? श्रुताङ्गत्वात् श्रुतस्य प्रतिविशिष्टबलाधानहेतुत्वादुक्तेन विधिना, शब्द एव नयः // 3 // मिथ्यादृष्टयज्ञाने, मिथ्यादृष्टम् अज्ञानं च अपरिच्छेदात्मकं न श्रयते, किं कारणम् ? यतो नास्य कश्चिदज्ञोऽस्ति नास्त्यस्य कश्चिदज्ञः शब्दस्य मतेन कश्चित् प्राणी / किं कारणमिति चेत् ? उच्यते-ज्ञस्वाभाव्यात् सर्वप्राणिनां ज्ञातृस्वरूपत्वाज्जीवो मिथ्या, दृष्टिर्नास्ति न चाप्यज्ञोऽस्ति // 4 // इति एवमनेनोक्तेन स्वरूपेण नयवादाः नैगमादिविचाराः चित्राः-बहुरूपाः, विचित्रैः प्रकारैर्वस्तुनः परिच्छेदित्वात् , ते चित्राः कचिद् विरुद्धाः कचिद् वस्त्वंशे रुचिगृहीते विरुद्धा इव लक्ष्यन्ते, यतः सामान्ये आश्रिते यस्तत्रैव विशेष कल्पयति तदा पूर्वापरेण विरुध्यते, विशेषे वा त्रैकालिकेऽभ्युपेते वर्तमानावधिके विशेष आश्रिते पूर्वः परेण विरुद्ध इति लक्ष्यते, एवं सर्वेष्वायोजनीयम् / एवं कचिद् विरुद्धा इव / अथवा सम्यगालोच्यमानाः विशुद्धाः, सामान्यादीनां धर्माणां सर्वेषां तत्र वस्तुनि भावात् // अथैवमेव लौकिकानामपि वैशेषिकादीनां वस्तुविचारणायां सम्पतन्त्युत नेति ? / उच्यते-न सम्पतन्ति, यदि सम्पतेयुजैनशासनवत् तान्यपि निरवद्यानि मतानि स्युः, नैव १.चाप्यज्ञः' इतिघ-पाठः / Page #161 -------------------------------------------------------------------------- ________________ सूत्र 35] स्वोपज्ञभाष्य-टीकालङ्कृतम् 135 सद तथा, एतदाह-लौकिकविषयातीताः लौकिकानां-वैशेषिकादीनां विषयाः-शास्त्राणि तान्यतीताः-अतिक्रान्ताः, न सन्ति तेष्वित्यर्थः // अथ यथा ते वैशेषिकादयो नालोचयन्त्येभिर्वस्तु तथाऽत्रापि किमाश्रयते उत नेति ? उच्यते-न तथा नालोचनीय वस्तु, किन्त्वालोचनीयमेवेति, एतदाह-तत्त्वज्ञानार्थमधिगम्याः तत्वं सद्रूपं सर्वदोषरहितं यज्ज्ञानं तत् तत्त्वज्ञानं तत्त्वज्ञानाय-तत्त्वज्ञानार्थ-तत्त्वज्ञानप्रयोजनार्थम् अधिगम्याः-- शेयाः / एतत् कथयति-समस्तनयसामग्र्या आलोच्यमानं वस्तु सुधियां प्रीतिमाधिनोति, अन्यथा यथावस्तु संवादो दुःखेनापाद्येत, यत एकनयमतावलम्बिनां वस्तुस्वरूपसम्पादने सामर्थ्याभावात् समग्रया नयविचारणया वस्तुस्वरूपप्रतिपादनं सुकरमवगतस्याद्वादसद्भावैरिति // 5 // 35 // ग्रन्थाग्रमङ्कतः 4359 इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचनसङ्ग्रहे भाष्यानुसारिण्या तत्त्वार्थटीकायां प्रथमोऽध्यायः // 1 // // इति प्रथमोऽध्यायः॥ Page #162 -------------------------------------------------------------------------- ________________ // श्रीगौडीपार्श्वनाथाय नमः // द्वितीयोऽध्यायः 2 .. भा०-अत्राह-उक्तं भवता जीवादीनि तत्वानीति, तत्र अध्यायसम्बन्ध को जीवः कथंलक्षणो वेति / अत्रोच्यतेटी०-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः, स चाध्यायप्रकरणसूत्रकृतविधा तत्राध्यायकृतस्तावत् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (अ० 1, सू० 1) इत्यव्यतिरिक्तकरणतयाऽऽत्मनः कतुस्ताद्रूप्येण निर्दिष्टानि मोक्षसाधनानि, अधुना तान्येवानेककर्मोपशमादिकारणकलापजन्यानि परिस्फुटविविक्तहेतुभाञ्जि प्रकाशयन्नाह-औएशमिक इत्यादि / तथाऽनुयोगद्वारप्रकरणप्रस्तावे निर्देशादिमूत्रव्याख्यायामुक्तम् , तद्यथा निर्देशः। को जीवः ? औपशमिकादिभावयुक्तो द्रव्यं जीवः, ते चामी जीवस्य औपशमिकादयो भावाः स्वतत्त्वेयत्ताभ्यामभिधीयन्ते-औपशमिक इत्यादि, तथा तत्त्वोद्देशः, तत्रादौ जीवपदार्थोपन्यासोऽकारि सूत्रकारेण, तत्स्वरूपावगमेच्छया च परः प्रश्नयति-को जीवः कथंलक्षणो वेति / किं पुनरत्र प्रयोजनं यदयमपहायाध्यायप्रकरणसम्बन्धी सूत्रकृतमेव सम्बन्धमाविश्वकार भाष्यकारः ? / उच्यते-स्वल्पवक्तव्यत्वात् , सम्बन्धानां चानेकरूपत्वाद अतो यत् किञ्चिद् घटमानकं सम्बन्धान्तरमुपादाय भाष्यकृत् कृती जायते, नैवावश्यमशेषसम्बन्धाभिधानमावर्तव्यमिति कचिनियमः, यच्च भाष्यकारोपात्तसूत्रसम्बन्धव्यतिरिक्तसम्बन्धद्वयप्रदर्शनमाविष्कृतं तदन्योपनिबन्धकारशैल्या न त्वपूर्वसम्बन्धोद्धट्टनेच्छयेति // नन्वौदायिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिका भावा इति क्रमसङ्ख्यानियमः प्रावचनोऽयं स एषः, किमर्थ परमर्षिप्रणीतप्रवचनन्यस्तक्रमसङ्ख्याभेदः सूत्रकारेणाकारि / अत्रोच्यते-क्रमभेदस्तावल्लाघवार्थमाश्रितः, कथम् ? औपशमिकभेदद्वयमधीत्य क्षायिकभेदपाठे चशब्दानुकृष्टौ च पूर्वको द्वावित्येवं नवभेदमवदत् क्षायिकम् , ननु प्रवचनक्रमे प्यौपशमिकक्षायिकावनन्तराविति न कश्चिद् विशेषः अस्ति, विशेषश्वशब्देन, किमनन्तरभेदद्वयाकर्षणमुतौदयिकैकविंशतिराकृष्यत इति सन्देहः, नन्वनन्तरभेदद्वयमेवाभिसम्भन्त्स्यते न व्यवहितम् , तदेतदेतावद् व्याख्यानमल्पधियः क्रशयन्ति गौरवं च जायते, तस्मादस्तु क्रमभेदः, अपिच-स्वल्पकालस्वामित्वादिविशेषादप्योपशमिकादियुज्यते क्रमः, आन्तौ हुर्तिकत्वादल्पकाल औपशमिकः, अल्पस्वामिकश्वायम् , यतो न खलु बहुविधाः प्राणिनः प्राप्नुवन्ति तादृशं परिणतिविशेषम् , नदनन्तरं क्षायिकः, तस्मात् सामान्यभेदत्वाद् बहुतरकालस्वामित्वाच, ततः क्षायोपमिको-बहुतरभेदकालस्वामित्वाच, ततः औ Page #163 -------------------------------------------------------------------------- ________________ सूत्रं 1 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 137 यिकः पूर्वस्वामिसाधर्म्यात् तदन्यकर्माश्रयत्वाच्च, ततः पारिणामिको महाविषयत्वादत्यन्तमेदाच पूर्वकेभ्य इति / सान्निपातिकोऽपि लाघवैषिणा पृथक नोपात्तः,मिश्रग्रहणादेव प्रतिलब्धः, यत एषामेवौपशमिकादीनां द्विकादिसंयोगेन सान्निपातिको निष्पद्यते पविंशतिविकल्पः, तत्रैकादश विरोधित्वादसम्भवतस्त्यक्ता विकल्पाः, पञ्चदशोपाताः प्रशमरतौ सम्भविनः, "पृष्ठव सान्निपातिक इत्यन्यः पञ्चदशभेदः" (प्रशम०प०१९७) इति वचनात् ,ते च विकल्पाः पञ्चदश औदयिकक्षायोपशमिकपारिणामिकास्त्रयोऽपि युगपदेकस्मिन् निपतन्ति जन्ती, नारकतियेमनुष्यदेवगतिभेदेन चैते चत्वारो विकल्पाः, तथौदायिकौपशमिकक्षायोपशमिकपारिणामिकाः कचिदकृतत्रिपुञ्जोपशमसम्यक्त्वसद्भावाद गतिभेदेनैव चत्वारो विकल्पाः, पुनरौदयिकक्षायिकक्षायोपशमिकपारिणामिकाः कचित् क्षायिकसद्भावात् श्रेणिकादिवद् गतिभेदतः, पुनश्चौदयिकोपशमिकक्षायिकक्षायोपशमिकपारिणामिकाः दर्शनसप्तकवर्ज समस्तमोहनीयोपशमाच्छेषकर्मक्षयोपशमादित्वे सति मनुष्यगतावेवोपशमश्रेणिसद्भावे सत्येको विकल्पः, तथा औदयिकक्षायिकपारिणामिका एक एव भङ्गः, केवलिनो मनुष्यत्वकैवल्यजीवत्वाप्तः, तथा क्षायिकपारिणामिकावेको भङ्गः, सिद्धे केवलसम्यक्त्वादिजीवत्वतः, पञ्चदश सान्निपातिका भावभेदाः पञ्चकचतुष्कत्रिकद्विकसंयोगनिष्पन्नाः चतुरादिगतिभेदैमिश्रग्रहणालब्धाः, मिश्रग्रहणेन च सान्निपातिकः संयोगमात्रं परिगृह्यते, न क्षयोपशमाविति, कृतसमासयोश्च पूर्वयोनिर्देश उत्पत्तिविगमकालसाम्यात् संहतोत्तर कारणत्वाच्च, औपशमिकक्षायिको हि संहितो मिश्रस्य कारणीभवतः, मिश्रे चासमासकरणं स्वामिबाहुल्यप्रतिपिपादयिपयाऽकारि, पूर्वभावद्वयवर्तिभ्यो जीवेभ्यो भूयिष्ठाः क्षायोपशमिकभावभाजः प्राणिनः, चरमयोः पृथकारण जीवाजीवसाधारणत्वख्यापनार्थम् , पूर्वकास्त्रयो जीवानामेव, इतरौ तु साधारणो, समासश्चावियोगप्रचिकाशयिपयाऽनयोद्वयोरपि / अत्र चाद्यास्त्रयो भावाः कर्मविधातापेक्षाः प्रादुःप्यन्ति, बहलरजोवितानविधाते सति तिग्मरश्मेर्दीधितिकलापोन तिवत् , स पुनर्विघातो द्विविधःस्ववीयांपेक्षो देशक्षयः कर्मणः सर्वक्षयश्च, कर्मव्यापारापेक्षश्चतु (इत्य?)र्थः, स्वोपात्त कर्मोदयात् गत्यादयो भावाः समुपजायन्त आत्मनः सुरापानजनितनेत्यादि विकारवत् , मदोद्रेकान्नत्यति हसति रोदति गायति क्रुध्यति च यथा शीलवानपि तथा गत्यादिकर्मोद्रेकाज्जीवस्तां तां विक्रियां प्रतिपद्यते गतिकपायादिकाम् / पारिणामिकस्तु निर्निमित्तः, स्वार्थे प्रत्ययविधानात् , परिणाम एव पारिणामिको राक्षसवदिति / / ___ अधुना भाष्यमनुस्रियते-अत्रेति / द्वितीयाध्यायावसरे शिष्य आह प्रथमाध्यायेऽभिहितं भवता जीवादीनि सप्त तत्त्वानि, तत्प्रतिपत्तिः सम्यक्त्वम् , इतिशब्दः शब्दपदार्थः, कः ? उक्तमात्रस्मरणात् तत्रंति तेषु तत्त्वेपु निर्धार्यताभादावुपन्यस्तो जीवः क इति विस्वरूपः, किंसतत्वः, किमसौ द्रव्यं, गुणः, कर्मेति सन्दिहानस्य प्रश्नः, कथंलक्षणां चति द्वितीयः, प्रश्नः कथमिति केन प्रकारेण किमनपायिना सता लक्षणेन सर्वास्ववस्थासु गम 'वृत्यादि ' इति क-ख-पाठः / Page #164 -------------------------------------------------------------------------- ________________ 138 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 केनाविनाभाविना हुताशन इवोष्णत्वेन लक्षयितव्यः, आहोस्विदपायभाजा व्यतिरिक्तेन धूमेनेव हुतभुगवबोद्धव्य इति पृच्छति-कथंलक्षणो वेति / लक्ष्यते अनेनेति लक्षणंलिङ्गमित्यर्थः, कथं लक्षणमस्येति कथंलक्षणः, वाशब्दश्चशब्दार्थे, को जीवः कथंलक्षणश्चेति, इतिशब्दः शिष्याभिप्रायेयत्ताप्रकाशनार्थः / एवं प्रश्नद्वयप्रदर्शने प्रबोधने सति आचार्य आहअत्रोच्यते इति / अत्रास्मिन् प्रश्नद्वयेऽपि भण्यते प्रतिवचनम् , तत्राद्यं प्रश्नमधिकृत्य मूरिः सूत्रमधिजगेसूत्रम्-औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौ. दयिकपारिणामिकौ च // 2-1 // भा०-औपशमिकः, क्षायिकः, क्षायोपशमिकः, औद. __ काद्या भेदाः यिकः, पारिणामिकः, इत्येते पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति // 1 // ____टी०-औपशमिक इत्यादि / समुदायार्थस्त्वयम्--औपशमिकादिभावयुक्तो द्रव्यं जीव इति कर्मगुणनिरासद्वारेण प्रतिपादयति / तत्रोपशमनमुपशमः--कर्मणोऽनुदयलक्षणावस्था भस्मपटलावच्छन्नाग्निवत् सः प्रयोजनमस्येत्यौपशमिकस्तेन वा निर्वृत्तः / तथा तदत्यन्तात्ययात् स क्षयः स प्रयोजनमस्य तेन वा निवृत्त इति क्षायिकः, भवनं भावः तेन पर्यायेण आत्मलाभः, कर्मण उपशमाद् यद् दर्शनं चरणं वा श्रद्धानलक्षणं विरतिलक्षणं वा तथोद्भवति तदोपशमिकशब्देनोच्यते, तथा क्षायिकशब्देन त एव दर्शनादिपर्यायाः श्रद्धानादिलक्षणाः शीर्णाशेपस्वविघातिकर्माशाः प्रतिपाद्यन्त आत्मनः स्वरूपतयेति, क्षयोपशमाभ्यां निवृत्तो मिश्रः दरविध्या(ताव)च्छन्नज्वलनवत् , कथं पुनः भाव्यते ? यदुदयावलिकाप्रविष्टं कर्म तत् क्षीणं शेषमनुद्रेकक्षयावस्थमिमामुभयीमवस्थामाश्रित्य मिश्रः . . प्रजायते / / ननु चायमेवौपशमिकान्न भिद्यते, यतस्तत्राप्युदितं क्षीणपशमिकयोभिन्नता स- मनुदितं चोपशान्तमिति / अत्रोच्यते-क्षयोपशमे ह्युदयोऽप्यस्ति, प्रदेश " तया कर्मणो वेदनानुज्ञानात् , न त्वसाविति विघाताय, अनुभावं पुनर्न तत्र वेदयते, उपशमे तु प्रदेशकापि नानुभवति मनागपि नोदयोऽयं विशेष इतियावत् / आगमवायम्-" से शृणं भंते ! णेरइयस्स वा तिरिक्खजोणियस्स वा मणुस्सस्स वा देवस्स वा जे कडे (पावे) कम्मे णत्थि णं तस्स अवेइत्ता मोक्खो ? हंता गोयमा० ! से केणटेणं भंते ! एवं बुच्चइ ? एवं खलु गोयमा! मए दुविहे कम्मे पन्नत्ते, तंजहा पदेसकम्मे अणुभावकम्मे य, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अनुभावकम्मं तं अत्थेगइयं 1-' सतत्त्वं' इति क-ख-पाठः / 2 अथ नूनं भदन्त | नरयिकस्य वा तिर्यग्योनिकस्य वा मनुष्यस्य वा देवस्य वा यत् कृतं (पापं ) कर्म नास्ति तस्यावेदित्वा मोक्षः ? / हन्त गौतम / तत् केनार्थेन भदन्त ! एवमुच्यते ? एवं खलु गौतम ! मया द्विविध कर्म प्राप्त, तद्यथा-प्रदेशकर्म अनुभागकर्म च / तत्र यत् तत् प्रदेशकर्म तद् नियमेन वेदयति, तत्र यत् तद् अनु. Page #165 -------------------------------------------------------------------------- ________________ सूत्र 1] स्वोपज्ञभाष्य-टीकालङ्कृतम् 139 एह अत्थेगइयं नो वेएइ, णायमेवं अरहता विण्णायमेयं अरहता-अयं जीवे इमं कम्म अज्झोवंगमियाए वेयणाए वेदिस्सति, अयं जीवे इमं कम्मं उवकमियाए वेयणाए वेदिस्सति अहाकम्मं अहाक(निग)रणं जहा जहा तं भगवया दिढे तहा तहा विपरिणमिस्सतीति से तेणं अटेणं गोयमा ! एवं वुच्चति" (भगवत्यां श०१, उ० 4, मू०४०) अतोऽस्ति विशेषः औपशमिकक्षायोपशमिकयोरिति / अत्रापि त एव दर्शनादिपर्यायाः श्रद्धानादिलक्षणाः प्रदेशकर्मोदययुजः क्षायोपशमिकशब्दवाच्या भवन्ति, चशब्दः समुच्चयार्थः, औपशमिकक्षायिको स्वतत्त्वं मिश्रश्च स्वतत्त्वमिति / जीवस्येति कर्तृलक्षणा षष्ठी, जीवत्यैवैते त्रयो भावाः, नान्यस्य स्तम्भकुम्भादेः, वक्ष्यमाणदर्शनादिकलापानुपलब्धेः, इह च जीवशब्द आत्मपर्यायः शुद्धो गृह्यते, नायुःप्राणसम्बन्धोद्भासितो जीवनाजीव इति, मुक्तानां तदनभिसम्बन्धात् / अथवा द्रव्यभावप्राणसामान्याङ्गीकरणे सति प्रतिविशिष्टसम्बन्धापेक्षः शब्दो भवत्येव जीवनाज्जीवः, संसारिणः द्रव्यप्राणाः पश्चेन्द्रियादयः, सिद्धानां भावप्राणाः ज्ञानोपयोगादय इति / स्वतत्त्वमित्ययं स्वशब्द आत्मात्मीयादिषु प्रसिद्धः, तत्रात्मनि वर्तमानोऽ ङ्गीक्रियते, तत्वशब्दो भावाभिधायी, ततश्चायं समुदायार्थः-जीवस्यायमात्मा भावः जीवस्यायमात्मस्वरूपभवनम् , एवमौपशमिकादिरूपेणात्मनैव स तथा भवतीति, अव्यतिरेकलक्षणा चेयं कर्तुरनन्तरं षष्ठी, स्वतत्त्वं च पदार्थानामनध्यारोपितमनपोदितं च भवति, सर्वदा जीवश्चेतनालक्षण इति नाध्यारोपितं, नापोदितं किंचित्, चेतनायाः सुखदुःखादिसाधारणसंवेदनलक्षणायाः प्रति स्वं प्राणिविशेषप्रतिसंवेद्यत्वात्, तत्राध्यारोपो विभुनिरवयवनिष्क्रियादिधर्मकत्वेन, अपवादो नास्त्यात्मा न प्रमाणविषयो.न च त्वकपर्यन्तशरीरसम्बन्धीति, स्वानुभव विरुद्धत्वात् , अध्यारोपे चाप्रमाणकत्वात् , यदेव प्रत्यात्मप्रसिद्धं तदेवास्य लक्षणम, वक्ष्यति च द्वितीयप्रश्नमधिकृत्य कथंलक्षणो वेति, 'उपयोगोलक्षणं' (अ०२, मु०८) इति, चेतनाविशेपलक्षितस्य च कर्मोदयाद्यपेक्षाणि भावान्तराण्यधिकृत्य को जीव इत्यत्र प्रश्ने प्रतिपत्तिराहिता आत्मनः, एकरूपमपि चैतन्यस्वतत्त्वं कर्मक्षयोपशमायवस्थाविशेषनिमित्ताद्वयपदेशाद्भावेयत्तानियमं प्रतिपद्यते, उपलक्षणभूताश्चैते प्रायः कर्मापेक्षत्वाद् भवन्ति स्वतत्त्वं, यथा चक्षुारकज्ञानविषयो रूपमिति, उपयोगः पुनः स्वतत्वं यथा मृती रूपमिति, तथा चाग्नेरुष्णत्वरच्चैतन्यलक्षणमहेयमात्मनः, तस्यैवाग्नेधूमवदौपशमिकादि प्रायो हेयमुपलक्षणमिति / कर्मविपाकाविर्भाव उदयः तत्प्रयोजनस्तनिवृत्तो शा औदयिको भावः / तद्यथा-नरकगतिनामकर्मोदयानरकगतिरौदयिकोऽभिधीयते भावः, कपायमोहनीयोदयाच क्रोधी मानीत्याद्यौदयिकः, सर्वत्रैवं वासनाऽऽधेया, यद यत्र भागकर्म तदस्त्येककं वेदयति, अस्त्येकक नो वेदयति, ज्ञातमेतदहता, विज्ञातमेतदर्हता-अयं जीव इदं कर्म आभ्युपगमिक्या वेदनया वेदयिष्यति / अयं जीव इदं कर्म औपक्रमिक्या वेदनया वेदयिष्यति, यथाकर्म यथानिकरणं स्था यथा भगवता दृष्ट तथा तथा विपरिणस्यति इति तत् तेनार्थन गौतम / एवमुच्यते / 'अल्झोद गमियाए ' इति ग-टी-पाठः। 2 'निमित्ताद्यपदेशात् ' इति ग-टी-पाठः। Page #166 -------------------------------------------------------------------------- ________________ 140 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 मरकगतिनाम विपकं सदौदयिकशब्देनोच्यते कषायमोहनीयं च विपकं क्रोधादि तत् कथं जीवस्य स्वतत्त्वं स्यात्? यतः कर्म पौगलिकं मूर्तमचेतनं,आत्मस्वभावस्तु तद्विपरीत इति। उच्यतेननूक्तमेव प्राय उपलक्षणभूताश्चैते प्रायः पार्थक्येनापि वर्तमाना धूमवदग्नेरात्मनो भावाः गमका भवन्ति हेयाश्च, अथवा य एते गत्याद्याः परिणामविशेषाः स जीव एव कर्मावष्टम्भजनितपरिणामानन्यत्वात् , अन्योऽन्यानुगतौ सत्यामविभागात् , तदात्मकत्वमुदकदुग्धयोरिवात्मकमणोः, अतः स्वतत्त्वमात्मनो गत्यादयः, सैव हि चेतनाऽनपायिनी कर्ममलदिग्धाऽनेकावस्थान्तरावस्कन्दिनी तथा व्यपदिश्यते इति न दोषः / कश्चिदाढौकते-परिणाम एव हि पारिणामिक इति स्वार्थे प्रत्ययो न प्रयोजननिर्वृत्त्योः, किं कारणम् ? आदिमत्त्वप्रसङ्गाजीवभव्याभव्यत्वादेः, यदि परिणामः प्रयोजनमस्येति व्युत्पत्तिः पारिणामिको जीव इति ततः प्रागवस्थायां नाभूजीव इति, युक्त्यागमाभ्यां चैष पक्षो विरुध्यते, एवं निर्वृत्यर्थेऽपि प्रागनिर्वृत्तौ निर्व]त, स एव दोषः, तथा भव्याभव्यत्वादिष्वपि योज्यम् / युक्तिविरोधस्तावत् कथमसन् खरविषाणकल्प आत्मोत्तरकालं सम्भवेत् ? / आगमश्चायम्-"एस ण भंते! जीवे तीतमणंतं सासयं समयं भवतीति वत्तव्वं सिया? हंता गोयमा! एस. णं भंते ! जीवे पहुप्पणं सासयं समयं भवतीति वत्तव्वं सिया ? हंता गोयमा ! एस णं जीवे अणागयमणंतं सासतं समयं भविस्ततीति वत्तव्वं सिया ? हंता गोयमा" (भगवत्यां श०१४, उ०४,सू०५११) तस्माद् युक्त्यागमविरोधौ मा भूतामिति / परिणाम एव हि पारिणामिक इति स्वार्थे प्रत्ययो न प्रयोजननिवृत्योः, किं कारणम् ? आदिमत्त्वप्रसङ्गात पारिणामिकोऽनादिप्रसिद्धः सकलपर्यायराशेः प्रहतामभिमुखतां प्रतिपद्यमानोऽशेषभावाधारतां विभतीति नामुना विना कस्यचिद् भावस्य निष्पत्तिः, अतश्च प्राधान्यमस्यैव भावानां मध्ययिति / पारिणामिकशब्देन च द्रव्यभावप्राणावस्थाख्यः परिणाम उच्यते, तथा सेधनयोग्यः परिणामो भव्यः, अभव्यस्तु न कदाचित् सेधनयोग्यः परिणाम इति / सूत्रपर्यन्तवर्ती चशब्दः समुच्चये, औपशमिकादयो भावाः जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च स्वतत्त्वमिति भावानां पर्यन्ते च वृत्तावितिशब्दोऽर्थपदार्थः; क एते औपशमिकाद्यर्थाः पञ्च भावाः ? जीवस्य स्वतत्त्वं भवन्ति, विनाऽप्येवकारेण सङ्ख्याशब्दोपादानादवधृतिर्गम्यते पश्चैवाऽन्यूनाधिका भावाः पर्यायाः जीवस्य स्वतत्त्वमुपलक्षणद्वारेण भूयसा भवन्ति / एते च सर्वजीवेषु सर्वदा साकल्येन न भवन्तीत्युपलक्षणमात्रमतो द्रष्टव्याः। एवमौपशमिकादिभावयुक्तो द्रव्यं जीवः सङ्कोचविकासस्वभावो लोकाकाशप्रदेशमाना 1 एष भदन्त ! जीवः अतीतेऽनन्ते शाश्वते समये भवतीति वक्तव्यं स्यात् ? हन्त गौतम !, एष भदन्त / जीवः प्रत्युत्पन्ने शाश्वते समये भवतीति वक्तव्यं स्यात् ? हन्त गौतम 1, एष जीव अनागतेऽनन्ते शाश्वते समये भविष्यतीति वक्तव्यं स्यात् / हन्त गौतम | २'नीयमाणं' इति ग-टी-पाठः। ३'भुवीति' इति ग-टी-पाः। 4 'सासयं' इति ग-टी-पाठः। Page #167 -------------------------------------------------------------------------- ________________ 141 सूत्र 2] स्वोपज्ञभाष्य-टीकालङ्कृतम् संख्येयप्रदेशोऽपि प्रदीपवदाश्रयमात्रावभासी प्रमाणत्वात् अमूर्तेभ्योऽप्याकाशादिभ्यो भिन्नजातीय इति // 1 // ___एवमेते जीवस्य स्वनिमित्ताः कर्मक्षयात्रस्थानिमित्ताश्च भावा मूलभेदतो व्याख्याताः / अधुनेषां प्रत्येक सम्भविनो भेदाः प्रतायन्ते, यथैव निमित्तान्तरादविलक्षणस्यापि जीवस्य भावानां पञ्चत्वं तथा पश्चानामपि पृथक पृथक् निमित्तापेक्षा भेदा भवन्ति, ते चाभी सूत्रम्-दिनवाटादशैकविंशतित्रिभेदा यथाक्रमम् // 2-2 // भा०-एते औपशमिकादयः पञ्च भावाः द्विनवाष्टादशैकविंशतित्रिऔपशामिकादीनां भेदा भवन्ति / यथा औपशमिको विभेदः। क्षायिको भेदसंख्या नवभेदः / क्षायिकोपशमिकोऽष्टादशभेदः / औदयिक एकविंशतिभेदः / पारिणामिकस्त्रिभेद इति / यथाक्रममिति येन सूत्रक्रमेणात ऊर्ध्व पक्ष्यामः // 2 // टी-द्विनवाष्टादशेत्यादि सूत्रम्, द्वौ च नव चेत्यादि द्वन्द्वः, पश्चाद् बहुव्रीहिः, द्विनवाष्टादशैकविंशतित्रयो भेदा येषां ते विनवाष्टादशैकविंशतित्रिभेदा औपशमिकादयः, प्रागुपन्यस्तसूत्रानुपूर्वीपेक्षं यथाक्रमग्रहणम् / एतच्च व्यतिकरदोषनिवृपए) मा भूत् पञ्चानामेकस्यैते भेदाः, समस्तानां वा एतावन्त एव, किन्तु एकैकस्य भावस्य वक्ष्यमाणाः सम्यक्त्वचारित्रे इत्यादयो यथा स्युरिति यथाक्रमग्रहणम् / इह केचिद् विद्वांसः संसारस्थानामिति वाक्यशेषमधीयते सिद्धव्यावृत्त्यर्थ, न किलेते न्यादिमिन्नास्तेषु सम्भवन्ति भावाः, एकरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , तत्र हि यथासम्भवं ग्रहीष्यन्ते, नावश्यं सर्वैः स्वभेदैः सर्वत्र भवितव्यम् , यथा संसारिणामपि मिथ्यादृष्टीनां न कदाचिदौपशमिकक्षायिको भनतः, अभव्यानां वा, तथा सिद्धेष्वपि यथासम्भवग्रहणमिति न किञ्चिद्वाक्यशेषेण / तथैवंरूपः पारिणामिक एव सम्भवति, तदेतदयुक्तम् , यस्मात् क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानैः आत्यन्तिकैः स युक्तोऽतिनिद्वन्द्वेनापि च सुखेन, ज्ञानादयस्तु भावप्राणाः, मुक्तोऽपि जीवति स तैर्हि, तस्माज्जीवत्वं नित्यं सर्वस्य जीवस्येत्येवमादयः पारिणामिका अपि भावाः सन्ति, न परिणाम एवेत्यवधृतिः // सम्प्रति भाष्याक्षराणि विवियन्ते-एत इति प्रत्यक्षासन्नवाचिना सर्वनाम्नाऽनन्तरसूत्रनिर्दिष्टान् भावानभिमुखीकरोति, औपशमिकाद्य इति प्रतिविशिष्टं क्रममाचष्टे, भावा इति भवनलक्षणा जन्तोः परिणतिविशेषाः, पञ्चेति सङ्ख्ययाऽवधारणं तेषाम् , एतावता भाष्येणानूध पूर्वकमर्थमधुना भेदान् विधत्ते द्विनवेत्यादिना / इदं च सूत्रमेकमेवाचार्येण खण्डीकृत्याधीतम्, न पुनर्विवरणमस्य, कुत एतद् भवतीति ? मूत्रमध्ये उच्चार 'क्षायोपशमिक' इति घ-पाठः / 2 'संसारस्थायिनाम् ' इति ग-टी-पाठः / 3 'वाक्यशेषमभिदधत' पचितं प्रतिभाति / Page #168 -------------------------------------------------------------------------- ________________ 142 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 णाद विभक्त्यश्रवणाच घ्यादिषु निश्चीयते, पुनः सूत्रपाठे तर्हि किं प्रयोजनम् ? एतावल्लक्ष्यतेपूर्व सूत्रार्थमनूद्य यथाक्रमं सूत्रं सम्बन्धयति-औपशमिको विभेद इत्यादि। विवरण सुगमम् / पारिणामिकस्त्रिभेद इति, अयमितिशब्द आदिशब्दार्थे, शेषपारिणामिकभेदसङ्: ग्रहार्थम् , यथाक्रममिति, अत्रेतिशब्दः शब्दपदार्थकः; अनेन शब्देनायमर्थः प्रत्याय्यते, येन सूत्रक्रमेणात ऊर्ध्व वक्ष्यामः, येनेति वक्ष्यमाणेन सम्यक्त्वचारित्रे इत्यादिना अस्मात् सूत्रादुपरिष्टात् भणिष्यामः तेन क्रमेण यथाक्रममौपशमिकादयो द्रष्टव्याः / वाक्यान्तरेण प्रकृतार्थनिगमनमादर्शितम् , वाक्यान्तरनिरूपणं च व्याख्यायाः प्रधानाङ्गमिति सङ्ख्यानमात्रश्रवणादुद्देशस्त्रमिदं, न तु भेदनिर्देशः // 2 // सम्प्रति संख्येयान् भावविशेषान् निर्दिशति; औपशमिकस्य तावत् त्रक्रमप्रामाण्यात् भेदद्वयं प्रतिपिपादयिषुराह सूत्रम्-सम्यक्त्वचारित्रे // 2-3 // ___भा०–सम्यक्त्वं चारित्रं:च द्वावापशमिको भावौ भवत मेकस्य इति // 3 // टी-सम्यक्त्वचारित्रे सम्यक्त्वमुक्तं प्रथमेऽध्याये लक्षणविधानाभ्याम् , चारित्रं नवमे वक्ष्यते / एतदुभयमपि सिद्धं गृहीत्वा इहौपशमिकभावो नियम्यते, सम्यक्त्वचारित्रे त्वनियते क्षायिकक्षायोपशमिकयोरपि भवतः, औपशमिकभावस्तु द्वयमिदमपहाय न भेदान्तरमवरुणद्धि, अयं च नियमो द्विनवाष्टादिसूत्रारम्भ सामर्थ्याल्लभ्यते, औपशमिको द्विभेद एवेति गम्यते, सङ्ख्याशब्दोपादानेऽप्येवकारेण तद्यथेत्यादिभाष्ये अनन्तरसूत्रनिर्दिष्टं द्विभेदत्वमौपशमिकस्य तदधुना यथा भवति तथा प्रकाश्यते-सम्यक्त्वचारित्रे चेति, तत्त्वरुचिः सम्यक्त्वम्, सदसत्क्रियाप्रवृत्तिनिवृत्तिलक्षणं चारित्रम्, चशब्दः समुच्चये, एतदुभयमपि इष्टनियमप्रदर्शनार्थम् , द्वाविति सङ्ख्योपादानम् , स च प्रकटीकृत एव प्राक् / औपशमिकावित्यनेन नियम्य पदार्थ दर्शयति-भावाविति / सम्यक्त्वचारित्रयोरात्मपर्यायत्वं दर्शयति-भवत इति / श्रद्धानचरणक्रिययोः क्रियावतः सकाशादनन्यत्वमाह, अतः समुदायार्थोऽयम्-सम्यक्त्वचारित्रे द्वे एव ओपश मिको भावो भवति, नान्यथेति // 3 // अथ क्षायिको नवभेद उद्दिष्टः सोऽधुना निर्दिश्यतेसूत्रम्-ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च // 2-4 // क्षायिकस्य नव भा०-ज्ञानं,दर्शनं, दान, लाभः, भोगः, उपभोगः, वीर्यमिभेदाः त्येतानि सम्यक्त्वचारित्रे च नव क्षायिका भावा भवन्तीति // 4 // Page #169 -------------------------------------------------------------------------- ________________ सूत्रं 4 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् . टी-ज्ञानदर्शनेत्यादि सूत्रम् / कृतद्वन्द्वानां निर्देशः, चशब्दोऽनन्तरद्वयानुकर्षणार्थः सूत्रोक्ताः सप्त च द्वौ चशब्दानुक्रष्टावित्येवं नव भेदाः // ननु च सिद्धत्वमपि क्षायिको भावः, स चेह न निर्दिष्टः मरिणा, कोऽभिप्राय इति ? / उच्यते-कर्माष्टकैकदेशक्षयादेते शायिकाः सूत्रेण प्रतिवद्धाः, सिद्धत्वं तु सकलकर्मक्षयजं भवप्रपञ्चपरिवर्ति परां विशुद्विकाष्ठामितं परमक्षायिकं कालस्वभावभेदात् मुक्तकाल एव सर्वकर्माभावस्वभाव इत्यतो न प्रतिबद्धम्, ज्ञानादयस्तु संसृतौ मुक्तौ च केचित् सम्भवन्तीति विशेषप्रतिपादनार्थमग्रहणं सिद्धत्वस्येति / कथं पुनरयमाचार्याभिप्रायो गम्यते ? / उच्यते वक्ष्यति हि दशमे 'औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः' (अ०१०,०४) इति, तन्न खलु विस्मृत इहाचार्यस्यायं सिद्धत्वलक्षणो भावः, किन्तु मोक्षकाष्ठा परासाविति तत्रैवोपादास्यामहे-मोक्षाधिकार एव पठिष्यामः इत्यमुनाऽभिप्रायेण नेहाधीतः, ये पुनः कर्माष्टकैकदेशक्षयात् जातास्त इहावध्रियन्ते नवेत्यदोषः॥ __भाष्याक्षराण्यधुनाऽनुगम्यन्ते-ज्ञानमिति केवलं सकलज्ञेयग्राहि समस्तज्ञानावरणक्षयप्रभवं परिगृह्यते, न शेपमसम्भवात् , दर्शनमपि केवलाख्यमशेपदर्शनावरणीयक्षयसमुद्भूतसुपात्तम्, न शेष चक्षुराद्यसम्भवात, दानमिति वक्ष्यते लक्षणतः ' स्वस्यातिसर्गो दानं' (अ० 7, मू० 33 ) तच सकलदानान्तरायक्षयादेकस्मादपि तृणाग्रात् त्रिभुवन विस्मयकरं यथेप्सितमर्थिनो न जातुचित् प्रतिहन्यते प्रयच्छत इति, लाभ इति परस्माच्चतुवेगेस्यान्यतमसमस्तसाधनप्राप्तिः, स चाशेपलाभान्तरायकर्मक्षयादाचन्त्यमाहात्म्यविभूतिराविर्भवति / येन यत् प्रार्थयते तत् समस्तमेव लभते, न तु प्रतिषिध्यते / शुभविषयसुखानुभवो भोगः, अथवा भक्ष्यपेयलेह्यादिसकृदुपयोगाद् भोगः, स च कृत्स्नभोगान्तरायक्षयाद् यथेष्टमुपपद्यते, न तु सप्रतिबन्धः कदाचिद भवति, न वा न भवत्यभिलपित इति / विषयसम्पदि सत्यां तथोत्तरगुणप्रकर्षात् तदनुभवः उपभोगः, पुनः पुनरुपभोगाद् वा वस्त्रपात्रादिरुपभोगः, स च निरवशेष उपभोगान्तरायकर्मणि क्षीणे यथेष्टमुपतिष्ठते / अप्रतिधः शक्तिविशेष आत्मनो वीर्यम् , तचाप्रतिहतमपास्ताशेषवीर्यान्तरायकर्मणो भवति, तेन च यदिच्छति तत् सर्वमायत्तीकरोति / सम्यक्त्वं पुनरनन्तानुवन्धिकपायमिथ्यात्वमिश्रसम्यक्त्वदर्शनसप्तकक्षयादात्यन्तिकादप्रतिहतं जीवादिपदार्थश्रद्धानलक्षणमसंहार्यमुपजायते / चारित्रं तु सकलमोहक्षयात् क्षायिकमाविर्भवति / वीर्यमित्यत्रायमितिशब्दोऽर्थपदार्थकः, एतानीति सूत्रोक्तानि, चशब्दः समुच्चये, सम्यत्वचारिते च, नव क्षायिका भावा भवन्तीति // 4 // उद्दिष्टः क्षायोपशमिकोऽष्टादशधा, स इदानीमाविर्भाव्यते-- १'पारावर्ती इति ग-टी-पाठः। २'पादनार्थग्रहणं सिद्धस्येति' इति क-ख-पाठः। 3 'भव्यत्वाभन्यत्वान्यत्र' इति क-ख-पाठः / 4 'त्यभिलाष इति' ख-पाठः / Page #170 -------------------------------------------------------------------------- ________________ 144 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 सूत्रम्-ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः यथाक्रम सम्यक्त्वचारित्रसंयमासंयमाश्च // 2-5 // भा०-ज्ञानं चतुर्भेद-मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्या ... यज्ञानमिति / अज्ञानं त्रिभेदं-मत्यज्ञानं, श्रुताज्ञानं, विभङ्गज्ञानक्षायोपशमिकस्या"दशभदा मिति / दर्शनं त्रिभेदं-चक्षुदर्शनं, अचक्षुर्दर्शनं, अवधिदर्शन मिति। लब्धयः पञ्चविधाः-दानलाब्धः, लाभलब्धिः, भोगलब्धिः, उपभोगलब्धिः,वीर्यलब्धिरिति / सम्यक्त्वं चारित्रं संयमासंयम इत्येते. ऽष्टादश क्षायोपशमिका भावा भवन्तीति // 5 // टी–ज्ञानाज्ञानेत्यादि सूत्रम्, ज्ञानादीनां लब्धिपर्यन्तानां द्वन्द्वः, चतुरादीनामपि पश्चानां द्वन्द्वः, पश्चाद् बहुव्रीहिः, चतुःत्रित्रिपञ्च भेदा यासां ताश्चतुस्त्रित्रिपश्चभेदाः / अत्र च यथासङ्ख्यमभिसम्बन्धो ज्ञानादीनाम् , सम्यक्त्वादीनामपि कृतद्वन्द्वानां बहुवचनेन निर्देशः, अशक्यप्रतिवन्धमन्यथा सूत्रमतो विच्छेदमकरोत् सूत्रकारः // ननु च सम्यक्त्वचारित्रयोरधिकारादेवानुवृत्तिर्भविष्यतीह सूत्रे, नार्थः शृङ्गग्रहणेनेति / उच्यते-' चानुकृष्टमुत्तरत्र नानुवर्तत ' इत्यभिप्रायः / चशब्दः समुच्चितौ, ज्ञानादयो लब्ध्यन्ताः सम्यक्त्वादयश्च / क्षायोपशमिकोऽष्टादशधा // ___ अधुना भाष्यार्थः-ज्ञानं चतुर्भेदमित्युदेशभाष्यम्, मतिज्ञानमित्यादिनिर्देशः, एतानि च लक्षणविधानतः प्रथमे व्याख्यातानि, सम्प्रति तु नियममात्र भावस्यावद्योत्यते / अत्र च मत्यादिचतुष्टयज्ञानावरणीयकर्मणां सर्वोपघातीनि देशोपघातीनि च फडकानि, तत्र सर्वेषु सर्वघातिफडकेषु ध्वस्तेषु देशोपघातिफडकानां च समये समये विशुद्धथपेक्ष्य भागैरनन्तैः क्षयमुपगच्छद्भिर्देशोपघातिभिर्भागश्वोपशान्तैः सम्यग्दर्शनसाहचर्याज्ज्ञानी भवति, तच्चास्य क्षयोपशमजं ज्ञानचतुष्टयमुच्यते, इतिशब्दः क्षायोपशमिकज्ञानेयत्ताप्रतिपत्त्यर्थः / अज्ञानं त्रिभेदमित्युद्देशः, मत्यज्ञानादि निर्देशः, ज्ञानमेव मिथ्यादर्शनसहचरितमज्ञानम्, कुत्सितत्वात् कार्याकरणादशीलवदपुत्रवद् वा, अज्ञानता च प्रपञ्चतः प्रथमे प्रतिपादिता, मिथ्यादृष्टेरवधिर्विभङ्ग उच्यते, भङ्ग:-प्रकारः, कुत्सार्थो विरुपसर्गः, विगार्हतो भङ्गः विभङ्गः, विभङ्गं च तज्ज्ञानं च विभङ्गज्ञानम् , अत्र विभङ्गशब्देन कुत्सा गतेति न ज्ञानशब्दादौ नयोगस्तेन विभङ्गज्ञानम् / तदेतत् त्रिविधमपि ज्ञानावरणक्षयोपशमजमवसेयम् / अज्ञानेयत्तापरिच्छेदार्थमितिशब्दः। दर्शनं त्रिभेदमित्युद्देशः, चक्षुदर्शनमित्यादि निर्देशः, चक्षुषा दर्शनम्-उपलब्धिः सामान्यार्थग्रहणं स्कन्धावारोपयोगवत् तदहजोतवालदारकनयनोपलब्धिवद् वा व्युत्पन्नस्यापि, अचक्षुर्दर्शनं-शेषेन्द्रियैः श्रोत्रादिभिः सामान्यार्थग्रहणम् , अवधिटगावरणक्षयोपशमनाद् विशेषग्रहणविमुखोऽवधिदर्शनमित्युच्यते नियमतस्तु तत् सम्यग्दृष्टि १'नप्रयोगः ' इति ग-टी-पाठः / MAITHIL EHAVITHHTHHAL ITY Page #171 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् 145 स्वामिकम् , एवमेतत् त्रिविधमपि दर्शनावरणकर्मणः क्षयोपशमादुपजायत इति / अत्र अपीति शब्दः क्षायोपशमिकदर्शनेयत्ताधिगमार्थः / लब्धयः पञ्चविधाः इत्यमुना विवरणेन यथासख्यमुपदर्शयति-दानलब्धिरित्यादिना भाष्येण, आदिशब्दाक्षिप्ताः प्रतिविशिष्टा एव लग्वीरुपवर्णयति, अनेकरूपत्वाल्लब्धीनाम् / / नन्वनन्तरसूत्रनिर्दिष्टाः प्रतिपदमेता एव ग्रहीष्यन्ते न पुनरुपादेया इति उच्यते-अत एव सूत्रे नोपात्ताः, प्रतिपदविवरणे पुनर्न दोषः कश्चित् , यथा यथा सुविवृतं भवति तथा तथा विवृणोति / एताः पञ्चापि लब्धयोऽन्तरायकर्मणां क्षयोपशमाद् भवन्ति, सम्यक्त्वमनन्तानुबन्धिकषायदर्शनमोहक्षयोपशमादाविअकास्ति, चारित्रमपि दर्शनमोहकषायद्वादशकक्षयोपशमाज्जायते सकलविरतिलक्षणम् , संयमश्वासावसंयमच संयमासंयमः-सङ्कल्पकृतात् प्राणातिपातानिवृत्तिरारम्भकृतादनिवृत्तिः तथा मृपावादादिष्वपि योज्यम् / सङ्खपतो द्वादशविधः श्रावकधर्मः संयमासंयमो व्यावृत्तिप्रवृत्तिलक्षणः / स च दर्शनमोहापोहादनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकक्षयोपशमाजायते / इतिशब्दः क्षायोपशमिकभेदेयत्ताप्रतिपादनार्थः / एतत् प्रतिपदमुद्दिष्टाः / अष्टादशेति सङ्ख्यावच्छिन्नाः / क्षायोपशमिका इति शेषभावव्युदासः / भवनलक्षणास्त्वेते भावाः प्रादुष्प्यन्तीति // 5 // औदयिकस्त्वेकविंशतिविधान उद्दिष्टः, सोऽधुना भण्यतेसूत्रम्-गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्व लेश्याश्चतुरुयेकैकैकपड्भेदाः // 2-6 // भा०-गतिश्चतुर्भेदा-नारक-तैर्यग्यौन-मानुष्य-देवा इति / कषायश्चतु भदः-क्रोधी, मानी, मायी, लोभीति। लिङ्ग त्रिभेदं-स्त्री, पुमान्, बम 21 भेदा नपुंसकमिति / मिथ्यादर्शनमेकभेदं, मिथ्यादृष्टिरिति / अ ज्ञानमेकभेदं, अज्ञानीति / असंयतत्वमेकभेदं, असंयतोऽविरत इति / असिद्वत्वमेक भेदं, असिद्ध इति / एकभेदमेकविधमिति / लेश्याः षड्भेदाः- कृष्णलेश्या, नीललेझ्या, कापोतलेश्या, तेजालेश्या, पालेश्या, शुक्ललेइया / इत्येते एकविंशतिरौयिकभावा भवन्ति // 6 // ___टी०-गतिकषायेत्यादि सूत्रम् / गत्यादीनां लेश्यान्तानां द्वन्द्वः / चतुरादीनां इन्तानां द्वन्द्वगर्भो बहुव्रीहिः / एवमियमेकविंशतिरौदयिकभेदानामवसेया // ननु च बहवोऽसगृहीताः कर्मभेदाः प्राप्नुवन्त्यौदयिकाः, त्वया च परिसख्या क्रियते, दर्शनावरणे जावन्निद्रादिपञ्चकं वेदनीयमुभयं मोहनीये हास्यादिषट्कं आयुश्चतुर्विधं नामकर्म सकलम् , गतिरुपात्ता केवलं तत्रत्या, गोत्रमुभयमपि, सर्वे एते औदयिका भावाः तत् कथमेषां परिगणनेन सङ्ग्रहः ? उच्यते-अज्ञानग्रहणानिद्रादिपश्चकमाक्षिप्तम्, यतो ज्ञानदर्शनावरण 'तिर्यक् ' इति ख-पाठः / Page #172 -------------------------------------------------------------------------- ________________ 146 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 दर्शनमोहनीयोदयादज्ञानं भवति, गतिग्रहणाच्छेपनामभेदाः गोत्रवेदनीयायूंषि चाक्षिप्तानि, यस्माद् गतिरायुष्कजात्यादिनामगोत्रवेदनीयानामन्यतमाभावेऽपि न सम्भाव्यते, भवधारणकारणत्वात् एषां कर्मणामिति, तथा लिङ्गग्रहणाद् हास्यादिपट्रकग्रहणम्, हास्यादिपट्रकस्य लिङ्गोपग्रहकारकत्वात् , कषायग्रहणाद् वा हास्यादिपरिग्रहः, यस्मादेते नव नोकपायाः कपायसहवर्तित्वादुच्यन्त इति // ननु च कर्मप्रकृतिभेदानां द्वाविंशत्युत्तरशतं प्रकृतिगणनया प्रसिद्धमाम्नाये, न च तत्र लेश्याः परिपठितास्तत् कथम् 1 / उच्यते-वक्ष्यते नामकर्मणि मनःपर्याप्तिर्नाम, पर्याप्तिश्च करणविशेषो येन मनोयोग्यान् पुद्गलानादाय चिन्तयति, ते च मन्यमानाः पुद्गलाः सह करणेन मनोयोग उच्यते, मनोयोगपरिणामश्च लेश्याः, ताश्च नोपात्ताः सूत्रभाष्ययोरिहोत्तरोत्तरभेदत्वादिति / अपरे मन्यन्ते-कर्माष्टकोदयादसिद्धत्व एव लेश्या ग्राह्याः, तदेतत् सर्व सूत्रकारेण लाघवमिच्छता लेशत उपात्तं न साक्षात् // अधुना भाष्यमनुस्रियते-गतिश्चतुर्भेदा नारकादिचतुर्विधपर्यायोत्पादनव्यपदेशकारणसमर्थं यत् कर्म तद् गतिशब्देनोच्यते, तस्य कर्मण उदयादयं निर्वर्तते भावो नारकादिः नरकगतिनामकर्मोदयान्नारक इत्येवं सर्वत्र, आत्मगतिनामकर्मणोश्चाभेदमभिसन्धायाचार्येण प्रेक्षापूर्वकारिणा नारक इति निरदेशि, न तु नरकगतिमात्रमौदयिकस्य जीवस्वतत्त्वप्रतिपादनार्थम्, इतिशब्दः सर्वभेदान्तेष्वियत्ताप्रदर्शनार्थः। कपः-संसारस्तस्यायमुपादानकारणविशेषः कषायः / स चतुर्थी क्रोधादिस्तदुदयात् क्रोध्यादिव्यपदेशः / अत्रापि जीवस्वतत्त्वप्रतिपत्तये क्रोधीति व्यपादेशि न क्रोध इति / लिङ्गं त्रिभेदं-स्त्रीत्वादि, तच्च लीनत्वाल्लिङ्गमुच्यते, यस्मात् पुरुपलिङ्गनिर्वृत्तावतिप्रकटायामपि कदाचित् स्त्रीलिङ्गमुदेति न च स्पष्टं बहिरुपलभ्यते नपुंसकलिङ्गं वा, तथा स्त्रियाः स्वलिङ्गनिर्वृत्तावतिस्पष्टायामेव जातुचित् पुन्नपुंसकलिङ्गोदयः, नपुंसकस्याप्येवं स्वलिङ्गनिर्वृत्तावुत्तरकालभाविनी कदाचित् पुंस्त्रीलिङ्गे भवतो न च निर्वृत्तितो लक्ष्यते, कपिलवदिति सर्वत्र योज्यम् / एतदेव त्रिविधं लिङ्गं वेद उच्यते, यस्य कर्मण उदयात पौंस्नं स्त्रैणं नपुंसकत्वं च भवति तल्लिङ्गम् , अत्राप्यभेदेन निर्देशः पुमान्, स्त्री, नपुंसकमिति। मिथ्यादर्शनमेकभेदं तत्त्वार्थाश्रद्धानलक्षणम् , यस्य कर्मणः उदयान्न किञ्चित् तत्त्वं श्रद्धत्ते तन्मिथ्यादर्शनम् // ननु च अभिगृहीतानभिगृहीतसन्देहतस्त्रिधोक्तम्, उच्यते-सर्वत्राश्रद्धानलक्षणं न भिद्यत इत्येकभेदमुक्तम्, अत्राप्यभेदोपचारात् मिथ्यादृष्टिरिति / अज्ञानमेकभेदं ज्ञानदर्शनावरणसर्वघातिदर्शनमोहनीयोदयादज्ञानमनवबोधस्वभावमेकरूपम्, तथैवाभेदमाधाय मनसि व्यपादिशद् अज्ञानीति / असंयतत्वमेकभेदं सज्ज्वलनवर्जकषायद्वादशकोदयादसंयतत्वमेकरूपम् , अत्राप्यभेदेन निर्देशः पर्यायतश्च असंयतः अविरत इति / असिद्धत्वमेकभेदं वेदनीयायुर्नामगोत्रोदयादसिद्धत्वमेकरूंपम्, तथैवाभेदादसिद्ध इति प्रदर्शितम् / एकभेदमित्यस्य पर्यायान्तरं कथयति पर्यन्ते १'त्रियते' इति ख-पाठः। 2 उक्तमेतत् 113 तमे पृष्ठे / Page #173 -------------------------------------------------------------------------- ________________ सूत्र 7 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 147 सर्वत्र सम्बन्धनार्थम्-एकविधमिति, व्याख्याधर्मश्वायं पर्यायान्तरकथनमिति / लेश्याः पहभेदाः / लिश्यन्त इति लेश्याः, मनोयोगावष्टम्भजनितपरिणामः, आत्मना सह लिश्यते ____ एकीभवतीत्यर्थः। अनेकत्वेऽपि परिणामस्य परिस्थूरकतिपयभेदकलेश्यास्वरूपम् / वास्वप थनमेव सुज्ञानत्वात् क्रियते, न त्वशेषपरिणामभेदाख्यानमशक्यत्वात् , इत्याह-पइभेदा इति / सम्प्रति तारतम्यविशुद्धिक्रममाविर्भावयन् पठति-कृष्णलेश्येत्यादि / कृष्णा चासौ लेश्या कृष्णलेश्या, सर्वत्रैवमायोज्यम् / लेश्येति परिणाम उक्तः स कथं कृष्णादिवर्णसम्बन्धी स्यादात्मनः / उच्यते-द्विविधा लेश्या द्रव्यभावभेदतः / तत्र द्रव्यलेश्याः कृष्णादिवर्णमात्रम्, भावलेश्यास्तु कृष्णादिवर्णद्रव्यावष्टम्भजनिता परिणामकर्मबन्धनस्थितर्विधातारः, श्लेपद्रव्यवद् वर्णकस्य चित्राद्यार्पतस्येति, तत्राविशुद्धोत्पन्नमेव कृष्णवर्णस्तत्सम्बद्धद्रव्यावष्टम्भादविशुद्धपरिणाम उपजायमानः कृष्णलेश्येति व्यपदिश्यते / आगमश्चायं-"जल्लेस्साइं दवाई आदिअंति तल्लेस्से परिणामे भवति" (प्रज्ञा०लेश्यापदे ) / तथा नीलवर्णद्रव्यावष्टम्भान्नीललेश्या, नीललोहितवर्णद्वययोगिद्रव्यावष्टम्भात् कापोतलेश्या, लोहितवर्णद्रव्यावष्टम्भात् तेजोलश्या, पीतवर्णद्रव्यावष्टम्भात् पीतलेश्या, शुक्लवर्णद्रव्यावष्टम्भात् शुक्ललेल्या, वर्णाशुद्धयपेक्ष्या भावाशुद्धिः तच्छुद्धयपेक्ष्या भावशुद्धिरिति / तेजोलेश्यायाः शुभपरिणामापेक्षा इष्टा इष्टतरा इष्टतमा चेति / कापोतलेश्यायाः प्रातिलोम्येनानिष्टपरिणामापेक्षा अनिष्टा अनिष्टतरा अनिष्टतमा चेति / आसां च पण्णामपि लेश्यानां जम्बूवृक्षफलभक्ष[क] दृष्टान्तेनागमप्रसिद्धेन ग्रामदाहकपुरुषषट्केन च प्रसिद्धिरापाद्या, एवं सर्वान् भेदानाख्यायोपसंहरति-एत इत्यादि / एकविंशतिरेवान्यूनाधिका भावाः कर्मोदयापेक्षाः प्रादुर्भवन्तीति // 6 // पारिणामिकस्त्रिभेद उद्दिष्टः, स उच्यते सूत्रम्--जीवभव्याभव्यत्वादीनि च // 2-7 // भा०-जीवत्वं, भव्यत्वं, अभव्यत्वमित्येते त्रयः पारिणामिका भावा ... भवन्ति / आदिग्रहणं किमर्थमित्यत्रोच्यते-अस्तित्वं, अन्यत्वं, 3 भेदाः प ‘णामिकाः कर्तृत्वं, भोक्तृत्वं, गुणवत्त्वं, असर्वगतत्वं, अनादिकर्मसन्तानपद्धत्वं, प्रदेशवत्त्वं अरूपत्वं, नित्यत्वमित्येवमादयोऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति, धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः / ये जीवस्यैव वैशेषिकास्ते स्वशब्देनाक्ता इति / एते पञ्च भावास्त्रिपञ्चाशद्भदा जीवस्य स्वतत्त्वं भवन्ति, अस्तित्वादयश्च // 7 // किश्चान्यत् / / टी-जीवभव्याभव्यत्वादीनि च / अत्र भावे त्वप्रत्ययः प्रत्येकमभिसम्बध्यत इति प्रदर्शयन्नाह-जीवत्वमित्यादि / जीवभावो जीवत्वं स्वार्थिको भावप्रत्ययः / 1 . विशेषकास्ते ' इति ग-पाठः / 2 यल्लेश्यानि द्रव्याण्याददते तल्लेश्यः परिणामो भवति / Page #174 -------------------------------------------------------------------------- ________________ 148 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 जीव एव जीवत्वमसङ्ख्येयप्रदेशाः चेतनेति, भव्या सिद्धिर्यस्यासौ भव्यः, उत्तरपदलोपाद् भीमादिवत्, भव्य एव भव्यत्वम्, अभव्यः सिद्धिगमनायोग्यः कदाचिदपि यो न सेत्स्यति अभव्य एवाभव्यत्वम् // ननु वन्ध्यापुत्रोऽप्येवमभव्यः स्यात्, नैतत् , कुतः? तुल्याधिकरणेऽन्यस्मिन् नञ्अयोगादब्राह्मणवत् / एतेनाकाशाभव्यत्वं प्रत्यस्तम् , इतिशब्दो व्यवच्छिनत्ति, भावत्रयमप्यसाधारण्येन जीवस्य / एते त्रयः पारिणामिका भावा भवन्तीत्यनेन भाष्येणैतत् प्रतिपादयति-न कर्मकृताः, स्वाभाविका एते जीवस्य त्रयोऽपि भवन्ति / आदिग्रहणं किमर्थमिति प्रश्नयतः कोऽभिप्रायः ? एवं मन्यते-द्विनवाष्टादिसूत्रेण (अ० 2, सू०२) त्रिपञ्चाशद् भावभेदा नियताः, तद्यदि सन्त्यन्येऽपि ततश्चानियतः सङ्ख्याभेदः, तथा चानर्थकं सूत्रम्, अथ तावन्मात्रा एव न सन्त्यन्ये ततोऽनर्थकमादिग्रहणमतः पृच्छति, अत्रोत्तरमुच्यते-द्विनवाष्टादिसूत्रेण जीववर्तिन एव त्रिपञ्चाशद भेदाः सङ्ग्रहीता इति सङ्ख्यानियमो न भिद्यते, न चानर्थक्यं सूत्रस्य, जीववार्तनोऽजीववर्तिनश्च (ये) साधारणाः पारिणामिकास्ते तत्र नोपात्ताः, तदुपादानायेदमादिग्रहणम् / अतस्तान् दर्शयतिअस्तित्वादिना भाष्येण ॥अस्तित्वं भावानां मौलो धर्मः सत्तारूपत्वम्, तच्चात्मनो ज्ञानाअस्तित्वादयः दिसद्भावात् प्रसिद्धमपह्नोतुमशक्यमादावुपन्यस्तम्, इदं च परमाण्वादी साधारणाः नामपि सामान्यम् / अन्यत्वमिति शरीरादात्मनः, तद्विलक्षणत्वात् परलोकसद्भावाचावश्यमन्यत्वमभ्युपेयम्, तथाऽण्वादीनामपि परस्परेणास्ति / कर्तृत्वमिति शुभाशुभकर्मणो निर्वर्तकत्वं योगप्रयोगसामर्थ्यात्, कर्तृत्वादेव च भोक्तृत्वं स्वप्रदेशव्यवस्थितशुभाशुभकर्मकर्तृत्वात् , कर्तृत्वं सूर्यकान्तेऽपि सविकिरणगोमयसङ्गमादुपलभ्यतेऽग्निनिवृत्तौ अतः सामान्यम्, भोक्तृत्वं मदिरादिष्वत्यन्तप्रसिद्धं भुक्तोऽनया गुड इति / क्रोधादिमत्त्वात् गुणवत्त्वं ज्ञानाद्यात्मकत्वाद् वा, परमाण्वादावपि गुणवत्त्वमेकवणोदित्वात् समानम् / त्वक्पर्यन्तशरीरमात्रव्यापित्वात् असर्वगतत्वं संसार्यात्मनः, मुक्तस्यापि समन्ततः परिमितत्वात् स्वदेहप्रमाणत्रिभागहीनावगाहात्मकत्वादसर्वव्यापिता, परमाण्वादिभिस्तुल्या / अनादिकर्मसन्तानबद्धत्वमिति अविद्यमानादिकर्मसन्तत्या वेष्टितः संसारी संसृतौ पर्यटतीति, न मुक्त इति यथासम्भवमेतद् योज्यम् / कार्मणशरीरमप्यनादिकर्मसन्तानबद्धमिति सामान्यः चेतनाचेतनयोर्धर्मः / प्रदेशवत्त्वं तु लोकाकाशप्रदेशपरिमाणप्रदेश एक आत्मा भवति, धर्मादिद्रव्यसामान्यमेतत् / अरूपत्वमिति रूपरसगन्धस्पर्शविरहितत्वादात्मनः, तच्चाकाशादिभिस्तुल्यम्, नित्यत्वमिति 'तद्भावाव्ययं नित्यम्' (अ०५, सू०३०) इति वक्ष्यते, नित्यश्च ततो ज्ञानादिसद्भावादयमात्मा, तुल्यं चैतदाकाशादिभिः / एवमेते दश धर्माः साधारणा भाष्यकृतोपदर्शिता आदिशब्दाक्षिप्ताः / पुनरप्यादिग्रहणं कुर्वन् ज्ञापयत्यत्रानन्तधर्मकमेकम् , तत्राशक्याः प्रस्तारयितुं सर्वे धर्माः प्रतिपदं, प्रवचनज्ञेन पुंसां यथा १'प्रश्नयति' इति ग-पाठः / Page #175 -------------------------------------------------------------------------- ________________ सूत्र 8] स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्भवमायोजनीयाः, क्रियावत्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवम्प्रकाराः सन्ति भू __यांसः। अपिः ममुच्चये / एवम्प्रकाराश्च अनादिपारिणामिका भवन्ति क्रियावत्व ". जीवस्य भावाः, धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः। एवमादयोऽपीत्यादि भाष्यम् / एवम्प्रकारा-एवमादयः क्रियावत्त्वप्रकाराः, धर्मादिभिरिति कचिद् , पुद्गलद्रव्यं यथासम्भवमुपदर्शितमेव, तथा केचिदात्मन एव वैशेषिका आदिशब्देनाक्षिप्यन्ते पर्यायोपयोगितादयः / तुशब्दो विशेषकः / धर्मादिविशिष्टास्तत्समाश्च / इतिः परिसमाप्तौ। अयमादिग्रहणार्थस्यादिग्रहणेन सूचिताः इति गमयति विधृतमर्थमनेन ग्रन्थेन // ये जीवस्यैवेत्यादि ग्रन्थ आत्मन एवासाधारणा ये धर्मा जीवभव्याभव्यत्वलक्षणास्त इह सूत्रे स्वशब्देन यो यस्य वाचकः शब्दो जीवादिस्तेनैवोक्ता इति / एतेनादिशब्दस्य त्रितयपर्यन्तवर्तित्वं व्याख्यातम् , अन्यथा जीवत्वादीनि चेति सूत्रं स्यात् / मूत्रपर्यन्तवर्ती चशब्दः समुच्चये। सम्यक्त्वचारित्रादयो जीवस्य स्वतत्त्वं जीवत्वादयश्च स्वतत्त्वमिति / इत्येते पञ्च भावा इत्यादि भाष्यम् / इतिशब्दः सकलभावोपसंहारार्थः, एत इति प्रतिपदं ये उद्दिष्टा औपशमिकादयः पञ्चैवाऽन्यूनाधिका भावाः पर्यायान्तराण्यात्मनः त्रिपञ्चाशद्भेदा येषां ते त्रिपञ्चाशद्भेदा भवन्ति आत्मनः स्वतत्त्वं, द्विनवाष्टादिमूत्रे (अ० 2, सू०२) च सङ्ख्या प्राक नियता सेवानेनोपसंहृतेति / एते च भावविकल्पा जीवानां यथासम्भवमायोज्याः, न सर्वे सर्वेपामिति, क्षायिकपारिणामिकावेव सिद्धानाम् , औपशमिकवर्जा नारकतिर्यग्योनीनाम्, देवमनुष्याणां पञ्चापि, न त्वौपशमिकक्षायिके सम्यक्त्वचारित्रे वा युगपद् भवत इति, एवमयमात्मा परिणामैरेभिरौपशमिकादिभिर्युक्तः परिणामी द्रव्यमिति निश्वेतव्यः, नहि श्रद्धानादिलक्षणाः परिणामाः केनचिद् घटादिधूपलब्धपूर्वाः, तस्मादेषां भावानामवश्यं केनचिदन्वायना पदार्थन भवितव्यम् , स चात्मेति // 7 // . ' अधुना द्वितीयप्रश्नमतिबहुग्रन्थप्रतानव्यवच्छिन्न नुसन्दधान आह-किश्चान्यदिति / भावपश्चकमव्यापित्वान्न परितोपमाधातुमलमस्य श्रोतुः पश्यन्नाचार्यः सकलजीवपदार्थव्यापीदमव्यभिचारि त्रिकालविषयं लक्षणमात्मनो निर्दिदिक्षुः सम्बन्धयति भावपञ्चकाद् अन्यच्च-किं लक्षणमस्याव्यभिचारीति यदप्राक्षीत् तदिदमुच्यते सूत्रम-उपयोगो लक्षणम् // 28 // भा०-उपयोगो लक्षणं जीवस्य भवति // टी०–उपयोगो लक्षणं भवति जीवस्येत्येतावद् भाष्यमस्य सूत्रस्य / उपयोगः उपलम्भः, ज्ञानदर्शनसमाधिः ज्ञानदशनयोः सम्यक् स्वविषयसीमानुउपयोगस्य लक्षणता ल्लङ्घनेन धारणं समाधिरुच्यते, अथवा युञ्जनं योगः-ज्ञानदर्शनयोः __प्रवर्तन विषयावधानाभिमुखता, सामीप्यवर्ती योग उपयोगो नित्यसम्बन्ध इत्यर्थः / लक्ष्यतेऽनेनेति लक्षणम्, उपयोगेन लक्ष्यत इति / जीवस्येति कर्मलक्षणा इह १'सदृशाश्च ' इति स्व-पाठः। Page #176 -------------------------------------------------------------------------- ________________ 150 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 षष्ठी द्रष्टव्या / उपयोगेनोपलभ्यते इनियावत् / समुदायार्थस्त्वयम्-सामान्यविशेषावबोधदर्शनानिश्चीयतेऽस्त्यत्रात्मा यस्यामू सामान्यविशेषावबोधी, न चास्ति कश्चित् कचिज्जीवो यस्य न स्तः साकारानाकारोपयोगावित्यतोऽनपायीदं लक्षणमस्य जन्तोः, आगमश्वायम्-"सचजीवाणपि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" ( नन्दी० मू० 42 ) / सर्वजीवानामपीति अशेपसर्वकग्रहणेन संसारिणां परिग्रहः पृथिवीकायादीनाम् , अपिः सम्भावनायां, णमिति वाक्यालङ्कारार्थः, अक्षरमिति सामान्यविशेषरूपोऽवबोध तस्यानन्तभागोऽवबोधस्य नित्यमेव-सर्वदा उद्घाटः-प्रकाशो निरावरणः, यस्मात् सकलत्रैलोक्यान्तवर्तिनोऽपि हि पुद्गलाः कर्मतया परिणताः सन्तोऽपि न समावरीतुमलमेकस्यात्मनः सर्वात्मनाऽवबोधम् , यथा च नितान्तघनपटलपिहितेऽपि सवितुर्मण्डले ज्योतिर्लेशः कियानपि चकास्त्येव, न सर्वथैव प्रणश्यति तथाऽऽत्मनोऽप्यवबोधलेशः स्फुरत्येव कियानपि सर्वदा, यदि चावृणुयुस्ते पुद्गलाः सर्वात्मना ततो निजवितैव स्यादात्मनः, तस्माद् या च यावती च मात्राऽऽ वरतः प्रबोधस्य सर्वजीववर्तिनी स्वभावादेव निरावरणा समस्ति उपयोगस्य नित्यता स्य सा च सर्वजघन्योपयोगमात्रा प्रथमसमये सूक्ष्मनिगोदापर्याप्तानामेव - भवति, ततः परंतु सैवोपयोगमात्रा शेपैकेन्द्रियद्वित्रिचतुःपञ्चेन्द्रियभेदेन भिद्यमाना सम्भिन्नश्रोत्रत्वादिलब्धिकलापेन च लब्धिनिमित्तकरणशरीरेन्द्रियवामनः सापेक्षा प्रवर्धमाना नानारूपक्षयोपशमापादितवचित्र्याऽवग्रहादिभेदात् सवेक्षयमवाप्य सकलज्ञेयग्राहिणी परां विशुद्धिकाष्ठां समासादयति केवलज्ञानसंज्ञिताम् , अत एव जीवस्त्रभावचैतन्यविशेषाणां सर्वेषां प्रमाणाख्यानामुपयोगरूपाणां स्वसंवेद्यत्वमवश्यमभ्युपगन्तव्यम्, उत्तरकालं तदनुस्मारणोपपत्तेः, अनुस्मरणं हीदं स्वयमनुभूतस्यार्थस्य दृष्टं नान्यथा, तस्माज्ज्ञात्वा योऽनुस्मरत्युत्तरकालं स एक आत्माऽन्वयी प्रतिपत्तव्यः / न खलु ज्ञानस्मृती भिन्नपदार्थाधारे कचिद् दृष्टे, तस्मादस्त्येक आत्मेति, तथा परत्र हिताहितप्राप्तिपरिहारविषयां क्रियां दृष्ट्वा बुद्धिपूर्वकत्वानुमान स्वदेह इव, ताश्च बुद्धयः प्रमाण जीव इत्येकोऽर्थ इति / यथाऽऽह-"आया भंते! नाणे अण्णाणे ? गोयमा! आया सिय नाणे सिय अण्णाणे, णाणे पुण नियमा आया" ( भगवत्यां ) / बुद्धिरूपस्य चात्मनोऽनुमानगम्यत्वमवसेयम्, स्वदेहे च क्रिया बुद्धिपूर्वा स्वानुभवसिद्धा, तत्क्रियाजनिते च सुखदुःखे, रूपाधर्थज्ञानानि चानुभवसिद्धत्वात् प्रत्यक्षप्रमाणविपयत्वं बुद्धीनाम्, स एव चात्मेति, स्वदेहव्यापी स्वात्मा, परदेहव्यापी पर इति / तथा शरीरकारणयोः शुक्रोजसोधात्विन्द्रियाङ्गोपाङ्गादिपरिणामगतेरभिसन्धिमानाहानुमीयते, तथाऽऽहारपरिणामित्वात् तच्छवशरीर केनाप्यभिसन्धिमता कापि गच्छतोत्सृष्टं, स चोत्स्रष्टाऽऽत्मेति निश्चीयते, एवमयमुपयोग १सर्वजीवानामपि अक्षरस्यानन्तभागो नित्यमुद्घाटितकः / २'वा' इति ख-पाठः। 3 आत्मा भदन्त / ज्ञानं अज्ञानं ? गौतम | स्यात् ज्ञानं स्यात् अज्ञान, ज्ञानं पुनर्नियमादात्मा / Page #177 -------------------------------------------------------------------------- ________________ अज्ञानाद सूत्र 9] स्वोपज्ञभाष्य-टीकालङ्कृतम् लक्षितः कर्ता भोक्ता चात्माऽध्यवसातव्यः / अथात्र पर आरेकते-ज्ञानरूप ज्ञानस्वभावत्वेऽपि आत्मा चेत् अनवरतमेव कस्मान्न पश्यति सोऽर्थान् ? जानानं हि प ज्ञानमुच्यते, ज्ञानं च न जानीते च विप्रतिषिद्धमिदम् , आत्मा च ज्ञानरूपोऽतः सर्वदा तेन जानानेनैव भवितव्यम् , न जातुचिदन्यथेति, कस्माद विज्ञानात्मकत्वे पूर्वापलब्धार्थविषयमस्य विस्मरणमविनष्टज्ञानस्य सतो भवति ? किं वा कारणमव्यक्तबोधो भवत्यात्मा ? नाव्यक्तमिष्यते ज्ञानमुपलब्धिस्वरूपत्वात् , न च ज्ञानात्मकत्वात् संशयेनास्य कदा चेदुत्पत्तव्यम् , अशेषविषयग्रहणं च स्यात् निरङ्कुशत्वाज्ज्ञानस्येति ? अत्रोच्यतेज्ञानात्मत्वे सत्यपि नानवरतोपयोगप्रसङ्गः, कथम् ? कर्मवशादयमात्मा सर्वप्रदेशेषु प्रदेशाष्टकमपहाय मध्यवर्तिपिठरान्तर्वर्तिज्वलनज्वालाकलापतप्तोद्वर्तमानवारिवच्चलः सततमेव कृकलाशवदर्थान्तरेषु परिणमते, अनवस्थितोद्धान्तमनस्त्वाच्च कथमुपयुज्येत स चिरमेकस्मिन्नर्थे ? स्वभावादेव चोपयोगस्थितिकालोऽन्तर्मुहूर्तपरिमाणः प्रकर्षाद् भवति, ज्ञानावरणकर्मपटलावच्छन्नत्याच न सर्वदाऽवैति, यथा प्रकाशमयत्वेऽपि भास्वान् बहलाभ्रपटलाभिभूतमूर्तिन प्रकाशते स्पष्टं तथाऽयमात्मेति, स्मृतिरप्यत एव नावश्यम्भाविनी भवति तस्येति प्रत्येतव्यम् / अव्यक्तबोधसंशयासर्वार्थग्रहणानि चावरणशीलज्ञानावरणकर्मसद्भावादभ्युपेयानि, यदा च लब्धिरूपान्तःकरणेद्रियाभोगिकानाभोगिकवीर्यसम्पन्नस्य ज्ञानावरणक्षयोपशमो भवति करणानुरूपस्तदा च ज्ञानं तत्क्षयोपशमानुरूपमाविर्भवति, लब्ध्यनुरूपकरणवीर्यानुसारितया, वीर्यापगमे च पुनरपि तदेव कर्मावृणोति सद्यस्तमात्मानं प्रागपाकीर्णशवलमलानामपामच्छत्वमिव, पुरुषकारव्यापारोपरमसमनन्तरमेव शैवलपटलानि यथा पुनराच्छादयन्ति, यथा वा भस्माद्यनेकद्रव्योद्धृष्टविमलदर्पणतलमागन्तुकश्यामिकामलीमसमाशु जायते तथाऽस्यात्मनो मुहुर्मुहुर्ज्ञानावरणजलधौ निमजनोन्मजने कुर्वतः स्पष्टः स्पष्टतरः स्पष्टतमो मलीमसो मलीमसतरो मलीमसतमश्च बोधः प्रादुरस्ति, अभ्यन्तरीकृतोभयविशेषसामर्थ्यस्थित्युत्पत्तिव्ययानेकधर्माजहद्वृत्तिः सोऽयमात्मा प्रकाशस्वभावतिग्मांशुरिव चैतन्यस्वतत्त्वः स्वपरविभासी साकारानाकारोपयोगद्वयलाञ्छनोऽस्तीति प्रतिपद्यध्वमपास्तसमस्तशङ्कमिति // 8 // ____ एतावज्जीवस्वतत्त्वं विचार्यम् , नातः परं किञ्चिदस्ति स्वनिमित्तानां परनिमित्तानां च जीवधर्माणामभिहितव्यतिरेकेणासम्भवात् , स चोपयोगो यावता भेदेन वर्तते तावता सगृह्यतेऽधुनेत्यत आह सूत्रम्-स विविधोऽटचतुर्भेदः // 2-9 // भा० --स उपयोगो द्विविधः-साकारोऽनाकारश्च / ज्ञानोपयोगो दर्शनो पयोगश्चेत्यर्थः / स पुनर्यथासङ्ख्यमष्टचतुर्भेदो भवति / ज्ञानोउपयोगस्य भेदाः पयोगोऽष्टविधः-मतिज्ञानोपयोगः, श्रुतज्ञानोपयोगः, अवधि Page #178 -------------------------------------------------------------------------- ________________ 152 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 ज्ञानोपयोगः, मनःपर्यायज्ञानोपयोगः, केवलज्ञानोपयोग इति, मत्यज्ञानोपयोगः, श्रुताज्ञानोपयोगः, विभङ्गज्ञानोपयोग इति / दर्शनोपयोगश्चतुर्भेदः, तद्यथा-चक्षु. दर्शनोपयोगः, अचक्षुर्दर्शनोपयोगः, अवधिदर्शनोपयोगः, केवलदर्शनोपयोग इति // 9 // टी-स द्विविधोऽष्टचतुर्भेदः, तच्छब्देन भाष्यकारोऽनन्तरमुपयोग सम्ब न्धयति, स उपयोगः सकलजीवराशेश्चिह्नभूतो द्विविधो-द्विप्रकारो तच्छब्दस्य सार्थकता न भवति / अपरे पुनस्तच्छब्दं नाधीयतेऽनन्तरत्वात् किल स एव सम्भन्त्स्यते नार्थस्तत्पाठेन, तदेतदयुक्तम् , अन्यत्रापि हि तच्छब्दोपन्यासेऽनन्तर एव संम्बध्येत ततश्च न कचित् तच्छब्दः प्रयोक्तव्यः स्यात्, तथा च 'कायवाङ्मनाकर्म योग', 'स आस्रवः' (अ० 6, सू० 1-2 ) इति, 'सकपायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते', 'स बन्धः' (अं०८, मू० 2-3) इति / पुनस्त एवाहुः-नहि योगः भेद्यत्वेन विवक्षितः किन्त्वास्रवता विधीयते योगानां तत्र, अयं पुनरुपयोगों विभित्सितस्तत्र किमन्यः स्याद् यो द्विविधत्वादिना भिद्येत ? तथेतरत्रापि पुद्गलादानस्यात्मसात्कृतस्य बन्धविधानम्, अतो न समानम् / उच्यते-कः खल्वयं नियमो यत्र भेदविधिस्तत्र तच्छब्दो न प्रयुज्यते इति ? रुचिमात्रमेवमङ्गीकृतं स्यात् , अविगानेन च भाष्यमेवं पठ्यते-स उपयोगो द्विविधस्तदेतदगमितं स्यात् , तस्मादस्तु तच्छब्दः / द्विविध एवोपयोगो भवतीत्यवधार्यते मूलभेदतः, तच्च द्वैविध्यं आचार्यः स्पष्टयतिसाकारोऽनाकारश्चेति / आकारो-विकल्पः सह आकारेण साकारः, अनाकारस्तद्विपरीतः, निर्विकल्प इत्यर्थः / एतद् व्याख्यानमन्येऽपवदन्ते-साकारानाकारयोर्यत्केवलदर्शने शक्त्यभावः प्रसज्यते मनःपर्याये च दर्शनप्रसङ्गः, तयोहि घटादिर सामान्यग्रहणेऽपि ज्ञानमेव तन्न दर्शनमिति, तस्मादाकारो लिङ्गम्, शब्दार्थः स्निग्धमधुरादिशङ्खशब्दादिषु यत्र लिङ्गेन ग्राह्यार्थान्तरभूतेन ग्राह्येकदेशेन वा साधकेनोपयोगः स साकारः, यः पुनर्विना लिङ्गेन साक्षात् सोऽनाकारः, एवं सति पूर्वकं दोषद्वयं परिहतं भवति, तदेतदयुक्तम् , यत् तावदुच्यते-केवलदर्शने शक्यभावः प्रसजतीति का पुनरसौ शक्तिः ? यदि तावद् विशेषविषयः परिच्छेदः शक्तिशब्दवाच्यस्तस्याभावश्वोद्यते ततोऽभिलषितमेव सगृहीतं स्यात् / अथ सामान्यार्थग्रहणशक्त्यभावश्चोद्यते ततस्तस्य दर्शनार्थतैवानुपपन्ना स्यात् , किं हि तेन दृश्यते ? यदप्युक्तं मनःपयोये दर्शनप्रसङ्ग इति तदागमानवबोधादयुक्तम् / न ह्यागमे मनःपर्यायदर्शनमस्ति, चतुर्विधदर्शनश्रवणात् , आगमप्रसिद्धं चेहोपनियध्यते, न स्वमनीपिका प्रत साकारानाकार 1 'सम्बध्यते' इति क-व-पाठः। 2 'मन्ये एवं वदन्त ' इति क-स्त्र-पाठः / Page #179 -------------------------------------------------------------------------- ________________ सूत्रं 9 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् न्यत इति / मनःपर्यायज्ञानिनो हि भगवत्यामाशीविषोदेशके (श०८, उ०२, सू०३२१) द्वे त्रीणि वा दर्शनान्युक्तानि, अतो गम्यते यो मनःपर्यायविदवधिमांस्तस्य त्रयमन्यस्य द्वयम् , अन्यथा हि त्रयमेवाभविष्यदिति / तत्रागमप्रसिद्धस्य व्याख्या क्रियते-निर्विकल्पोऽर्थोऽनाकारार्थः यद् दर्शनं तन्निर्विकल्पम् , अतो न मनःपर्यायदर्शनप्रसङ्गः, तस्मात् तदेवास्तु पूर्वव्याख्यानम्, पर्यायाः-विकल्पास्तैः सहवर्ति साकारम् , अनाकारमालोचनमानं निर्विकल्पकमिति / उपयोगक्रमश्च द्रष्टव्यः-प्रागनाकारः पश्चात् साकार इति, प्रवृत्तौ क्रमनियमः, यतस्तु नापरिमृष्टसामान्यो विशेषाय धावति / यद्येवं ततः सूत्रमित्थमध्येयं-स द्विविधचतुरष्टभेद इति / उच्यते-पारमर्षप्रवचनप्रसिद्धक्रमानुवृत्त्या सूत्रं न्यवनीत सूत्रकारः"कतिविहे णं भंते ! उवओगे पण्णत्ते ? गोयमा! दुविहे पण्णत्ते, तंजहा-सागारोवओगे य अणागारोवओगे य" ( प्रज्ञा० प० 29, सू० 312 ) / अथार्प एव कैमर्थक्यात् क्रमभेदः ? / उच्यते-बहुभेदत्वाद् बहुवक्तव्यत्वाच प्राक् साकारोपन्यासस्ततोऽनाकारः स्वल्पमेदवक्तव्यत्वात् , मत्यादिज्ञानेषु च व्याख्यातेषु प्रायश्चक्षुर्दर्शनाद्यपि व्याख्यातमेवेति यत्किश्चिदुत्तरत्र व्याख्येयं स्यात्, अतोऽपि युज्यते प्रथमतः साकारोपयोग इति / चशब्दः समुचितौ / साकारचोपयोगोऽनाकारोपयोगश्च / एतदेवोपयोगद्वयं प्रसिद्धतरवाक्यान्तरेण निरूपयन्नाह-ज्ञानोपयोगो दर्शनोपयोगश्चेत्यर्थः / एतावानुपयोगो भवन् भवेद् यदुत ज्ञानरूपो दशेनरूपश्चेति, नातोऽन्य उपयोगः समस्ति // ननु च ज्ञानदशेना . भ्यामर्थान्तरभूत उपयोगोऽस्त्येकान्तनिर्विकल्पः, एवं च विग्रहगतिउपयोगे ज्ञानदर्शनभिनाया निरासा प्राप्तानां ज्ञानदर्शनोपयोगासम्भवेऽपि जीवलक्षणव्याप्तिरन्यथा ह्यव्या पकं लक्षणं स्यात् , तेषां हि द्रव्येन्द्रियमनसामभावादुपयोगोऽस्त्येकान्तनिर्विकल्पः, एवं च विग्रहगतिप्राप्तानां ज्ञानदर्शनोपयोगासम्भवेऽपि तन्निमित्तं मतिज्ञानं नास्ति, ततश्च तत्पूर्वकं श्रुतमपि न सम्भवति, अतस्तेषां ज्ञानदर्शनोपयोगामावादजीवत्वं स्यादिति, तदेतत् सर्वमयुक्तमुक्तम् , स्वसिद्धान्तानवबोधात् , इह प्रवचने मत्यादीनि लब्धित उपयोगतश्च चिन्त्यन्ते, तत्र सम्यग्दृष्टेरविरतो जघन्यतरोऽन्तर्मुहूर्तपरिणामकालं प्रकर्षतः षट्षष्टिसागरोपमाणि साधिकानि लब्धिमङ्गीकृत्याधीतः, उपयोगतोऽन्तर्मुहूर्तमेव जघन्योत्कर्षाभ्याम्, मिथ्यादृष्टेरनादिमत्यज्ञानादि कस्यचित्, कस्यचित् तु सादि भवति लब्धितः, उपयोगतस्तु तस्याप्यन्तर्मुहूर्तमवस्थानम्, तत्र यदेतदुच्यते द्रव्येन्द्रियमनसामभावान्मतिज्ञानं नास्ति तत्पूर्वकं श्रुतमपि नास्ति तन्मिथ्या, आगमविरोधश्च"जाइस्सरो उ भगवं, अप्पडिवडिएहिं तिहिं उ नाणेहिं" (आव०नि० ऋषभजन्माधिकारे)। यदि तदा मतिश्रुते न स्तः कथमप्रतिपतितज्ञानश्रुच्युवे भगवान् नाकपृष्ठतः ? / तथाऽमुनाऽ 1 कतिविधो भदन्त ! उपयोगः प्रज्ञप्तः ? गौतम ! द्विविध उपयोगः प्रज्ञप्तः, तद् यथा-साकारोपयोगश्वानापारोपयोगश्च / 2 जातिस्मरस्तु भगवान् , अप्रतिपतितैत्रिभिमा॑नैर्युक्त एव / Page #180 -------------------------------------------------------------------------- ________________ 154 तत्त्वार्थादिगमसूत्रम् [ अध्यायः 2 प्याचार्येणोक्तम्-'ज्ञानैः पूर्वाधिगतैः ' (सम्बन्ध-का० 12) इत्यादि, तथा भगवत्यामाशीविषोद्देशके (श०८, उ०२, मू० 319) " अपज्जत्तगाणं भंते ! जीवा किं नाणी अण्णाणी? तिन्नि गोयमा! नाणा तिन्नि अण्णाणा भयणाए", तथा तस्यामेवैकोनविंशतिशते "मइअण्णाणी णं भंते ! मतिअण्णाणभावेणं किं पढमे अपढमे 1 गोयमा ! नो पढमे अपढमे, एवं सुअअण्णाणीवि" // ननु चागम एवोपयोगात्मा ज्ञानदर्शनव्यतिरिक्त उक्तः, भगवत्यां द्वादशशते-द्रव्यकषाययोगोपयोगज्ञानदर्शनचरणवीर्यात्मानोऽष्टौ भवन्ति, अत्र चोपयोगात्मा पृथगुपात्तः, स च विग्रहगतौ जीवानां भविष्यति, एतदपि वार्तम् ,यस्मात् तस्मिन्नेवात्माऽष्टकाधिकारे (श०१२, उ०१०, सू०४६७ ) उक्तम्-" जस्स दवियाता तस्स उवयोगाता णियमा अत्थि, जस्स उवयोगाता तस्स नाणाया वा दसणाया वा णियमा अस्थि" एवं सूत्रेऽतिस्पष्टेऽपि विभक्ते न विद्मः कुत इदं तेषां मोहमलीमसधियामागतम् ? अपिच-सूत्रे ज्ञानदर्शने एवोपयोगतामापन्ने बहिराकारपरिणतिनी सती समुपात्ते उपयोगग्रहणेन, न पुननिदर्शनव्यतिरिक्तः कश्चिदुपयोग इति, तथा तु ज्ञानदर्शनात्मैव, क्रोधादिकपायपरिणतः कपायात्मा उच्यते, न तद्व्यतिरिक्तोऽन्यस्तथाऽयमपि भविष्यति / एतेन कर्मानावृतप्रदेशाष्टकाविकृतचैतन्यसाधारणावस्थोपयोगभेदः प्रत्यस्तोऽवगन्तव्यः, तथा विग्रहगतिभाजामपर्याप्तकानां च जीवानामागमे लब्धीन्द्रियमुक्तम्-“जीवे णं भंते ! गम्भाओ गम्भं वकममाणे किं सइंदिए वक्कमइ अणिं दिए वर्कमइ ? गोयमा ! सिय सइंदिए सिय अणिदिए, से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! दन्विन्दियाइं पडुच्च अणिदिए वक्कमति, लद्धिन्दियाइं पडुच्च सइंदिए वक्कमति" (भग० श०१, उ०७, सू०६१)। तस्मादात्मनोऽवस्थाद्वयवर्तिनोऽवश्यं लब्धीन्द्रियमभ्युपेयम्, तदाश्रितं च मतिज्ञानादि, केवलं बाह्यकरणानिवृत्तौ ज्ञानविभागो नास्ति करणकृतस्तत्रेति / अथैतत् स्यात् , न ज्ञानसद्भावमपद्महे तदा वयम्, किन्तु ज्ञाने सत्यप्युपयोगो नास्तीति ब्रूमः, तदेतत् सुप्ताद्यवस्थास्वपि समानम् , अथवा विलक्षवचनमित्यपकण्यम् / तस्मादवस्थितमिदम्-द्विविध एवोपयोगो ज्ञानदर्शनाख्यः तद्वयतिरिक्तस्तु नास्ति / स इदानी द्विविध उपयोगो यथासङ्ख्यं यथानिर्देशमष्टभेदश्चतुर्भेदश्च भवति / पुनःशब्दः संख्यानियमार्थः / नातः परं विकल्पमर्हति, ज्ञानोपयोगो दर्शनोपयोगो वा। तमेवाधुना सङ्ख्यानियममाविष्करोति-ज्ञानोपयोगोऽष्टभेद इत्यादिना भाष्येणोद्देशनिर्देशरूपेण / मतिज्ञानोपयोग इति / मतिज्ञानाकारपरिणामस्तदात्मकत्व 1 अपर्याप्ता भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः 1 त्रीणि गौतम ! ज्ञानानि त्रीणि अज्ञानानि भजनया। 2 मत्यज्ञानी भदन्त ! मत्यज्ञानभावेन किं प्रथमोऽप्रथमः ? गौतम / न प्रथमः, अप्रथमः, एवं श्रुताज्ञान्यपि। 3 यस्य द्रव्यात्मा तस्य उपयोगात्मा नियमादस्ति,यस्योपयोगात्मा तस्य ज्ञानात्मा वा दर्शनारमा वा नियमादस्ति। ४जीवो भदन्त | गर्भात् गर्भ व्युत्क्रामन् कि सेन्द्रियो व्युत्कामति भनिन्द्रियो व्युत्क्रामति ?, गौतम ! स्यात् सेन्द्रियः स्यादनिन्द्रियः, तत् केनार्थेन भदन्तैवमुच्यते !, गौतम | द्रव्येन्द्रियाणि प्रतीत्य अनिन्द्रियो व्युत्क्रामति, लब्धीन्द्रियाणि प्रतीत्य सेन्द्रियो व्युत्क्रामति / Page #181 -------------------------------------------------------------------------- ________________ 155 सूत्र 10 ] . स्वोपज्ञभाष्य-टींकालङ्कृतम् मात्मनः, तथा श्रुतज्ञानादिष्वपि योज्यम् / इतिशब्दः साकारोपयोगपरिसमाप्त्यर्थः / इतरत्राप्यज्ञानपरिसमाप्तये / चक्षुर्दर्शनोपयोग इति चक्षुरालोचनाकारपरिणाम आत्मनस्तदात्मकत्वं तद्रूपता, औपचारिकनयश्च ज्ञानप्रकारमेव दर्शनमिच्छति, शुद्धनयः पुनरनाकारमेव सङ्गिरते दर्शनमाकारवच्च विज्ञानम् / आकारश्च विशिष्यनिर्देशो भावस्य पर्यायतः प्रोक्तः, स च दर्शनसमनन्तरमेव सम्पद्यतेऽन्तर्मुहूर्तकालभावित्वात् / आकारपरिज्ञानाच प्रागालोचनमवश्यमभ्युपेयम्, अन्यथा प्रथमत एव पश्यतः किमपीदमिति कुतोऽव्यक्तबोधनं स्यात् ? यदि चालोचनमन्तरेणाकारपरिज्ञानमुत्पादत एव पुंसः स्यात् तथा सत्येकसमयमात्रेण स्तम्भकुम्भादीन् विशिष्य गृह्णीयात्, न च तथोपलभ्यते, अपिचसमयमपि सङ्गृह्णीयान्न च केवलिनमन्तरेण समयग्रहणमस्ति ? / अपरे वर्णयन्ति-वर्तमानकालविषयं तु सदर्थग्रहणं दर्शनम्, त्रिकालविषयं साकारं ज्ञानमिति, एतदपि वार्तम् , वर्तमानस्य परमनिरुद्धसमयरूपत्वाद् विवेचनाभावः, तस्मात् छद्मस्थानामनाकाराद्धाऽल्पत्वादेवाव्यक्ता, साकाराद्वाऽऽधिक्याच्चान्तर्मुहूर्तिकी व्यक्ता भवति, न चान्तर्मुहूर्तादुपर्येकत्रावधानमस्ति वस्तुनि, प्रत्यक्षमेतत् , अनाकाराद्धा साकाराद्धा द्वयपरावृत्तिश्च प्राणिनां स्वभावादुपजायमाना स्वसंवेद्या च नापहन्तुं शक्याऽतिबहुभिरपि हेतुभिः / अत्र च यथा साकाराद्धायां सम्यमिथ्यादृष्टयोर्विशेषः, नैवमस्ति दर्शने, अनाकारत्वे द्वयोरपि तुल्यत्वादित्यर्थः / चक्षुर्दर्शनवदचक्षुर्दर्शनं वाच्यं शेपेन्द्रियविषयम् , अथवेन्द्रियनिरपेक्षमेव तत् कस्यचिद् भवेद् यतः पृष्ठत उपसर्पन्तं सर्प बुद्धथैवेन्द्रियव्यापारनिरपेक्षं पश्यतीति / अवधिदर्शनं तु सम्यग्दृष्टेरेव, न मिथ्यादृष्टेः, चक्षुर्दर्शनमेव किल तस्येति पारमर्षी श्रुतिः / केवलज्ञानोपयोगप्रवाहविच्छेदेऽनाकाराद्धा केवलदर्शनमुच्यते स्वाभाविकम् , अनाकारग्रहणकालश्च तत्र नाकर्तुमलमल्पत्वा. द् भावात् , न पुनस्तन्नाकरोति, यथा समयमात्रेणागृह्णानः पुमान् घटकमन्य इति न व्यपदिश्यते तद्ग्रहणशक्तियुक्तत्वाद, अल्पिष्ठकालत्वादशक्तस्तद्ग्रहे तथा भगवानपीति // 9 // एवमेतत् सर्वगतिवर्तिनां जीवानामिन्द्रियकषायलेश्यादिविशेषवतामप्यविलक्षणं लक्षणमुक्तम्, ते पुनरुपयोगलक्ष्याः कतिविधा जीवा इति प्रकारान्तरेण तावद द्वैविध्यं वर्णयितुकाम आह सूत्रम्-संसारिणो मुक्ताश्च // 2-10 // भा०-ते जीवाः समासतो द्विविधा भवन्ति-संसारिणो मुक्ताश्च // 10 // किश्चान्यत् / टी-संसारिणो मुक्ताश्च / यदवष्टम्भेनात्मनः संसरणम्-इतश्चेतश्च गमनं भवति 1 ‘स गृह्णीयान ' इति प्रतिभाति / 2 'द्धान्तमुहर्तिकी ' इति क-ख-पाठः / Page #182 -------------------------------------------------------------------------- ________________ 156 तत्त्वार्थादिगमसूत्रम् [ अध्यायः 2 स संसारः-कर्माष्टकरूपः, स येषां विद्यते ते संसारिणः / अथवा संसारम्य शब्दार्थः स्य बलवतो मोहस्याख्या संसारस्तत्सम्बन्धात् संसारिणः, नारका * द्यवस्था वा संसारः, तदवस्थायोगात् संसारिणः / मुच्यन्ते स्म मुक्ताः / कुत इति चेत् 1 अनन्तरत्वात् संसारादिति वाच्यम् / अतो निर्धताशेषकर्माणः संसारान्मुक्ता इति व्यपदिश्यन्ते / समस्य कस्माल्लाघवैषिणा निर्देशो नाकारि सूरिणेति ? उच्यते-भिन्नस्वभावप्रतिपादनार्थमुभयेषाम् , संसारिणो हि प्रागमिहितोपशमिकादिस्वभावास्तद्विनिमुक्तास्तु मुक्ताः / तथोभयत्रोभयोबहुवचनमानन्त्यप्रतिपत्तये, संसारिणोऽनन्ताः / मुक्ताश्चेति / संसारिणामादावुपन्यासः प्रत्यक्षबहुभेदवाच्यार्थः, तदनु मुक्तवचनं संसारिपूर्वकत्वप्रसिद्धयर्थ तत्साहचर्यादभावनिषेधार्थ च। एकैकाने कविकल्पज्ञापनार्थश्चशब्दः / संसारिणां तावत् समनस्कादिभेदोऽनन्तर एव वक्ष्यते, मुक्ता नामप्यनन्तरपरम्परतद्भेदाः शास्त्रपरिसमाप्तिदेशे वक्ष्यन्ते, प्रधानगुणभावख्यापनार्थो वा चशब्दो द्रष्टव्यः / ते जीवाः समासत इत्यादि भाष्यम् // त इति औपशमिकादिभावभाजः समनन्तरव्यावर्णितोपयोगलाञ्छना जीवाः परामृश्यन्ते, समासतः-संक्षे. पात् द्विप्रकारा भवन्ति, न तु विस्ताराभिधानतः, तच्च द्वैविध्यं दर्शयति-संसारभाजो मुक्तिप्राप्ताश्चेति // 10 // किश्चान्यदित्यनेन सम्बन्धमाचष्टे सूत्रस्य भाष्यकारः, जीवाधिकारानुवृत्तावन्यदपि किश्चिद्भेदान्तरमुपदिश्यते सूत्रम्-समनस्कामनस्काः // 2-11 // भा०-समासतस्त एव जीवा द्विविधा भवन्ति-समनस्काश्च अमनस्काश्च / तान् पुरस्तादू ( अ० 2, सू० 25) वक्ष्यामः // 11 // टी०-समनस्कामनस्काः, कृतसमासनिर्देशात् संसारिण एव सम्बध्यन्ते न मुक्ताः, यदि च मुक्ता अपि सम्बध्येरन् न तर्हि समस्य निर्दिशेदाचार्यः, विशकलीकृत्य पूर्ववत् स्पष्टमभिदध्यादसमस्तमेव / कृतसमासनिर्देशे चायमभिप्रायः-नैष सङ्घातो विशकलीभूतः प्रयुज्यते विशेषणतया, किन्तु संहतरूप एवैकस्य, सम्भवतो विशेषणमिति, उभयसम्भवश्व संसारिणाम्, न मुक्तानाम् , अथवा व्याख्यानाद विशेषप्रतिपत्तिः, संसारिणोऽभिसम्बध्यन्ते, न मुक्ताः, अथवा नेदं विधायकम्, किन्त्वनुवादकम् , येषां नामाम्नाये भिहितं समनस्कामनस्कत्वं तेषामेवानूद्यते, सिद्धानां पुनरमनस्कत्वमेव, नोभयमिति / अपरे पुनर्योगमुत्तरं विभजन्ते-संसारिण इति, यथोक्तलक्षणाः संसारिणो भवन्ति, ततः संसारिण इत्यनुवर्तमाने त्रसस्थावरा इति, अन्ये पुनः सूत्रमेव विपर्यासयन्ति विभज्य, प्राक् तावत् संसारिणः पश्चात् त्रसस्थावराः ततः समनस्कामनस्का - इति, तदेतदयु 1 समासं कृत्वा इत्यर्थः। 2 . परस्तादू' इति घ-पाठः। Page #183 -------------------------------------------------------------------------- ________________ सूत्र 12 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 157 कमनाचार्यत्वात् / अधुना सूत्रार्थः-समासत एवेत्यादि भाष्यम् / पुनरपि सङ्क्षपादेव दैविध्यमभिधीयते, जीवा इति प्रेक्षापूर्वकारितयोदचीचरद् इदं कपति चेतसि सूरीतानामप्यभिसम्बन्धप्रसङ्गः समनस्कामनस्कत्वेनेत्यतो जीवाः प्रतिविशिष्टायुर्द्रव्यसहिताः परिगृह्यन्त इति सिद्धव्युदासः / समनस्काश्चेति सह मनसा समनस्काः, तद्विरहितास्त्वितरे / किं पुनस्तन्मनो येन सम्बन्धात् समनस्का इति व्यपदिश्यन्ते ? / उच्यते-द्विविधं तद् द्रव्यभावभेदात् , तत्र मनोऽभिनिवृत्यै यद् दलिकद्रव्यमुपात्तमात्मना सा मनःपर्याप्तिर्नाम करणविशेषः, तेन करणविशेषेण सर्वात्मप्रदेशवर्तिना मनसो वैवि- - व. याननन्तप्रदेशान् मनोवर्गणायोग्यान् स्कन्धान चित्तार्थमादत्ते ते करणध्यम् विशेषपरिगृहीताः स्कन्धाः द्रव्यमनोऽभिधीयते(न्ते ) / भावमनस्तु जीवस्योपयोगः चित्तचेतनायोगाध्यवसानावधानस्वान्तमनस्काररूपः परिणामः / श्रुतज्ञानावरणक्षयोपशमजतया चैतन्मनोरूपं करणमिष्यतेऽर्हद्भिः, धारणा च मनोयुक्तस्यैव च जन्तोर्भवति, नेतरस्येति / अत्र ये द्रव्यभावमनोभ्यामुभाभ्यामपि युक्तास्ते समनस्काः, ये पुनर्भावमनसैवोपयोगमात्रेण मनःपर्याप्तिकरणविशेषनिरपेक्षेण युक्तास्ते अमनस्काः, एषां मनःपयोप्तिकरणनिवृत्त्यभावात् , चेतना तु तया पटीयसी भवति यथेतरेषां द्रव्यमनोऽवष्टम्भाद्, वृद्धयष्टिस्थानीयद्रव्यमनोऽवष्टम्भेन संज्ञिनः स्पष्टमनुचिन्तयन्ति / तत्प्रविभागवायम्-नारकदेवगर्भव्युत्क्रान्तिकमनुष्यतिर्यश्चः समनस्काः, शेपास्त्वमनस्काः, तान् पुरस्ताद् वक्ष्याम इति 'संज्ञिनः समनस्काः ', पुरो-भविष्यति सूत्रे (अ० 2, सू० 25 ) व्याख्यास्यामः समनस्कामनस्कविशेषमिह पुनर्भेदमात्राख्यानमित्यावेदयति भाष्यकार इति // 11 // ... अथ जीवप्रकारान्तरसङ्ग्रहप्रस्तावमेवोपजीवयन्नाहाचार्यः सूत्रम्-संसारिणस्त्रसस्थावराः // 2-12 // संसारिजीवभेद- भा०-संसारिणो जीवा द्विविधा भवन्ति-त्रसाः स्थाव प्रदर्शनम् राश्च // 12 // तत्र / - टी.-संसारिणस्त्रसाः स्थावराः / इतः प्रभृति संसार्यधिकार एव आ अजीवकायाध्यायाद् वेदितव्यः / मुक्ताः पुनर्दशमेऽध्याये वक्ष्यन्ते / उक्तलक्षणः संसारः, स येपामस्ति ते तथोच्यन्ते // ननु च संसारिणो मुक्ताश्चेति इह सूत्रे यत् संसारिग्रहणं तदेवानन्तरसूत्रसम्बन्धितमधिकरिष्यते नार्थः पुनः संसारिग्रहणेन / उच्यतेपूर्वक संसारिग्रहणं भेदकथनाभिप्रायेण जीवानामवाचि, तच्च समनस्कामनस्कसूत्रे प्रयत्नतः सम्बन्धमुपनीतं नोत्तरत्र प्रवर्तितुमुत्सहते, इदं पुनर्ने भेदप्रतिपत्तये, किन्तु 1 'स्त्रसाः स्थावराः' इति ग- पाठः। 2 "पुनर्भेद ' इति क-ख-पाठः / Page #184 -------------------------------------------------------------------------- ________________ 158 तत्त्वार्थादिगमसूत्रम् [ अध्यायः 1 यदितः प्रभृति वक्ष्यते आ चतुर्थाध्यायपरिसमाप्तेस्तत् सर्व संसारिणामित्यधिक्रियते / तेच संसारिणो जीवा द्विविधा भवन्ति, तद्यथा-प्रसाः स्थावराश्चति / परिस्पष्टसुखदुःखे. च्छाद्वेषादिलिङ्गास्त्रसनामकर्मोदयात् त्रसाः, अपरिस्फुटसुखादिलिङ्गाः स्थावरनामकर्मोदयात् स्थावराः, आदौ च त्रसाभिधानं सुखग्रहणार्थम् , स्पष्टलिङ्गत्वात, समास उभयेषां परस्परसङ्कमार्थम् , त्रसाः स्थावरेषु स्थावराः त्रसेषु मृत्वोपजायन्त इति / एवं तावत् संसारिणो द्वैविध्येन विकल्पिताः-त्रसाः स्थावराश्चेति // 12 // सूत्रम्-पृथिव्यम्बुवनस्पतयः स्थावराः॥२-१३ // भा०-पृथ्वीकायिकाः, अप्कायिकाः, वनस्पतिकायिकाः इत्येते त्रिविधाः स्थावरा जीवा भवन्ति / तत्र पृथिवीकायोऽनेकविधः शुद्धस्थापणा पृथिवीशर्करावालुकादिः / अप्कायोऽनेकविधः हिमादिः / वन स्पतिकायोऽनेकविधः शैवलादिः / / 13 // टी०-तत्र स्थावरानेव तावद वच्मः-पृथिव्यम्वुवनस्पतयः स्थावराः // ननु च यथोद्देशं निर्देशः कर्तव्यः, प्रथमं वसा वक्तव्याः ततः स्थावराः / उच्यते-प्रेक्षापूर्वकारितयाऽऽचार्येण स्वरचितव्यवस्थां भित्वा स्थावरास्तावदभिहिताः। का पुनरसौ प्रेक्षापूर्वकारिता ? भण्यते-वक्ष्यत्युत्तरसूत्रं(१४) 'तेजोवायू द्वीन्द्रियादयश्च त्रसाः, तत्र इन्द्रियप्रकरणमधीत्य वक्ष्यति 'वाय्वन्तानामेकम् ' (अ० 2, मू० 23 ) तत्रायमर्थः पृथिव्यादीनां वाय्वन्तानामेकेन्द्रियं स्पर्शनं भवति, यदि पुनः पूर्व प्रसाभिधानं कुर्यात् पश्चात् स्थावरानभिदध्यात् तथा( दा) गौरवं जायेत, अर्थलाघवैषिणा सता क्रमो भिन्नः। तत्रेत्यनेन सूत्रं सम्बन्धयति, तत्र द्वितये प्रस्तुते स्थावरास्तावदुच्यन्ते प्रयोजनार्थम्-पृथिवीकायिका इत्यादि भाष्यम् // ननु च मूत्रे कायग्रहणं नास्ति, भाष्ये कथमकस्माद् विहायसोऽपतदिति ? / उच्यते लाघवार्थिना सूत्रे नोपात्तम्, विनापि तेन सिद्धेः, भाष्ये तु यथेष्टमधिकमप्युच्चार्यते सूत्रार्थममुञ्चतेति / तत्र पृथिव्येव कायः पृथिवीकायः, स येषां विद्यते ते पृथिवीकायिकाः // ननु च लघुत्वात् प्रक्रमस्य बहुव्रीहौ सति तदभिहितत्वान्मत्वर्थी येन न भाव्यम्, ततश्च पृथिवी कायो येषां ते पृथिवीकायाः, सत्यमेवमेतत् , तथाप्यनरवन्ति चक्राणीत्येवमाद्यनेकप्रयोगदर्शनात् साधुत्वमत्रापि प्रतिपत्तव्यम् / अथवा पृथिवीकायादयो जातिशब्दास्ततश्च मत्वर्थीयः सिद्धः कृष्णसर्पवद्वल्मीकन्यायेनेति, एवमितरयोरपि योज्यमेतत् / इतिशब्दोऽर्थपदार्थकः / त्रिविधा एव स्थानशीला भवन्ति जीवाः पृथिव्यादयः, न पुनः स्थावरनामकर्मोदयनिवृत्तानां त्रैविध्यं निर्धारयति, तेजोवाग्योरपि तनिवृत्तेरिति / स्थूलोत्तरद्वयाधारत्वादादौ न्यस्ता पृथिवी, तदन्यापस्तदाधेयत्वाल्लेश्याप्र १'मृत्वोपयात ' इति क-ख पाठः। २'पृथ्व्यब्व.' इति घ-पाठः / 3 'लाघवार्थ' इति ख-पाठः ४'इतरेतरयोरपि' इति क-ख-पाठः। Page #185 -------------------------------------------------------------------------- ________________ सूत्रं 13 ] स्वोपज्ञभाष्य टीकालङ्कृतम् 159 त्येकशरीरासङ्ख्येयत्वसाम्याच्च, ततो वनस्पतिरनन्तत्वात् , समासश्च परस्परसङ्कमज्ञानार्थः। अधुना स्वस्थान एव पृथिव्यादीनामनेकभेदमाचिख्यासुराह-पृथिवीकायोऽनेकविध इत्यादि भाष्यम् / पृथ्वीकायजात्यनतिक्रमेणानेकभेदता दर्श्यते-शुद्धपृथिवी वक्ष्यमाण ___ शर्करादिभेदरहिता मृत्तिकारूपा गोमयकचवरायनेकेन्धनरहिता वा, पृथ्वीकायिकानामनेके भेदाः न तथा शर्करापृथिवी परिलघुकाश्मशकलव्यतिमिश्रा, वालुकापृथिवी " वालुकाव्यतिमिश्रा मृत्तिकेति / आदिशब्देनोपल-शिला-लवणोपायवपुताप्र-सीसक-रजत सुवर्ण-वैर-हरिताल-हिङ्गुलक-मनःशिला-सस्यकाञ्जन-प्रवालाभ्रपटलाभ्रवालिका-गोमेद रुचकाङ्क स्फटिक-लोहिताक्ष-मरकत-मसारगल्ल-भुजगेन्द्रनील चन्दन-गैरिक-हंसगभ-पुलक-सौगन्धिक-चन्द्रसूर्यकान्त-वैडूर्य-जलकान्तप्रकाराः सर्वे बादरपृथिवीकायभेदा ग्राह्याः। एते च शुद्धपृथिव्यादयः स्वाकरस्था एव प्रायश्चैतन्यं विभ्रति, गोमयकचवरसवितृतापादिसम्पर्कात तु गतचेतना अपि जायन्ते, एपां च बादराणां यत्रेको जीवस्तत्रासङ्ख्येयैर्नियमतोभाव्यम् , स्थानमपि चैपां पृथिव्यष्टकाधोऽधः पातालभवननरकप्रस्तरादि / अपरं मूक्ष्मपृथिवीकायाः सर्वलोकव्यापिनः, उभयेपामपि चैपाममी परमर्पिप्रणीतप्रवचनप्रसिद्धा भेदा वेदितव्याः पर्याप्तकापर्याप्तकशरीरत्रयाङ्गुलासङ्ख्येयभागशरीरसेवार्तसंहननममूरचन्द्रसंस्थानकषायसंज्ञाचतुष्काद्यलेश्यात्रयस्पर्शनेन्द्रियवेदनाकपायमारणान्तिकसमुद्घातासंज्ञिनपुंसकवेदपयोप्तिचतुष्टयमिथ्यादर्शनाचक्षुर्दर्शनाज्ञानकाययोगसाकारानाकारोपयोगाहारादिप्रकाराः, विशेपास्तु बादरपृथिवीकायानामाद्याश्चतस्रो लेश्याः, शेषं समानम् , असङ्ख्येयाश्च प्रत्येकमुभये / कथं पुनरिदं विज्ञायते साकारानाकारोपयोगादिजीवलिङ्गकलापोऽत्राशेपप्राणिचि भूतोऽस्तीति ? / उच्यते-आगमतो युक्तितश्च, आगमस्तावत्-" पुढे विकाइया णं भंते ! किं सागारोवओगोवउत्ता अणागारोवओगोवउत्ता ? गोयमा ! सागारोवओगोवउत्तावि अणागारोवओगोवउत्तावि" (प्रज्ञा० सू० 312 ) // तथा " पुढविकाइए णं भंते ! अक्कते समाणे केरिसयं वेदणं पच्चणुभवति ? गोयमा ! से जहा नामए केइ पुरिसे तरुणे बलवं जुवाणे जाव निउणसिप्पोवगए एग पुरिसं जुण्णं जराजजरियदेहं परिहीणसगलिंदियवियारं दुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणेज्जा, से णं गोयमा ! पुरिसे तेणं जमलपाणिणा मुद्धाणंसि अभिहते समाणे केरिसयं वेयणं पच्चणुभवति ?, अणिटं सम 'वालिका' इति क-ख-पाठः / 2 गोमेदक' इति क-ख-पाठः।३ 'रुचकाह' इति ग-टी-पाठः। 4 पृथ्वी कायिकाः भदन्त ! किं साकारोपयोगोपयुक्ताः अनाकारोपयोगोपयुक्ताः?, गौतम ! साका० अपि अना० अपि। 5 पृथ्विकायिको भदन्त / आकान्तः सन् कीदृशी वेदना प्रत्यनुभवति ? / गौतम ! तद्यथानामकः कश्चित् पुरुषस्तरुणो बलवान् युवा यावत् निपुणविशल्पोपगत एकं पुरुष जीणं जराजर्जरितदेहं परिहीनसकलेन्द्रियव्यापारं दुबलं क्लाम्यन्तं पाणियमलेन मूनि अभिहन्यात्, स गौतम / पुरुषस्तेन पाणियमलेन मूनि अभिहतः सन् कीदृशी वेदना प्रत्यनु Page #186 -------------------------------------------------------------------------- ________________ 160 तत्त्वार्थादिगमसूत्रम् [ अध्यायः 2 णाउसो!, तस्स णं गोयमा! पुरिसस्स वेयणाहितो पुढविकाइए अक्कंते समाणे अणितरिय अकंदिततरियं चेव अमणामतरियं चेव वेयणं पच्चणुभवति" (भगश०९,उ०३,सू०६५३)। एवमेवाप्तेजोवायुवनस्पतिकाया अपि वक्तव्याः / युक्तिरपि सास्नाविषाणादिसङ्घाता हि छेद्यभेद्योत्क्षेप्यभोग्या यरसनीयस्पृश्यदृश्यद्रव्यत्वे सति जीवशरीरतया प्रसिद्धाः, पृथिव्यादीनां च छेद्यत्वादिदृष्टमपहोतुं न शक्यते, जीवशरीरत्वेन निरूपितत्वात् , पाणिपादसङ्घातानामिव पृथिव्यादीनामपि कदाचिच्चैतन्यं, न चात्यन्तमचित्ततेति, कदाचित् किश्चिदचेतनमपि शस्त्रोपहतत्वात् पाण्यादिवदेवेति, अर्थोविकाराङ्कुरवच्च समानजातीयाङ्कुरोत्पत्तिमत्त्वे सति स्वाश्रयावस्था विद्रुमलवणोपलादयः पृथिवीविकाराश्चेतना ततश्च विद्रुमलवणादिवत् पृथिवी विकारे सति अभ्रपटलाञ्जन-हरिताल-मनःशिला-शुद्धपृथिवी-शर्कराप्रभृतयश्चैतन्यमव्यक्तं मत्तसुप्तमूञ्छितपुरुषवदनुभवन्तीत्यागमतो युक्तितश्चैषामुपेयोगो लक्षणं प्रतिपत्तव्यमितरत्रापि च यथासम्भवमेतदुभयमायोजनीयम् / अप्कायोऽनेक इत्यादिग्रन्थः / अत्राप्याअप्कायिकानां भेद दिग्रहणेनावश्याय-महिका करक-हरतनु-शुद्ध-शीतोष्ण-क्षाराम्ल-लवण-क्षीप्रदर्शनम् मद र-घृतोदकप्रकाराः परिगृह्यन्ते,बादराणां समुद्र-हद-नदीप्रभृतिस्थानमितरे - षां सर्वलोकस्तथैवासङ्ख्येयतापर्याप्तकादिभेदश्वाशेषस्तथैव केवलं शरीरसंस्थानं स्तिबुकबिन्दुकसंस्थितमेवावसेयम् / वनस्पतिकाय इत्यादिग्रन्थः / शैवलादिरिति / साधारणशरीरबादरवनस्पतिकायोपादानात् तदुपलक्षितास्ते चान्ये च वनस्पतिकायि. काना ग्राह्याः, शैवालावकपणकहरिद्राद्रेकमूलकाल्लुकासिंहकर्णिप्रभृतयः, तथा पणम् प्रत्येकशरीराः वृक्ष-गुच्छ-गुल्म-लतावितानप्रभृतयः / अत्र साधारणवन स्पतेरनन्तजीवानामेकं शरीरमुच्छ्वासनिःश्वाससमतासमाहारादानता चेत्यादिलक्षणमागमतोऽनुसतव्यम् / प्रत्येकशरीरास्त्वसङ्ख्येयजीवाः सङ्ख्येयजीवा वा बहुभेदाः, पर्याप्तकादिर्भेदस्तथैव, केवलमनित्थं रथं शरीरसंस्थानमेषामवसेयम् , शेषमन्यत् समानम् / स्थानं घनोदधिधनवलयाद्येषां, सख्यामङ्गीकृत्यानन्ताः सर्वे वनस्पतयः, सूक्ष्माः सर्वलोकव्यापिनो वनस्पतयः / / 13 // उक्ताः स्थावराः, तसा उच्यन्ते सूत्रम्-तेजोवायू दीन्द्रियादयश्च त्रसाः // 2-14 // भा०-तेजाकायिका अङ्गारादयः / वायुकायिका उत्कलिकादयः / द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चन्द्रिया इत्येते प्रसा जताना मदा भवन्ति / संसारिणस्त्रसाः स्थावरा इत्युक्ते एतदुक्तं भवतिमुक्ता नैव सा नैव स्थावरा इति // 14 // भवति ? अनिष्टां श्रमणायुष्मन् | तस्य गौतम | पुरुषस्य वेदनायाः ( सकाशात् ) पृथ्वीकायिक भाक्रान्तः सन् भनिष्टतरी अकान्ततरां अमनोज्ञतरामेव वेदना प्रत्यनुभवति / १.मुपयोगलक्षणस्वम् ' इति ग-टी-पाठः॥२'तेजोवायद्वीन्द्रियादयः त्रसाः' इति ग-पाठः। Page #187 -------------------------------------------------------------------------- ________________ सूत्रं 15 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 161 .. टी-तेजोवायू इति / अङ्गारार्चिरलातशुद्धाग्न्यादिभेदं बादरं तेजः, बादरस्य तु मनुष्यक्षेत्रमेव स्थानम्, न ततः परमस्ति, सूक्ष्मं सर्वलोकपर्यापन्नम्, शरीरसंस्थानं सूचीकलापाकृति, शेपपर्याप्तकादिभेदः पूर्वकैः समानः, प्रमाणतोऽसङ्ख्येयजीवः / प्राच्यप्रतीच्याद्युत्कलिकामण्डलिकादिभेदो वायुः, बादरस्य स्थानं घनवाततनुवाततद्वलयाधोलोकपातालभवनादि, सूक्ष्मः सर्वलोकपर्यापन्नः, प्रमाणतोऽसङ्ख्येयजीवः, पूर्वकैः पर्याप्रकादिभेदः समानः, शरीरसंस्थानं तु पताकाकृति द्रष्टव्यम् // द्वे इन्द्रिये येषां ते द्वीन्द्रियाः, ते द्वीन्द्रिया आदौ येषां ते द्वीन्द्रियादय इति तद्गुणसंविज्ञानो बहुव्रीहिः, पञ्चेन्द्रियपर्यवसानाः, वक्ष्यति-'पञ्चेन्द्रियाणि' (अ० 2, मू० 15) इति / पश्चैव नातः परमिन्द्रियम्, नियमाद्धि तद्वतामवच्छेदः / चशब्दः समुच्चितौ / सर्वे एते असा भवन्ति / इतिशब्दोऽवधृतौ / एतावन्त एव सामान्यत इति / त्रसत्वं च द्विविध-क्रियातो लब्धितश्च / तत्र क्रिया कर्म चलनं देशान्तरप्राप्तिः / अतः क्रियां प्राप्य तेजोवाय्वोत्रसत्वम् , सपलब्धिस्तु बसनामकर्मोदयः, यस्माद् द्वीन्द्रियादीनां क्रिया च देशान्तराप्राप्तिलक्षणेति, लब्ध्या पृथिव्यप्तेजोवायुवनस्पतयः सर्वे स्थावरनामकर्मोदयात् स्थावरा एव, आदिवचनं तेजसश्चक्षुःप्रत्यक्षाल्पत्वात् , ततो वायोस्तदधिकसूक्ष्मत्वात् , असमासकरणं तेजोवाग्योः संज्ञाद्वैविध्यप्रतिपादनार्थम् सौ स्थावरौ चेति, तेजोवाय्वोः समासकरणं स्थावरैः सहैकेन्द्रियत्वसाधात् , द्वीन्द्रियाद्युत्तरवचनमिन्द्रियक्रमवृद्धेः / संसारिणस्त्रसा इत्यादि भाष्यम् / कोऽभिप्रायः ? अर्थापत्तिरपि प्रमाणान्तरं नयवादान्तरेणेति प्रागुक्तम्, तस्याः प्रामाण्यद्वारेण विषयप्रदर्शनं क्रियते-संसारिणां त्रसस्थावरत्वविधाने मुक्तानामुभयमपोदितं भवतीति, न ते त्रसाः स्थावरा वा तल्लक्षणानुपपत्तेरिति // 14 // ' निर्दिष्टा उपयोगिनः, सम्प्रतीन्द्रियाण्युच्यन्ते कः पुनरस्य सम्बन्धः सूत्रस्य ? उच्यते--उक्तं प्रथमे ' तदिन्द्रियानिन्द्रियनिमित्तं ' ( अ० 1, मू० 14 ) मतिज्ञानमनन्तरं च द्वीन्द्रियादयस्त्रसास्तत्र कियन्तीन्द्रियाणि ? कतिविधानि वा तानि ? तेषां वा मध्ये कस्य किमिन्द्रियमुपयोगिन इति ? तत्रादौ सङ्ख्यानमेव तावनिरूपयितुमाह सूत्रम्-पञ्चेन्द्रियाणि // 2-15 // टी०–अथवा येयं चैतन्यव्यक्तिर्जीवानां सेन्द्रियद्वारेणेति, तानि च न सर्वाणि सर्वस्येति विभागो वक्ष्यते, इन्द्रियनियमः पुनः पञ्चधैवेत्यत आह-पञ्चेन्द्रियाणि / अथवा जीवानामुपयोगो लक्षणमन्वयि सर्वत्र निगदितम, तस्योपयोगस्य निमित्तान्यमन्यपदिशन्ति पश्चेन्द्रियाणि // ननु च सूत्रारम्भो निष्फल एव लक्ष्यते, किमनेनोक्तेन भवति पञ्चेन्द्रियाणीति ? / इन्द्रियस्वरूपमेवात्र वक्तव्यम् , द्रव्येन्द्रियमित्थंलक्षणमेवंप्रकारं च भावेन्द्रियम् इत्याशङ्कायामाह भाष्यकार: Page #188 -------------------------------------------------------------------------- ________________ 162 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 मा०–पञ्चेन्द्रियाणि भवन्ति / आरम्भो नियमार्थः षडादिप्रतिषेधार्थश्च / " इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा" (पा० अ० 2, पा० 5, सू० 93 ) / इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात् विषयेषु वा परमैश्वर्ययोगात् , तस्य लिङ्गमिन्द्रियम्, लिङ्गनात् सूचनात् प्रदर्शनादुपष्टम्भनाद व्यञ्जनाच जीवस्य लिङ्गमिन्द्रियम् // 15 // टी-पञ्चेन्द्रियाणि भवन्तीति / आरम्भो नियमार्थः / अन्यूनाधिकतयाऽवधार्यन्ते एतावन्तीन्द्रियाणि प्रकर्षतो भवन्त्येकस्य जन्तोरित्येवंप्रकारो नियमः प्रतिपिपादयिपितः, तथा षडादिप्रतिषेधार्थश्च / षट् आदौ येषां तानि षडादीनि सामर्थ्यादिन्द्रियाण्येव सम्बध्यन्ते, अस्मादुपात्तेन्द्रियपञ्चकव्यतिरेकेण यावन्ति परैरभ्युपेयन्ते सर्वेषामत्र प्रतिषेधः, सूत्रारम्भादेव // ननु च नियमादेवेदमवाप्तमन्यूनानधिकानि पञ्चैवेति, पुनः किमुच्यते षडादिप्रतिषेधार्थश्चेति ? / उच्यते-नियमस्यैतावत् फलं पश्चैवेति सिद्धान्तोऽयं जैनः, तद्वयति _ रिक्तेन्द्रियान्तराभ्युपगमवादी तु निराकार्योऽवश्यं दृषणमुत्प्रेक्ष्य सिद्धान्तइन्द्रियसंख्याप्रतिपादनम् - वादिना, अतस्तद्वीजभूतमिदं वचनं षडादिप्रतिषेधार्थश्चेति / तत्र मन वा - स्तावदिन्द्रियं न भवति, इन्द्रियाणि चक्षुरादीनि स्वतन्त्राणि सन्ति रूपाद्यर्थग्रहणेषु प्रवर्तन्तेऽन्यनिरपेक्षाणि, मनः पुनश्चक्षुरादीन्द्रियकलापविषयीकृतमनुपतति रूपाद्यर्थ, न साक्षादित्यतश्चक्षुरादिवन्नेन्द्रियं मनः, किन्त्वनिन्द्रियम्, एतच्चोपरिष्टाद् वक्ष्यते / तथा वागादयः किल वचनादिव्यापारपरायणत्वादिन्द्रियव्यपदेशभाज इत्येतदप्ययुक्तम् , नहि यथा चक्षुरादिद्वारजन्म विज्ञानं परिणमतेऽर्थग्रहणायैवं वागादिद्वारजन्म विज्ञानं वचनादिषु परिणतिमुपैति, न च वाग्वचनयोः कश्चिद् भेदोऽस्ति, शब्दात्मिका चेयमात्मप्रयत्नसंस्कारप्रयोगक्रमवर्तिवीत्वात् , स च श्रोत्रेन्द्रियविषयः, न चेन्द्रियमिन्द्रियान्तरमास्कन्दिप्यते, नियतविषयत्वात् / तथा पाण्याद्यवयवक्रियाणामिन्द्रियत्वे भ्रक्षेपस्तनभुजशिरस्फुरणक्रियाणामपीन्द्रियत्वं स्यात्, अर्थता एव प्रतिविशिष्टावयवसाध्याः क्रियाः प्रदिश्यन्त इन्द्रियाकारेण नान्यास्ततो रुचिरेव युक्तितयाङ्गीकृता स्यात, अपि च छिन्नपाणिः पादाभ्यामादत्ते, ध्वस्तचरणश्च पाणिभ्यां विहरति, विनष्टपायुप्रदेशा च भगन्दरव्याधिना योपिदुपस्थेनाप्युत्सृजतीत्येवमतिसङ्कीर्णता स्यात्, न चैवं कदाचिदन्धीभूतः श्रोत्रेण रूपमाददान उपलभ्यते, तस्माद् यत्किश्चिदेतत् / प्रकृतमुच्यते-सङ्ख्याशब्दो व्याख्यातः / पश्चैवेन्द्रियाणि भवन्ति / अधुनेन्द्रियाणीत्यस्यावयवस्य शब्दनिर्भेददिदर्शयिषयाऽऽहइन्द्रियमिन्द्रलिङ्गमिति / एतावता शन्दप्राभृतप्रसिद्धं लक्षणमुपलक्षयति, स्वयमेव च पुनर्व्याचष्टे-इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात्, इन्दनादिन्द्रः सर्वभोगोपभोगाधिष्ठानसर्वद्रव्यविषयैश्वर्योपभोगाज्जीवः, तच्च पर्यायतोऽस्य सम्भवत्यनादौ संसारेऽनेकजन्मान्तरवृत्तर्देवादिस्थानापेक्षया, न चास्ति किल कश्चित् प्रदेशो लोकेऽणुमात्रोऽपि यत्रैकेन जन्तुना न जन्ममरणे समनुभूते तिप्राणापानशरी Page #189 -------------------------------------------------------------------------- ________________ सूत्र 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 163 राहारादिग्रहणं वा नाकारीति, प्रवचने चोपदिष्टमजापाटकनिदर्शनम्, अत एव भगवद्भिरालोकितसकललोकस्वभावैरतः परमेश्वरोऽयं सर्वत्र सर्वस्य सर्वदा ईश्वरत्वाद् / यो व सर्वद्रव्यविषयमुक्तन्यायेन परमेश्वरत्वमस्यापहृते प्रवचनाद् बहिर्वर्तमानस्तं प्रति प्रकारान्तरेण परमेश्वरतागाविष्करोति-विषयेषु वा परमैश्वर्ययोगादिति / प्रसिद्धाः खलु विषयाः शब्दादयस्तद्विषयश्चात्मनः परिभोगोऽविगानेन प्रतिपन्नः प्रवादिभिस्तदेवास्य परमैश्वर्य विषयपरिज्ञानाधिकत्वात् , न खलु तं विहायात्मानमन्यो विषयान् भुङ्क्ते कश्चिजानीते पा / वाशब्दो विकल्पार्थः। तमेवमुभाभ्यां प्रकाराभ्यामात्मानमिन्द्रतायामवस्थाप्य सर्वनाम्ना परामृशति-तस्य लिङ्गमिन्द्रियमिति / तस्यैवंप्रकारस्यात्मन इन्द्रस्य लिङ्ग-चिह्नमविना . भाव्यत्यन्तलीनपदार्थावगमकारीन्द्रियमुच्यते, तदेव च लिङ्गमात्मा पाच वगमहेतुतयाऽनेकप्रसिद्धतरपर्यायभेदेन दर्शयति-लिङ्गनादित्यादिना भाष्येण / लिङ्गनात्-अवगमनात् , तद्यथा-कश्चिच्छोत्रेणोपलभ्य शब्दान् मनोहरानुत्फुल्ललोचनयुगस्तदभिमुखदत्तावधानः सुखास्वादनिर्भरहृदयः सहसोपजायते रोमाञ्चकञ्चुकितच्छविः, तदत्रावगमयति विद्वन्मनांसि श्रोत्रमस्त्यत्रान्तर्वर्ती शरीरादिसङ्घातविलक्षणः कोऽपि परमात्मा यस्यैवंविधा विकाराः समुपलक्ष्यन्ते शब्दमागृहीतवतः / एषैव च भावना स्तवनादीनामपि, लिङ्गपर्यायत्वात् / अथवेन्द्रियमिन्द्रलिङ्गमित्यत्र पञ्चास्तान् पञ्चापि दर्शयत्यनेन भाष्येण / लिङ्गार्थोऽभिहित एव, सूचनादित्यनेन दिष्टार्थमाख्याति-जीवन दिष्टानि मुचितानि लेशतः प्रवर्तितानि तस्मिन् सत्यर्थग्रहणनिमित्तानि राजपुरुपवत् , जीवेन दृष्टानि प्रकर्षण दर्शनमुपलब्धि ग्राहितानि नित्यसम्पृक्तत्वाज्जीवेन संसृष्टान्युपलम्भहेतुतया परिणामितानि, अन्यथा तदभावे तदनुत्पत्तिरेव, जीवेन जुष्टानि शब्दादीनां व्यञ्जकहेतुत्वादासेवितानि तदत्ययेऽर्थानामग्राहकत्वात् / चशब्दः समुच्चये / जीवस्य लिङ्गमिन्द्रियमित्यनेनाभिहितार्थनिगममावेदयति तस्माज्जीवस्य यल्लिङ्गं तदिन्द्रियमिति // 15 // ___ एवं तर्हि सुखदुःखेच्छादयोऽपि जीवलिङ्गत्वादिन्द्रियाणि स्युः, न खल्वेवमवधियते जीवलिङ्गं सर्वमिन्द्रियं किन्तु यदिन्द्रियं तज्जीवलिङ्गमिति नियमः, जीवलिङ्गं पुनर्जातुचिदिन्द्रियमथवा सुखादीनि // उक्तानीन्द्रियाणि सङ्ख्यातः, प्रकारवचनेनाधुनाभिधित्सुराह सूत्रम्-द्विविधानि // 2-16 // भा०-द्विविधानीन्द्रियाणि भवन्ति-द्रव्येन्द्रियाणि भावेन्द्रियाणि च॥ 16 // टी-द्विविधानि अविशेषोपादानात् पञ्चापि द्विप्रकाराणि भवन्ति उत्तरसूत्रद्व१'सूचनादीनां' इति ग-पाठः / Page #190 -------------------------------------------------------------------------- ________________ 164 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 यापेक्षया पश्चापि द्वाभ्यां विशेषाभ्यां भिद्यन्ते निवृत्युपकरणविशेषेण लब्ध्युपयोगविशेषेण . चेति // ननु चैवं दशेन्द्रियाणि प्रसजन्ति द्विःपञ्चकाभिधानात् ततश्च इन्द्रयाणा मुख्य नियमोऽनर्थकः षडादिप्रतिषेधश्चेति। उच्यते-यद्येवमभविष्यद दशे न्द्रियाणीति सूत्रमकरिष्यत् प्राक्तनम्, न चैवमाचरितं तस्मादाश्रयप्रकारकथनमेतद् विवक्षितमेकस्यैव द्वित्वेन, यथा हि भवनद्वारं दार्वाकाशपरिच्छेदवदपि न द्वय्यामवतिष्ठते द्वित्वेऽप्याकाशदारुणोः, प्रयोजनं चास्य निर्गमप्रवेशलक्षणमेकस्यैव, तथा लब्धिनिवृत्त्युपकरणोपयोगाः क्रमेणामुना चतुष्टयमिन्द्रियलक्षणमविशकलितम्, न चेन्द्रियबहुत्वम्, अत एव निवृत्त्यभावाच्छेपत्रययोगाच्च मनोऽनिन्द्रियमुक्तं तस्मादयमदोषोऽतः सुष्ट्रचे-द्विविधानीन्द्रियाणि भवन्ति / सामान्यतः द्रव्यमयानि द्रव्यात्मकानि द्रव्येन्द्रियाणि, भावन्द्रियाणि तु भावात्मकान्यात्मपरिणतिरूपाणीति / अत्र च पुद्गलद्रव्यमेवानन्तप्रदेशस्कन्धमात्मप्रयोगापेक्षमायतते निवृत्त्युपकरणरूपतया सर्वाणीन्द्रियाण्यनन्तप्रदेशानि असङ्ख्येयात्मप्रदेशाधिष्ठितानि च द्रव्यात्मकानि भवन्ति इतरत्र द्वये आत्मपरिणामो भावः प्रयत्नमातिष्ठत इति॥१६॥ उक्तमिन्द्रियं द्रव्यभावभेदतो द्विविधम्, अधुना स्वरूपतो निरूपयितुकाम आह सूत्रम्-निवृत्त्युपकरणे द्रव्येन्द्रियम् // 2-17 // भा०-तत्र निर्वृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् / निर्वृत्ति र रङ्गोपाङ्गनामनिवेर्तितानीन्द्रियद्वाराणि, कर्मविशेषसंस्कृताः दो शरीरप्रदेशाः, निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः / उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति // 17 // टी-तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियम् / तत्रेत्यनेन भाष्यकारः सूत्रं सम्बन्धयति, तत्र द्वितये द्रव्येन्द्रियं तावनिर्धार्यते, स्वरूपभेदाभ्यां निर्वर्तनं निर्वृत्तिः प्रतिविशिष्टसंस्थानोत्पादः, उपक्रियतेऽनेनेत्युपकरणं निर्वृत्तिरेवेन्द्रियं निवृत्तीन्द्रियम्, उपकरणेन्द्रियमप्येवम् / उभयमेतत् पुद्गलपरिणामरूपमपि सदिन्द्रियव्यपदेशमनुते भावेन्द्रियोपयोगकारणत्वात्, यस्मात् हि तत्साचिव्यं भावस्यैवोपलिङ्गने समायाति आत्मभावपरिणामस्य भाविनो यत् सहायतया क्षमं द्रव्यं तदिह द्रव्येन्द्रियं प्रस्थदारुवदेषितव्यम् / तत्र निर्वृत्युपकरणयोः स्वरूपमाविष्करोति भाष्येणैव-निवृत्तिरङ्गोपाङ्गनामेत्यादिना। निर्माणनामकर्मान्तर्गतः कर्मभदो वर्धकिस्थानीयः कर्णशष्कुल्याद्यवयवसन्निवेशवि शेषरचनायामाहितनैपुणः, तथौदारिकादिशरीरत्रयाङ्गोपाङ्गनामकर्मभेदो निर्वृत्तीन्द्रियया यदुदयादङ्गान्युपाङ्गानि च निष्पद्यन्ते शिरोमुल्यादीनि, एतत् कर्म द्वयमुभयरूपं द्रव्येन्द्रियप्रसाधनाय यतते / भाष्यभावना चैवं कार्या / 1. वोल्लिझने ' इति क-ख-पाठः, 'वोपलिङ्गनैः' इति ग-पाठः / Page #191 -------------------------------------------------------------------------- ________________ सूत्रं 17 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 165 निर्वृत्तिः किंरूपेत्यत आह-अङ्गेति / अङ्गोपाङ्गनाम्ना प्रतिविशिष्टेन कर्मभेदेन निर्वतितानि-जनितानि-घटितानि इन्द्रियद्वाराणि-इन्द्रियविवराणि, इन्द्रियशब्देन चात्र भावेन्द्रियमुपयोगरूपं विवक्षितं तस्येन्द्रियस्य द्वाराण्यवधानप्रदानमार्गाचित्राः शकुल्यादिरूपा बहिरुपलभ्यमानाकारा निर्वत्तिरेका, अपरा त्वभ्यन्तरनिर्वृत्तिः, नानाकारं कायेन्द्रियमसङ्ख्येयभेद त्वादस्य चान्तर्बहिर्भेदो निवृत्तेने कश्चित् प्रायः, प्रदीर्घव्यससंस्थितं इन्द्रियसंस्थानान कर्णाटकायुधं क्षुरप्रस्तदाकारं रसनेन्द्रियम् / अतिमुक्तकपुष्पदलचन्द्रकाकारं किश्चित् सकेसरवृत्ताकारमध्यविनतं घ्राणेन्द्रियम् / किश्चित् समुन्नतमध्यपरिमण्डलाकारं धान्यमसूरवचक्षुरिन्द्रियम् , पाथेयभाण्डकयवनालिकाकारं श्रोत्रेन्द्रियं नालिककुसुमाकृति चावसेयम् / तत्राद्यं स्वकायपरिमाणं द्रव्यमनश्च शेपाण्यङ्गुलासङ्ख्येयभागप्रमाणानि सर्वजीवानाम् / तथा चागमः-" फासिदिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा! नाणासंठाणसंठिए, जिन्भिन्दिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! खुरप्पसंठिए, पाणिन्दिए णं भंते ! किंसंठिए पण्णते? गोयमा! अतिमुत्तथचंदकसंठिए, चक्खुरिन्दिए णे भंते ! किंसंठिए पण्णते ? गोयमा ! मसूरयचंदसंठिए पण्णत्ते, सोइंदिए णं भंते ! किंसंठिए पण्णते ? गोयमा ! कलंबुयापुप्फसंठिए पण्णत्ते" (प्रज्ञा० सू० 191 ) / अभ्यन्तरां निवृत्तिमङ्गीकृत्य साण्यमूनि सूत्राण्यधीतानि, बाह्या पुननिवृत्तिश्चित्राकारत्वान्नोपनिबटुं शक्या, यथा मनुष्यस्य श्रोत्रं भ्रसमं नेत्रयोरुभयपावेतः, अश्वस्य मस्तके नेत्रयोरुपरिष्टात् तीक्ष्णाग्रमित्यादिभेदाद् बहुविधाकाराः / इममेव चातिक्रान्तभाष्यार्थ पर्यायान्तरेण स्पष्टयति भाष्यकारः-कर्मविशेषसंस्कृताः शरीरप्रदेशाः / अथवाङ्गोपाङ्गनामेवोपात्तमतीतभाष्ये न तु निमोणकर्म तदुपादानायेदमुच्यते-कमेविशेष इत्यादि / कर्मविशेषो नामकर्म तस्यापि विशेष अङ्गोपाङ्गनामनिर्माणकर्म च आभ्यां कर्मविशेषाभ्यां संस्कृता विशिष्टावयवरचनया निष्पादिता-निर्वर्तिताः औदारिकादिशरीराणां त्रयाणां प्रदेशाः-प्रतिविशिष्टा देशाः कर्णशष्कुल्यादयः प्रदेशाः / कर्मविशेषाभिधानश्रवणादतिसप्रमुग्धबुद्धामोहस्तदवस्थ एव चेतसीत्यतस्तदवबोधार्थं भूयोऽप्याह-निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिर्वतेनेत्यर्थः / कर्मविशेष नामग्राहमाचष्टे निर्माणनाम च अङ्गोपाङ्गे च निर्माणनामाङ्गोपाङ्गे, मध्यव्यवस्थितो नामशब्द उभयं विशेष्यतया क्षिपति, ते कर्मणी प्रत्ययः कारणं-निमित्तं यस्य निवृत्तेः सा निर्माणनामाङ्गोपाङ्गप्रत्यया, मूलगुणनिर्वर्तना उत्तरगुणनिर्वर्तनापेक्षयोच्यते / उत्तरगुणनिर्वर्तना हि श्रवणयोर्वेधः प्रल 1 स्पर्शेन्द्रियं भदन्त / किंसंस्थानं प्रज्ञप्तम् ? गौतम / नानासंस्थानसंस्थितम् , जिह्वेन्द्रियं भदन्त | किसंस्थानं प्रज्ञप्तम् ? गौतम ! क्षुरप्रसंस्थितम्, घ्राणेन्द्रियं किंसंस्थानं प्रज्ञप्तम् ? गौतम ! अतिमुक्तचन्द्रकसंस्थितम् , चक्षुरिन्द्रियं किंसंस्थानं प्रज्ञप्तम् ? गौतम ! मसूरकचन्द्रसंस्थितम्, श्रोत्रेन्द्रियं भदन्त ! किंसंस्थानं प्रज्ञप्तम् ? गौतम | कदम्बकपुष्पसंस्थितं प्रज्ञप्तम्। Page #192 -------------------------------------------------------------------------- ________________ स्वरूपम् 166 तत्वार्थाधिगमसूत्रम् [ अध्यायः 2 म्वतापादनं चक्षुर्नासिकयोरञ्जननस्याभ्यामुपस्कारः तथा भेषजप्रदानानिहाया जाड्यापनयः स्पर्शनस्य विविधचूर्णगन्धवासप्रघर्षात् तदिति विमलत्वकरणम् , एवंविधानेकविशेषनिरपेक्षा यथोत्पन्नवर्तिनी औदारिकादिप्रायोग्यद्रव्यवर्गणा मूलकारणव्यवस्थितगुणनिर्वर्तनोच्यते / इतिशब्द एवशब्दार्थः, एवमेषोऽर्थः प्रवचनविद्भिराख्यात इति // सम्प्रत्युपकरणेन्द्रियस्वरू _ पमाख्यातुमाह-उपकरणं बाह्यमभ्यन्तरं च निर्वर्तितस्यानुउपकरणेन्द्रिय पघातानुग्रहाभ्यामुपकारीति / निवृत्तौ सत्यां कृपाणस्थानीयायामुप करणेन्द्रियमवश्यमपेक्षितव्यम् , तच्च स्वविषयग्रहणशक्तियुक्तं खड्गस्येव धारा छेदनसमर्था तच्छक्तिरूपमिन्द्रियान्तरं निर्वृत्तौ सत्यपि शक्त्युपघातैर्विपयं न गृ. हणाति तस्मानिवृत्तेः श्रवणादिसंज्ञके द्रव्येन्द्रिये तद्भावादात्मनोऽनुपघातानुग्रहाभ्यां यदुपकारि तदुपकरणेन्द्रियं भवति, तच्च बहिर्वर्ति, अन्तर्ति च, निवृत्तिद्रव्येन्द्रियापेक्षयाऽस्यापि द्वैविध्यमावेद्यते / यत्र निवृत्तिद्रव्येन्द्रियं तत्रोपकरणेन्द्रियमपि न भिन्नदेशवति तस्येति कथयति तस्याः स्वविषयग्रहणशक्तेनिर्वृत्तिमध्यवार्तिनीत्वात् / एतदेव स्फुटयति-निर्वतितस्य-निष्पादितस्य स्वावयवविभागेन यदनुपहत्यात अनुग्रहेण चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गलजालनिर्मापितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः, आगमे तु नास्ति कश्चिदन्तर्बहिर्भेद उपकरणस्येत्याचार्यस्यैव कुतोऽपि सम्प्रदाय इति / एवमेतदुभयं द्रव्येन्द्रियमभिधीयते तद्भावेऽप्यग्रहणात् उपकरणत्वानिमित्तत्वाञ्चेति / निवृत्तेरादावभिधा जन्मक्रमप्रतिपादनार्थ तद्भावे ह्युपकरणसद्भावाच्छस्त्रशक्तिवदिति // 17 // अथ भावेन्द्रियं किमित्यत्रोच्यतेभावेन्द्रियभेदी सूत्रम्-लब्ध्युपयोगौ भावेन्द्रियम् // 2-18 // भा०-लब्धिरुपयोगस्तु भावेन्द्रियं भवति। लब्धिर्नाम गतिजात्यादिनाम ___कर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता च / इन्द्रियाश्रलब्धीन्द्रियस्य कारणत्रयापेक्ष यकर्मोदयनिवृत्ता चं जीवस्य भवति / सा पश्चविधा / तद्यथात्वं भेदाच स्पर्शनेन्द्रियलब्धिः, रसनेन्द्रियलब्धिः, घ्राणेन्द्रियलब्धिः, ___ चक्षुरिन्द्रियलब्धिः, श्रोत्रोन्द्रपलब्धिरिति // 18 // टी-लब्ध्युपयोगी भावेन्द्रियम् / लब्धिः प्रतिस्वमिन्द्रियावरणकर्मक्षयोपशमः, स्वविषयव्यापारः प्रणिधानं वीर्यमुपयोगः, एतदुभयं भावेन्द्रियमात्मपरिणतिलक्षणं भवति / अत्राचार्यो लब्धिस्वरूपनिवर्णनायाह-लब्धिर्नामेत्यादि भाष्यम् / लाभो लब्धिः प्राप्तिः। नामशब्दो वाक्यालङ्कारार्थः। अथवा लब्धिरिति यदेतनालम्धीन्द्रियः स्वरूपम् व माभिधानं तस्यायमर्थः गतिजात्यादिनामकर्मजनिता लब्धिरु च्यते / गतिजाती आदिर्यस्य तद् गतिजात्यादि, गतिजात्यादि च तन्नाम१ वा भवति जीवस्य ' इति ख-पाठः / Page #193 -------------------------------------------------------------------------- ________________ सूत्रं 19 ] . स्वीपज्ञभाष्य-टीकालङ्कृतम् 167 मकर्म च गतिजात्यादिनामकर्म तेन जनिता-निर्वर्तिता, मनुष्यगतिनामोदयान्मनुष्यस्तथा पञ्चेन्द्रियजातिनामोदयात् पश्चेन्द्रिय इत्यतो मनुष्यत्वपश्चेन्द्रियत्वादिलामे प्रतिस्वं तदाचरणकर्मक्षयोपशमो निर्वय॑ते, तस्य क्षयोपशमस्य गतिजातिप्रभृतिनामकर्मकारणत्वानिर्दिघमाचार्येण / आदिग्रहणेन यत् तदत्र नान्तरीयकं शरीरादिक्षयोपशमलब्धेर्नामान्तःपाति तन् सकलमादीयते / अपरे त्वायुष्कमपि तदाश्रयत्वात् कारणमाचक्षते क्षयोपशमस्य, एवं विदूरवर्ति कारणमपदिश्याधुना प्रत्यासन्नतरकारणान्तरमाविष्करोति-तदावरणीयकर्मक्षयोपशमजनिता चेति / तस्याः खलु रूपादिग्रहणपरिणतेरावरणीयमावारकमाच्छादकं, बाहुलकात् कर्तरि व्युत्पत्तिः, तदावरणीयं च तत् कर्म च तदावरणीयकर्म मतिज्ञानदर्शनावरणकर्मेत्यर्थः,तस्योभयस्य क्षयोपशमोऽभिहितलक्षणस्तज्जनिताच तनिष्पादिता चेत्यर्थः।चशब्दः पूर्वकं कारणं समुचिनोति // ननु च क्षयोपशम एव लब्धिरुक्ता तेन जनितान्या का भवेलब्धिः? / उच्यते-मतिज्ञानदर्शनावरणक्षयोपशमावस्थानिवृत्तौ यो ज्ञानसद्भावः क्षायोपशमिकः सोऽत्र लब्धिरुच्यते, कथं कृत्वोक्तं प्राक् क्षयोपशमो लब्धिरिति कारणे कार्योपचारमालम्ब्य नवलोदकं पादरोगवदित्यभिहितमतो न दोपाय / अन्ये पुनराहुः-अन्तरायकर्मक्षयोपशमापेक्षा इन्द्रियविपयोपभोगज्ञानशक्तिर्लब्धिरुच्यते / पुनः प्रत्यासन्नतमकारणनिर्दिदिक्षया माष्यकृत् प्रतनुते ग्रन्थम्-इन्द्रियाश्रयकर्मोदयनिवृत्ता च जीवस्य भवतीति / इन्द्रिपाण्याश्रयोऽवकाशो येषां कर्मणां तानीन्द्रियाश्रयाणि कर्माणि यावन्ति कानिचिन्निर्माणाझोपाङ्गादीनि येविना तानि न निष्पद्यन्ते तदुदयेन-तद्विपाकेन निवृत्ता-जनितात्मनो लब्धिरुद्भवति, स्वच्छे हि दर्पणतले प्रतिविम्बोदयो भवति, न मलीमसे, तथा निर्माणाङ्गोपाङ्गादिभिरत्यन्तविमलतद्योग्यपुद्गलद्रव्यनिर्मापितानीन्द्रियाणि तस्याः क्षयोपशमलव्धेरतुलं बलमुपयच्छन्ति, कारणतां विभ्रतीति / सैपा लब्धिः कारणत्रयापेक्षा पञ्चप्रकारा भवति / तद्यथा-स्पर्शनेन्द्रियलब्धिरित्यादि भाष्यम् / यथा तत् पञ्चविधत्वं तस्यास्तथा दर्श्यतेस्पृष्टिः-स्पर्शनं, स्पर्शनं च तदिन्द्रियं चेति स्पर्शनेन्द्रियम् , एतदेव लब्धिः स्पर्शनेन्द्रियलब्धिः शीतोष्णादिस्पर्शपरिज्ञानसामर्थ्यमनभिव्यक्तमुपयोगात्मनेतियावत् / एवं जिहेन्द्रियादिलब्धयोऽपि वाच्याः / इतिशब्दो लब्धेरियत्तामावेदयति // 18 // . उक्ता लब्धिः, अधुनोपयोग उच्यते-यदि लब्धिनिर्वृत्युपकरणक्रमेणोपयोगस्ततोऽतीन्द्रियोपयोगाभावो निवृत्त्याद्यपेक्षाभावात् / एतदुक्तं भवति-अवध्यादीनामतीन्द्रियत्वादत्यन्ताभाव एव विशेषो वाच्यः ? / उच्यते-न खुल सर्व उपयोगो लब्धिनिर्वृत्त्युपरकरणेन्द्रियकृतः, किं तर्हि स एवैकस्त्रितयनिमित्त इत्यत आह सूत्र-उपयोगः स्पर्शादिषु // 2-19 // भा०-स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः / उक्तमेतदुपयोगो लक्षणम् (अ० 2, मू०८)। उपयोगः प्रणिधानम् / आयोगस्तद्भावः परिणाम इत्यर्थः / एषां च १'चायुष्कम् ' इति ख-पाठः / Page #194 -------------------------------------------------------------------------- ________________ 168 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 सत्यां निवृत्तावुपकरणोपयोगी भवतः, सत्यां च लब्धौ निवृत्त्युपकरणोपयोगा भवन्ति / निर्वृत्त्यादीनामेकतराभावेऽपि विषयालोचनं न भवति // 19 // टी०-उपयोगः स्पर्शादिषु / स्पर्शरसगन्धवर्णशब्देषु ग्रहणरूपो व्यापार उपयोगो गृह्यते स्पर्शनेन्द्रियादिनिमित्तो नावध्याधुपयोगः / अमुमेवार्थ स्पष्टयन भाष्यकृदाहस्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः / स्पर्शादिविषयो मतिज्ञानव्यापारः प्रतिनियतविषयानुभवनमुपलम्भनमिति, अनेन शेषज्ञानव्युदासमादर्शयति मतिज्ञानोपयोग एव लब्धिनिर्वृत्त्युपकरणापेक्षः प्रवर्तते न शेष इति / अत्रोपयोगसामान्य त्यपहुतावधानथोदयति-स्पर्शादिविषयो य उपयोगपरिसमाप्तिव्यापार इत्युक्तम् / एतच्च परमाणुद्वयणुकादिष्वपि दृष्टम् , परमाणुरपि हि सर्वात्मनोपयुज्यते द्वयणुकादिस्कन्धपरिणामे, ततश्च सोऽप्युपयोगलक्षणं प्राप्नोतीत्यत आह भाष्यकारः-उक्तमेतदुपयोगो लक्षणमिति / अथवा भाष्यकारः स्वयमेवोपयोगविशेषव्याख्यामातितनिपुराह-उक्तमेतदित्यादि / अभिहितमेतदुपयोगश्चैतन्यपरिणामो जीवस्य वैशेषिकं लक्षणं कः परमाण्वादिष्वा प्रसङ्गोत्यन्तासम्बन्ध एव / तमेवोपयोगं पर्यायतः कथयति चैतन्यलक्षणं विशेषव्याख्यानदर्शनद्वारेण 1. उपयोग इत्यादि / उपयोगस्तु द्विविधा चेतना-संविज्ञानलक्षणा उपयोगेन्द्रियस्व. " म" अनुभवनलक्षणा च, तत्र घटाद्युपलब्धिः संविज्ञानलक्षणा, सुखदुःखादिसंवेदनानुभवनलक्षणा एतदुभयमुपयोगग्रहणाद् गृह्यते / प्रणिधानमवहितमनस्कत्वम्, एतदुत्कीर्तयति स्पष्टो हि मतिज्ञानोपयोगो मानसोपयोगावश्यम्भावी द्रव्येन्द्रियाद्यपेक्षश्व नावध्याधुपयोगस्तथेति आयोग इति / स्वविषयमर्यादया स्पर्शादिभेदनि सो ज्ञानोदयः स्पर्शनेन्द्रियादिजन्माभिधीयते तद्भाव इति / उपयोगलाञ्छनो जन्तुस्तच्छब्देनामृश्यते तस्य भावः स्पर्शनादिद्वारजन्मज्ञानमात्मनो भूतिरुद्भव इतियावत् ; परिणामोऽप्यात्मन एव तद्भावलक्षणो नार्थान्तरप्रादुर्भावलक्षणः, स्पर्शनादिनिमित्तज्ञानस्यात्मपरिणतिरूपत्यादित्यर्थः // सम्प्रति प्रवृत्तौ क्रमनियममापादयन्नाह-एषामित्यादि भाष्यम् / एषामिति / ___ व्याख्यातस्वरूपाणां निर्वृत्त्युपकरणलब्ध्युपयोगेन्द्रियाणामयं प्रवृत्तिनिवृत्त्यादाना क्रमः क्रमो यदत निवृत्तिः प्राक तस्यां सत्यामुपकरणमुपयोगश्च भवति निर्वृत्त्याश्रयत्वादुपकरणस्य तद्द्वारजन्मत्वाञ्चोपयोगस्य। एतच निवृत्यादिवयं लब्धीन्द्रियपूर्वकं दर्शयति-श्रोत्रादिक्षयोपशमलब्धौ सत्यां निर्वृत्तिः शष्कुल्यादिका भवति, यस्य तु लब्धिर्नास्त्येवंप्रकारा न खलु तस्य प्राणिनः शष्कुल्यादयोऽव्यवा निवर्तन्ते तस्मालब्ध्यादयश्चत्वारोऽपि समुदिताः शब्दादिविषयपरिच्छेदमापादयन्त इन्द्रियव्यपदेशमश्नुवते / एकेनाप्यवयवेन विकलमिन्द्रियं नोच्यते, न च स्वविषयग्रहणसमर्थ भवति, अमुमर्थ भाष्येण दर्शयति-निवृत्त्यादीनामिति सूत्रोपन्यस्तक्रममङ्गीकृत्योच्यते निवृत्त्युपकरणलब्ध्युपयोगा. नामन्यतमाभावे एकेनाप्यङ्गेन विकले सति समुदाये न जातुचित् शब्दादिविषयस्वरूपावबोधो Page #195 -------------------------------------------------------------------------- ________________ 169 सूत्रै 20 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भवत्यात्मनः, विकलकरणत्वात् / अत्र च यदा शब्दोपयोगवृत्तिरात्मा एकोपयोगिता " भवति तदा न शेपकरणव्यापारः स्वल्पोऽप्यन्यत्र कान्तद्विष्टाभ्यस्तविषयकलापात् , अर्थान्तरोपयोगे हि प्राच्यमुपयोगबलमात्रियते कर्मणा, शङ्खशब्दोपयुक्तस्य शृङ्गशब्दविज्ञानमस्तमिततन्निर्भासं भवति, अतः क्रमेणोपयोग एकस्मिन्नपीन्द्रिविपये, किमुत बहुविधविशेषभाजीन्द्रियान्तरे, तस्मादेकेनेन्द्रियेण सर्वात्मनोपयुक्तः सर्वः प्राण्युपयोगं प्रत्येकेन्द्रियो भवति / एवं शेष विषयपरिच्छेदपरिणतावपि वाच्यम् , ये पुनरत्यन्तकान्तद्विष्टाभ्यस्ता विषयास्तानन्यमनस्कोऽपि विस्मतु चेच्छन् न विस्मरति, अतः सहैवोपयोगो भवति उपयोगान्तरेणेति / एतच्चोपयोगद्वयमेकस्मिन् काले पारमर्षप्रवचनाभ्यासाहितनैपुणाः न बाढमभ्युपयन्ति, यत आर्यगङ्गनिह्नवकैयुगपत् क्रियाद्वयोपयोगः प्रपञ्चतः प्रतिपिद्धो न पागमान्तरे कचिदुपनिबद्धः। क्रमस्तु तत्रोत्पलदलशतभेदवदतिशुष्कशष्कुलीभक्षणोपलब्धिवद् बातिमुक्ष्मत्वात् समयादिकृतो दुर्लक्षश्छद्मस्थेनेति / 'उपयोगः स्पर्शादिषु इति केचिद् भापन्ते सूत्रमिदं न भवति, भाष्यमेव सूत्रीकृत्य केचिदधीयते, तदेतदयुक्तम् , अविगानेन सूत्रमध्येऽध्ययनात् प्रतिविशिष्टाचार्यसम्प्रदायगम्यत्वाद् विवरणाच्च निश्चीयते सूत्रतेति // 19 // भा०–अत्राह-उक्तं भवता पश्चेन्द्रियाणि ( अ० 2, सू० 15) इति / तत् कानि तानीन्द्रियाणीति ? / उच्यते॥ ____टी-अत्राह उक्तमित्यादि सम्बन्धप्रदर्शनपरमिदं भाष्यम् , अत्रावसरे शिष्य आह-अभिहितमेतद् भवता पश्चैवेन्द्रियाणि भवन्ति सङ्ख्यातः तत् कानि पुनस्तानि नामतः ? उच्यते-स्वरूपतोऽवधृत्य नामविषयं प्रश्नमकृतेत्यतोऽत्र प्रश्ने अभिधीयते प्रतिवचनम् // . सूत्रम्-स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि // 2-20 // इन्द्रियनामानि र भा०-स्पर्शनं, रसनं, घ्राणं, चक्षुः, श्रोत्रमित्येतानि " पञ्नेन्द्रियाणि // 20 // ___टी-स्पर्शनेत्यादि सूत्रम् / स्पृश्यतेऽनेनेति स्पर्शनम् , सर्वाणि करणकारकसाधनान्यात्मनः कर्तुरभेदेन वर्तमानान्यतिशयवत् प्रयोजनप्रधानं प्रत्याहितपाटवानि ज्ञाने निवर्ये करणानि कथश्चिज्जीवादनन्यत्वाद् गमने प्रसाध्ये पादवद् देवदत्तो मांसपिण्डः पादाभ्यां गच्छति ग्राममित्यपराणि भेदभाञ्जि करणान्यस्य कतुरसिपरशुवास्यादीन्येवं भिन्नाभिधकरणकलापग्रामणीरयमात्मा निरवशेषक्रियानुष्टानशक्तियुक्तः कर्ता, अन्यथोभयकरणग्रामव्युदासानुगृहीतस्तृणमपि कुटिलयितुमयोग्यः स्यात् किमुतैहिकामुग्मिकानेककार्यविषयव्यापारानुष्टानमिति, यथैव च प्रतिविशिष्टज्ञाननिवृत्त्याधाने करणत्वमिन्द्रियाणाम् , एवं वीर्यवले 1 'दुर्लक्षच्छद्मस्थोनेति उपः' इति क-ख-पुस्तकयोर्मध्ये अत्रायं भाग उपलब्धः परं त्वनुपयुक्तः प्रामादिक नभातीति टिप्पण्या निवेशितः। 22 Page #196 -------------------------------------------------------------------------- ________________ 170 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 निवर्त्य योगा मनोवाकायलक्षणाः करणान्यात्मनो वेदितव्यानि / इतिशब्द एवंशब्दार्थे / एवमेतानि नामग्राहमुपदिष्टानि पञ्चेन्द्रियाणि भवन्ति, स्पर्शनादिक्रमनियमो बुद्धिपूर्व सूरेरमुतो नियोगाजन्तवो वाय्वन्ताः स्पर्शनकरणभाज इति सुखमेव वक्ष्यामि, तथा परे स्पर्शनमादौ वर्णन्ति सर्वजीवस्वामिकत्वात् सर्वशरीरव्यापित्वात् अल्पशक्तित्वाच्च ततो रसना दीनि तरतमयोगेनाल्पस्वाम्यणुशरीरदेशस्थबहुशक्तित्वादिति // 20 // ____ अथात्मनो लिङ्गान्येतानीत्युक्तं तत् केन पुनः प्रयोजनविशेषेणोपकुर्वन्त्यात्मनः / उच्यते-विषयोपभोगतदादानकरणतयेति / विषयाश्च स्पर्शादयोऽर्थास्ते चामी यथाक्रममेषामवसातव्याः // सूत्रम्-स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः // 2-21 // इन्द्रियाणा विषयाः भा०-एतेषामिन्द्रियाणामेते स्पर्शादयोऽर्था भवन्ति यथाः " सङ्ख्यम् // 21 // टी-स्पर्शरसेत्यादि सूत्रम् / स्पृश्यतेऽसाविति स्पर्शः शीतोष्णादिभेदलक्षणोऽष्टधा, रसः पञ्चधा तिक्तादिभेदलक्षणः लवणस्य मधुरान्तर्गतत्वात् , गन्धो द्विधा-सुरभिरितरश्च साधारणश्चेत्यपरे, वर्णः पञ्चधा शुक्लादिभेदलक्षणः, वाग्योगप्रयत्ननिसृष्टोऽनन्तानन्तप्रदेशि कपुद्गलस्कन्धप्रतिविशिष्टपरिणामः शब्दः, पुद्गलद्रव्यसङ्घातभेदजन्मा वा गर्जितादिरूपः एते स्पर्शादयो यथोक्तलक्षणास्तेषामनन्तरातीतसूत्रन्यस्तानां स्पर्शनादिकरणानामर्थाः परि च्छेद्याः प्रयोजनानि निर्वानीतियावत् / एनमेवार्थ स्पष्टयन भाष्यकृदाह-एतेषामित्यादि एतेषाम्-आत्मलिङ्गतया निरूपितानां स्पर्शनादीनां एते स्पशादयोऽनेकभेदभाजोऽयेमाण स्वरूपत्वाद् यथासङ्ख्यमर्था भवन्त्यव्यंतिकररूपेण ग्रहणविशेषात् / तेषामर्था इत्यसमास करणं सम्बन्धस्य स्पष्टताप्रतिपत्त्यर्थम् , समासे तु चतुर्थ्यर्थारेकाऽपि स्यात् सा चानिष्टा तस्मादसमासः / अर्थग्रहणं च विषयशब्दमपहाय यदकारि सरिणा तदेतज्ज्ञापयितुमभिप्रेतमावस्थिकमेतदर्थत्वम् , एकमेव हि वस्त्वर्यमाणत्वादवस्थाभेदेन तथा तथार्थतामियर्ति, तथाहि यदेवाङ्गुल्यग्रेण स्पृश्यते तदेव च विद्रुमद्रुमच्छायानुकारिणा जिह्वाग्रेण रस्यते, _ मोदकद्रव्यमाघ्रायते च नासिकाविवरेण, चक्षुषा तदेवालोक्यते, तदेव एकस्यार्थस्यानेक क चातिबहुकालपर्युषितमतिकठिनीभूतमभ्यवह्रियमाणमातनोति ध्वनिम्, विषयता न खलु तत्र कचिद् देशे स्पर्शः कचिद् रसादिरवस्थितः किन्तु य एव देशः शीत उष्णो वा स्पर्शनेनोपलब्धः स एव पुनर्मधुरो रसनेनास्वाद्योपलभ्यते, तस्मात् तदेवैकमभिन्नं पुद्गलद्रव्यमनेकग्रहणापेक्षया भेदमासादयति, पित्राद्यनेकविशेषापेक्षपुरुषभेदप्रतिपत्तिवत् , तद् हि चक्षुग्रहणगोचरतामितं द्रव्यमभेदमपि नीलाद्याकारेण परिणतिमुपागच्छद् रूपमिति व्यपदिश्यते, रसनग्रहणविषयतामापन्नं तिक्तादिपरिणाममास्कन्दद् रस इति तदेवाभिधीयते, १'तेषामि०' इति ग-पाठः / 2 'व्यतिरेक ' इति ग-पाठः / 3 'ग्रहणागोचरता' इति क-ख-पाठः / Page #197 -------------------------------------------------------------------------- ________________ सूत्र 22 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 171 एवमितरेन्द्रियप्राप्तानामपि वाच्यम् / द्रव्यमिन्द्रियनानात्वान्नानाकारस्पर्शादिभेदमापद्यते स्वनिमित्ततस्त्वेकाकारद्रव्यस्वलक्षणविशिष्टत्वात् , यदेवास्यान्तरङ्गं लक्षणं तदेव स्वरूपं त एव हि तस्य धर्माः सर्वदाऽजहदृत्तित्वात् स्वलक्षणम् , परनिमित्तास्तु क्षेत्रद्रव्यकालादयोऽपगच्छन्तोऽनुगच्छन्तश्च न स्वलक्षणं तदनादिपारिणामिकधर्माविष्कृतस्वरूपं वस्त्वि न्द्रियादिव्यपदेशाद् भिद्यते, यश्च स्वरूपावस्थितस्य पश्चादिन्द्रियसम्बन्धो द्रव्यक्षेत्रादीनाम म नासी वस्तुनः स्वरूपं भवति तेन स्पर्शादयो न द्रव्यादर्थान्तरमथ न परनिमित्तता निमित्त एपां भेदो द्रव्याभेदेऽपीति / एतेन दार्शनस्पार्शनमेव च द्रव्यमिति प्रत्यस्तम् / अत्र चात्मागुलप्रमितसातिरेकयोजनलक्षावस्थितं चक्षुः प्रकाशनीयरूपं गृहाति प्रकर्षत इति सिद्धान्तः। एतेन पुष्करार्धवर्तिपुरुषसातिरेकैकविंशतिलक्षाप्रमितरदेशोत्कृष्टदिवसोदयकालवर्तिसूर्यदर्शनचोद्यमपास्तमध्यवसातव्यम् / अप्राप्तकारित्वाच योग्य देशव्यवस्थितमेव रूपमागृह्णाति शरीरदेशस्थम् / अप्राप्तकारिता चास्य area मनोवदनुग्रहोपघातशून्यत्वात् , न चास्य हुतभुगजलशूलाद्यालोकनाद् दहनक्लेदनपाटनादयो दृश्यन्ते / आवृताग्रहणात् प्राप्तविपयमिति चेत्, प्रसदेतत् , मनोऽपि हि विपगराद्यावृतं न गृह्णात्यथ चाप्राप्तकारीति, स्पर्शरसगन्धास्तु योजनवकप्रमिताद् देशादागताः प्रकर्पतः स्पर्शनादिभिः शरीरव्यवस्थितरुपलभ्यन्ते स्पर्शनरसनगणानां प्राप्त कारित्वात् , प्राप्तकारित्वं चोपघातानुग्रहदर्शनादग्निचन्दनादिभिरवगन्तव्यम् / ब्दोऽपि स्वपरिणाममजहद योजनद्वादशकप्रमितात् प्रदेशादागतः श्रोत्रेण प्रातकारिणोकर्णाद् गृह्यते स चायाति श्रोत्रदेशमाशु पुद्गलमयत्वे सति सक्रियत्वात् , सक्रियत्वं युना उह्यमानत्वाद् धृमस्येव, गृहादिपु तु पिण्डीभवनाद् विशेपतश्च द्वारानुविधानात यवत् प्रतिघाताच्च नितम्बादिषु वायुवदिति / प्राप्तकारित्वं चानुग्रहोपघातपाटववाधिगदिदर्शनादस्यावसेयम् / अवरतश्चक्षुरगुलसङ्ख्येयभागप्रमितदेशवर्ति रूपं परिच्छिनत्ति, पाण्यगुलासङ्ख्येयभागप्रमितप्रदेशादागतं विषयमाददते करणानीति // 21 // यथा चैषां स्पर्शादयोऽस्तैिग्रहणादेवमिदमहत्प्रणीतं यथास्थितजीवपदार्थख्यापनरम्, प्रयोजनापेक्षया द्वयनेकद्वादशभेदं श्रुतज्ञानं मनसोऽर्थ इत्याचिख्यासुराह-- सूत्रम्-श्रुतमनिन्द्रियस्य // 2-22 // भाo-श्रुतज्ञानं द्विविधमनेकद्वादशविधं नोइन्द्रियस्यार्थः // 22 // टी०–श्रुतमनिन्द्रियस्य / श्रुतं ज्ञानावरणक्षयोपशमप्रभवं द्रव्यश्रुतानुसारि प्रायो अनिन्द्रियस्य निजार्थोपसङ्गतमात्मनः परिणतिप्रसादरूपं तत्त्वार्थपरिच्छेदात्मकं भाव विषयः श्रुतं तदनिन्द्रियस्य मनसोऽर्थः, अथवार्थावग्रहसमसात् परतो मतिगानमेव श्रतज्ञानं भवति तच्च न सर्वेषामिन्द्रियाणामर्थावग्रहात् परतः, किन्तु मनोऽर्थावहादेव परतो मतिः श्रुतीभवति विशेषतस्तु श्रुतग्रन्थानुसारेणेति, द्वयनेकद्वादशविधविशे Page #198 -------------------------------------------------------------------------- ________________ मनसः स्वरूपम् 172 तत्त्वार्थाधिगमसूत्रम् [अध्यायः द्रव्यभावश्रुते प पपरिग्रहो न पुनर्भावश्रुतमात्रमेकेन्द्रियादीनाम्, अनिन्द्रियाभावेऽपि मावत तत्सद्भावात् // ननुच शब्द एव श्रूयमाणत्वाच्छ्रुतव्यपदेशमवरोत्स्यति, किमन्येनान्तर्वतिना गणतिथविशेषणक्लेशलभ्येन श्रुतेन परिकल्पितेन कारणान्तरेण च तद्विषयेणेति ? / उच्यते-श्रुतमिति ज्ञानमत्र प्रस्तुतमात्मनः परिणतिविशेषः, शब्दस्तु प्रतिघाताभिभवयुक्तत्वात् मूर्तिमान रूपाद्यात्मकः श्रोत्रग्रहणलक्षणः स कथं भवितुमर्हति ज्ञानम्, अयमपि हि जातुचिद् द्रव्यश्रुतव्यपदेशमासादयति भावश्रुतकारणत्वाद् वा उपचारवशात्, एतच प्रथमाध्याये प्रायो निरूपितमिह तु मनसस्तद्विषयत्वेन नियम्यते, अनिन्द्रियं मनोऽमि____ धीयते रूपग्रहणादावस्वतन्त्रत्वादसम्पूर्णत्वादनुदरकन्यावत् , इन्द्रियकायो करणाद्वाप्यपुत्रव्यपदेशवत्, तच्चाप्राप्तकारि लोचनवत् , तोयज्वलनचिन्ताकालेऽनुग्रहोपघातशून्यत्वात् , तत्र च द्रव्यमनः स्वकायपरिमाणमात्मापि भावमनः सोऽपि त्वक्पर्यन्तदेशव्यापी,भावमनश्च मनुते द्रव्यमनः-समालम्बनद्वारेण यदिन्द्रियपरिणामं तस्य व्यापारानुविधानात् अतस्तस्यैवंरूपस्यानिन्द्रियस्य श्रोत्रप्रणालिकोपात्तशब्दवाच्यविचारिणोऽर्थः श्रुतज्ञानम् , तच्च प्रयोगविशेषसंस्कृतं वर्णपदवाक्यप्रकरणाध्यायादिभेदं मनोऽन्तरेण न करणान्तरं परिच्छेत्तुमलम् , एतद्विहिताविहितानुभयप्राप्तिपरिहारोपेक्षालक्षणपुरुषार्थनिर्वर्तनक्षमत्वात् मनसा वीक्ष्यमाणं तस्यैवार्थो नेन्द्रियान्तरस्य, यथा धर्मास्तिकायशब्दोच्चारणसमनन्तरमेव पूर्वकृतसङ्केतापेक्षो द्राग् नित्यैकामूर्तगत्यर्थलोकाकाशव्याप्यक्रियार्थ द्रव्यं मनसो. पलभ्यते तत् श्रुतमनिन्द्रियस्यार्थ इति स्थितमेतद्, भाष्यकारेण च भाष्ये विशिष्टश्रुतपरिग्रहार्थ विशेषणमुपात्तम् श्रुतज्ञानमित्यादि / श्रुतज्ञानमित्यात्मपरिणामाख्यानं शब्दव्युदासार्थम् , द्विविधम्-अङ्गबाह्यमङ्गान्तरगतं च, आद्यमनेकभेदमावश्यकादि, इतरदाचारादिद्वादशभेदम् , अनेन श्रुतविशेषाख्यानं न पुनः सर्वमेव श्रुतमनिन्द्रियार्थः। नोइन्द्रियस्यार्थ इत्यनेन पर्यायशब्देन नर्थ स्फुटयति / न खल्वेतदिन्द्रियम् इन्द्रियलक्षणानुपपत्तेः, एकदेशस्त्विन्द्रियलक्षणस्य समस्तत एवासम्पूर्णत्वान्नोघटवनोइन्द्रियमुच्यत इति // 22 // उक्तानीन्द्रियाणि सङ्ख्यातः प्रकारतः स्वरूपतो विषयतश्च / अधुना तानि कति कस्य जन्तोर्भवन्तीति निरूपयन्नाह सूत्रम्-वाय्वन्तानामेकम् // 2-23 // टी-तत्र सम्बन्धमेव, तावदापादयति सूत्रस्य भाष्यकारः अत्राहोक्तं भवते. त्यादिनाभाष्येण / भा०-अत्राह-उक्तं भवता पृथिव्यव्वनस्पतितेजोवायवो द्वीन्द्रियादयश्च 1' पलभते' इति ख-पाठः / 2 वनस्पत्यन्तानामेकम् ' इति क-ख-पाठः / Page #199 -------------------------------------------------------------------------- ________________ सूत्र 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 173 (अ० 2, सू० 13-14) नव जीवनिकायाः, पञ्चेन्द्रियाणि स्थावराणामिन्द्रि यनियमः 2 (अ० 2, सू० 15) चेति / तत् किं कस्येन्द्रियमिति / अत्रोच्यते-पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेकमेवेन्द्रियम्, सूत्रक्रमप्रामाण्यात् प्रथमं स्पर्शनमेवेत्यर्थः // 23 // टी--अत्रेन्द्रियप्रकरणप्रस्तावे पर आह-प्रतिपादितं भवता भू-जल-तरु-हुताशनानिला द्वि-त्रि-चतुः-पञ्चेन्द्रियाश्च नव जीवभेदाः, पञ्चेन्द्रियाणि सङ्ख्यातो निरूपितानि ततू किं कस्यन्द्रियमिति स्पर्शनादीनां मध्ये पञ्चानां किमिन्द्रियं स्पर्शनादि कस्य पृथिव्यादेरिति संशयानः प्रश्नयति // नन्वनुपपन्न एव संशयः श्रोतुर्यतः प्राङ्निचायि तेनेदं स्थावरत्रसविधाने 'पृथिव्यम्बुवनस्पतयः स्थावराः' (अ०२, सू० 13) 'तेजोवायू द्वीन्द्रियादयश्च वसाः ' ( अ० 2, सू० 14 ), तत्र द्वे एव इन्द्रिये येषां ते द्वीन्द्रियास्ते आदौ येषां ते द्वीन्द्रियादयः द्वित्रिचतुःपञ्चेन्द्रिया इत्यर्थः / सामर्थ्याच्च पृथिव्यादीनामेकमेवेन्द्रियं भविष्यदि वाय्वन्तानामेवं च सिद्धे सूत्रमपि नारब्धव्यमिति ? / उच्यते-द्वीन्द्रियादीनां सत्यं द्वीन्द्रियादिता निश्चिता द्वित्वादिसामान्यान्न विशेषतः द्वे इन्द्रिये येपामिति, के पुनस्ते द्वे इति न निश्चिनुमः / एवं त्रीन्द्रियादिष्वपि योज्यम् , तथा सामर्थ्यादिलाद्यनिलान्तानामेकं कतममि(दि)न्द्रियं भवतु किं.न निर्दिश्यते अतस्तदवस्थः संशयस्तस्मादुपपन्नः प्रश्नः सूत्रारम्भश्चेति / अपिच चोदनाऽनवकाशैव, यतः किमिन्द्रियं कस्य जीवस्य विशेष्याभिहितम् / पृथिव्यादीनामित्यादि भाष्यम् / वाय्वन्तानामित्युक्ते न ज्ञायते किमादीनामेकं भवत्यतः सामर्थ्यलभ्यपृथिवीग्रहणमकरोद् भाष्यकारः ततः परमपरस्य जीवनिकायस्यासम्भवादिति / अर्थवमाशङ्केत परतो मा भूत् सम्भव आरात् किं न सम्भवति वासन्तानां वनस्पत्यादीनामवादीनां वा भवत्वेकमिति, एवं व्याचक्षाणेन शेपंजीवभेदपरित्यागे प्रयोजनं वक्तव्यमतो निष्फलत्वान्नैवमभिसम्बद्धं शक्यम् / जीवनिकायानामित्यचेतनपृथिव्यादिव्युदासः, जीवनिकायानां जीवसङ्घातानामेकमेवेन्द्रियं भवति न द्वयादीनि न विनिश्चितमेकं स्पर्शनादीनां मध्ये कतमदित्यत आह-सूत्रक्रमप्रामाण्यात् प्रथमं स्पर्शनमेवेत्यर्थः / इन्द्रियनामनिर्देशमत्रक्रमं प्रमाणीकृत्यैकं प्रथममवसेयम् , पुनस्तदेव विशिनष्टि नामतः-स्पर्शनमेवेति। न चाप्रसिद्ध एकशब्दः प्रथमार्थे, ‘एको गोत्रे' इत्यादिदर्शनादितिः / 23 // ___ उक्तः क्षिति-उदक-तरु-ज्वलन-पवनानामिन्द्रियनियमः / सम्प्रति द्वीन्द्रियादीनामुच्यते इत्याहसूत्रम्-कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि // 2-24 // भा०-कृम्यादीनां पिपीलिकादीनां भ्रमरादीनां मनुष्यादीनां च यथासङ्ख्यमेकैकवृद्धानीन्द्रियाणि भवन्ति यथाक्रमम् / तद्यथा-कृम्यादीनां अपा१ 'विशेषोऽभिहित' इति ग-पाठः / 2 -- दोषः' इति क-ख-पाठः / Page #200 -------------------------------------------------------------------------- ________________ 174 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 दिक-नूपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-जलूका-प्रभृती. या नामेकेन्द्रियेभ्यः पृथिव्यादिश्य एकेन वृद्धे स्पर्शनरसनेन्द्रिये भवतः / ततोऽप्येकेन वृद्धानि पिपीलिका-रोहिणिका-उपचिका कुन्यु-तुंबुरुक-त्रपुसबीज-कासास्थिका-शतपद्युत्पतक-तृणपत्र-काष्ठहारक-प्र. भृतीनां त्रीणि स्पर्शन-रसन-घ्राणानि / ततोऽप्येकेन वृद्धानि भ्रमर-वटर-सारङ्गमक्षिका-पुत्तिका-दंश-मशक-वृश्चिक-नन्द्यावत-कीट-पतङ्गादीनां चत्वारि स्पर्शनरसन-घ्राण-चभृषि / शेषाणां च तियायोनिजानां मत्स्योरग-भुजङ्ग-पक्षि-चतुष्पदानां सर्वेषां च नारक-मनुष्य-देवानां पञ्चेन्द्रियाणीति // 24 / / ___टी-कृमिपिपीलिकादि सूत्रम् / अयमादिशब्दः प्रत्येकमभिसम्बध्यते कृम्यादिषु, न समुदाय इति भाष्येण दर्शयति-कृम्यादीनामित्यादिना / गतार्थमेतत् , यथासङ्ख्यमेकैकवृद्धानीन्द्रियाणि भवन्ति / सूत्रे त्वेकैकवृद्धानीत्युक्तं, तत्र न ज्ञायते प्रथममेकेन कतमेन वृद्धमिति सन्देहव्यवच्छेदार्थमाह-यथासङ्ख्यम् , येन क्रमेणोपन्यस्तानि तमेवोररीकृत्यैकैकेन वृद्धानि भवन्ति, न क्रमोल्लङ्घनेन / एतदेव पुनः स्पष्टयति-य. थाक्रम-यथानुपूर्वी, तद्यथेत्यनेन तामानुपूर्वीमादर्शयितुमुपक्रमते-कृम्यादीनां कृमिप्रकाराणाम् , आदिशब्दस्य प्रकारार्थत्वात् / अपादिकादयः प्रायः प्रसिद्धाः, एपामेकेन वृद्धे स्पर्शनरसने भवतः, पृथिव्यादिभ्यः सकागादेकेनेन्द्रियेण (रसनेन) वृद्धे सति स्पर्शने द्वे स्पर्श नरसने भवतः, अन्यथा योकेन वृद्धे स्पर्शनरसने सम्बध्येते ततस्त्रीणि प्राप्नुवन्ति, ततोऽप्येकेन वृद्धानीत्यादिभाषितेनापि द्वीन्द्रियेभ्यः पिपीलिकादीनामेकेन घ्राणेन सहिते स्पर्शनरसने त्रीणि सन्ति ततो वृद्धानि भवन्ति इति, ततोऽप्येकन वृद्धानि भ्रमरादीनां सुज्ञानम् , शेषाणां च तिर्यग्योनिजानामिति एकेन्द्रियादितिर्यग्योनिजापेक्षया शेषग्रहणम्, एतद्वयतिरिक्ताः शेषास्तिर्यग्योनयस्तान् विस्तरतो मत्स्यादीन् दर्शयति-सर्वेषां च नारक-मनुष्य-देवानां पञ्चन्द्रियाणि / अतिर्यग्योनित्वात् पृथगु. पादानं नारकादीनाम् / किं पुनरत्र मनुष्यादीनामित्यभिधाय सूत्रे नारकमनुष्यदेवानामिति विवृतं शेषाणां च तिर्यग्योनिजानामिति, न यथा कृम्यादिषु प्रदीधैंकदण्डकपाठस्तथेह, उच्यते-कुम्यादिष्वेकजातीया एव सर्वे दण्डकेन निर्दिष्टा इति युक्तम् , इह पुनस्तिर्यग्योनयोऽवश्यं पृथय् निवेश्याः भिन्नजातीयत्वान्नारकादिभ्यः, तथा नारकादिक्रमे हेतुः / र नारकादयोऽपि भिन्नगतिवर्तित्वात् भेदेनैवोपात्ताः / एवं तार्ह मनुष्य ॐ नारकदेवानामिति किं नोक्तमादौ मनुष्योपैन्यासात् / उच्यते-लोककमसन्निवेशमाचार्येणाधाय चेतसि नारकमनुष्यदेवानामित्युक्तम् / अथवा विवरणग्रन्थो यथे १'जलौका' इति ग-टी-पाठः। 2 'कुन्थुछुरुक' इति क-ख-पाठः। 3 'वृद्धादीनीति' इति क-ख-पाठः। ४'पन्यसनात् ' इति ग-पाठः। Page #201 -------------------------------------------------------------------------- ________________ भाष्यपाठभेदः सूत्र 25 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 175 टमारभ्यत इति नातिदोपाय / अपरेऽतिविसंस्थुलमिदमालोक्य भाष्यं माम विषण्णाः सन्तः सूत्रे मनुष्यादिग्रहणमनार्षमिति सङ्गिरन्ते, गौरवहेतृत्वात् , विनापि किल मनुष्यादिग्रहणेन चत्वार्येकेन वृद्धानि येषां ते सामर्थ्यान्मनुष्यादयो भविष्यन्ति, तदेतदयुक्तप्राय लक्ष्यते, अविगानेनैवंविधसूत्राध्ययनात , सामर्थ्यलाभे वा भ्रमरादिग्रहणमपि न कर्तव्यम् , त्रीण्येकेन वृद्धानि स्पर्शन-रसन-प्राण-चभृषि भ्रमरादीनामेवेति / इदमन्तरालमुपजीव्यापरे वातकिनः स्वयमुपरभ्य सूत्रमधीयते-'अतीन्द्रियाः केवलिनः' येषां मनुष्यादीनां ग्रहणमस्ति सूत्रेऽनन्तरे त एवमाहुः-मनुष्यग्रहणात् केवलिनोऽपि पञ्चेन्द्रियत्वप्रसक्तेः अतस्तदपवादार्थमतीत्येन्द्रियाणि केवलिनो वर्तन्त इत्याख्येयम् , तदेतद् वार्तम् , भगवतो द्रव्येन्द्रियसद्भावात , भावेन्द्रियाभावश्चात्यन्तिको मत्यादिचतुष्टयविनिर्मुक्तत्वात् केवलस्येति किमत्रानिष्टमापद्यत इति न विद्मः // 24 // ___ भा०-अत्राह-उक्तं भवता-द्विविधा जीवाः-समनस्का अमनस्काश्चेति / तत्र के समनस्का इति ? / अत्रोच्यते // टी-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः / इन्द्रियनियम आपादिते मनोनियमाभिधानेच्छयाऽत्रावसरे शिष्य आह-अभिहितं त्वया प्राग् द्विप्रकारा जीवाः संसारिणः-'समनस्का अमनस्काश्च' (अ० 2, सू०११) तत्र नारकादिषु के समनस्का इति विभक्तमिच्छामि ज्ञातुम्, के वाऽमनस्का इति नोक्तम् , अन्यतरसमूहाभिधानेऽन्यतरस्य सुज्ञानत्वात् अत्र शिष्यप्रश्नावसायेऽभिधीयते सूत्रम्-संज्ञिनः समनस्काः // 2-25 // भा०--सम्प्रधारणसंज्ञायां संज्ञिनो जीवाः समनस्का भवन्ति / सर्वे नारकदेवा गर्भव्युत्क्रान्तयश्च मनुष्यास्तिर्गग्योनिजाश्च केचित् / ईहापोहयुक्ता गुणदोषविचारणात्मिका सम्प्रधारणसंज्ञा / तां प्रति संज्ञिनो विवक्षिताः। भन्यथा ह्याहार-भय-मैथुन-परिग्रह-संज्ञाभिः सर्व एव जीवाः संज्ञिन इति // 26 // ___टी-संज्ञिनः समनस्काः , संज्ञा विद्यते येषां ते संज्ञिनः, शिक्षादित्वाद् बीह्मादित्वाद् वा, विद्यमानं मनो येषां ते समनस्काः सपुत्रादिवत् , संज्ञामात्रसम्बन्धात् . .. सर्वे पृथिव्यादयः संज्ञिनो दशविधसंज्ञाभ्यनुज्ञानात् इत्यागममनुपश्य " नाचार्य आह-सम्प्रधारणसंज्ञायामित्यादि / अथवा कालहेतुदृष्टिवादोपदेशाख्यास्तिस्रः संज्ञास्तत्र कतमां संज्ञामधिकृत्योच्यते संज्ञिनः समनस्का इति / आहसम्भधारणसंज्ञायामित्यादि, न सर्वा संज्ञाऽऽगमोक्तान गृह्यते, किन्तु या सम्प्रधारणास्मिका तस्याः परिग्रहः / किं पुनः कारणमूहलोकाहारादिसंज्ञास्त्यज्यन्ते ? / उहादिसंज्ञाः लावदतिस्तोकत्वादशोभनत्वाच्चाहारादिसंज्ञानाधिक्रियन्ते, नहि कार्षापणमात्रेण धनवान, मूर्ति Page #202 -------------------------------------------------------------------------- ________________ 176 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 मात्रेण वा रूपवानिति व्यपदिश्यते, यथा च प्रभूतद्रविणो धनवान् , प्रशस्तरूपः स्वरूपवानुच्यने तथा महत्या शोभनया चेह संज्ञया संजिन ग्रहीप्यन्ते, भूमप्रशंसातिशयनादिषु मत्वर्थीयनिधानात् , कालहेतुदृष्टिवादोपदेशसंज्ञानां च मध्ये कालिक्येव परिगृह्यते नेतरे, निरूपित मिदं नन्द्यां सूत्रव्याख्याने हेतुकालदृष्टिवादोपदेशकममुत्तरोत्तरविशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापितेत्येवमाक्षिप्तेऽभिहितमुत्तरं (हारिभद्रीये )-संश्यसंज्ञीति सर्वत्र श्रुते कालिक्याः संज्ञायाः प्रायः संव्यवहारः क्रियते, अतः क्रमविशुद्धिमनादृत्य सूत्रमुपनिबद्धम्, अतस्तां कालिकी संज्ञामधिकृत्य भाष्यकृद् व्याख्यानयति-सम्प्रधारणसंज्ञायां ये वर्तन्ते जीवास्ते समनस्का भवन्ति / सम्प्रधारणमालोचनं येन सुदीर्घमपि कालमनुस्मरति भूतमागामिनं चानुचिन्तयति कथं नु कर्तव्यं किं वा तत्रानुष्ठेयमत एव दीर्घकालिकीत्युक्ताऽऽगमे पूर्वपदलोपात् / तच्च सम्प्रधारणमेवंरूपं कस्य सम्भवति ? योऽनन्तानन्तान् ___ मनोयोग्यान् स्कन्धान् आदाय मन्यते, तल्लब्धिसम्पन्नो मनोविज्ञाउपलाधन नानात्वम् नावरणक्षयोपशमादिसमेतः, यथा च रूपोपलब्धिश्चक्षुष्मतः प्रदीपादिप्रकाशपृष्ठेन तद्वत् क्षयोपशमलब्धिमतो मनोद्रव्यप्रकाशपृष्ठेन मनःपष्टैरिन्द्रियैरर्थोपलब्धिः, यथा वाऽविशुद्धचक्षुषो मन्दमन्दप्रकाशे रूपोपलब्धिरेवमसंज्ञिनः पञ्चेन्द्रियसम्मूछैनजस्यात्यल्पमनोद्रव्यग्रहणशक्तरर्थोपलब्धिः, यथा चेह मूच्छितादीनामव्यक्तं सर्वविषयविज्ञानमेवमतिप्रकृष्टावरणोदयादेकेन्द्रियाणाम् , अतः शुद्धतरं शुद्धतमं च द्वीन्द्रियादीनामा पञ्चेन्द्रियसम्मूछेनजेभ्यः, ततस्तत्संज्ञिनामतिप्रकृष्टतरमिति ? / आह-कुतः पुनश्चैतन्यसमानतायामात्मनो यदिदमुपलब्धिनानात्वम् ? उच्यते-सामर्थ्य भेदात् , स च क्षयोपशमानन्त्याद यथा चेह छेदनत्वे तुल्ये चक्रवर्तिनश्चक्रस्य यत् सामर्थ्य तत् क्रमशो हीयमानसामर्थ्यानां न शरपत्रादीनामस्ति, एवमेव हि मनोविषयाणां संज्ञिनां चैतन्ये सति या पटुता सम्प्रधारणायां नासौ क्रमशो हीयमानानामसंज्ञिनामिति / एवं तावद् विशिष्टसंज्ञाभाज एव संज्ञिन इति प्रतिपादितम् / / इदानीं नामग्राहमाचष्टे तान् संज्ञिनः-सर्वे नारकदेवा इत्यादिना / पृथिवीसप्तकवर्तिनो नारकाः, भवनवनचरज्योतिपिकवैमानिकाश्च देवाः, गर्भेण व्युत्क्रान्तिर्येषां मनुष्याणां ते गर्भव्युत्क्रान्तयः, उपरिष्टात् (अ०२,सू०३२) त्रिविधं जन्म वक्ष्यते, तत्र मातृपितृसंयोगाजीवस्योत्पादो गर्भजन्मोच्यते, तेन गर्भजन्मना विविधमुत्क्रमणंउद्गमनं-प्रादुर्भावो येषां कदाचिच्छिरसा कदाचित् पादाभ्यां मातुरुदरान्निःसरणमित्येवंविधमनुष्याणां च समनस्कत्वम् / गर्भव्युत्क्रान्तिग्रहणात् सम्मूच्छेनजन्ममनुष्यव्यावृत्तिः / तिर्यग्योनिजास्त्वित्यादि / पञ्चेन्द्रियतिर्यग्योनिजाः गो-महिषी-अजाविक-करि केसरि-व्या 1 तथा च' इति ग-पाठः। 2. मनोविषयिणां संज्ञानाम् ' इति ग-टी-पाठः। ३'तत्संज्ञिनः' इति कम्ख-पाठः। Page #203 -------------------------------------------------------------------------- ________________ सूत्र 25 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 177 प्रादयः / केचिदग्रहणाद् गर्भव्युत्क्रान्तय एव परिगृह्यन्ते, न सम्मूर्छनजन्मभाजः / ईहापोहयुक्ता इति / सामान्यार्थग्रहणानन्तरभाविनी सदर्थमीमांसा ईहा-किमयं शयध्वनिरुताहो शृङ्गध्वनिरिति, मधुरादिगुणयोगादयं शङ्खस्यैव ध्वनिः, न शृङ्गस्येत्यन्वयव्यतिरेकवद् विज्ञानमपोह उच्यते, ईहापोहाभ्यां युक्ता ईहापोहयुक्ता-गुणदोषविचारणात्मिका सम्प्रधारणसंज्ञा, तां प्रति संज्ञिनोऽत्र संज्ञिनो विवक्षिताः, गुणाश्च दोषाश्च गुणदोपाः, स्वार्थपुष्टिहेतवो गुणाः, तदपचयहेतवो दोषाः, तेषां विचारणम्-आलोचनं-कथं गुणावाप्तिर्दोपपरिहारश्चेति तदेवात्मा-खरूपं यस्याः सम्प्रधारणसंज्ञायाः सा गुणदोषविचारणात्मिका सम्प्रधारणसंज्ञा, तामेवंविधां संज्ञामभिमुखीकृत्य संज्ञिनो वक्तुमभिप्रेताः / अन्यथा हीत्यादि / यदि प्रतिविशिष्टा संज्ञा नाङ्गीक्रियते ततः सर्व एव जन्तवः पृथिव्यादिभेदाः . समनस्काः स्युः, आहारादिसंज्ञाभिः संज्ञिन इतिकृत्वा, तस्माद् विशिष्टआहारादिसंज्ञादसशी संज्ञाभाजः संज्ञिनः समनस्का भवन्ति / तत्रासद्वेदनीयोदयादोजलोमप्र क्षेपभेदेनाहाराभिलापपूर्वकं विशिष्टपुद्गलग्रहणमाहारसंज्ञा, संज्ञा नाम विज्ञानम्,तद्विषयमाहारमभ्यवहरामीति मोहनीयोदयात्, साध्वसलक्षणा भयसंज्ञा-भयपरिज्ञानं विभेमीति, पुरुषादिवेदोदयाद् दिव्यौदारिकशरीरसम्बन्धाभिलाषासेवनं मैथुनसंज्ञा, ततोऽन्यथा वाऽपि मूोलक्षणा परिग्रहसंज्ञा, भावतोऽभिष्वङ्गो मूर्छा, तस्मात् सिद्धं प्रणिधानविशेषाहितसंस्कारविज्ञानपाटवादरविम्भितपरिणामाः संज्ञिनः // ननु च सम्प्रधारणसंज्ञा मनोलक्षणा, मनश्च सम्प्रधारणसंज्ञारूपम्, ततश्चायुक्तं लक्षणमन्योन्यलक्षणत्वाद् हस्तकरवत् संज्ञिनः समनस्का इति / उच्यते-लक्ष्यपदार्थो द्विविधेन लक्षणेन लक्ष्यते स्वसिद्धेन परसिद्धेन चा, स्वसिद्धेनाग्निरुष्णत्वेन, परसिद्धनाभिनववारिवाहपटलस्निग्धतरवनखण्डवलाकाकमलसौरभादिना महान् जलाशयः, तत्रेहापि लक्ष्याः समनस्काः प्रसिद्धेन गुणदोषादानपरिहाररूपेण बहिर्वर्तिना प्रत्यक्षप्रमाणसमधिगम्येन सम्प्रधारणसंज्ञाफलेन लिङ्गभूतेन संज्ञित्वेनानु___ मीयन्तेऽन्तःकरणवत्तया विद्वद्भिः, न चाग्नेर्लक्षणमुष्णता तदभेदवर्तिन्यपि सम्प्रधारणेन समनस्कतालक्षणम् यथा तथा सम्प्रधारणसंज्ञाऽपि बहिरतिस्फुटहिताहितप्राप्तिपरिहाररूप फला लिङ्गिनो भेदेनापि माना लक्षणमेव / अथवा पर्यायकथनेनेदं व्याख्यानं समनस्कानाम् , के समनस्का इति पृष्टे संज्ञिनः समनस्का इत्येकोऽर्थः, यथाऽन्यत्र 'मतिस्मृतिसंज्ञाचिन्ताभिनिबोध इत्यनर्थान्तरं ' (अ० 1, सू० 13), 'सम्यग्योगनिग्रहो गुप्तिः' ( अ०९, सू० 4 ) इति / इहापि गुणदोषविचारणाफलयोगात् प्रसिद्धतरः संज्ञिशब्दस्तेन प्रत्यायनमप्रसिद्धस्य समनस्कशब्दार्थस्य / एवंच हस्तकरवदित्यप्युपपन्नं भवति, कस्यचिदन्यतरप्रसिद्धावन्यतरो व्याख्यायते-कः करः ? हस्त इति, विवक्षावशाद् वा कदाचित् कारणेन तत्कार्यमनुमीयते जातुचित् कार्येण कारणम् , अत्र च मनः कारणं सम्प्रधारणसंज्ञा कार्यतया लक्ष्यते इति, कदाचिद वा सैव मनसा लक्ष्यत इत्यन्योन्यलक्षणताऽपि न दोषायेति // 25 // THHTHHTHHHHHIGH Page #204 -------------------------------------------------------------------------- ________________ त 178 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 ___ उक्तः प्रतिविशिष्टानामेव भवस्थानां मनोयोगनियमः / अथ येऽन्तर्गतौ वर्तन्ते प्राणिनस्तेषां कतमो योगः 1 / उच्यते सूत्रम्--विग्रहगतौ कर्मयोगः // 2-26 // टी-अथवा संसारिणोऽधिकृतास्ते च संसरणधर्माणो भवाद् भवान्तरप्राप्तः, तञ्च तेषां संसरणं द्विधा-देशान्तरप्राप्तिलक्षणं भावान्तरप्राप्तिलक्षणं च, तत्र सुसरणस्य ये पूर्वशरीरपरित्यागाद् देशान्तरं गत्वा जन्म लभन्ते तेषां देशाद्वविध्यम् न्तरप्राप्तिलक्षणम् , ये पुनः स्वशरीर एवोत्पद्यन्ते मृताः सन्तः कृम्यादिभावेन तेषां भावान्तरप्राप्तिलक्षणम्, एतदुभयमपि न चेष्टालक्षणयोगमन्तरेण संसरणमस्ति, त्यक्तपूर्वकशरीरस्य जन्तोर्गतेरभावाद गतिपूर्विका चोभयप्राप्तिरिति ? उच्यते-गतिहेतुसद्भावान्न गमनप्रतिषेधः, सा गतिरन्तरालवर्तिनी द्विधा-ऋज्वी वक्रा च, ऋज्वी तावत् पूर्वशरीरयोगोत्थापितप्रयत्नविशेषादेव गतिरिअन्तर्गतिविचारः प्यते धनाविमोक्षाहितसंस्कारेषुगमनवत् , तस्यां च पूर्वकः स एव योगो वाच्यः, अतोऽन्यस्यानु विग्रहगतौ कर्मयोगः, विग्रहो वक्रमुच्यते, विग्रहेण युक्ता गतिविग्रहगतिः अश्वरथन्यायेन, विग्रहप्रधाना वा गतिः विग्रहगतिः शाकपार्थिवादिवत्, तस्यां विग्रहंगती कोष्टकेनैव योगः, न शेषौदारिकादिकायवाङ्मनोव्यापार इति, कर्मणो योगः कर्मयोगः कार्मणशरीरकृतैव चेष्टेत्यर्थः / एतदेव व्यक्तं भाष्येण दर्शयति भा०-विग्रहगतिसमापन्नस्य जीवस्य कर्मकृत एव योगो भवति / कर्मशरीरयोग इत्यर्थः / अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इंति // 26 // टी-विग्रहगतीत्यादि / समासादितवक्रगतेजन्तोः कर्माष्टकं कर्मशब्देनोच्यते / कर्मकृत एव योगो भवतीत्यवधारणेन व्युदासमावेदयति शेषयोगानाम्,पुनः स्पष्टतरमसन्देहार्थ विवृणोति-कमशरीरयोग इत्यर्थः / कमव शरीरं कर्मशरीरं कार्मणमिति स्फुटयति, स्वार्थ च व्युत्पत्तिमावेदयति कमैव कार्मणम्, न पुनजोतभवाद्यर्थसम्बन्धोऽत्र कश्चित् समस्ति / अयं च नियमोऽन्तर्गतेरेव क्रियते न कार्मणस्येति ख्यापयन्नाह–अन्यत्र तु यथोक्तः कायवाङ्मनोयोग इति / अन्तगेतेरन्यत्र यथाभिहित आगमे कायादियोगो भवति, तुशब्दो गत्यन्तरविशेषप्रदर्शनपरतयोक्तः / तद्यथा-नारकगर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवानां त्रयोऽपि योगाः, योगविभागः / .. सम्मूर्च्छनजन्मभाजां तिर्यग्मनुष्याणां कायवाग्योगावेव / अथवा विभाग यथोक्त इति / येन प्रकारेणोक्तः कायादियोगः पञ्चदशभेदः स तथा समायोजनीयो गत्यन्तरभेदेध्विति सूचयति, तत्र मनोयोगश्चतुर्धा-सत्यः, असत्यः, सत्यासत्यः, असत्यामृष इति, एवं वाग्योगेऽपि, काययोगः सप्तभेदः-औदारिकः, औदारिकमिश्रा, वैक्रियः, वैक्रियमिश्रः, आहारकः, आहारकमिश्रः, कार्मणश्चेति // ननु च 'अनादिसम्बन्धेच' १वक्रगतौ चेत्यधिकम् / 2 ' इत्यर्थः' इति घ-पाठः / Page #205 -------------------------------------------------------------------------- ________________ सूत्रं 26 ] स्वोपनभाष्य-टीकालङ्कृतम् 179 (अ० 2, मू० 42), 'सर्वस्य' (अ 02, मू० 43) इतिवचनात् तैजसयोगसद्भावोऽपि, अतोऽष्टविधेनं काययोगेन भवितव्यम् , ततश्च पोडशभेदो योगः स्यात् , अवधारणं च भाष्ये कर्मकृत एवेति तदप्यसमीक्ष्य कृतं स्यात् , तत्रोच्यते-'सर्वस्य' (अ०२, सू० 43) इत्यत्र सूत्रे जसयोगमाचार्योऽन्यमतेन निराकरिष्यति, 'एके त्वाचार्याः नयवादापेक्षम्' (अ०२, सू० 43) इत्यादिना भाष्येण, अतः क्रममुदीक्षस्व मा त्वरिष्ठाः, तत्रैवेदं निश्चेष्यते, समासतस्तावद गृहाण-तैजसं कार्मणान्न भिन्नमेकमेवेदमित्यतः पञ्चदशधा योगः, तैजसस्य भिन्नयोगाभावः मन- अवधारणमपि भाष्ये नासमञ्जसमिति / सोऽयमधुना जीवेषु पञ्चदशविधो - योगः आयोज्यते-संज्ञिमिथ्यादृष्टेरारब्धो यावत् सयोगकेवली ताक्दाद्यतुर्यो मनोयोगौ लभ्येते, एतेष्वेव च स्थानेषु सत्यवाग्योगोऽपि, तुरीयः पुनर्वाग्योगो दीन्द्रियमिथ्यादृष्टेरारब्धो यावत् सयोगिकेवली तावत् समस्ति, द्वितीयतृतीयवाग्योगौ संज्ञिमिथ्यादृष्टेरारब्धौ यावत् क्षीणकपायवीतरागच्छद्मस्थस्तावल्लभ्यते / एवं मनोयोगावपि द्वितीयतृतीयौ / ऋजुगत्यां यावद् भवान्तरसम्प्राप्तिस्तावदन्तराले यथासम्भवमौदारिकवैक्रियकाययोगौ भवतः, वक्रायां तु पुनस्तौ विनिवर्तेते, नारकसुरा वैक्रिययोगभाजः, तियग र मनुष्या औदारिकवैक्रिययोगिनः, आहारकयोगः प्रमत्तेन निष्पाद्यते - पश्चादप्रमत्तस्य . भवति, एत एव हि नारकादयोऽपर्याप्तकावस्थावर्तिनो मिश्रयोगभाजो भवन्ति, औदारिकवैक्रिये येषां ग्राह्ये पुरोजन्मनि तेषां कार्मणेन मिश्रः, यस्याहारकं ग्राह्यं तस्यौदारिकेण मिश्रः, सम्यग्मिथ्यादृशमपहाय मिथ्यादृष्टेरारब्धोऽन्तर्गतौ कार्मण एव योगस्तावल्लभ्यते यावदुपशान्तकषायवीतरागच्छद्मस्थ इति / केवलिसमुदघातकाले च तृतीबचतुर्थपञ्चमसमयेषु कार्मण एव / सूत्रे चावध्रियते विग्रहगतेः, न कर्मयोगः, ततोऽन्यत्रापि दर्शनादिति, द्वितीयषष्ठसप्तमेष्वौदारिककार्मणमस्ति, प्रथमाष्टमयोरौदारिक एव, एवमन्यत्र तु यथोक्तः कायादियोगः समायोजितो भवति // अथ विग्रहगतौ कर्मयोग इतिवचनादेकविग्रहायामपि गतौ कार्मण एव योगः कसान भवति? साऽपि हि विग्रहगतिर्भवत्येवेति / उच्यतेविग्रहगताविति न व्याप्तिर्विवक्षिता तिलतैलवत् , किन्तु विषयो विवक्षितः खे शकुनिरुदके मत्स्य इति यथा, अवश्यं चैतदेवं ग्रहीतव्यम्, अन्यथा द्विविग्रहायां त्रिविग्रहायां वा गतावाचन्तयोरपि समययोः कार्मणयोगः प्राप्नोति, इष्यते च द्विविग्रहायां मध्यमसमये त्रिविग्रहायां मध्यमयोयोरिति // ननु च विग्रहगतिसमापन्नः कार्मणेन योगेन भवान्तरं सङजामति तत् कथं 'निरुपभोगमन्त्यम् ' ( अ० 2, मू० 45 ) इति वक्ष्यते, अयमेव हि विप्रगहतो निरु .. तस्योपभोगो यदुत भवान्तरसङ्क्रान्तिरिति ? / उच्यते-विशिष्टः सूत्रे "पा सुखदुःखयोरुपभोगः कर्मबन्धानुभवो निर्जरालक्षणश्च प्रतिपेत्स्यते, न चेष्टारूप इति / अथ कथं सूत्रमिदम् ?-"जावं च णं भंते ! अयं बीवे एयति वेयति चलति फंदति तावं च णं णाणावरणिज्जेणं जाव अंतराइएणं 1 यावच्च भदन्त ! अयं जीव एजते व्येजते चलति स्पन्दते तावच्च ज्ञानावरणीयेन यावद् अन्तरायिकेण Page #206 -------------------------------------------------------------------------- ________________ 180 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 बज्झतित्ति ? हंता गोयमा !" कार्मणयोगकाले चास्ति चलनं, तत् कथं बन्धादिलक्षणोपभोगप्रतिषेधः 1 / उच्यते-भवस्थमाश्रित्य भगवता सूत्रं प्राणायि, ज्ञानावरणाद्यास वाणां तदैव सद्भावात् , अपिच अल्पः कालः समयद्वयं कस्तत्रोपभोगेनाभिसम्बन्ध इति, स्याद वा काययोगप्रत्ययस्तत्र बन्धः स तु न विवक्ष्यते भाष्यकारेण, ज्ञानावरणाद्यास्रवविशेषाहितबन्धनिराकारसूत्रं व्याख्यास्यत इति, एवं तानुपूर्वीनामकर्मोपभोगस्तदैव नान्यदा जन्तोरन्यत्र केवलिद्विचरमसमयात्, ज्ञानावरणाद्युपभोगश्च यथासम्भवमतः कथमुपभोगप्रतिषेध इति ? / उच्यते-पुनः पुनर्विरुवन्मुधा कदर्थयसि त्वमस्मान् , तत्रैव सूत्रे निश्चयिष्यते एतद् अभिव्यक्तरूपा हिंसादयो न तत्र सन्ति, न च तदनुरूपफलोपभोग इति व्यक्तिमावेश्य चेतसि प्राणैषीत् सूत्रमाचार्यस्तस्मादवस्थितमिदम्-विग्रहगतौ कार्मण एव योगः, न शेष इति // 26 // _____ अथ येषां जीवानां गतिर्भवान्तरप्रापिणी सा किं यथाकथंचिद् भवति, आहोस्विदस्ति कश्चिनियमः ? / अस्तीत्युच्यते सूत्रम्-अनुश्रेणिर्गतिः॥ 2-27 // टी०--अथवा किं पुनरयमात्मा भवान्तरप्राप्तौ वक्रां गति प्रतिपद्यते गतिनियमात कुतश्चिदुताहो यथाकथंचिदिति ? / गतिनियमात् इत्याह- कः पुनरसौ गतिनियमः ? उच्यते--अनुश्रेणिर्गतिः। श्रेणिः-आकाशप्रदेशपङ्किः स्वशरीरावगाहप्रमाणा, प्रदेशाश्वामूर्ताः क्षेत्रपरमाणवोऽत्यन्तसूक्ष्माः नैरन्तर्यभाजः, सा चासङ्ख्येयप्रदेशा जीवगतिविवक्षायाम्, अन्यत्र मौक्तिकहारलतेव एकैकाकाशप्रदेशरचनाहितस्वरूपाऽपि ग्राह्या, परमाणोस्तावत्यामेव व्यवस्थानात् , घणुकादेस्तावत्यामधिकायां चेत्येवमनन्तप्रदेशिकस्कन्धपर्यवसानं पुद्गलद्रव्यमुपयुज्य वाच्यम् / तत्रानुश्रेणीति / श्रेणिमनु अनुश्रेणि श्रेण्यामनुसारिणी गतिरितियावत् , अनुगङ्गं वाराणसी यथा / गमनं-गतिः-देशान्तरप्राप्तिः, सा चाकाशश्रेण्यभेदवर्तिनी स्वयमेव समासादितगतिपरिणतेर्जन्तोर्गतिहेतुसकललोकव्यापिधर्मद्रव्यापेक्षा प्रादुरस्ति, भवान्तरसङ्क्रान्त्यभिमुखो जीवो मन्दक्रियावत्त्वात् कर्मणो यानेवाकाशप्रदेशानवष्टभ्य शरीरवियोगं करोति तानेवाभिन्दन् देशान्तरं गच्छत्यूर्वमधस्तिर्यग्वा, विश्रेणिगत्यभावाद्, . धर्मास्तिकायाभावाच परतो लोकपर्यन्ते एव व्यवतिष्ठते, लोकनिष्कुटोगतेरनुश्रेणिता त पपातक्षेत्रवशाच्च भवान्तरप्राप्ताववश्यमेव धर्माज्जीवो वक्रां गतिं प्रतिपद्यते, पुद्गलानामा५ परप्रयागनिरपेक्षाणां स्वाभाविकी गतिरनुश्रेणिर्भवति यथाऽणोः प्राच्यात् लोकान्तात् प्रतीच्यं लोकपर्यन्तमेकेन समयेन प्राप्तिरिति प्रवचनोपदेशः, परप्रयोगापेक्षया त्वन्यथाऽपि गतिरस्तीति // निगा बध्यते ? हन्त गौतम!। Page #207 -------------------------------------------------------------------------- ________________ सूत्र 28 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् ____ अधुना भाष्यमनुगम्यते: भा०–सर्वा गतिर्जीवानां पुद्गलानां चाकाशप्रदेशानुश्रेणिर्भवति, विश्रेणिर्न भवतीति गतिनियम इति // 27 // ___टी.-सर्वा गतिरित्यादि / सर्वेति ऊर्ध्वमधस्तिर्यग्वा देशान्तरप्राप्तिः, जीवानांजीवनयुजां संसरणधर्माणामित्यर्थः, पुद्गलानामिति, पूरणाद् गलनाच्च पुद्गलाः-निरुक्तप्राभृतानुसारेण उपचयापचयभाजः, तेषां च, समुचितौ चशब्दः / कथं पुनरत्र पुद्गलग्रहण मतर्कितमेव सहसा विहायसोऽपतदिति ? / उच्यते-जीवाधिकारानुवृत्ती अनुश्रेणी पद्गलप्रणा गतिनियमविवक्षायामनुपात्तमपि सूत्रे लाघवैषिणा भाष्यकारेणोपात्त मेकप्रयत्नसाध्यत्वात् , अन्यथा तु गौरवं जायते, अतश्चेदमवश्यमर्थतो वक्तव्यम्-पुद्गलानां चेति, उत्तरत्र सूत्रे जीवग्रहणाद् , अन्यथा जीवाधिकारानुवृत्तौ जीवग्रहअस्य न किंचित् प्रयोजनमुपलभ्यते, तस्मात् पश्यत्ययमाचार्यो जीवानां पुद्गलानां च गतिनियम अनन्तरसूत्रेऽतः पुद्गलव्यवच्छित्तये जीवग्रहणमिति / आकाशप्रदेशानुश्रेणिभवति / जीवपुद्गलावगाहलक्षणमाकाशं तस्य प्रदेशाः-परमाणवोऽमूर्तास्तेपां पति:पदीर्घा श्रेणिरसंख्यातप्रदेशा, पुद्गलगमने तु सङ्ख्यातप्रदेशाऽपि, तामेवंविधां श्रेणिमनुपत्य गमनमुपजायते, आकाशप्रदेशानां या श्रेणिस्तामनु जायते गतिर्भवत्ययमर्थः समासस्तु, कथमेतचिन्त्यम् आकाशग्रहणं, धर्मादिद्रव्य निवृत्त्यर्थम्, तदेव ह्यवगाहदानेन व्याप्रियते, न शेपमिति / उक्तलक्षणायाः श्रेणेविंगता या गतिः सा विश्रेणिर्जीवानाम् , पुद्गलानां तु स्वभावाद्, विश्रेणिर्न भवतीति गतिर्नियम्यते / पूर्वापरायता वियत्प्रदेशश्रेणयो दक्षिणो रायताश्चापराः तथा चोर्ध्वमधश्च धर्माधर्मद्रव्यद्वयावधिका यास्तास्वेव गतिसद्भावात् ता एव विमिद्य न कदाचिदपि प्रयान्तीति // 27 // अत्राह-सैवस्वभावा गतिः किमृज्वेव गत्वोपरमति, अथ कृत्वापि वक्रं पुनरुपजायते ? / उच्यते-पुद्गलानामनियमः, सिद्धयतस्त्वेकान्तेनैवाविग्रहेत्यत आह सूत्रम्-अविग्रहा जीवस्य // 2-28 // सिध्यमानस्य गतिनियमः समय भा०—सिद्धयमानगतिर्जीवस्य नियतमविग्रहा भवति // 28 // .टी०-एतावद् भाष्यमस्य सूत्रस्य / सेधनशक्तियुक्तः सिद्धयमानः सेधनशीलो वा तस्य गतिर्गमनं पूर्वप्रयोगादिहेतुचतुष्टयजनितम् / जीवस्येति ग्रहणात् पूर्वयोगैर्जीवाः पुद्गलाश्चेति शापितं भवति, सिद्धयमानस्येति सामर्थ्यलब्धमुदचीचरत् मूरिरुत्तरयोगे संसारिग्रहणात् , नियतं सर्वकालमेव सिद्धयताम् , अविग्रहा-ऋज्वी गतिर्भवतीति वेदितव्यमिति // 28 // आह-अन्यस्य सिद्धयमानजीवव्यतिरिक्तस्य कथमिति ? / उच्यते१'सूत्रोक्तः' इति क-ख-पाठः / Page #208 -------------------------------------------------------------------------- ________________ 182 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 सूत्रम्-विग्रहवती च संसारिणः प्राक् चतुर्थ्यः // 2-29 // टी०-विग्रहवती-वक्रा चशब्दादविग्रहा वाऽनन्तरसूत्रनिर्दिष्टा गतिर्भवति,संसारिग्रहणानुवृत्तौ पुनः संसारिग्रहणं सिद्धग्रहणादपास्तस्य प्राक्तनसंसारिग्रहणस्य पुनः प्रत्युज्जीवनाय अर्थवशाच्च विभक्तिविपरिणामः प्राक चतुभ्य इत्यन्तर्गतिकालप्रकर्षावधारणार्थः, 'एकसमयोऽविग्रहः' (अ० 2, सू० 30 ) इति वक्ष्यमाणत्वात् / चतुर्यो विग्रहेभ्य आरात सविग्रहा भवति, त्रिविग्रहा प्रकर्षत इति, प्राकशब्दस्य मर्यादाभिधायित्वात् // ___अधुना भाष्यानुसरणं क्रियते भा०-जात्यन्तरसङ्कान्तौ संसारिणो जीवस्य विग्रहवती चाविग्रहा च गतिर्भवतीति, उपपातक्षेत्रवशात् तिर्यगूर्ध्वमधश्च, प्राक् चतुर्थ्य इति येषां विग्रहवती तेषां विग्रहाः प्राक् चतुभ्यो भवन्ति, अविग्रहा विग्रहगतिस. एकविग्रहा द्विविग्रहा त्रिविग्रहा इत्येताश्चतुस्समयपराश्चतुङ्ख्याः विधा गतयो भवन्ति, परतो न सम्भवन्ति, प्रतिघाताभावाद् विग्रहनिमित्ताभावाच / विग्रहो वक्रितम्, विग्रहोऽवग्रहः श्रेण्यन्तर सान्तिरित्यनर्थान्तरम् / पुद्गलानामप्येवमेव / शरीरिणां च जीवानां विग्रहवती चाविग्रहवती च प्रयोगपरिणामवशात् / न तु तत्र विग्रहनियम इति // 29 // टी-जात्यन्तरसङ्क्रान्तावित्यादि / जातिरेकेन्द्रियादिभेदात् पञ्चधा, जातेरन्या जातिर्जात्यन्तरं तस्मिन् सङ्क्रान्तिः-गमनं जात्यन्तरसङ्क्रान्तिस्तस्यां आत्यन्तरसङ्क्रान्तौ सत्यामिति / अथ यदा स्वजातादेवोत्पद्यते तदा कथम् ? तदापि ह्येवमेव गतिर्वक्तव्या, जात्यन्तरग्रहणं तु तदा प्रदर्शनमात्रकारि व्याख्येयम् / अथवा जननं-जन्म जातिशब्देनोच्यते, जन्मनो जन्मान्तरावाप्तिर्जात्यन्तरसङ्क्रान्तिरिति न कश्चिदत्र दोषः / संसारः-कर्म तदमिसम्बन्धात संसारिणो जीवस्येति जीवनधर्मभाजः, अजुगतौ पूर्वकमेवाऽऽयुर्भवति यावदुपपातदेशं प्राप्नोति, कुटिलगतौ यावद् वक्रं तावत् पूर्वकम्, तत्परतो भविष्यजन्मविषयमायुरुदेतीत्येवंविधार्थज्ञापनाय जीवस्येत्यवोचत् / समुच्चयार्थ दर्शयति-वक्रा चावका च उभयी - गतिः / किं पुनः कारणमत्र येन कदाचिद वक्रा कदाचिदवक्रेति / विग्रहे हेतुः अत आह-उपपातक्षेत्रवशात् उपपातक्षेत्रं यत्र जन्म प्रतिपत्स्यते तस्य वशः-आनुलोम्यमनुकूलता उपपातक्षेत्रवशस्तस्मादुपपातक्षेत्रवशात् कारणात्। तिर्यगूर्वमधश्च प्राक चतुर्थ्य इति, दिक्षु विदिक्षु च व्यावहारिकीषु स म्रियमाणो यावत्यामाकाशश्रेणाववगाढस्तावत्प्रमाणां श्रेणिममुश्चदूर्ध्वमधश्च प्राक् चतुभ्यो विग्रहेभ्यः सविग्रहया ग़त्योपपद्यते, न चायं नियमः प्रतिपत्तव्योऽन्तर्गत्याऽवश्यं विग्रहवत्या भवितव्यम् , किन्तु येषां विग्रहवती तेषां प्राक चतुर्यो विग्रहा भवति, येषां जीवानामुपपातक्षेत्रवशाद् विग्रहवती गतिर्भवति तेषां विग्रहत्रययुक्ता प्रकर्षतो द्रष्टव्या / अमुमेवातिक्रान्तमशेष भाष्यार्थ व्यक्तिमा Page #209 -------------------------------------------------------------------------- ________________ सूत्रे 29] स्वोपज्ञभाष्य टीकालङ्कृतम् 183 पादयन्नाह-अक्मिहा इत्यादि / यस्योपपातक्षेत्रं समश्रेणिव्यवस्थितमुत्पित्सोः प्राणिनः स प्रज्वायतां श्रेणिमनुपत्योत्पद्यते , तत्रैकेन समयेन वक्रमकुर्वाणः, कदाचित् तदेवोपपातक्षेत्रं विश्रेणिस्थं भवति तदैकविग्रहा द्विविग्रहा त्रिविग्रहा चेति तिस्रो गतयो निष्पद्यन्ते, आकाशप्रदेशश्रेणीः लिखित्वा प्रत्यक्षीक्रियन्ते / तथा चागमः-अपञ्जत्तसुहुमपुढविक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरमंते समोहते समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरमंते अपज्जत्तसुहमपुढविकाइयत्ताए उपववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववजेज्जा ? गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेण उववज्जेज्जा, से त्रिसमयीं यावत् र केणटेणं भंते ! एवं बुच्चइ ? एवं खलु गोयमा! मए सत्त सेढीओ विग्रहः पण्णत्ताओ, तंजहा-उज्जुआयता सेढी एगओवंका दुहओवंका एगओखहा दुहओखहा चक्कवाला अद्धचक्कवाला (भग० श० 25, उ० 3, सू० 730), उज्जुआयताए सेढीए उववज्जमाणे एगसमएणं जिग्गहेणं उववजेजा, एगओवकाए सेढीए उवबजमाणे दुसमइएणं विग्गहेणं उववजेजा, दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्गहेणं उवबजेजा, से तेणट्टेणं गोयमा! एवं वुच्चइ"। एकसमयेन वा विग्रहेणोत्पद्यते द्विसमयेन वा त्रिसमयेन वेति, कः पुनः शब्दार्थ इति सन्दिहानः प्रश्नयति, कुतः पुनः सन्देहः ? आचायेण परिभाषितम्-विग्रहो वक्रितं विग्रहोऽवग्रहः श्रेण्यन्तरसङ्क्रान्तिरिति, अत्रायमर्थो न सङ्गच्छते, यस्मात् न खेकसमयायां गतौ वक्रमस्ति, अपरे व्याचक्षते-विनहाय गतिविग्रहगतिः विगृह्य वा गतिविग्रहगतिः, तत्र विग्रहायेति आगामिजन्मशरीरार्था गतिरिति प्रतिपादयन्ति, विगृह्य वा गतिरिति वक्रं कृत्वा या गतिः साऽपि विग्रहगतिः, ज्वी प्रथमविकल्पेन सगृहीता पश्चिमविकल्पन वक्रेति, उभय्यामपि विग्रहराति - विकल्पनायां सूत्रार्थो न घटते, विग्रहार्था या गतिस्तस्यामेष्यजन्मनि शधार्थः शरीरेण सम्बन्धः, न गमनपरिणामकाल एव, तत्र कः सम्बन्धः एकसमयेन वा विग्रहेणोत्पद्यते, यदा पुनर्विगृह्य गतिः, तदा सुतरामनुपपन्नम् , न ह्येकसमयगतो वक्रस्य सम्भवः, भाष्यं च विगृह्यगतिपक्ष एव गमितं भवति विग्रहो वक्रितमित्यादि, नेतरत्र, तस्मादेवं सूत्रं व्याख्येयम्-एकसमयेन वा विग्रहेणोत्पद्यतेति, विग्रहशब्दोऽत्रावच्छेदवचनो न वक्रताभिधायीत्यतोऽयमर्थः-एकसमयेन वाऽवच्छेदेन विरामेण / कस्यावच्छेदेनेति चेत् ? 1 अपर्याप्तसूक्ष्मपृथ्वीकायिको भदन्त ! अस्या रत्नप्रभायाः पृथ्व्याः पूर्वस्मिन् चरमान्ते समवहत समवहत्य यो भन्योऽस्या रत्नप्रभायाः पृथिव्याः पश्चिमेचरमान्ते अपर्याप्तसूक्ष्मपृथ्वीकायिकतयोत्पत्तं स भदन्त ! कतिसामयिकेन विप्रहेणोत्पद्येत ? गौतम! एकसामयिकेन वा द्विसामयिकेन वा त्रिसामयिकेन वा विग्रहेणोत्पद्यते, तत् केनार्थेन भदन्तैवमुच्यते ? गौतम ! मया सप्त श्रेणयः प्रज्ञप्ताः, तद्यथा-ऋज्वायता श्रेणी एकतोवका द्विधावका एकतःखा द्विधाखा चक्रवाला अर्धचक्रवाला, ऋज्वाक्सया श्रेण्योत्पद्यमान एकसमयेन विग्रहेण उत्पद्यते एकवक्रया श्रेण्योत्पद्यमानो दिसामयिकेन विग्रहेणोत्पद्यते, द्विवक्रया श्रेण्योत्पद्यमानस्त्रिसामयिकेन विग्रहेणोत्पद्यते, तदेतेनार्थेन गौतम! एवमुच्यते।। Page #210 -------------------------------------------------------------------------- ________________ 184 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 सामर्थ्याद गतेरेव, एकसमयपरिमाणगतिकालोत्तरभाविनाऽवच्छेदेनोत्पद्येत, तत्रापि वक्रया श्रेण्योत्पद्यमानः समयद्वयपरिमाणगतिकालोत्तरभाविनावच्छेदेनोत्पद्येत, अत्र च वक्रशब्दोप्युच्चरितो विग्रहशब्दस्य, यदि च विग्रहोऽपि वक्रमेव वक्ष्यते पुनरुक्तता स्यात्, सामानाधिकरण्यं च द्विसामायिकशब्देनानुपपन्नमेव स्याद् विग्रहशब्दस्य, तस्माद् वक्रमत्र साक्षादुपातमेकतो वक्रा उभयतो वक्रेति, विग्रहशब्दश्चावच्छेदवचन इति न किञ्चिद् विरुध्यते / / ननु चात्र सूत्रे त्रिवक्रा गतिर्नोपात्तैव, तद् कथं सूत्रकारेणोपन्यस्ता प्रवचनाद् बहिर्वर्तजिवक्रानुपादाने मानेति ? / उच्यते-यद्यपि गतिपरिमाणसूत्रे नोपात्ता तथाऽप्यर्थतस्तत्प्र व स्ताव एवोपरिष्टादभिहिता, यथा "अंपज्जत्तसुहुमपुढविक्काइए णं भंते ! अधोलोगखेत्तणालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उद्दलोगखेत्तणालीए बाहिरिले खेत्ते अपज्जत्तसुहुमपुढवीकाइयत्ताए उववज्जेज्जा, सेणं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा"। चत्वारश्च समयास्त्रिवक्रायामेवेति अतो न दोषः, तथा पञ्चसमयाऽपि गतिः सम्भवति, न चोपात्ता सूत्रे, यः प्राणी महातमःप्रभापृथिवी विदिग्व्यवस्थितः कालं करोति ब्रह्मलोकविदिशि चोत्पद्यते तस्य पञ्चसमया गतिरवश्यं भवति, न च कचित् प्रतिबद्धा, अत्र केचिद वर्णयन्ति-अस्ति सत्यं सम्भवः पञ्चसमयाया गतेने पुनस्तया कश्चिदुत्पद्यते जन्तुरित्यतो न प्रतिबद्धेति / अथवा विद्यमानापि नोक्तेयं यथा चतुःसमयेति / इयांस्तु विशेषः-चतुःसमयाऽर्थतोऽभिहिता सूत्रान्तरे, पञ्चसमया तु नार्थतो न सूत्रत इति, किं पुनः कारणं सङ्ग्रह कारेण चतस्र एव गतय उपात्ताः, न पुनश्चक्रवालादयोऽपीति ? / उच्यतेपञ्चसमयानु नुः एताः प्रायः कालपरिमाणमङ्गीकृत्य एतास्वेव चतसृषु पतन्त्यतो नोपात्ताः पादाने हेतुः " पार्थक्येन, तथा भूयसा भवन्ति जीतानामेताः पुद्गलानां तु प्राय इत्यतोऽपि नादृताः, पारमर्षप्रवचनवेदिनस्तु सूत्रं परिज्ञास्यन्ति सर्वथा, वयं प्रकृतमेव प्रस्तुमः / सम्प्रति गतीनामियत्तामावेदयन्नाह-एवमेता ऋज्वादयश्चतुःसमयाः परा यासां ताश्चतु:समयपराश्चतुर्विधा एव गतयो भवन्ति, परतः पञ्चसमयादिका न सम्भवतीत्यर्थः / सर्वत्र च पूर्वशरीरविच्छेदाविच्छेदौ मण्डूकजलूकागतिभ्यां भावनीयाविति, आसां च मध्ये नारकादीनामविग्रहैकद्विविग्रहा एव भवन्ति न तु त्रिविग्रहाः / एकेन्द्रियाणां त्रिविग्रहाश्वेतराश्च, किं पुनः कारणमेकसमयैवाविग्रहा भवति न द्विसमया त्रिसमया वा तावदसौ मृतो जात्ववकं यावत् समयद्वयं कालतः पूर्णमेव समयत्रयमपीत्यत आह-प्रतिघाताभावात्। को वा नियमोऽवग्रहत्रअविग्रहे हेतुः - यात् परतोऽन्यो विग्रहो नास्तीति चत्वारि पञ्च वा वक्राणि विधाय किमिति 9 नोत्पत्तिस्थानमाप्नोतीति ? / उच्यते-विग्रहनिमित्ताभावाच, येन हि 1 अपर्याप्तसूक्ष्मपृथ्वीकायिको भदन्त / अधोलोकक्षेत्रनाडया बहिःक्षेत्रे समवहतः समवहत्य यो भव्य ऊर्वलोक. क्षेत्रनाडया बहिःक्षेत्रे अपर्याप्तसूक्ष्मपृथ्वोकायिकतयोत्पद्येत स भदन्त | कतिसामयिकेन विग्रहेणोत्पद्येत? गौतम / त्रिसामयिकेन वा चतुःसामयिकेन वा विप्रहेणोत्पद्येत / Page #211 -------------------------------------------------------------------------- ________________ सूत्र 29 ]. स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 185 यत् स्थानमाप्तव्यमृज्वा गत्या स तदविश्राम्यन्नन्तराले स्वभावादेव केनचिदप्रतिहतः प्रतिघातहेतुना तदवश्यं प्राप्नोति, किं तत्र द्वितीयादिसमयकल्पनया ? अतः प्रतिघाताभावात् अन्तराले तस्यैकसमयैव भवति / अपरे वर्णयन्ति-सिद्धयमानगतेरेव प्रतिघाताभावः, प्रतिघातकं हि कर्म, तदभावादित्यर्थः, तथा जन्तुनकविग्रहया गत्या यत् स्थानं यातव्यं तदसौ समयद्वयेनैव प्राप्नोति, उपपातक्षेत्रवशात् , न ततोऽपि श्रेण्यन्तरमाकामयतीति, अतो विग्रहनिमित्ताभावादुच्यते विग्रह निमित्त उपपातक्षेत्रवश इति, एवं द्वित्रिविग्रहयोर्योजनीयम् / अन्ये प्ररूपयन्तिगतेनिमित्तं कार्मणशरीरं, तत्सन्तानव्युच्छेदश्च विग्रहनिमित्ताभाव इति॥ एवं गतिनियममावेद्य अधुना विग्रहशब्दार्थ पर्यायान्तरैरादर्शयति-विग्रहणं-विग्रहः-वक्रितं-कुटिलमित्यर्थः / _ पुनरप्यपरितुप्यन् विशेषप्रतिपिपादयिषया आह-विग्रहोऽवग्रहः श्रेण्यविग्रहशब्दस्य पर्याया वन्तरसङ्क्रान्तिरित्यनान्तरम् / विग्रहः कः ? अवग्रहः, ऋजुताया अवच्छेद इत्यर्थः, तथा श्रेणेरन्या श्रेणिः श्रेण्यन्तरं, तत्र सङ्क्रान्तिस्तदवाप्तिरिति, आलेखिते चतुरस्राकाशप्रतरे बिन्दुकश्रेणिभिः समस्तमिदगनुभवमारोहति / एवमेपामर्थो विग्रहशब्दार्थादनान्तरमर्थराशिरित्युपसंहृतः। अथेदानीं पुद्गलानामप्यतिदेशं कुर्वल्लाँधवार्थमाह-पुद्गलानामप्येवमेव / यथा संसारिणां चतस्लो गतयः सम्भावितास्तथा पुद्गलानामपि परमाण्वादीनां विस्रसाप्रयोगाभ्यामाभावनीयाः / अन्तर्गताक्यं कालनियमो विग्रह नियमश्च प्रतिपादितः। अधुना भवस्थानामेव शरीरिणां या गतिः सा कथमिति ? उच्यते-शरणामित्यौदारिकाद्यपेक्ष्योक्तम् , अन्यथाऽन्तरगतावपि कार्मणशरीरयोगाद् वपुष्मानेवेति न साधः स्यात् / चशब्देनान्तर्गतिवर्तिनो जीवाः समुच्चीयन्ते पुद्गला वा, शरीरिणां च जीवानामेव गतिर्मवति विग्रहवती चाविग्रहा च, न कश्चिद् भेदः। सविग्रहाविग्रहसम्भावनायो . प्रयोगपरिणामवशादिति गतेः कारणमाह / स्वप्रयत्नापेक्षो वाऽसौ छ तथा गच्छति परप्रयत्नापेक्षो वा कृष्यमाण इति प्रयोगपरिणामवशात् उच्यते / परिणामो विस्रसास्वभावः प्रयत्ननिरपेक्षस्तद्वशाद् वा तथा गच्छति / अथवा प्रयोग एव परिणामस्तद्वशादिति शरीरिणामप्येवमेवेत्यतिदिष्टम् , अतस्तस्य देशापवादः प्रदर्यतेम तु तत्र विग्रहनियम इति / नैव तत्र-शरीरिषु विग्रहा नियम्यन्ते अल्पे वा बहवो वा यथोक्तविग्रहेभ्य इति // 29 // भा०-अत्राह-अथ विग्रहस्य किं परिमाणमिति ? / अत्रोच्यते-क्षेत्रतो भाज्यम् , कालतस्तु / / टी-अत्राहेत्यादिः सम्बन्धग्रन्थः / अविग्रहवद्गतिविचारग्रस्तावे पर आहअथ विग्रहस्य किं परिमाणमिति ? / अथेत्यनेन पूर्व क्रियानन्तर्यमावेदयति, विग्रहोवकं तस्य किं परिमाणं, प्रमाणमित्यर्थः, कियता कालेन विग्रहो जायत इति प्रश्नार्थः, अत्र प्रश्ऽभिधीयते निर्णय इत्यत आह--क्षेत्रतो भाज्यम् , कालतस्तु / DESDE Page #212 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः 2 सूत्रम्-एकसमयोविग्रहः // 2-30 // टी०-क्षेत्रतो भाज्यमेकादिप्रदेशभावित्वात् क्षेत्रतो विग्रहपरिमाणं भाज्यम् , कुतः? संहारविसर्गधर्मात्मकत्वाज्जीवप्रदेशानाम् , पूर्वशरीरावगाहनक्षेत्रादुपपातव्यपेताद् , एकादिप्रदेशादिकं चोपपातक्षेत्रमध्यवसातव्यम् , एकादिप्रदेशान्तरितं वा, लोकान्ताल्लोकान्तमिति वा, कालतः पुनर्नियतपरिमाण एव विग्रहो भवति // भा०–एकसमयोऽविग्रहो भवति / अविग्रहा गतिरालोकान्तादपिएकेन ____ समयेन भवति, एकविग्रहा द्वाभ्याम् , दिविग्रहा त्रिभिः, त्रिविविग्रहे समयमानम् , नयमान ग्रहा चतुभिरिति / अत्र भङ्गप्ररूपणा कार्येति // 30 // टी--एकसमयोऽविग्रहो भवतीत्यादि भाष्यम् / एकोऽन्यनिरपेक्षः अविभागी यः कालः परमनिरुद्धश्च समयः स एकः समयो यस्य व्यवधायकः स एकसमयो भवतीह विग्रहः / एतदुक्तं भवति-भवान्तरालवर्तितायां जन्तोर्गतिपरिणतस्यैकेन समयेनातिक्रान्तेन वक्रा गतिर्जायत इति, न चायं नियमः, सर्वस्यावश्यं समयातिक्रमे वक्रेण भवितव्यम् , किन्तु पूर्वापरसमयावधिक एष विग्रहः, तेन द्वित्रिचतुःसमयासु गतिषु भवति, नैकसमयायाम्, अपिच यत्र विग्रहस्तत्रैकसमयत्वमुपलक्षणम् , न पुनः एकसमयपरिमाणे काले व्यवच्छिन्ने सर्वत्र विग्रहेण भवितव्यम् , या हि ऋज्वी गतिर्न तस्यां विग्रहोऽस्ति, अथ चैकसमयेति / सम्प्रति नियतकालपरिमाणामेकसमयां गतिं क्षेत्रतो भाज्यतया दर्शयति-अविग्रहा गतिरालोकान्तादपि एकेन समयेन भवति, ऋज्वी गतिः क्षेत्रमङ्गीकृत्य कदाचिदव्यवहितश्रेण्यन्तरमात्र एव विरमति जन्तोरुत्पादवशात् , कदाचिच्छ्रेणिद्वयमतिक्रम्योपरमति आलोकान्ताद् वा सिद्धयमानस्य भवतीत्येकसमयपरिमाणभेदवर्ति, सर्वत्र गतिविशेषात् , यथा देवदत्तयज्ञदत्तयोरेकः प्रहरेण त्रीणि योजनानि छिनत्ति, अपरो योजनेमध्यर्धं यातीति, एवं तावदवका गतिरेकेन समयेन भवतीति निरूप्य अविग्रहपरिमाणं चाख्याय विग्रहप्रमाणत एव सुज्ञानसमयसङ्ख्या एकद्वित्रिवक्रा गतीराख्याति, एकविग्रहा द्वाभ्याम्, एको विग्रहो यस्यां सैकविग्रहा पूर्वापरसमयावधिकत्वात् विग्रहस्य सामर्थ्यानिश्चीयते द्वाभ्यां समयाभ्यां निप्पाद्यत एकविग्रह इति। एवं द्वित्रिविग्रहयोरपि वाच्यम्॥ अथैकस्यां नरकादिगतौ विवक्षितायां ये प्राणिनस्तत्र नरक उत्पत्स्यन्तेऽन्तर्गतिवर्तिनस्ते किं सर्वेऽपि विग्रहगत्या एकस्मिन् काले उत्पद्यन्ते, अथ अविग्रहया, उत द्वाभ्यामिति? अत आह-अत्र भङ्गप्ररूपणा कार्या, अत्रैवंविधविचारप्रस्तावे भङ्गाः-विकल्पाः तेषां प्ररूपणा-विभावना कार्या / सा चैवं कार्या-नारकाः कदाचित् सर्व एव विग्रहगतयो भवन्ति, अथवा अविग्रहगतयश्च, विग्रहगतिश्चैकः स्यात् , अथवा अविग्रहगतयो विग्रहगतयश्चेति, एतेन विकल्पत्रयेणैकेन्द्रियान् विहाय शेषा १.समयोपाधिक' इति ग-पाठः। २'गतिराख्याति' इति क-ख-पाठः। 3 'कर्तव्या' इति क-ख-पाठः। Page #213 -------------------------------------------------------------------------- ________________ सूत्र 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् 187 व्याख्याताः, एकाद्युपपादोपपत्तेर्यावत् स्वसङ्ख्यानियम इति, एकेन्द्रियास्तु नित्यमविग्रहगतयो विग्रहगतयश्चापदिश्यन्त इति // 30 // उक्तो विग्रहः। अथ विग्रहगतिसमापन्ना जीवाः किमाहारकाः अनाहारका इति ? अनाहारका इत्याह, यद्यनाहारकाः एवं तर्हि कियन्तं कालमिति वक्तव्यमिति, उच्यते सूत्रम्-एकं द्वौ वाऽनाहारकः॥ 2-31 // भा०-विग्रहगतिसमापन्नो जीवः एकं वा समयं द्वौ वा समयावनाहारको .. भवति, शेषं कालमनुसमयमाहारयति / कथमेकं द्वौ वाऽनाविप्रहऽनाहारकता हारको न बहूनीति, अत्र भङ्गप्ररूपणा कार्या // 31 // टी-विग्रहगतीत्यादि भाष्यम् / उक्ता विग्रहगतिस्ता समापन्न:-अनुप्राप्तो जीवः सामर्थ्याद्-विग्रहापेक्षत्वाद् द्विविग्रहां त्रिविग्रहां वाऽनुप्राप्तो गृह्यते, तत्र द्विविग्रहायामेकं समयं मध्यमं त्रिविग्रहायां द्वौ समयावनाहारको मध्यमौ भवति / अनन्तरसूत्रात् समयग्रहणम नुवर्तते, वाशब्दो विकल्पार्थः कदाचिदेकं कदाचिद् द्वाविति / अपरे पाशम्दस्य विचार वाशब्दात् त्रीन् वा समयाननाहारको भवतीति व्याचक्षते, ते च केवलिनमादर्शयति समुद्घातकाले त्रिचतुर्थपञ्चमसमयेषु, तदत्यन्तासम्बद्धम् , विग्रहगतिसमापनो जीव इत्येवंविधे भाष्यप्रक्रमे का प्रस्तावः केवलिसमुद्घातानाहारककालस्य? अथाप्रस्तुतमप्यत्रावश्यं वक्तव्यं भाष्यादुत्तीर्य, ततोऽन्तर्मुहूर्ताध शैलेश्यवस्थायामनाहारक इति किं नोक्तम् ? सादिकमनिधनं कालं सिद्धोऽनाहारक इति वा, अतः प्रस्तावापास्तत्वान्न विद्वन्मनांस्याराधयत्येतद् व्याख्यानम् / यदि पुनः पञ्चसमयायां गतौ वाशब्देन समयत्रयं समुच्चीयते ? उच्यते-अभिहितं प्राक् न तादृश्यां गत्यां कश्चिदुपपद्यते, अथास्ति सम्भवः, न कश्चिद् दोषः // अथ किमाहारकविशेषमङ्गीकृत्य अनाहारकत्वमाख्यायते सूरिणा उत सर्वाहारनि पेध इति ? सर्वाहारनिषेध इत्याह, कति वाऽऽहाराः ? ननु त्रयः, विश्यम् ओजआहारो लोमाहारः प्रक्षेपाहार इति, तत्रौजआहारोऽपर्याप्तकाव स्थायां कार्मणशरीरेणाम्बुनिक्षिप्ततप्तभाजनवत् पुद्गलादानं सर्वप्रदेशैर्यद क्रियते जन्तुना प्रथमोत्पादकाले योनौ अपूपेनेव प्रथमकालप्रक्षिप्तेन घृतादेरिति, एष च आन्तर्मुहुर्तिकः / लोमाहारस्तु पर्याप्तकावस्थाप्रभृति यत् त्वचा पुद्गलोपादानमाभवक्षयाच्च सः / प्रक्षेपाहारः ओदनादिकवलपानाभ्यवहारलक्षणः / अतोऽत्राहारत्रयमपि प्रतिपिध्यते, भवस्थतायामेव त्रितयाभ्यनुज्ञानात् / प्रथमान्त्यसमययोरन्तर्गतौ च्युतजन्मदेशस्थत्वादाहारक एव, पूर्वोत्तरशरीरपरित्यागादानकालाभेदवर्तित्वात् , कर्मपुद्गलादानं पुनर्योगकषायहेतुकमन्तर्गतावपि सर्वत्र सर्वकालमस्ति, वर्षणसमये समादीप्तनाराचप्रक्षेपवत , तद् यथा जलधारा 1 स च ' इति क-ख-पाठः। 2 'अपूपेनैव ' इति क-ख-पाठः / Page #214 -------------------------------------------------------------------------- ________________ 188 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः सन्निपातापादितसामर्थ्य वर्षति पर्जन्ये नाराचद्रव्यं ज्याहस्तविप्रयोगाहितवेगमनिज्वालाकलापादीप्तमम्भःपुद्गलग्रहणं कुर्वदेव गच्छति, एवमयमन्तरात्मा कार्मणेन शरीरेण कर्मोष्णत्वात् पुद्गलग्रहणं कुर्वन्नविच्छिन्नमागामिजन्मनेभिधावतीति, न खल्वेवरूपस्य पुद्गलादानस्य प्रतिषेधः, किन्तु परिपोपहेतुको य आहार औदारिकवैक्रियशरीरद्वयस्य स विवक्षितः प्रतिषे. ध्यत्वेनेति, अतोऽन्तर्गतावेकं समयं समयद्वयं वाऽनाहारकः, शेषं कालमनुसमयमाहारयति एकद्विसमयव्यतिरिक्तः शेषकालमाहारमभ्यवहरति / अत्यन्तसंयोगप्रदर्शनार्थमनुसमयमित्युक्तम् / अनुसमयमविच्छेदेन, प्रतिसमयमित्यर्थः / उत्पत्तौ प्रथमसमयादारभ्यान्तमुहूर्तिक ओजआहारः, पश्चादाभवक्षयाल्लोमाहारः, कावलिकस्तु कादाचित्कः / कथमेक हो वेत्यादि, केन प्रकारेणैकं द्वौ वा समयावनाहारको जन्तुर्न पुनरतोऽपि यहून् समयानित्यत्र प्रश्ने विकल्पानां विभावना कायों, सा च कृतैव द्विविग्रहायामेकं त्रिविग्रहायां द्वाविति। भा०-अत्राह-एवमिदानी भवक्षये जीवः अविग्रहया विग्रहवत्या वा गत्या गतः कथं पुनर्जायत इत्यत्रोच्यते-उपपातक्षेत्रं स्वकर्मवशात जन्मसूत्रे प्राप्तः शरीरार्थ पुद्गलग्रहणं करोति / सकषायत्वाज्जीवः कर्मणो प्रस्तावना योग्यान् पुद्गलानादत्ते (अ०८, सू० 2) इति / तथा कायवामनःप्राणापानाः पुद्गलानामुपकारः ( अ० 5, सू० 19) / नामप्रत्ययाः सर्वतो योगविशेषात् (अ०८, सू० 25) इति वक्ष्यामः / तज्जन्म, तच्च त्रिविधम्, तद्यथा टी–अत्राहेत्यादिः सम्बन्धग्रन्थः / अत्रावसरे शिष्यः पृच्छत्यजानानः-एवमुक्तेन प्रकारेण इदानीमिति, सर्वसंसारिणां स्वजीवितव्यवच्छेदविशिष्टं कालमाशति भवक्षये इति, प्रागुपाचौदारिकवैक्रियशरीरपरिक्षये सति, ऋज्वा वक्रया वा गत्या गत उपपत्तिदेशं प्राप्तो जीवः, केन प्रकारेण पुनर्जायत इति / पुनःशब्दः प्राक्तनजन्मापेक्षः, जायते-प्रादुर्भवति, औदारिकवैक्रियशरीरितयोत्पद्यत इतियावत् / अत्र उच्यते-उपपातक्षेत्रं स्वकर्मवंशात प्राप्तः शरीराद्यर्थ पुद्गलग्रहण करोति, यस्मिन् क्षेत्रे उत्पत्स्यते तदुपपातक्षेत्रमा काशस्थानमाश्रय इति पर्यायाः, तत्प्राप्तः स्वकर्मवशादिति, पूर्वोपात्तकर्मपरिणतिसामर्थ्या देव विहाय प्राणान् भवान्तरमासादयति नेश्वरादिप्रेरित इति सूचयति / सर्व हि तस्य कर्मा ण्येव तदा निष्पादयन्ति, उत्पत्तिस्थानमृजु गन्तव्यमनेन वा मार्गेण यातव्यमस्यांवा वेलाय प्रवर्तितव्यमस्मिन् वा योन्यन्तरे मयोत्पत्तव्यं नान्यत्रेत्येतदशेषमचिन्त्यसामर्थ्य भाञ्जि कम ण्यात्मपरिणामापेक्षाणि प्रसाधयन्ति, न पुनरन्तरालपर्तितायामुदीक्ष्यमाणस्तिष्ठति वेलाम् नापि सभा सन्ततिपतितान् सत्त्वान् क्रीडतो रिरंसयाऽनुप्रविशति, असमञ्जसत्वात् , अतः कर्मानुभावादनुप्राप्त औदारिकवैक्रियशरीरनिष्पत्तये पुद्गलानां तत्प्रायोग्यानामादानं करोति 'शरीरक' इति क-ख-पाठः। Page #215 -------------------------------------------------------------------------- ________________ सूत्र 32] स्वोपशभाष्य टीकालङ्कृतम् 189 अथ कथेमस्य ते पुद्गलास्तद्योग्या ग्रहणमागच्छन्ति, केन हेतुना लगन्त इतियावत्, अत आह-'सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते' ( अ०८, मू०२), सकपायत्वाल्लगन्ति ते पुद्गलाः, स्नेहाभ्यक्तशरीरे रेणुलगनवत् , एतदष्टमेऽभिधास्यते विस्तरेण, तथा पञ्चमेऽपि द्रव्योपकारप्रस्तावेऽध्येष्यते-कायवाङ्मनःप्राणापानाः पुद्गलानामुपकारः (अ० 5, मू०१५) इति / शरीराणि पञ्चविधान्यौदारिकादीनि पुद्गलानामुपकार इत्यतोऽपि ते पुद्गलास्तथाश्लेषात् तथा परिणमन्ते तस्यामवस्थायामिति, प्रपञ्चत एतत् प्रतिपादयिष्यते तत्रैव / तथाऽष्टमे-'नामप्रत्ययाः सर्वतो योगविशेषात्' (अ० 8, सू० 25) सूक्ष्मा एकक्षेत्रावगाढाः स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा इति प्रदेशबन्धविचारे वक्ष्यते / बन्धननामकर्मोदयहेतुतः कर्मपुद्गलग्रहणमिति आद्योपपत्तिबन्धसामान्ये, मध्यमा उपकारभेदविवक्षाद्वारेण, अन्त्या प्रदेशबन्धप्रस्तावाकृष्टेत्यतस्तिसृणामपि सूचनम्, न पुनरभिन्नैकवस्तुसन्निपातिन्यस्तिस्रोऽपि, पुनरुक्तदोषप्रसक्तः, इदं च स्वस्थान एवोपपत्तित्रयमपि विविक्तमुन्मीलिष्यतीति नोत्त्रसितव्यम् , अतो यत् तदेवंविधं पुद्गलग्रहणं तज्जन्म, तच्च विविधम् , आश्रयग्रहणभेदात् तत्त्रैविध्यं दर्शयितुकामस्तद्यथेत्यनेनोपक्रमते // 31 // सूत्रम्-सम्मूच्र्छनगर्भोपपाता जन्म // 2-32 // भा०-सम्मूच्र्छनं 1 गर्भ 2 उपपात 3 इत्येतत् त्रिविधं जन्मभेदाः जन्म // 32 // व्याख्या टी०-सम्मूछनगर्भोपपाता जन्म। सम्मूछेनं गर्भ उपपात इत्येतत् त्रि ... विधं जन्मेत्येतावद्भाष्यमस्य सूत्रस्य / अत्र सम्म मात्र सम्मूर्छनम्, सम्मूर्छनजन्मनो - यस्मिन् स्थाने स उत्पत्स्यते जन्तुस्तत्रत्यपुद्गलानुपसृज्य शरीरीकुर्वन् सम्मूर्छनं जन्म लभते, तदेव हि तादृक सम्मूछेनं जन्मोच्यते / जन्म च शरीरद्वयसम्बन्धित्वेनात्मनो यः परिणामः, अतस्तत् सम्गूछेनजन्मोत्पत्तिस्थानवतिपुद्गलजालमनुपमृद्य न प्रादुरस्ति, किण्वाद्युपमर्दनात सुराजन्मवत् , पिष्टकिण्वोदकादीनामुपमर्दनात् सुराया जन्म दृष्टम्, तथा बाह्यपुद्गलानामाध्यात्मिकानां चोपमर्दनाद् यजन्म भवति तत् सम्मूर्च्छनजन्म व्यपदिश्यते, बाह्यपुद्गलोपमर्दनलक्षणं तावद् यथा कृम्यादीनां काष्ठादिषु, काष्ठत्वपकफलादिषु जीवाः कृम्यादयः समुपजायमानाः तानेव काष्ठफलत्वग्वर्तिनः पुद्गलान् शरीरीकुर्वन्त उपजायन्ते, तथा जीवद्वादिशरीरेषु कम्यादयः प्रादुःष्यन्तस्तानेव जीवद्गवादिशरीरावयवानादाय स्वशरीरतया परिणति 'कथमस्मात् पुद्गलात् तद्योग्या' इति क-पाठः / २'मनुपसृज्य न प्रादु' इति ख-पाठः। Page #216 -------------------------------------------------------------------------- ________________ उपपातजन्मनः स्वरूपम् 190 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः मापादयन्तीत्याध्यात्मिकपुद्गलोपमर्दनलक्षणमेतजन्म, प्रत्यक्षं चैतत्, प्रायस्तत्र गर्ता . ग्रुपलब्धेः / तथा योषियानावकध्यमागत्य ग्रहणं शुक्ररक्तयोर्यत् क्रियते गर्भजन्मनो विचार जीवेन जनन्यभ्यवहृताहाररसपरिपोषापेक्षं तद् गर्भजन्मोच्यते, अत्रापि गर्भ एव जन्म प्रतिपत्तव्यम् / इदं पूर्वजन्मनो भिन्नलक्षणम्, आगन्तुकशुक्रशोणितग्रहणात्, न खलु योषियोनेस्तदेव शुक्रशोणितं स्वरूपमतोऽस्ति भेदः / तथा उपपातक्षेत्रप्राप्तिमात्रनिमित्त ___ यजन्म तदुपपातशब्देनोच्यते, यथा प्रच्छदपटस्योपरिष्टाद् देवदूष्यस्या- धस्तादत्रान्तरालवर्तमानान् पुद्गलान् वैक्रियशरीरतयाऽऽददानो देवः समुद्भ वति. इदं च पूर्वाभ्यां भिन्नलक्षणम् , नहि प्रच्छदपटदेवष्यपुद्गलानेवासी शरीरीकरोति, नापि शुक्रादिपुद्गलानाददान उत्पद्यते, तस्मात् प्रतिविशिष्टक्षेत्रप्राप्तिरेवास्य जन्मनो निमित्तं भवति, तथा नारकाणां नरककुड्यव्यवस्थितातिसङ्कुटमुखनिष्कुटा वातायनकल्पा योनिस्तत्र वैक्रियशरीरपुद्गलानादाय निष्पीडयमाना वज्रमयनरकतले जलमध्यक्षिप्तपाषाणवन्महता वेगेन प्रतिपतन्ति / एवमेतत् त्रिविधं जन्म वेदितव्यमात्मनः शरीरतयात्मलाम इति / अपरे वर्णयन्ति-सम्मूछेनमेवैकं सामान्यतो जन्म, तद्धि गर्भोपपाताभ्यां विशेष्यत इति // 32 // अत्र च सम्मूर्च्छनमादौ, प्रत्यक्षबहुस्वामित्वात् / तदनु गर्भः, प्रत्यक्षौदारिकशरीर___साधर्म्यात् / तत उपपातः, स्वामिवैधात् , इति / उक्तं जन्म प्रादुर्भा बन्यवमानं शरीरिणाम् , न तु प्रतिविशिष्टस्थाननिर्देशः कृतः, कीशि पुनः स्थाने प्रथमत उत्पद्यमानाः सम्मूर्च्छन्ति, शुक्रासग्ग्रहणं वा कुर्वन्ति, वैक्रियशरीरं वा समाददते, किंगुणे धामनि नारकदेवा इति ? अतस्तेषां जन्मनां विशिष्टस्थाननिरूपणाय योनयोऽभिधीयन्तेसूत्रम्-सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः॥२-३३॥ भा०-संसारे जीवानामस्य त्रिविधस्य जन्मन एताः सचित्तादयः सप्र तिपक्षा मिश्राश्चैकशो योनयो भवन्ति / तद्यथा-सचित्ता, जन्मिनां - अचित्ता, सचित्ताचित्ता, शीता, उष्णा, शीतोष्णा, संवृता, योनिनवकम् - विवृता, संवृतविवृता, इति / तत्र नारकदेवानामचित्ता योनिः। गर्भजन्मनां मिश्रा / त्रिविधाऽन्येषाम्। गर्भजन्मनां देवानां च शीतोष्णा / तेजःकायस्योष्णा। त्रिविधाऽन्येषाम् / नारकैकेन्द्रियदेवानां संवृता। गर्भजन्मनां मिश्रा / विवृताऽन्येषामिति // १'देवनारकाना ' इति घ-पाठः। Page #217 -------------------------------------------------------------------------- ________________ सूत्र 33 ] 191 योनिल स्वोपज्ञभाष्य-टीकालङ्कृतम् .टी-अथवाऽयमात्मा पूर्वभवशरीरनाशे तदनु शरीरान्तरप्राप्तिस्थाने यान् पुद्गलान् शरीरार्थमादत्ते तान् कार्मणेन सह मिश्रयति तप्तायःपिण्डाम्भोग्रहण" वच्छरीरनिवृत्यर्थ बाह्यपुद्गलान् यस्मिन् स्थाने तत् स्थानं योनिस्तअविभागार्थमिदमुच्यते-सचित्तेत्यादि / संसारे जीवानामित्यादि / अष्टप्रकारकर्मवर्तिनां जन्तूनाम् , अस्य अनन्तरमूत्रनिर्दिष्टस्य त्रिभेदस्य सम्मूछनादेः / जन्मन इत्यनेन च तद्योनय इति सूत्रावयवार्थमाचष्टे, तस्य जन्मनो योनयस्तधोनय इति, एताः सचित्तादयः, एता इति प्रत्यक्षासन्नाः सचित्तशीतसंवृतास्तिस्रः, सपतिपक्षाः, सह प्रतिपक्षरचित्तोष्णविवृतैः सप्रतिपक्षाः, प्रतिक्रष्टः प्रत्यनीको वा पक्षः प्रतिपक्षः, मिश्राश्च एतद्द्वयमेकीभूतं मिश्रमुच्यते, तच्चोक्तमेव द्वयं गृह्यते प्रस्तावान्न तु तद्वयतिरिक्तं सचित्तादित्रयमचित्तादित्रयं च एतदेवोभयं मिश्रीक्रियते, यस्य च मूलभेदस्य यत् प्रतिपक्षत्वेन निर्दिष्टं तयोयोर्मिश्रणम् , तद्यथा-सचित्ताचित्ता, शीतोष्णा, संवृतविघृता, चशब्दः समुच्चये, एकैका एकशः, एकैका सेतरा सचित्तादीनाम् , _. एकेका च मिश्रा स्वप्रतिपक्षेणैव, एवमेता नव योनयो भवन्ति / योनिशब्दस्यार्थः / पाया युवन्ति-मिश्रीभवन्ति यत्र स्थाने जन्महेतुद्रव्याणि कार्मणेन सह तद्योनिः, तच्च स्थानमाश्रयभावेन यूयत इति योनिः / अमुमेवातिक्रान्तमर्थ स्पष्टयन्नाहतद्यथा-सचित्तेत्यादि / विशिष्टप्रतिपक्षदर्शनार्थ मिश्रार्थप्रतिपादनार्थ चेदं भाष्यम् / सचित्ता जीवप्रदेशाधिष्ठिता 1 अचित्ता तद्विपरीता 2 सचित्ताचित्ता प्रस्तुतद्वयस्वभावमिश्रा 3 शीता शिशिरा 1 तद्विपरीतोष्णा 2 उभयस्वभावा मिश्रा 3 संवृता प्रच्छन्ना सङ्कटा वा 1 तद्विपरीता विवृता 2 मिश्रोभयस्वभावा 3 एतावत्यो योनयः। .. ' सम्प्रति जन्मभाजां विभज्यन्ते कस्य का योनिर्भवतीत्याह-तत्र आसां मध्ये 1. योनीनां देवनारकाणामचित्ता योनिर्भवति, शेषा व्युदस्यन्ते कस्य का योनिः / // देवानांप्रच्छदपटदेवदूष्यान्तरालं योनिस्तच्चाचेतनं, न जीवप्रदेशाधिष्ठितम्, नारकाणां तु वज्रमयनरककुडयेषु वातायनकल्पा योनयो भवन्त्यचेतनाः, गर्भजानां मिश्राः तिर्यश्चो मनुष्याश्च गर्भजन्मभाजस्तेषां मिश्राः, प्रागचित्तायाः प्रस्तुतत्वात् सचित्ताचित्तेत्यर्थः। ___योषितां किल नाभेरधस्तात सिराद्वयं पुष्पमालावेकक्ष्यकाकारमस्ति, तस्यायोषियोनिविचारः धस्तादधोमुखसंस्थितकोशाकारा योनिस्तस्याश्च बहिचूतकलिकाकृतयो मांसमञ्जर्यो जायन्ते, ताः किलासृक् स्फुटित्वा ऋतौ स्रवन्ति, तत्र केचिदसृजो लवाः कोशकाकारां योनिमनुप्रविश्य सन्तिष्ठन्ते, पश्चाच्छुक्रसम्मिश्राँस्तानाहारयन् जीवस्तत्रोत्पद्यते, तत्र ये योन्याऽऽत्मसात्कृतास्ते सचित्ताः कदाचिन्मिश्रा इति, ये तु न स्वरूपतामापादितास्तेऽचित्ताः, १'तद्वा' इति क-ख-पाठः। Page #218 -------------------------------------------------------------------------- ________________ योनिविभागः 192 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 अपरे वर्णयन्ति-असृक् सचेतनं शुक्रमचेतनमिति, अन्ये युवते-शुक्रशोणितमचित्तं योनिप्रदेशः सचित्त इत्यतो मिश्रा / त्रिविधाऽन्येषामिति / देवनारकगर्भव्युत्क्रान्तितियङ्मनुष्यव्यतिरिक्तानां सम्मूर्च्छनजन्मनां तिर्यग्मनुष्याणामित्यर्थः / तेषामनियमेन कदाचित् सचित्ता कदाचिदचित्ता कदाचिन्मिश्रेति, यथा गोकृम्यादीनां सचित्ता, काष्ठघुणादीनामचित्ता, केषाश्चित् पूर्वकृतक्षते समुद्भवतां मिश्रेति // अधुना शीतादित्रिकं विभंजते-गर्भजन्मनां देवानां च शीतोष्णा गर्भव्युत्क्रान्तीनां तियग्मनुष्याणां देवानां चोभयस्वभावा स्वभावादेव जायते, देवानां साधारणा सुखबहुलत्वात् क्षेत्रानुभावाच, तेजसः उष्णाऽत्यन्तप्रसिद्धेव / त्रिविधाऽन्येषाम् / अन्येषामिति गर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवतेजोव्यतिरिक्तानां सम्मूर्च्छनजन्मतिर्यग्मनुष्यनारकाणाम् , सम्मूर्च्छनजतिर्यग्मनुष्याणां कस्यचिच्छीता कस्यचिदुष्णा कस्यचिदुभयस्वभावा, स्थानविशेषादिति, नारकाणामाये पृथिवीत्रये नारकादिषु दक्ष प्रकृष्टोष्णा, चतुर्थी कचिन्नरके शीता कचिदुष्णा तथा पञ्चम्याम् / कथं पुनर्भिन्नाधारोभयस्वभावा स्यात् ? उच्यते-एकस्यां पृथिव्या. मुभयमस्तीति न भिन्नाधारत्वम् // ननु तत्रापि नारकभेदवर्तित्वादनुभयस्वभावत्वमेवेति ? उच्यते-चतुर्थपञ्चमपृथिवीनारकाणामुभयस्वभावेति सामान्याभिधानाददोषः। पाश्चात्ययोईयोः प्रकृष्टशीता, न त्वेषां साधारणाऽस्ति दुःखात्मकत्वात् , यद्यप्यविशेषेणोक्तं त्रिविधाऽन्येपामिति तथापि यथासम्भवमत्र विभागः / संवृतादित्रयविभागार्थमाह-नारकैकेन्द्रियदेवानां संवृता / नारकाणां पृथिव्यप्तेजोवायुवनस्पतीनां च सहदेवानां सङ्कुटा, प्रच्छन्नेत्यर्थः / नारकाणां वज्रमयनरककुड्यव्यवस्थितत्वात् सङ्कुटा सती प्रवर्धमानवपुषामतिदुःखा, देवानां पुनः (प्रच्छन्ना अपि ) प्रच्छदपटदेवदृष्यान्तरालवर्तिनी समुच्छ्वसच्छरीरभाजां सोच्छ्वासत्वादेव न दुःखा, पृथिव्यादीनां केषांचित् कथञ्चिदवगन्तव्या / गर्भजा नां मिश्रा गभेव्युत्क्रान्तितियेग्मनुष्याणां संवृतविवृता सङ्कुटप्रकाशेत्यर्थः। विवृताऽन्येषां नारकैकेन्द्रियदेवगर्भव्युत्क्रान्तितियेङ्मनुष्यव्यतिरिक्तानां सम्मूच्छेनजद्वीन्द्रियादितिर्यङ्मनुप्याणामित्यर्थः / तेषां विवृता, अतिप्रकाशत्वात् // अथ कथं योनिलक्षाणामशीतिश्चतुरुत्तरा प्रतिजाति प्रतिपादिता प्रवचने ? / तद् यथा-पृथिव्यतेजोवायूनां प्रत्येकं सप्त सप्त योनिलक्षाः, . प्रत्येकवनस्पतीनां दश, साधारणानां चतुर्दश, द्वित्रिचतुरिन्द्रियाणां प्रत्येक जीवयोनिसंख्या द्वे द्वे लक्षे, शेषतिर्यङ्नारकदेवानां प्रत्येकं चतस्रश्चतस्रो लक्षाः, मनुष्याणां चतुर्दश, इह तु नव योनयः प्रतिबद्धाः सूत्रे तदेतदतिविप्रकृष्टमन्तरालमुपक्षिपति चेतः संशयदोलायामस्माकमतोत्राभिधीयतां समाधिः। अयमुच्यते-नव योनय इति सङ्ग्राहकमेतदासां परिसङ्ख्यानमवसेयम् , विस्तरः प्रतिजाति वक्तव्यः, पृथिवीकायस्य याऽभिहिता योनिः सैव स्वजातिभेदापेक्षया सप्तलक्षपरिमाणा भवति शर्करावालुकादिभेदा 1 'विभज्यते' 'विभजन्ते ' इति-ग-टी-पाठौ। 2 धनुश्चिह्नितो भागः ग-पाठ एव / Page #219 -------------------------------------------------------------------------- ________________ सूत्रं 34] स्वोपज्ञभाष्य-टीकालङ्कृतम् यावत्यो जातयस्ताव दा योनयोऽपि पृथिवीकायस्येत्यवगन्तव्यम् / न च मूलयोनिमतिवर्तन्ते ताः, किन्तु जातिभेदाद् भिद्यन्त इति, अतः सङ्ग्राहकम् , एवं शेषाणामपि वाच्यम् , स्वजातिभेदापेक्षमेतत् परिमाणमिति // 33 // अत्राह-उक्तं त्रिविधं जन्म, तत्र न संविद्महे तस्य त्रिविधस्यापि जन्मनः के स्वामिन इति, तद्विभागप्रदर्शनायेदमुच्यते सूत्रम्-जराय्वण्डपोतजानां गर्भः // 2-34 // भा०–जरायुजानां मनुष्य-गो-महिष्यजाविकाश्व-खरोष्ट्र-मृग-चमर-वराह . गवय-सिंह-व्याघ्रः-दीपि-श्व-शृगाल-मार्जारादीनाम् / अण्डगर्भजजन्मवतां भेदाः पता जानां सर्प-गोधा-कृकलास-गृहकोकिलिका-मत्स्य-कूर्म-नक्र शिशुमारादीनाम् / पक्षिणां च लोमपक्षाणां हंस-चाप-शुकगध्र-श्येन-पारापत-काक-मयूर-मण्डू-बक-बलाकादीनाम् / पोतजानां शल्लक हस्तिश्वाविल्लापक-शश-शारिका-नकुल-भूपिकादीनाम् , पक्षिणां च चर्मपक्षाणां जलूका वल्गुलि-भारण्ड-पक्षिविरालादीनां गर्भो गर्भाज्जन्मेति // 34 // टी-जराय्वण्डपोतजानां गर्भः / अत्रायं जनिः प्रत्येकमभिसम्बध्यते, जरायुजाना अण्डजानां पोतजानामिति / जरायुनि जायन्ते स्म जरायुजाः-जरायुमध्यगताः, जरायुवेष्टिता इत्यर्थः / जरायुजानां मनुष्य-गो-महिप्यादीनामिति सुज्ञानं भाष्यम् / अण्डे जायन्ते स्माण्डजाः, तेषां अण्डजानां सर्प-गोधादीनामिति भाष्यं सुखावबोधमेव / अण्डजजातिभेदप्रदर्शनायेदं भाष्यम् / पक्षिणां च लोमपक्षाणां हंस-चाषेत्यादि प्रायो गतार्थम् / लोमप्रधानाः पक्षा येषां ते लोमपक्षाः, अपरे लोमपक्षिणामित्यधीयन्ते न तु च मत्वथीयोऽतिदुर्लभः स्याद् वा ज्ञापकादेः कथञ्चित् , अथवा पक्षिण एव विशिष्यन्ते, लोमानुगता लोमप्रधाना वा पक्षिणो लोमपक्षिणस्तत्राद्यपक्षिशब्दः पक्षिसामान्यमावेदयति, इतरस्तु व्यवच्छिद्य विशेषेऽवस्थापयतीति / पोता एव जाता इति पोतजाः शुद्धप्रसवा न जराग्वादिना वेष्टिता इतियावत् / अत्र च "अन्येष्वपि दृश्यन्ते" इति वचनाड्डः, अपरे त्वेतच्छब्दव्युत्पत्तिभीत्या जराय्वण्डजपोतानां गर्भ इत्यभिधीयते-सूत्रमाहितनैपुण्यास्तत् सर्वथा त एवावयन्ति सूरिविरचितन्यासमन्यथाकर्तुम्, वयं तु प्रकृतानुसरणमेव कुर्मः। पोतजानां शल्लकादीनामित्यादि भाप्यमतिस्फुटत्वान्न वित्रियते / पक्षिणां च चर्मपक्षाणामित्यादि / अत्रापि पूर्ववद् व्याख्या कार्या, शेपमतिस्पष्टमेव / गर्भो जन्मति उक्तलक्षणमेषां प्राणिनामशेषाणां गर्भो जन्म भवतीति // 34 // 1 'मद्' इति घ-पाठः। 2 'गर्भो जन्मेति' इति घ-पाठः। 3 ' अत्र च'' तत्तु च ' इति पाठी विचारणीयौ। 4 'अभिदधते ' इति प्रतिभाति / 25 Page #220 -------------------------------------------------------------------------- ________________ 194 तत्त्वार्थाधिगमसूत्रम् [अभ्यायः अथेदानीमुपपातजन्मविभक्तये सूत्रमाह सूत्रम्-नारकदेवानामुपपातः // 2-35 // उपपातजानां भेदाः भा०–नारकाणां देवानां चोपपातो जन्मेति // 35 // टी०-नारकदेवानामिति गत्यपेक्षः क्रमव्यपदेशः / अपरे अमिदधते अभ्यर्हितत्वादल्पान्तरत्वाच्च, यदादावाचार्येण देवा न न्यस्तास्तज्ज्ञापयति जन्मनो दुःखहेतुत्वं तच्च प्रकृष्टं किल नारकेष्विति तेषां नारकाणां देवानां च उक्तलक्षण उपपातो जन्म भवति // 35 // अधुना सम्मूछेनजन्मविभक्तुकाम आह सूत्रम्-शेषाणां सम्मूर्च्छनम् // 2-36 // भा०-जराय्वण्डपोतजनारकदेवेभ्यः शेषाणां सम्मूर्छनं जन्म / उभया _ वधारणं चात्र भवति / जरायवादीनामेव गर्भः, गर्भ एष समूच्छना जावा जेरायवादीनाम् / नारकदेवानामेवोपपातः, उपपात एव नारक. देवानाम् / शेषाणामेव सम्मूर्छनम्, सम्मूर्छनमेव शेषाणाम् // 36 // ____टी-शेषाणां सम्मूछनम् / उक्तव्यतिरिक्ताः शेषाः, के पुनरमिहिता जरास्वण्डपोतजनारकदेवा एभ्यः शेषाणां जीवानां पृथिवीजलानलानिलतरुद्वित्रिचतुरिन्द्रियगर्भः व्युत्क्रान्तिपञ्चेन्द्रियतिर्यङ्मनुष्याणां सम्मूर्च्छनं जन्माभिहितलक्षणं भवति / शेषग्रहणं लापपार्थमानन्त्यख्यापनार्थं च जन्मभाजां सूरिणाऽकारि। अथवा सामर्थ्यलभ्यं जन्म शेषाणामतः शेषमर्थाद् भविष्यति तस्मादुभयोर्नियमप्रतिपादनायेदं शेषग्रहणमाश्रीयते / योगत्रयमपि चैतजन्मवतां जन्मसङ्करनिवारणार्थमाचार्येण प्राणायीति, अतस्तनिवारणार्थ परस्परावधारणदिदर्शयिषयाऽऽख्याति-उभयावधारणं चात्र भवति जरोय्वादीनामेव गर्भः, गर्भएष जरायवादीनाम् जराय्वादयो गर्भश्च एतदुभयमस्यावधारणमवच्छेदो भवति / चशब्द एकशब्दार्थे / उभयावधारणमेव नान्यतरावधारणमनवधारणं वा / प्रथमोपन्यासेन गर्भोऽवधार्यते जराय्वादयोऽनवधृतास्तेऽनु पाश्चात्योपन्यासेऽवच्छिद्यन्ते-गर्भ एव जराय्यादनिामिति / गर्भो जराय्वादीन न जहाति, जराय्वादयोऽपि गर्भ न त्यजन्तीति समुदायार्थः / एवमितरत्रापि योगद्वये वाच्यमवहितमानसेन / किं पुनः कारणं येनान्तराले योनिसूत्रमधीतं, न जन्मसूत्रानन्तरमेव जन्मविभागः कृत इति ? / उच्यते-जन्मनो योनेच यकत्तकद्वान्तरमित्यस्यार्थस्य ज्ञापनाय जन्मसूत्रानन्तरमेव योनिसूत्रोपन्यास इति // 36 / / अत्रा.-तेषु जन्मसु यथोक्तयोनीनां जीवानां कानि शरीराणि कियन्ति वा किलक्ष. णानि वा भवन्तीति / अत्रोच्यते ''जरायुजादीनाम् ' इति घ-पाठः। Page #221 -------------------------------------------------------------------------- ________________ सूत्रे 37 स्वोपज्ञभाष्य-टीकालङ्कृतम् 195 . सूत्रम्-औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि // 2-37 // टी-अत्र केचित् सूत्रावयवमवच्छिद्य शरीराणीति पृथक् सूत्रं कल्पयन्ति, अधिका रार्थमतिबहुवाच्यमेतच्छरीरप्रकरणमतोऽधिकार इति, अत्रोच्यते-गौरवसूत्र-विचारः र मात्रमपास्यैवमवच्छिन्दानैः सूत्रमन्यन्न किञ्चिदाप्तं स्यात् सूत्रपर्यन्ते हि वर्तमानं शरीरग्रहणं नाधिक्रियते पृथगुपन्यस्तमादावधिकाराय जायत इति काऽत्र युक्तिस्तैराश्रयणीया शरणायेति / भा०-औदारिक, वैक्रिय, आहारकं, तैजसं, कार्मणमित्येशरीरभेदार तानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति // 37 // औदारिकादिशरी-. टी०-औदारिक वैक्रियमित्यादि / तत्रोदारं वृहदसारं यद् द्रव्यं राणा व्युत्पत्तिः तन्निवृत्तमौदारिकमसारस्थूलद्रव्यवर्गणासमारब्धमौदारिकप्रायोग्यपुद्गलप्रहणकारणपुद्गल विपाक्यौदारिकशरीरनामकर्मोदयनिष्पन्नम् / एवमितरशरीरेष्वपि वैक्रियादिशब्दप्रक्षेपादेष दण्डको वाच्यः / विक्रिया विकारो बहुरूपतानेककरणं तया निवृत्तमनेकाद्भुताश्रयं विविधगुणासम्प्रयुक्तपुद्गलवर्गणाप्रारब्धं वैक्रियम् / शुभतरशुक्ल विशुद्धद्रन्यवर्गणाप्रारब्धं प्रति विशिष्टप्रयोजनायाहियतेऽन्तमुहर्तस्थित्याहारकम् , कुल्ल्युटो बहुलबचनात् / तेज इत्यग्निः, तेजोगुणोपेतद्रव्यवर्गणासमारब्धं तेजोविकारस्तेज एव या तैजसमुष्णगुणं शापानुग्रहसामर्थ्याविर्भावनं तदेव यदोत्तरगुणप्रत्यया लब्धिरुत्पन्ना भवति तदा परं प्रति दाहाय विसृजति रोपविपाध्मातमानसो गोशालादिवत् , प्रसन्नस्तु शीततेजसाऽनुगृह्णाति / यस्य पुनरुत्तरगुणलब्धिरसती तस्य सततमभ्यवहृताहारमेव पाचयति, यच तत् पाचनशक्तियुक्तं तत् तैजसमवसेयम् / कर्मणा निवृत्तं कामणम् , अशेषकर्मराशेराधारभूतं कुण्डवद् बदरादीनामशेषकर्मप्रसवसमर्थ वा यथा वीजमकुरादीनाम् , एपा च किलोत्तरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकात् समुदायभूतादित्यतः कर्मैव कार्मणम् / परे नेच्छन्ति स्वार्थप्रत्ययमुपपत्तीश्चाभिदधते, न किल कर्माप्येव कार्मणं ज्ञानावरणादीनां तदाश्रयत्वाञ्चक्षुरादिवज्ज्ञानावरणादीनां तदाश्रयभूतकामणमाश्रयत्वेन व्यवतिष्ठमानं कथं ज्ञानावरणादिमात्रमेव स्याद , यथा चक्षुरादीनामौदारिकशरीरमाश्रयकारणमन्यदन्यानि चेन्द्रियाणि तथा कार्मणमपि कर्मभ्योऽन्यद्, यदि च तन्न स्यात् कुण्डभेदाद् बदराणामिवेतस्ततः पतनं स्यात् कर्मणामनिष्टं चैतत् , तस्माद् यदेपामाश्रयकारणं तत् कार्मणं शरीरमिति। उत्पत्तिकारणभेदाच पृथक् कर्मभ्यः कार्मणम् , बन्धननामकर्मप्रत्ययं प्रद्वेषादिनिमित्तं च कर्मोत्पद्यत इत्याप्तोपदेशः, शरीराणां तु स्वशरीरनामकर्मोदयादुत्पत्तिरतोऽन्यत्वम् , पाकभेदाच्चान्यत् ज्ञानावरणादि कर्म पच्यमानं मृढताद्युत्पादयति, कार्मणशरीरकारणपाकस्तु कार्मणमेव शरीरमारभते, तस्मादन्यत् पूर्वोत्तरकालं बन्धाविनिवृत्तेश्चान्यत्वं मोहज्ञानावरणादिवत् , अनिवृत्तिस्थाने हि विनिवर्तते बन्धः कार्मणस्य, Page #222 -------------------------------------------------------------------------- ________________ 196 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 कर्मणस्तु सह तेन पूर्वमुत्तरत्र च यथापूर्व मोहक्षयः पश्चाज्ज्ञानावरणक्षय इति, तदेतत् सर्वसुपपत्तिजालमनैकान्तिकम् , अभिन्नकर्मस्वपि दर्शनात् / अन्यच्च ज्ञानावरणादिकोष्टकात् पृथक कल्प्यमाने कार्मणे नवमकर्मप्रसङ्गः, कार्यकारणवादाभ्युपगमे वा कर्मकार्मणयोः स्यात् अन्यत्वं स्यात् अनन्यत्वमभ्युपेयमन्यथा वा त एव दीर्घायुषोऽवगच्छन्ति येतान्यत्वमेकान्तेनाभिनिविशन्त इति / वयं तु ब्रूमः कर्मभिर्निष्पन्नं कर्मसु भवं कर्मसु जातं कर्मैव वा कार्मणमिति न कश्चिद दोषः प्रक्रियायामाहितनैपुणस्येति // अथैषामौदारिकादीनां किं सर्वपुद्गलद्रव्याण्येव ग्रहणप्रायोग्यानि, आहोस्वित् कानिचिदेवेति। उच्यते-न खलु सवोणि, किन्तु द्रव्यवर्गणाप्ररूपणक्रमेण कानिचिदेव योग्यानि भवन्ति, तद्यथा-परमाणनामेका वर्गणा-वर्गोराशिरिति पर्यायाः। द्विप्रदेशानामपि स्कन्धानामेका वर्गणा, एवमेकपरमाणुवृद्धया सङ्ख्येयप्रदेशस्कन्धानां सङ्ख्येयवर्गणाः, असङ्ख्येयप्रदेशस्कन्धानामसङ्ख्येयाः, ततोऽनन्तप्रदेशस्कन्धानामनन्ता वर्गणाः, स्वल्पपुद्गलप्रयोगत्वादयोग्याः समुल्लद्ध्या अनन्ता एवौदारिकशरीरयोग्या वर्गणा भवन्ति, पुनस्तस्यैवाग्रहणयोग्यास्ततोऽनन्ताः अतिबहुपुद्गलात्मकत्वात्, एवमेकै कपुद्गलप्रक्षेपपरिवृद्धया वैक्रियाहारकतैजसभाषाप्राणापानमनःकार्मणानामेकैकस्या योग्या योग्या अयोग्याश्चेति द्रव्यवर्गणात्रयमाभावनीयम् , आद्या च अल्पत्वादयोग्या, अन्त्या तु बहुत्वात्, मध्यमा तदनुरूपत्वाद् योग्येति सर्वत्र वासनाऽऽधेया। भाषाप्राणापानमनोग्रहणमत्राप्रस्तुतमपि कार्मणशरीरयोग्यवर्गणाप्रदर्शनार्थमध्यवसातव्यम् / एवं तावत् प्रतिविशिष्टपुद्गलद्रव्यनिर्माणितान्यौदारिकादीनि निश्चितम् // अथेदानीमिदं भाष्यमनुस्रियते-इत्येतानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति, एवमेतानि पञ्चैवान्यूनानधिकानि शरीराणीति, शीर्यन्त इति शरीराणीति जीर्यमाणत्वाच्चयापचयवत्त्वाच विशरारुताभाद्ध्येतानि गतिचतुष्टयवर्तिनामेव प्राणिनां यथा सम्भवन्ति, न सिद्धानामिति सामर्थ्याद् व्युदासः / निर्घातस्य संज्ञिनः संज्ञेत्यतो न लध्वपि शरीरग्रहणमादावुपन्यस्तं विशरारुत्वाच्छरीराणि इत्यन्वर्थसंज्ञासिद्धयर्थं न कायग्रहणमाश्रितं लघीयोऽपि / आदावौदारिकं स्थूलाल्पप्रदेशबहुस्वामित्वात् , ततो वैक्रिय पूर्वस्वामिसाधर्म्यात् , ततोप्याहारकं लब्धिसाधर्म्यात् , ततस्तैजसं सूक्ष्मासङ्ख्येयस्कन्धात्मकत्वात् , ततः कार्मणं सर्वकारणाश्रयसूक्ष्मानन्तप्रदेशत्वादिति // 37 // अत्राह-कथं पुनरयं विशेषो निश्चीयते औदारिकादीनामिति ? उच्यते-न्यायाद् वचनाच / न्याय उक्तः, वचनं त्विदं यथाक्रमं तेषां पूर्वस्मात् / सूत्रम्-परं परं सूक्ष्मम् // 2-38 // टी०–तेषामित्यनेन भाष्यकारः सूत्रसम्बन्धमावेदयति . भा०-तेषामौदारिकादीनां शरीराणां परं परं सूक्ष्म वेदिशरीराणां परस्परं - महत्वा तव्यम् / तद्यथा-औदारिकाद् वैक्रियं सूक्ष्मम्, वैक्रियादाहार कम् , आहारकात् तैजसम् , तैजसात् कार्मणमिति // 38 // १०कादिशरी०' इति घ-पाठः। Page #223 -------------------------------------------------------------------------- ________________ सूत्रं 39] स्वोपज्ञभाष्य-टीकालकृतम् 197 ____टी-तेषाम् , अनन्तरमूत्रोपदिष्टानानौदारिकादीनां शरीराणां परं परं सूक्ष्म वेदितव्यम् / नि तत्वादादिशब्दप्रयोगः, औदारिकादीनामन्यार्थवाचित्वमपि सम्भवतीति, अतो विशेषणं शरीराणामिति / विशरणशीलत्वाच्छरीराणि / परं परमिति वीप्सया व्याप्ति दर्शयति, पूर्व पूर्वमपेक्ष्य औदारिकादीनां परं परं सूक्ष्म मूक्ष्मगुणं द्रव्यं सूक्ष्मं तद् यत्रास्ति तत् सूक्ष्मम्, अर्शआदिपाठाच्छरीरम्, अतोऽयमर्थः सूक्ष्मपरिणामपुद्गलद्रव्यारब्धं वेदितव्यम्अवसेयम् / एतेन प्रामाण्याधिकृतं चोद्यमपास्तं भवति, सूक्ष्मत्वादेव च प्रायो वैक्रियादिचतुष्कस्य दर्शनमनुपपन्नम् , इह परिणतिविशेषमङ्गीकृत्य पुद्गलाः केचिदतिस्थूलतया वर्तन्तेऽल्पेऽपि सन्तो भेण्डकाष्ठादिषु, केचिन्निचिततरपरिणामभाजोऽतिभूयांसोऽपि सूक्ष्मावस्थामासादयन्ति करिदशनादिपु, प्रसिद्धं चैतत् प्रायस्तुलामारोपिते भेण्डदन्तखण्डे प्रमाणतः सदृशे परिणामागतार्मतिविप्रकृष्टां धियमाधत्ते इति, तदेतत् परिशिथिलां परिणतिमनपेक्ष्य निचिततरां पुद्गलानामन्यथा लाघवं गौरवं वा प्रतिषनुमशक्यं तुल्यप्रमाणत्वे सति, अतः पूर्वपूर्वमुत्तरोत्तगपेक्षया शरीरं परिस्थरद्रव्यारब्धगतिशिथिल निचयमदभ्रं च भवत्युत्तरं मूक्ष्मं प्रत्यारब्धमतिवननिचयमणु च भवतीति पुगलद्रव्यपरिणतेवेचिच्यात् / असुमेवार्थ भाष्यकारः प्रकाशयन्नाह-तद्यथा-औदारिकादित्यादि / तदेतद यथा स्पष्टतरं भवति तथा वेद्यते-औदारिकाच्छरीरादू वैक्रियं सूक्ष्मद, औदारिकमल्पद्रव्यं स्थूलं शिथिलनिचयम्, वैक्रियं बहुतरद्रव्यं मूक्ष्मघननिचयं चेति, अतः सूक्ष्ममुच्यते // ननु चौदाशरीराणां सूक्ष / सूक्ष्मता- रिकं योजनसहस्रप्रमाणमुत्कर्षान वैक्रियं तु योजनलक्षप्रमाणम् , अतः दर्शनम् कथं मूक्ष्ममिति ? / उच्यते-यद्यपि प्रमाणतस्तदतिमहदू वैक्रियं तथापि सूक्ष्ममेवादृश्यत्वात् इच्छया तु तत्कर्तुर्दश्यत इत्यतो नो दोपः, तथा वैक्रियादाहारक सूक्ष्ममित्यभिसम्बन्धः, सूक्ष्मतरपरिणामपरिणतं बहुतरपुद्गलद्रव्यारब्धमाहारकम् , आहारकात् तेजसं बहुतरद्रव्यमतिमूक्ष्मपरिणामपरिणतं च, तैजसातू कामणमतिबहुकद्रव्यप्रचितमतिसूक्ष्मं च भवति, अतः सूक्ष्मताऽऽपेक्षिकी प्रतिपत्तव्या, न सूक्ष्मनामकर्मोदयजनितेति // 38 // ___ एवं तावत् कारणानां सूक्ष्मात् परं परं सूक्ष्ममभिहितमतिबहुपुद्गलद्रव्यारब्धमपि प्रचयविशेषात् तत् कथमुत्तरोत्तरेषु बहुतरद्रव्यारब्धमिति ? अत आह सूत्रम्-प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् // 2-39 // भा० तेषां शरीराणां परं परमेव प्रदेशतोऽसङ्ख्येयगुणं भवति प्राक तेजसात् , औदारिकशरीरप्रदेशभ्यो वैक्रियशरीरप्रदेशा असप्रदेशापेक्षया शरीरतारतम्यम् ङ्ख्ययगुणाः, वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्ख्येयगुणा इति // 39 // 'परिमाणता' इति ग-पाठः। २'मविप्रकृष्टां' इति क-पाटः / Page #224 -------------------------------------------------------------------------- ________________ 198 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 टी-तेषां शरीराणामित्यादि भाष्यम् / तेषामित्यौदारिकादीनामनन्तरसूत्रात् परं परमित्येतदनुवर्तते, अभिसम्बध्नाति भाष्यकारः परं परमेव, एवशब्दस्तमेव क्रमनियममवद्योतयति परं परमित्यमुमेव क्रममङ्गीकृत्यासङ्ख्येयगुणता विधीयते नान्यथेति / प्रदेशत इति। प्रवृद्धो देशः प्रदेशः, अनन्ताणुकस्कन्धः प्रदेशोत्राभिधीयते, एवंविधैः प्रदेशैः प्रदेशतः "इतरेभ्योऽपि दृश्यन्ते" इति वचनात् असङ्ख्येयगुणं भवति / एतदुक्तं भवति-औदारिकशरीरग्रहणयोग्यो यः स्कन्धोऽनन्तप्रदेश एकः स यदाऽन्यैरनन्ताणुकैः स्कन्धैरपङ्ख्येयैगुणितो भवति तदा वैक्रियग्रहणयोग्यो जायते, एवं वैक्रियग्रहणयोग्योऽनन्तप्रदेशस्कन्धः, एको यदाऽन्यैरनन्ताणुकस्कन्धैरसङ्ख्येयैरभ्यस्तो भवति तदाऽऽहारकग्रहणयोग्यतामेति / प्राक तैजसादिति मर्यादा दर्शयति, न खलु सर्वेष्वयं क्रमो ग्राह्यः, किन्तु तैजसकामणे विहायायेषु त्रिषु शरीरेश्वेतद् विधानम् / अमुमेवार्थ स्पष्टतरमाचष्टे भाष्येणामुना औदारिकशरीरप्रदेशेभ्यो वैक्रियप्रदेशा असङ्ख्येयगुणाः, औदारिकशरीरयोग्यस्कन्धोऽनन्ताणुकोऽपि सर्वस्तोकः, उत्तरस्कन्धापेक्षयाऽनन्तसङ्ख्यायाचानन्तभेदत्वात्, अत एक औदारिकयोग्यः स्कन्धो यदाऽन्यैरनन्तप्रदेशस्कन्धरसङ्ख्येयैगुणितो भवति तदा वैक्रिययोग्य इति पिण्डार्थः। औदारिकशरीरे प्रदेशाः औदारिकशरीरप्रदेशाः अनन्ताणुकाः स्कन्धा इत्यर्थः / न पुनः प्रदेशाः परमाणवो गृह्यन्तेऽर्थासम्भवात्, वैक्रियशरीरप्रायोग्याः प्रदेशाः स्कन्धा जायन्ते असङ्ख्येयैरनन्तपरमाणुप्रचितस्कन्धैरन्यैर्गुणिताः, औदारिकयोग्या ये स्कन्धास्तेऽत्र गुण्यतया विवक्षिताः / बहुवचनमौदारिकशरीरयोग्यस्कन्धबहुत्वापेक्षं वैक्रियस्कन्धबहुत्वापेक्षं चेति / तथा वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असङ्ख्येगुणा इति, वैक्रियशरीरयोग्यस्कन्धेभ्यः आहारकशरीरयोग्याः स्कन्धा अनन्ताणुभिरसङ्ख्येयैः स्कन्धैर्गुणिता भवन्ति वैक्रिययोग्याः स्कन्धाः, प्रत्येकमनन्तप्रदेशैरसङ्ख्येयैः स्कन्धेरभ्यस्ताः सन्त आहारकयोग्या जायन्त इति, बहुवचनमत्राप्युभययोग्यस्कन्धबहुत्वापेक्षमिति // 39 // ___ अत्राह-प्राक तैजसादित्युक्तम् / अथ कः पुनस्तैजसकार्मणयोः स्कन्धप्रदेशनियम इति / अत्रोच्यते सूत्रम्-अनन्तगुणे परे // 2-40 // भा०-परे हे शरीरे-तैजसकार्मणे पूर्वतः पूर्वतः प्रदेशार्थतयाऽनन्तगुणे तैजसकार्मणयोः भवतः। आहारकात् तैजसं प्रदेशतोऽनन्तगुणम् / तैजसात् प्रदशमानम् कार्मणमनन्तगुणमिति // 40 // टी-परे हे शरीरे इत्यादि भाष्यम् / परे इत्युक्तेऽपि द्विशब्दोपादानं सप्तम्याशङ्काव्यावृत्त्यर्थम्,द्वित्वमन्यथाऽपि सम्भवतीति प्रतिविशिष्टयप्रदर्शनार्थमाह-तैजसकामणे इति / पूर्वसात पूर्वतः वीप्सया व्याप्तिमादर्शयति-प्रदेशार्थतयेति / अनन्ताणुस्कन्धार्थ Page #225 -------------------------------------------------------------------------- ________________ सूत्र 41 ] स्वोपज्ञभाष्य-टोकालङ्कृतम् 199 त्वेनानन्तगुणे भवतः / एतदेव स्फुटीकरोति-आहारकात् तैजसं प्रदेशतोऽनन्तगुणम्, आहारकशरीरयोग्यस्कन्धोऽनन्ताणुकोऽन्यैरनन्तपरमाणुप्रचितस्कन्धैरनन्तैर्गुणितस्तैजसशरीरग्रहणयोग्यो भवति / प्रदेश इति प्रदेशैरनन्ताणुकैरनन्तैः अनन्तगुणमिति च फलमेव निर्दिष्टमाचार्येण, अनन्तो गुणव हुत्वं यस्य तदनन्तगुणम्, अस्माच्च फलनिर्देशात् ज्ञायतेऽनन्तः स्कन्धैगुणितं सदनन्तगुणं भवति, अन्यथा प्रदेशैरनन्तैरिति दुर्लभं स्यात् / एवमसङ्ख्येयगुणमपि वाच्यम्, तथा तैजसात् कार्मणमनन्तगुणमिति तैजसशरीरयोग्यः स्कन्धोऽन्यैरनन्ताणुकैः स्कन्धेर्गुणितः कार्मणशरीरयोग्यो भवति // ननु चार्थे तैजसं कार्मण चान्तरा भाषाप्राणापानमनोयोग्यवर्गणा निर्दिष्टास्ततः क्रमवृद्धः स्कन्धराशिर्मनोग्रहयोग्यकार्मणस्य निर्दिष्टः, इह तु तैजसादनन्तरमेवेत्येतत् कथम् ? उच्यते-न कश्चिद् विशेषः तैजसादारभ्य यावन्मनस्तावत् क्रमवृद्धवान्तरालेऽनन्ता एव स्कन्धा भवन्ति, पुनस्तत्राप्येकाणुकादिप्रक्षेपादनन्ताः कार्मणयोग्यास्तदेवानन्तगुणत्वम् , इह तु पुनने स क्रम आश्रितः, किन्त्वनन्तस्कन्धगुणः स राशिः कार्मणयोग्य आख्यात इति, अतः स एवायं मपीम्रक्षितकुकुटाभोऽथापणविशेषो मा विप्रतिपत्यास्त्वमिति // 40 // अयं चान्यो विशेषोऽन्यशरीरेभ्यस्तयोर्यदुत सूत्रम्--अप्रतिघाते // 2-41 // भा०-एते द्वे शरीरे-तैजसकामणे अत्र लोकान्तात् सर्वत्राप्रतिघाते भवतः // 41 // ___टी-एते द्वे शरीरे इत्यादि भाष्यम् / एते अनन्तरमूत्रप्रस्तुते प्रत्यक्षासन्ने, द्विशब्दोपादानमत्र प्रथमाबहुवचनाशकाव्यावृत्त्यर्थम् / विशरणधर्मत्वाच्छरीरे द्वित्वं विशेषप्रतिपत्त्यर्थम् / तैजसकार्मणे जीवाजीवाधारक्षेत्रं लोकस्तस्यान्तोऽवसायस्तसाल्लोकान्तादन्यत्र लोकान्ते हि प्रतिहन्येते, ते गतिस्थितिहेतुधर्माधर्मद्रव्याभावात् - तदुपग्रहाद् हि जीवानां पुद्गलानां च गतिरुपजायते जलचराणामिव तैजसकार्मणयोरप्रतिघातिता पर जलद्रव्यापेक्षे, अन्यत्र तु सर्वस्मिन् लोके न तयोः प्रतिघातः कचन विद्यते मूर्तत्वेऽपि हि तयोरतिसूक्ष्मत्वात् सर्ववर्त्मसु गतेः प्रतिघातासम्भवः सदाचारमुनिवत्, ते अपि न किञ्चित् प्रतिहतस्नेहगिरिजलधिवलयद्वीपपातालनरकविमानप्रस्तरानपि भिन्दती जातेऽक्षतस्वरूपे वज्रवन्न जातुचित कुण्ठतामश्नुवाते / न खलु लोहपिण्डमाविशन्तस्तेजोऽवयवाः परिस्फुरन्मूर्तयोऽपि कयाचिदुपपत्त्या निवारयितुं पार्यन्ते तद्विध्मापनायाम्भोवयवाश्च समाहृताः, सूक्ष्मत्वादेवमेव च शरीरके राजवल्लभपुरुषवत् सर्वत्राव्याहतप्रवेशनिर्गमे प्रतिपत्तव्ये इति // 41 // 1. पेक्षेत्यन्यत्र ' इति क-ख-पाठः / Page #226 -------------------------------------------------------------------------- ________________ 200 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः२ न च ताभ्यां कदाचित् संसारी विरहित इत्यावेदयन्नाह -- सूत्रम्-अनादिसम्बन्धे च // 2-42 // जसकर्मिणयोर. - भा०-ताभ्यां तैजसकार्मणाभ्यामनादिः सम्बन्ध इति नादिः सम्बन्धः // 42 // .टी.-अनादिसम्बन्धे च / आदिः-प्राथम्यम्, अविद्यमान आदिर्यस्यासावनादिः, सम्बन्धन-सम्बन्धः, संयोग इत्यर्थः, अनादिः सम्बन्धो ययोः परस्परेण संसारिभिश्च सह ते अनादिसम्बन्धे शरीरके भवतः सुवर्णधातुपापाणसंयोगवदाकाशपृथिव्याः दिसंयोगवद् वा / चशब्दः सम्बन्धविकल्पार्थः, नैकान्तत एवानादिः सम्बन्धः, किन्नु द्रव्यास्तिकनयावष्टम्भन तयोरतिदीर्घकालप्रवाहादविच्छेदवर्ती सकलभविष्यदवस्थान्तरबीजभूतो विचित्रपरिणामशक्तिप्रचितपुद्गलद्रव्यैराधीयमानप्रचयापचयोऽनादिकपुरुषप्रयत्ननिर्वर्त्यनानारूपकर्मविकाराविच्छेदः सन्तानविशेपस्तदङ्गीकरणेनायमनादिः सम्बन्धः प्रतीयते। आदिमांश्च पर्यायनयवक्तव्यताभ्यन्तरीकृतत्वात् / क्रियत इति कर्म मिथ्यादर्शनाविरतिप्रमादकषाययोगबन्धहेतुसद्भावात् तीव्रमन्दाधुपपत्तेश्च / प्रतिक्षणमयमुपचीयते पुरुषः कपाययोगाद्यास्रवद्वारवर्ती दृढतरैः कर्मणा यैस्तत् कथमनादिः सम्बन्धो निरूपयितुं शक्येतातिसाहसिकैरपि, ज्ञानावरणादिकर्मणां च स्थितिकालनियमादवश्यमपूर्वकर्मोपादेयम् , तचादिमत्स म्बन्धमेवावधूतशकं प्रतिपद्यध्वम् , अतश्चशब्दो द्रव्यपर्यायास्तिकनयद्वयान्तर्वर्तितामापादयति सम्बन्धस्य / / अधुना भाष्यानुसृतौ यत्न आस्थीयते-ताभ्यामित्यादि भाष्यम् / ताभ्यामुक्त. लक्षणाभ्यां तैजसकार्मणशरीरकाभ्यामनादिरकृतकः सन्तत्याऽङ्गीकरणेन संयोगोऽनादेरकृतकस्य जीवस्येति, नहि जीवः केनचिदुत्पादितचैतन्यात्मनेति श्रुतिपथमागमद वचो यो वा मन्येत कृतकमात्मानमुपयोगलक्षणमनादिपारिणामिकमाववर्तिनमपत्रपस्तस्यापि वचनमयुक्ति कमसङ्गतपूर्वापरमिति विद्वद्भिरपकर्ण्यम्, अतोऽनादिस्तदनादित्वात् तैजसकार्मणे अप्यनादिसम्बन्धे विद्वांसः प्रमातुमर्हन्ति, अन्यथा परित्यक्तसकलशरीरकलङ्कस्य मुक्तस्येव केन हेतुना संसारिता स्यादिति ? // 42 // अथैते अनादिसम्बन्धे अपि सति किमशेषसंसारिण एव स्त आहोस्वित् कस्पचिदेवेति ? / अत आह . सूत्रम्-सर्वस्य // 2-43 // भा०-सर्वस्य चैते तैजसकामणे शरीरे संसारिणो जीवस्य भवतः / ___ एके त्वाचार्या नयवादापेक्षं व्याचक्षते / कार्मणमेवैकमनादिसर्वसंसारिणां तेजसकामणवत्ता / / सम्बन्धम् / तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति। तेजस तु लब्ध्यपेक्षं भवति / सा च तैजसलब्धिन सर्वस्य, कस्य१. नादिसम्वन्धो जीवस्येत्यनादिसम्ब' इति घ-पाठः। 2 -- रुपकर्ण्य ' इति ख-पाठः / Page #227 -------------------------------------------------------------------------- ________________ तायां मतभेदः सूत्र 43 ] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 201 चिदेव भवति / कोपप्रसादनिमित्तौ शापानुग्रहौ प्रति तेजोनिसर्गशीतरश्मिनिसर्गकरम् , तथा भ्राजिष्णुप्रभासमुद्यच्छायानिर्वतकं संशरीरेषु मणिज्वलनज्योतिष्कविमानवदिति // 43 // ____टी–सर्वस्य चैते इत्यादि भाष्यम् / अशेपसर्वकर्माधाय चेतसि, अवोचत सरिः सर्वस्येति, चशब्देनावृत्तौ तैजसकार्मणे समाकर्षत्यनादिसम्बन्धापेक्षे, एवंरूपे एते शरीरके संसारिणो जीवस्य सकर्मकस्य जन्तोर्भवतः / सर्वस्यामवस्थायां न कश्चित् तादृशः प्राणी विद्यते यस्यैते दुःखपञ्जरप्रभवभववर्तिनो न स्त इति / एवं स्वाभिप्रायमुपवाधुना मतान्तरमुपदर्शयन्नाह-एके त्वाचार्या इत्यादि / अन्ये पुनराचार्याः प्ररूपयन्ति-प्रतिविशिष्टनय1 . वादालम्बनाः सन्तः कार्मणमेवैकमनादिसम्बन्धमविच्छिन्नः प्रवाहो तेजसस्यानादि यस्मात् कर्मणस्तस्मात् तेनैवैकेन जीवस्यानादिः सम्बन्धो भवति न पुनस्तैजसेनापि, तत्प्रवाहादर्शनात् / किं पुनर्नयवादमुररीकृत्य ते मूरयस्तैजसमपगुवते किमत्र वक्तव्यम् // ननु सुज्ञानमेवेदम् , यो ह्यतीतानागतकालावधिकवस्तुविशेपव्युदासमातिष्ठते वर्तमानक्षणवयैव वस्तु वस्तुतामावसतीत्येवमनुसन्धाय प्रवर्तते स खलु प्रकाशनामातिक्रान्तागामिचक्रपरिहारित्वाद् वर्तमानक्षणर्जुसूत्रणादृजुमूत्र इति प्रतीतस्तमपेक्षमाणाः प्रथयन्ति-तैजसं तु लब्ध्यपेक्षं भवतीत्यादि / तुशब्दोऽवधारकः तैजसं लब्ध्यपेक्षमेव भवति-सत्तामासादयति, सा च तैजसलब्धिर्विशिष्टतपोनुष्ठानादिभिः साधनैः कस्यचिदेव भवति न सर्वस्य जन्तोस्तत्साधनकलापविमुखस्य, स च तद्योग्यसाधनसमासादिततेजोलब्धिस्तेजोनिसर्गमातनोति, क्रोधावेशादरुणलोचनश्चलकपोलाधरपुटः कृशानुपुञ्ज इव दुप्प्रेक्ष्यः क्षमावनितया दुर्भग इवातिदूरमपास्तः शापप्रदानं प्रति कृताध्यवसायः स्फुलिङ्गमालाकुलमत्युष्णतेजः प्रयत्नविशेषात् तथा मुञ्चति गोशालादिवद येन परस्तदेव भस्मसाद् भवति, तथा मनःप्रसादावेशादनुकम्पया वाऽनुग्राह्यपक्षं प्रति प्रल्हादकारिणममृतकल्पं तेजोविशेषमनुष्णदीधितिवद विधूतसकलपरितापतिमिरराशिमनुग्रहप्रवणमानसं क्षिपति येनाशु सुखास्वादविनिमीलितलोचनोऽपूर्व इव जायते, यथा च भगवतैवोष्णलेश्यापरीताङ्गयष्टिगोशालकलिरनुगृहीतः शीततेजोनिसर्गेण, क्रोधप्रसादौ निमित्तं ययोः शापानुग्रहयोस्तो क्रोधप्रसादनिमित्तौ शापानुग्रहावभिमुखीकृत्य तेजोनिसर्ग करोति / हतस्त्वं दग्धस्त्वमित्येवमादि क्रोधाविष्टवचनं शापः / कदाचिद् वा बाह्यनिमित्तापेक्षमन्तःकर्मापि परिणमते येनायं काणः कुण्ठः कुब्जो वा भवतीति सोऽपि शाप एवावगन्तव्यः / अतः क्रोधनिमित्तशापप्रदानाभिमुख उष्णतेजोनिसर्ग करोति / प्रसादनिमित्तानुग्रहाभिमुखः शीतरश्मिनिसर्गकरो भवति / शीता रश्मयो यस्य निसृज्यमानतेजोविशेषस्य स शीतरश्मिः, शीतरश्मिश्चासौ निसर्गश्च शीतरश्मिनिसर्गस्तत्करणशीलं 'तैजसं शरीरेषु' इति घ-पाठः / 26 Page #228 -------------------------------------------------------------------------- ________________ 202 तत्त्वार्थाधिगमसूत्रम् [अध्यायः शीतरश्मिनिसर्गकरं तैजसम् / तथा प्राजिष्णुप्रभेत्यादि / भ्राजनशीलो-प्रापि ष्णुः प्रभाणां समुदयस्तस्य छाया-आमा भ्राजिष्णुप्रभासमुदयच्छाया // ननु च भ्राजिष्णुरे भवति, किं हि तस्य विशेष्यते ? मलीमसत्वेनापि दर्शनात् , मलीमसप्रभो मणिरि संव्यवहरन्ति लौकिकाः, तस्याः छाया(या) निर्वर्तकं उत्पादकं-तैजसं, शरीरेष्वौदारिक दिकेषु केषुचित् मणिज्वलनज्योतिष्कविमानवदिति / यथा हि मणयः स्फटिकाङ्कवैड्या दयो भ्राजिष्णुच्छाया विमलपुद्गलारब्धत्वात् , ज्वलनो वा निरस्तप्रत्यासन्नतिमिरबात प्रद्योतते स्वतेजसा, ज्योतिष्कदेवानां वा चन्द्रादित्यादीनां विमानान्यतिभास्वराणि निर्मलद्र व्यारब्धत्वात् , तथा तैजसशरीरापेक्षमौदारिकादिषु शरीरेषु केषुचिदेव स्फुरन्मृजाजालमुपल भ्यते, न सर्वेषु, अन्यथा तद्भावात् / कया युक्त्या तत् तथा भवेत् ? एतच्च तेष्वेव शरीरे द्रष्टव्यं यानि लब्धेराधारतां प्रतिपद्यन्ते, अन्यथा ग्रन्थो न सङ्गच्छेत, तथा भ्राजिष्णुप्रमे त्यादि च, किं कारणं ? ये हि लब्धिप्रत्ययमेवेच्छन्ति तैजसं तेषां तावदन्यत्र लन्धेरभावार घटते, आचार्याभिप्रायोऽपि नायं, पराभिप्रायप्रस्तावात् / अपरे वर्णयन्ति-आचार्यमतमेवेदम् अन्ये तु नित्यसम्बन्धमेव तत्कार्यमपि च भ्राजिष्णुप्रभेत्यादि, तदेतदयुक्तमव्याप्तेरिति / अथ यानि शरीराणि लब्धिरहितानामपि मयूखजालमुद्वमन्ति दृश्यन्ते, तेषु कथम् ? / तर हि कार्मणौदारिकशक्तिरेव सा तादृगिति न तैजसस्य, यथा वैकियेष्वितिप्रत्याख्यानवादिन एवं वर्णयन्ति, तस्माद् यदधुनैव लब्ध्या समुद्भाव्यते तत् कथमनादिसम्बन्धं सर्वस्य व जन्तोः स्यादाहारकवदप्राप्तलब्धेन तेन दाहादि किंचित् कार्यमनुष्टातुं शक्यमनुपजातकुम्भेनेः जलाद्याहरणादि, प्रतिनिवृत्ततथाविधलब्धिरपि पुमान् तथा किंचित कर्तुं समर्थो न भवति ध्वस्तघट इव तैलधारणादि, तस्मान्नास्ति तैजसं सर्वस्य जन्तोः, न चानादिसम्बन्धम्, इह च सूत्रे प्रेक्षापूर्वकारितयाऽऽचार्येणाक्षेपोऽकारि सूत्रद्वयमप्याक्षेप्स्यामीति, अन्यथा पूर्वमूत्र एवाः क्षेपो युज्यते, एवमेकीयमतेन प्रत्याख्यातमेव तैजसमनादिसम्बन्धतया सर्वस्येति / या पुन रभ्यवहताहारं प्रति पाचकशक्तिर्विनाऽपि लब्ध्या सा तु कार्मणस्यैव भविष्यति, कर्मोष्णत्वात्, कार्मण हीदं शरीरमनेकशक्तिगर्भवादनुकरोति विश्वकर्मणः, तदेव हि तथा समासादितपरि णति व्यपदिश्यते यदि तैजसशरीरतया ततो न कश्चिद् दोप इति // 43 // ___अथ किं यथैते सर्वस्यानादिसम्बन्धे युगपञ्च किमेवमन्यान्यपि युगपदेकस्य भवन्त्युताहो न ? / अत्रोच्यते-सन्ति, न तु सर्वाणि / कियन्ति तहीति ? / अत आहसूत्रम्--तदादीनि भाज्यानि युगपदेकस्या चतुर्यः // 2-44 // भा० ते आदिनी एषामिति तदादीनि / तैजसफार्मणे यावत् संसारभाविनी आनी कृत्वा शेषाणि युगपदेकस्य जीवस्य भाज्यान्या चतुयः // 'आदिनौ ' इति घ-पाठः। 2' विनौ आदिम् ' इति घ-पाठः / Page #229 -------------------------------------------------------------------------- ________________ 203 सूच 44 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-ते आदिनीत्यादि / प्रस्तुते तैजसकार्मणे तच्छब्देनाभिसम्बध्येते / ते आदिनी एषामौदारिकादीनां मेढीभूते व्यवस्थिते तानि तदादीनि समुदायसमासार्थः / एतदेव स्पष्टतरं करोति-तैजसकार्मणे यावत् संसारभाविनी आदिनी कृत्वा यावत् संसारं भवितुं शीलमनयोस्ते यावत्संसारभाविनी तैजसकार्मणे आदिनी कृत्वा मेढीभूततया व्यवस्थाप्य शेषाणि औदारिकादीनि एकस्मिन् काले एकस्य जीवस्य भाज्यानिविकल्प्यानि, आ चतुर्य इति यावञ्चत्वारि युगपदेकजीवस्य भवन्त्यप्रत्याख्यानपक्षे / अथैकीयमतेन तैजसं प्रत्याख्यातं तदा त्रीणि युगपदेकस्य स्युः, आचार्यस्याभिप्रायः-कार्मगवत् तैजसं प्रायः सर्वदा सर्वस्यास्ति, यतस्ते आदिनी एषामिति विग्रहं कृतवान् / ये तु प्रत्याचक्षते तेषां विग्रहः-तत् आदि कार्मणमेषां तानि तदादीनि / उभयथा च भाष्यं भविष्यति, आचार्यस्य तु विग्रहगतौ कर्मकृत एव योगो भवति, न तु तैजसमित्यत्रैव लब्ध्यपेक्षत्वात् तत् किल नास्ति, तस्यामवस्थायामन्यत्र त्वाचार्यस्य तैजसं सर्वत्रास्ति / तामिदानीमात्माभिप्रायानुसारिणी भजनां दर्शयन्नाह भा०-तद्यथा-तैजसकार्मणे वा स्याताम् / 1 / तैजसकामणौदारिकाणि था स्युः / 2 / तैजसकार्मणवैक्रियाणि वा स्युः / 3 / तैजसकामणौदारिकवैक्रिपाणि वा स्युः / 4 / तैजसकार्मणौदारिकाहारकाणि वा स्युः / 5 // कार्मणमेव वा स्यात् / 3 / [ कार्मणतैजसे वा स्याताम् / 7 / ] कार्मणौदारिके वा स्याताम् / 7 / कार्मणवैक्रिये वा स्याताम् / 8 / कार्मणौदारिकवैक्रियाणि वा स्युः।९। कार्मणौदारिकाहारकाणि वा स्युः / 10 / कार्मणतैजसौदारिकवैक्रियाणि वा स्युः / 11 / कार्मणतैजसौदारिकाणि वा स्युः / 12 / न तु कदाचिद युगपत् पश्च भवन्ति / नापि वैक्रियाहारके युगपद् भवतः / स्वामिविशेषादिति वक्ष्यते // 44 // टी०-तद्यथेत्यादिना / अन्तर्गतौ तैजसकार्मणे केवले स्तः, इह तु तैजसमाश्रितमाचार्येण, विग्रहगतावित्यत्र पराभिप्रायेण नाश्रितम् , भवस्थतायामेते च औदारिकं चेति त्रीणि युगपत् / अथवा एते च वैक्रियं चेति त्रीणि, तियङ्मनुष्याणां शरीरसंख्या तू तैजसकार्मणौदारिकैः सह लब्धिप्रत्ययवैक्रियशरीरसद्भावे युगपदविच्छि मप्रदेशत्वाचत्वारि, चतुर्दशपूर्वधरमनुष्यस्याहारकलब्धौ सत्यां तैजसकामणौदारिकैः सह युगपदेवं चत्वारि, पद्मनालतन्तुवदेवाविच्छेदेनैकजीवप्रदेशैश्चतुष्टयमपि प्रतिबद्धमवसेयम् / एवमेतान् पञ्च विकल्पान् स्वमते प्रदाधुना एकीयमतमादर्शयितुमाह-कार्मणमेव स्यात्, न ह्यन्तर्गतौ लब्धिप्रत्ययं तैजसमस्ति, लब्धेम॒तावेव प्रच्यवनात्, अतः कार्मणमेव मति प्रथमो विकल्पः, कार्मणतैजसे वा स्यातामित्ययमत्रानुपपन्नो विकल्पो हेया तु १'काहारकाणि' इति घ-पाठः / Page #230 -------------------------------------------------------------------------- ________________ 204 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 भाष्येष्वधीतः, कथं ? यैः प्रत्याख्यातं सहजं तैजसं तेषां कुतोऽन्तर्गतौ तत्सम्भवः 1 न चान्या:वस्था भवस्थतायामस्ति यत्रोभयमेव स्यात् , अनुत्पन्नतैजसवैक्रियलव्धेः कार्मणौदारिके द्वे भवतः, अथवा कार्मणवैक्रिये देवनारकाणां, तिर्यङ्मनुष्याणामनुत्पन्नतैजसलब्धीनां कार्मणौदारिकवैक्रियाणि युगपत् , अनुत्पन्नतैजसवैक्रियलब्धेश्चतुर्दशपूर्वधरमनुष्यस्य कार्मणौदारिकाहारकाणि वा, उत्पन्नलब्धीनां नृतिरश्चां कार्मणतैजसौदारिकवैक्रियाणि युगपञ्चत्वारि भवन्ति, चतुर्दशपूर्वधरमनुष्यस्यानुत्पन्नवैक्रियलब्धेः कार्मणतैजसौदारिकायुगपत् पञ्चशरीर्या .. हारकाणि युगपत्, एवमेतेऽन्याचार्यदर्शनेन सप्त विकल्पा भवन्ति // " इदानीमा चतुभ्यं इत्यस्य व्यवच्छेदस्य फलं दर्शयति-न तु कदाचित पञ्च युगपद् भवन्तीति / नैव जातुचिदेकस्मिन् काले पश्चाना सम्भवः आहारकवैक्रिययोर्युगपदभावात् / एतदनेन भाष्यवचनेन दर्शयति-नापि वैक्रियाहारके युगपद् भवतः। पूर्वमुपन्यस्तं(?) पञ्च युगपन्न जातुचित् सम्भवन्तीति तद्भावनार्थमिदम् , अपिशब्दोऽवधारकः / नैव वैक्रियाहारके युगपद् भवतः, लब्धिद्वयाभावात् / एते उमे लब्धी युगपदेकत्र न सम्भवतो व्यक्तिरूपेण, यस्मिन् काले वैक्रियं तस्मिन्नेव काले आहारकमिति, पर्यायेण तु सम्भवतः, कृत्वा वैक्रियमुपरततद्वयापारः करोत्येवाहारकं, तदभावाच नैककाले पञ्च शरीराणि सम्भवन्त्येकस्य / किं पुनः कारणमेकस्यैकदा ते लब्धी न भवत इति ? आह-स्वामिविशेषादिति वक्ष्यति-'लब्धिप्रत्ययं च' (अ० 2, सू० 48) 'शुभं विशुद्धमव्याघाति चाऽऽहारकं चतुर्दशपूर्वधरस्यैव' (अ० 2, सू० 49) इत्यत्र सूत्रद्वये, स्वामिविशेषो वक्ष्यते / नृतिरश्चां लब्धिप्रत्ययं वैक्रियं भवति, तद्यथा-संयतः करोति वैक्रियं नियमत एव प्रमत्तस्तदाःभवति, उत्तरकालं च तां लब्धिमुपजीवन् आहारकस्यापि प्रमत्तो निष्पादकः, निष्पत्त्युत्तरकालं तु नियमत एवाप्रमत्तो भवतीत्यस्मात् स्वामिविशेषाद् वक्ष्यमाणान्न लब्धिद्वयमेकस्यैकदेति, आहारकलब्धिमुपजीवन्नपि शुभाध्यवसायत्वादप्रमत्त इति // 44 // ___उक्तानि शरीराणि, किं पुनरेषां प्रयोजनम् ? उपभोगः, उपभोगवन्ति शरीराणि, तेषां तु सूत्रम्-निरुपभोगमन्त्यम् // 2-45 // टी–अथवा इहौदारिकादिशरीरभावे तावत् सुखदुःखोपभोगो दृष्टस्तत् किं यदा _ कार्मणं विग्रहगतौ तदाऽनेन सुखदुःखोपभोग आत्मना क्रियते नेति / कार्मणस्य बाह्योप बाप उच्यते-निरुपभोगमन्त्यम् / अथवा शरीराणामिन्द्रियत्वं सुखदुःखो पलब्ध्यधिष्ठानत्वं व्यापारश्चास्ति, कार्मणमपि च शरीरन्यायवचनात् व्यापारवच्च विग्रहगतौ कर्मयोगवचनाच, परकारणत्वाच // नन्विन्द्रियवदङ्गोपाङ्गनिर्वृत्तेरभावात् तत् किमस्मिन्नर्थोपलब्धिसुखदुःखोपभोगविशेषो नास्ति लब्धीन्द्रियसद्भावे सतीति?। भोगाभाव: Page #231 -------------------------------------------------------------------------- ________________ सूत्र 45] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 205 उज्यने-तान्येव सोपभोगानि समस्तोपभोगकारणत्वात् कालान्तरावस्थानाच्च, इदं तु निरुपभोगमन्त्यम् // ____भा०-अन्त्यमिति सूत्रक्रमप्रामाण्यात् कार्मणमाह / ततू निरुपभोगम् / न सुखदुःखे तेनोपभुज्यते, न तेन कर्म बध्यते, न वेद्यते, नापि निर्जीयत इत्यर्थः / शेषाणि तु सोपभोगानि / यस्मात् सुखदुःखे तैरुपभुज्यते कर्म बध्यते वेद्यते निर्जीयते च, तस्मात् सोपभोगानीति // 45 // टी-अन्त्यमिति सूत्रक्रमप्रामाण्यादिति। अन्ते भवमन्त्यम् , कस्यान्त्यमिति चेद अत आह-मूत्रक्रमप्रामाण्यादौदारिकादिशरीराणां चतुर्णा पर्यन्तवर्ति कार्मणमाह, सूत्रकारादविभक्तोऽपि हि भाष्यकारो विभागमादर्शयति, व्युच्छित्तिनयसमाश्रयणात् / औदारिकादिशरीरचतुष्टयपर्यन्तवति तत् निरुपभोगं निरस्तोपभोगं निरुपभोगम्, उपभोगो वक्ष्यमाणः प्रतिविशिष्ट एव, तदभावानिरुपभोगमुच्यते / कः पुनरसावुपभोगो यमधिकृत्योच्यते निरुपभोगम् ? अत आह न सुखदुःखे तेनोपभुज्यते इति / मनोज्ञामनोज्ञशब्दादि विषयसम्पर्कजं च मुखं दुःखं न तेनोपभुज्येते, निवृत्युपकरणेन्द्रियाभावाल्लब्धीन्द्रियसन्निधौ सत्यपि, उमयेऽपि हि शब्दादयो विषया निवृत्त्युपकरणेन्द्रियविरहविलेन कार्मणेन नोपभोक्तुं शक्यन्त इति निरुपभोगम्, असङ्ग्यातसमयनिवृत्तश्च छमस्थस्य सुखदुःखोपभोगः, विग्रहगतेश्व चतुःसमयपरत्वात् सोऽयुक्तः, तथा न तेन कर्म बध्यते, न वेद्यते, नापि निर्जीयते इत्यर्थः / उपभोगविशेषनिषेधप्रदर्शनार्थमिदमातन्यते, तेन कार्मणेन वपुषा न खलु कर्म बटुं पार्यते, अभिव्यक्तकारणाभावात, कारणैर्हि कर्ता व्यापारमातनोति पाणिपादश्रोत्रादिभिः तद्यथा-औदारिकशरीरी मनभिसन्धानपूर्वकमाकृष्याकान्तं शिलीमुखं मृगवधाय क्षिपति, असत्प्रलापादि बहु भाषते, अदत्तद्रविणमादत्ते, पाण्यादिना योपितमभिगच्छति, सकलकायव्यापारेण परिगृह्णाति मनोवाकायव्यापारैः, एवमेष कर्मबन्धकरणकलापस्तदा न समस्त्यभिव्यक्तस्वरूपः कार्मणे, तद्धि पाणिपादमुखलोचनाद्यवयव विनिमुक्तं मनोवाग्व्यापाररहितं च, अतो न हिंसाद्यास्रवकृतं तेन कर्म बध्यते / तथा तेन न वेद्यते, न निर्जीयते वा, एवंविधास्रवजनितकर्म तेन शरीरकेण नानुभूयते,तस्य छुपभोगो नारकादिगतिषु नान्तर्गतौ अत्यल्पकालत्वात् औदारिकवैक्रियाभावाच्च, अनुभूयमानमेवेह निर्जीयते नीरसतामापाद्यमानं परिशटदात्मप्रदेशेभ्यः प्रत्यस्तस्नेहलेशमामुक्तरसकुसुम्भकवनिर्जीर्णमुच्यते, न चैतत् तस्यामवस्थायां मनोव्यापाराभावात् प्रतिपत्तुमुत्सहन्तेऽतिकोविदाः, तथा कार्मणं हि कर्मसङ्घातः स चोपभोग्यो भवति, नोपभोजकः / औदारिकाद्यप्येवमेवेति चेत्, न, बाह्येन्द्रियपक्षतामङ्गीकृत्योपभोक्तृत्वमौपचारिक नत्यन्तप्रसिद्धम्, अतोऽभिव्यक्तसुखदुःखकानुवन्धानुभवनिर्जरालक्षणमुपभोगमाधाय 1 ' णत्वात्राऽन्तराव' इति क-ख-पाठः / 2 'पर्यायनयसमाश्रयणात्' इति ख-टी-पाठः। 3 'प्रत्यस्तनेहळेशमामुक्तरस' इति क-ख-पाठः,'पादलेशानामुक्त' इति ग-पाठः / Page #232 -------------------------------------------------------------------------- ________________ 206 तत्त्वार्थाधिगमसूत्रम् [अध्यायः वेतसि कार्मणमनुपभोगमध्यगायि मरिणा इत्येवमुपात्तप्रतिविशिष्टोपभोगव्यतिरिक्तेनोपभोगेन यदि तदभिसम्बध्यते गमनादानादिक्रियारूपेण कषाययागप्रत्ययेन बन्धेन न कश्चिद् दोषः / एवंविधः सर्वथोपभोगस्तस्य प्रतिषिध्यते नोपभोगसामान्यमिति / अथ कार्मणव्यतिरिक्तानि शरीराणि कथं प्रतिपत्तव्यानीति? अत आह-शेषाणि तु सोपभोगानीत्यादि। उक्त कार्मणम्, तद्वयतिरिक्तान्यौदारिकवैक्रियाहारकतैजसानि शेषशब्देनाभिधित्सितानि, तानि च सोपभो . गानि प्रतिपत्तव्यानि / कथम् ? औदारिके तावन्निवृत्त्युपकरणेन्द्रियसद्भावाआदारकादाना दिष्टानिष्टविषयसम्पृक्तौ सत्यां सुखदुःखोपभोगः परिस्फुटपरिनिष्पन्न पाणिपादावयवकलापत्वाच्च, वधानृताद्यास्रवद्वारवर्तित्वात् कर्मजन्धानुभवनिर्जराः सिद्धाः, वैक्रियेऽप्येवमेव भावना कार्या, आहारके तु शरीरेन्द्रियाभिव्यक्तौ सत्या सुखदुःखोपभोगः सम्भवति // नन्वप्रमत्त इत्युक्तं प्राक को दोषः ? सत्यामपि शब्दाद्युपलब्धौ न प्रमाद्यत्यस्याम्, अनवस्थितशुभाशुभगुणाः खल्वमी शब्दादयो विषया न मनस्विनः परितोषमाधातुं क्षमा इत्यनित्यतावगमपूर्विकां वैराग्यवासनामेवाधिवसति, न तूत्कर्षमायाति, निन्दा वा समादत्ते, किन्तु यथावस्थिततया स्वस कल्पशिल्पविरचनां विधृय तान् विषयान्स विद्वान् परिणमयति, कर्मबन्धानुभवनिर्जरणानि त्वस्य तथाविधास्रवजनितानि न सम्भाव्य न्तेऽप्रमत्तत्वादेव, न चावश्यं कार्मणेऽसम्भवता, सकलेनोपभोगेन तत्र भवितव्यम्, सुखदाखोपभोगेनापि हि भोगवदेवेष्यते न निरुपभोगं यथासम्भवमर्थप्रतिपत्तेः सामान्यतो वा सम्भवः, अनुभवनिजेरणे तु प्राक् कृतकर्मणोऽपि स्तः, कर्मबन्धस्त्वप्रमादत्वादतिदुर्घटः, तथाविधो योगप्रत्ययः पुनः केवलिनोऽपि न निवर्तत एवेति प्रतिपत्तव्यम् / तैजसशरीरेण तेजसि निसृष्टे दग्धे वैरिणि मनसः परितोषसुखमापाद्य जायते परमानन्दः, तथाऽनुग्राह्यप शिशिरतेजोनिसर्गेण परित्राते प्राणिनि प्रीतेरनुत्तमायाः प्रादुर्भावः / दुःखमपि वेद्यते तपः प्रभावादिभिर्बलवता परिरक्षितस्य द्विषोऽन्यस्य वा स्वनिसृष्टे तेजस्यप्रभवति मनागप्यपकर्तुमुपकर्तुं वा तैजसशरीरभाजः स्फुटमेव / एष चैवंविधसुखदुःखोपभोगस्तैजसनिमिच इति तेन द्वारेणोपजायते, अतस्तेन सुखदुःखे उपभुज्येते, शापानुग्रहप्रवणत्वात् , तद्द्वारेणैव पुण्यस्यापुण्यस्य वा बन्धः तत्पूर्विकवानुभवनिजेरे न प्रतिषेद्धं पार्यते, अतस्तदपि सोपभोगम्, समुद्घातनिसर्गात्मत्वात् / लब्धिप्रत्ययमेतदेवं भवतु, यत् पुनः सर्वदा समस्ति सर्वप्राणिषु तत् कथं सोपभोगम् ? तदपि हि परिगृहीताहारपाककारित्वात् सम्यकपरिणामापादनात् सुखमाधत्ते, तद्विपरीततया तु व्याप्रियमाणं तदेव दुःखाय सम्पद्यते, कर्मवन्धानुभवनिजेरास्तु प्रत्येकं तस्य न सम्भाव्यन्ते, औदारिकादिसहवर्तित्वात् , अतः पूर्वकेणाप्युपभोगेन सोपभोग भवत्येवेति मा न परितुषः / शेषाणि तु सोपभोगानि इत्यस्यैव वचनस्य विवरणद्वारेण भाष्यप्रणयनं, यस्मादित्यादि / अन्येनोपभोगेन सोपभोगानि मा ग्रहीत् कचिदतः सुहृद भूत्वा सूरिराचष्टे, औदारिकादिभिः सुखदुःखोपभोगः कर्मबन्धानुभवनिर्जराश्च व्याख्यात Page #233 -------------------------------------------------------------------------- ________________ सूत्रे 46-47] स्वापज्ञभाष्य टीकालङ्कृतम् 207 न्यायेन क्रियन्ते तस्मात् सोपभोगानि इति निगमनम् , कार्मणमपहायकं शेषाण्येवंविधेनोपमोगेन सोपभोगानीति // 45 // भा०-अत्राह-एषां पश्चानामपि शरीराणां सम्मूर्च्छनादिषु त्रिषु जन्मसु किंक जायत इति ? / अत्रोच्यते टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः / अजानानः प्रश्नयति-एषामौदारिकादीनां वपुषां पश्चानामपि त्रिषु जन्मसु सम्मूर्च्छनादिषु किं शरीरं क जन्मनि जायते सम्भवत्युत्पद्यते वा ? / अत्रोच्यते सूत्रम्-गर्भसम्मूछैनजमाद्यम् // 2-46 // भा०-आयमिति सूत्रक्रमप्रामाण्यादौदारिकमाह / तद् गर्भे सम्मृर्छने वा जायते // 46 // ___टी-आदौ भवमाद्यं शरीरप्रकरणप्रथमसूत्रक्रमप्रामाण्यादौदारिकमाह, तद् गर्भे जन्मनि सम्मूर्च्छने वा जायते-सम्भवतीति, जनिः जन्मनि प्रत्येकमभिसम्बध्यते / गर्भ जातं गर्भाद् वा गर्भजमेवं सम्मूछेनजमपि, उक्तलक्षणे च गर्भसम्मूछने जन्मनामतो गर्भज न्मनां सम्मूर्छनजन्मनां च प्राणिनामौदारिकं तानद् भवति, न त्ववधारऔदारिकशरीरस्य - वामिन णमौदारिकमेव, तैजसकार्मणयोरपि तत्र सम्भवात् , लब्धिप्रत्ययवैक्रियाहा रकयोवो गर्भजन्मन्युत्तरकालभावित्वात् // ननु च भूते डविधानं तत् कथं भाष्यकारो विवृणोति जायत इति वर्तमानकालाभिधायिना शब्देनेति ? / उच्यते न दोषोऽयं यसाज्जातमुत्पन्नमुत्तरकालमपि पुनः पुनः पर्यायापेक्षया सम्भवतीत्युपआदारकममाणम् पन्न एव निर्देश इति / एतच्च शरीरं जघन्येनाङ्गुलासङ्ख्येयभागप्रमाणमुत्कर्षतो योजनसहस्रप्रमाणमपि // 46 // सूत्रम्-क्रियमौपपातिकम् // 2-47 // भा०-वैक्रियं शरीरमौपपातिकं भवति। नारकाणां देवानां वैक्रियस्वामिनः चेति // 47 // टी०–उपपातजन्मोपपातशब्देनोच्यते तस्मिन् भवमोपपातिकं वैक्रियं शरीरं, तन्निमित्तत्वादवधिवत् सहजम् , तच्च सामांन्नारकदेवानामेव न शेषाणाम् / द्विविधं च - तद्-भवधारकमुत्तरवैक्रियं च, तत्राद्यस्य जघन्येनाङ्गलासङ्ख्येयभागः वैक्रियप्रमाणम् / - प्रमाणम्, उत्कृष्टं पञ्च धनुःशतानि, उत्तरवैक्रियं जघन्येनाङ्गलसङ्ख्येयभागप्रमितमुत्कर्षेण योजनलक्षणप्रमाणमिति // 47 // Page #234 -------------------------------------------------------------------------- ________________ 208 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः सूत्रम्--लब्धिप्रत्ययं च // 2-48 // भा०-लब्धिप्रत्ययं च वैक्रियं शरीरं भवति / तिर्यग्योनीन लब्ध्या वैकियसद्भावः मनुष्याणां चेति // 48 // ____टी०-लब्धिप्रत्ययं च वैक्रियं चेत्यादि / चशब्दादुत्कृष्टं वैक्रियपुरचीचरद् भाष्यकारः / तपोविशेषजनिता लब्धिस्तत्प्रत्ययं-तत्कारणमेतच्छरीरं भवत्यजन्मर मिदमित्यर्थः / अथवा गर्भजन्मनामेवेदमुत्तरकालं भवतीति न कश्चिद् दोषः / लब्धिप्रत्यवैक्रियशरीरप्रतिविशिष्टस्वामिनिर्दिदिक्षया आह-तिर्यग्योनीनां मनुष्याणां चेति / सामान्याभिधानेऽपि लब्धिप्रत्ययवचनाद, भूयसां गर्भव्युत्क्रान्तितिर्यङ्मनुष्याणामिदं द्राः व्यम् , तपोविशेषानुष्ठानाद्, वायोश्च वैक्रियं लब्धिप्रत्ययमेव, शेषतिर्यग्योनिजानां मध्ये, नान्यस्येति // 48 // अत्राह-अथाहारकं किंलक्षणमिति ? / अत्रोच्यतेसूत्रम्-शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधर एव / / 2-49 // भा०-शुभमिति शुभद्रव्योपचितं शुभपरिणामं चेत्यर्थः / विशुद्धमिति आहारकस्य स्व. विशुद्धद्रव्योपचितं असावद्यं चेत्यर्थः / अव्याघातीति आहारक रूपम् शरीरं न अव्याहन्ति न व्याहन्यते चेत्यर्थः // ____टी-इदमपि लब्ध्यपेक्षमेव, किन्तु वैक्रियादयं विशेषः शुभादिकृतः, अजन्मजन च सामान्यम् / शुभमिति शुभद्रव्योपचितमित्यादि / शुभानि द्रव्याणीष्टवर्णगन्धरसस्पर्शभाञ्जि तैः प्रचितं-निवर्तितम्, शुभः परिणामश्चतुरस्र संस्थानमाकारो यस्य तच्छुभपरिणामं चाहारकं भवति / चशब्दः समुच्चये / विशुद्धद्रव्योपचित शुभपरिणामं चेति / विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः / स्वच्छस्फटिकशकलमिव सकलवस्तुप्रतिबिम्बाधारभूतं विशुद्धद्रव्योपचितमुच्यते / अपरे वर्णयन्ति-विशुद्धं शुक्लमत्र विवक्षितम्, असावधमिति अवयं-गर्हिते-पापं सहावयेन सावद्यम्, न सावद्यमसावद्यम्, सावधं हिंसादिप्रवृत्तिर्यसात, इदं न हिंसादौ प्रवर्तते, न च हिंसादिप्रवृत्तितः उत्पद्यते, तस्माद विशुद्धमसावद्यमाहारकमित्युच्यते / अव्याघातीति व्याहन्तुं शीलमस्य व्याघाति, न व्याघाति अव्याघाति, आहारकशरीरं न किञ्चिद् व्याहन्ति-विनाशयति, न व्याहन्यते इति, न च तदन्येन पदार्थेन व्याहन्तुं शक्यते / कथं पुनरिदमेकेन यत्नेनोभयं लभ्यते कर्ता कर्म चेति ? कुल्ल्युटो बहुलाभिधानात् / निर्वृत्तिकार्यहेतुसमुच्चयार्थश्वशब्दः // 1 सूत्रे तैजसमपि ' इत्यधिकं क-ख-पुस्तकयोः / Page #235 -------------------------------------------------------------------------- ________________ सूत्र 49]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 209 . भा०-तच्चतुर्दशपूर्वधर एव / कस्मिंश्चिदर्थे कृच्छ्रेऽत्यन्तसूक्ष्मे सन्देहमापन्नो निश्चयाधिगमार्थ क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौआहारकस्य दारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्ययमेवोत्पाद . यति / पृष्ट्वाऽथ भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्मजत्यन्तर्मुहूर्तस्य // ___टी-तदेवंविधमाहारकं चतुर्दशपूर्वधर एव-लब्धिप्रत्ययमेवोत्पादयतीति क्रियोपरिष्टादभिधास्यते / चतुर्दशेति सङ्ख्या , पूर्व प्रणयनात् पूर्वाण्युच्यन्ते, तानि धारणा .. ज्ञानेनालम्बत इति चतुर्दशपूर्वधरः, स च द्विविधः-भिन्नाक्षरोभिन्नाचतुर्दशपूर्वधर क्षरच, ते च यस्यैकैकमक्षरं श्रुतज्ञानगम्यपर्यायैः सत् कारिकाभेदेन भिन्नं वितिमिरतामितं स भिन्नाक्षरः, तस्य च श्रुतज्ञानसंशयापगमात् प्रश्नाभावस्ततश्चाहारकलब्धितामपि नैवोपजीवति विनालम्बनेन, स एव श्रुतकेवली भण्यते, शेषः करोत्यकृत्स्नश्रुतज्ञानलाभादवीतरागत्वाच, अत एव केचिदपरितुष्यन्तः सूत्रमाचाकृतन्यासादधिकमधीयते " अकृत्स्नश्रुतस्यर्दिमतः " इत्यनेन विशेषणकलापेनेति, एवंविधश्चतुर्दशपूर्वधर एव सञ्जातलब्धिस्तन्निवर्तयति, नान्यः श्रुतविदन्यो वा अवधारणफलम् / किमर्थं पुनरसौ तां लब्धिमुपजीवतीत्याह-कस्मिंश्चिदर्थे इत्यादि / श्रुतज्ञानगम्ये कस्मिंश्चिदेवार्थेऽत्यन्तगहने सन्दिहानस्तदर्थनिश्चितये विदेहादिक्षेत्रवर्तिनोऽर्हतश्चरणकमलाभ्याशमौदारिकेण वपुपा न खलु पार्यते गन्तुमित्यवबुध्य सञ्जातर्द्धि विशेपो लब्धिप्रत्ययमेव नान्यप्रत्ययमुपजनयति आहारकशरीरं, गत्वा च तत्राशु भगवन्तमालोकितसमस्तलोकालोकमालोक्याभिवन्ध पृष्ट्वा च विच्छिन्नसंशयः परिभूतपाप्मा पुनरागत्य तमेव देश यत्र प्राग गच्छतौदारिकमनाबाधबुद्धया न्यासकवनिक्षिप्तं स्वप्रदेशजालावबद्धं तदवस्थमास्ते, ततो विहायाहारकमुपसंहारमानीयात्मप्रदेशजालं प्रागौदारिकमेवानुप्रविशति, एष चारम्भात् प्रभृत्या अपवर्षात् सर्वोऽन्तर्मुहूर्तपरिमाणः कालो भवतीति, प्रमाणं चास्यावरतो न्युनः पाणिरुकर्षण सम्पूर्ण इति // अथ तैजसकार्मणे कस्मिन् जन्मनि समुद्भवत इति नानयोर्नियमः, सर्वत्राप्रतिहतशक्तित्वात्, सर्वजन्मसु सहतैजसं कार्मणं वा स्यान्न तु लब्धितैजसम्, अतो लब्धिप्रस्तावमुपजीवन भाष्यकारः तैजसमपीत्याह तैजसे हेतुः भा०-तैजसमपि शरीरं लब्धिप्रत्ययं भवति / ___टी-तेजोविकारस्तैजसं सर्वस्योपलक्षणं रसायाहारपाकजननम् , तचावश्यं सर्वप्राणिविषयमभ्युपगन्तव्यम् , अन्यथा शरीरपदे तैजसशरीराणि बद्धान्यनन्तानि अनन्तोसर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि कालतः, क्षेत्रतोऽनन्तानन्ता लोकाः, द्रव्यतः सिद्धेभ्योऽनन्तगुणानि सर्वजीवानन्तभागोनानि, किं पुनः कारणमनन्तानि ? तत्स्वामिनामा. __1 ' दृष्ट्वा च ' इति ख-पाठः, ' दृष्ट्वा' इति तु घ-पाठः / 2 'लब्धिसतीमपि ' इति प्रतिभाति / Page #236 -------------------------------------------------------------------------- ________________ कामेण 210 तस्वार्थाधिगमसूत्रम् [ अध्यायः 1 नन्त्यादित्येष ग्रन्थः सर्वो विघटेत, लन्धिप्रत्यय एवाङ्गीक्रियमाणे सैजसवपुषि, अतो विष मानमपि सर्वासुमत्सु सहजमनादृत्य तैजसं लब्ध्यधिकारे लब्धिप्रत्ययमेवाचष्टे नेतरदिति / तैजसं शरीरं तैजसशरीरलब्धिकारणसमुद्भूतशक्ति भवति तपोविशेषानुष्ठानात् कस्यचिदेव जातुचित, न सर्वस्येति / इदानीं सकलशरीरबीजभूतं कार्मणं नियमेन दर्शयन्नाह___ भा०-कार्मणमेषां निवन्धनमाश्रयो भवति / तत्कर्मत एव भवतीति धन्धे पुरस्ताद् वक्ष्यति / कर्म हि कार्मणस्य कारणमन्येषांप शरीराणामादित्यप्रकाशवत् / यथाऽदित्यः स्वमात्मानं प्रका शयति अन्यानि च द्रव्याणि, ने चास्यान्यः प्रकाशकः, एवं कार्मणमात्मनध कारणमन्येषां च शरीराणामिति // टी-कार्मणमेषां निबन्धनमाश्रयो भवतीत्यादि / कर्मणो विकारः कार्मण, तदेषामौदारिकादीनां शरीराणां निबन्धनं बीजमाश्रयः सकलशक्त्याधारत्वात् कुडथमिव चित्रकर्मणो भवति / आमूलमुच्छिन्ने तु भवप्रपञ्चप्ररोहबीजे कार्मणे वपुषि न पुनर्विमुक्ति भाजः शरीरकाणा(१)मधियन्त्यपि प्रक्षालितसकलकल्मषाः, तच्चैवंविधं कार्मणं कर्मभ्य एव झानावरणादिभ्यो जायते न पुनरन्यत् तस्य कारणमस्ति, ज्ञानावरणादिकं चाष्टमेऽध्याये बन्धाधिकारे पुरस्तात् अग्रे वक्ष्यति समूलोत्तम् , एतदेव चार्थजातं स्पष्टयन्नाह-कर्म हीत्यादि। यस्मात् ज्ञानावरणादिकर्म कार्मणस्य कारणं तदात्मकत्वात् अन्येषां चौदारिकादिशरीराणाम्, न च स्वात्मनि क्रियाविरोधः, आदित्यप्रकाशवत् / प्रकाशं दृष्टान्ततयोपन्यस्य विवरणकाले पथाऽदित्य इत्याह तदेतत् कथम् ? न खलु सर्वथाऽऽदित्यात् प्रकाशो व्यतिरिक्त इत्यभ्युपेतुं शक्यम् , तेन प्रकाशस्वभावः प्रकाशमयः आदित्य इत्यनेन न कश्चिद् विशेषः, आदित्यप्रकाशवदादित्यवद् वाभिहितः, स यथा तिग्मांशुः स्वमण्डलं प्रकाशयत्यन्यानि च स्तम्भकुम्भादिद्रव्याणि, न चान्यपदार्थः प्रकाशकः सवितृमण्डलस्यानवस्थाप्रसक्तरभ्युपेतुं शक्यः॥ ननु च घटायप्रकाशात्मकत्वात् प्रकाशयतु भास्वान्, मृर्तिस्तु प्रकाशात्मिकैव तस्याः कि प्रकाश्यते तत्स्वभावत्वादिति ? / उच्यते-यद्यपि प्रकाशस्वभावा मूर्तिस्तथापि सा प्रकाश्यैव भवति, प्रमाणवत् , प्रमाणं हि स्वपररूपप्रकाशकारीप्यते, अन्यथा चानेकदोषापत्तिः स्यात् / एवं कार्मणमित्यादि / एवमेतेनादित्यप्रकाशनिदर्शनेन कार्मणं शरीरमात्मनश्च स्वरूपस्य कारणमन्येषां चौदारिकादिवपुषाम् , न पुनर्ज्ञानावरणादिकर्मव्यतिरिक्तमस्य कारणमन्वेषित कार्मणतजस- व्यम् , कर्ममात्रत्वात् कर्मस्वभावत्वात् कार्मणस्येति / एतयोश्च तैजसप्रमाणम् कार्मणयोरवरतः प्रमाणमगुलासंख्येयभागः उत्कृष्टतश्वौदारिकशरीर १'परस्ताद्' इति घ-पाठः। 2 न चास्याम्यैः प्रकाशा' इति ख--पाउः। 3 विभक्तिभाजः इति ख-पाठः। ४'मूलोत्तरभेदम् ' इति ख-पाठः। Page #237 -------------------------------------------------------------------------- ________________ सूत्र 19 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 211 प्रमाणे केवलिनः समुद्घाते लोकप्रमाणे वा भवतः मरणान्तिकसमुद्घाते वा आयामतो लोकान्ताल्लोकान्तायते स्यातामिति // भा०-अत्राह-औदारिकमित्येतदादीनां शरीरसंज्ञानां कः पदार्थ इति / अत्रोच्यते-उद्गतारमुदारम् , उत्कटारमुदारम् , उद्गम औदारिकस्य वारणा एब वोदारम् , उपादानात् प्रभृति अनुसमयमुद्गच्छति वर्धते जीर्यते शीर्यते परिणमतीत्युदारम्, उदारमेवौदारिकम् , नैवमन्यानि / यथोद्गमं पा निरतिशेष, ग्राह्यं छेद्यं भेद्यं दाह्यं हार्यमित्युदाहरणादौदारिकम् , मैवमन्यानि, उदारमिति च स्थूलनाम। स्थूलमुद्तं पुष्टं वृहन्महदिति, उ. दारमवौदारिकम् / नैवं शेषाणि / तेषां हि परं परं सूक्ष्ममित्युक्तम् (अ०२, सू०३८)॥ टी-संशयानः पृच्छति, औदारिकमिति पदमादौ येषां क्रियादिपदानां तेषाम तदादीनां कोर्थोत्र विवक्षितः ? एतदुक्तं भवति-किमेता औदारिकादिसंज्ञा अर्थवत्ता जबुगता विधीयन्ते आहोस्विद् यच्छयेति ? / अन्वर्थसंज्ञा एता न यादृच्छिक्य इति भाष्यकदादर्शयति उद्गतारमुदारमित्यादिना भाष्येण / अन्वर्थत्वाच्च संज्ञयैव लक्षणभेद पपति, पृथग्लक्षपाव्यवस्थानं वा, अत एवान्वर्थसंज्ञाविवरणावमन्यानीति प्रत्येकमन्यलक्षगच्यवच्छेदेनाम्यलक्षणाभिधानात, एभ्य एव विशेषेभ्यः शरीराणां नानात्वं सेत्स्यति // तुच शरीरप्रकरणप्रथमसूत्रे एतद् भाष्यं युक्तं स्यात्, इह तु प्रकरणान्ताभिधाने न किञ्चित् प्रयोजनं वैशेषिकमस्तीति / उच्यते-तदेवमयं मन्यते, तदेवेदमादिसूत्रमाप्रकरणपरितमाशेः प्रपञ्च्यते, अथवा प्रकरणान्ताभिधाने सत्यमेव न किश्चित् फलमस्त्यसूत्रार्थत्यादता क्षम्यतामिदमेकमाचार्यस्येति, तत्र उद्गतारमुदारम् इति / उद्गता-उस्कृष्टा आरा-छाया यस्य तद्गतारमुदारं प्रधानमित्यर्थः / तीर्थङ्करगणधरशरीराङ्गीकरणादेवमुच्यते, नहि तीर्थकरादिशरीरेभ्योऽन्यत् प्रधानतरमस्ति त्रिलोक्यां शरीरमिति / अथवा उत्करारमुदारम् / उत्कृष्टा आशा-मर्यादा-प्रमाणं यस्य तदुत्कटारमुदारम् , अवस्थितसातिरेकयोजनसहस्रप्रमाणत्वात् , अन्यच्चैवंविधं नास्ति // ननु वैकियमधिका योजनलक्षेति सत्यमेवमेतद् , अवस्थितं तन्न भवति, पञ्चधनुःशतप्रमाणमेवावस्थितं वैकियम् , औदारिकं पुनरवस्थितमेवमुच्यते / उद्गम एव वा उदारः, उद्गमनं उद्गमः-प्रादुर्भावः स एव चोदारशब्देनोच्यते / यत उपादानात् प्रभृतीत्यादि / उपादानं हि शुक्रशोणिवाद्यौदारिकस्य तद्ब्रह्णप्रभृत्येव चानुसमयमुद्गच्छति अविभज्यमानस्वरूपः कालविशेषः समयोऽभिधीयते, अतः प्रतिसमयमेव तदुत्तरामुत्तरां व्यवस्था स्वीयपर्याप्त्यपेक्षामुद्गच्छति-प्राप्नोति, न तदस्ति कालविवरं यत्रावस्थान्तरं न समासादयतीति एवं च भाष्यकारो दर्शयति-तत् वर्धते वयःपरिणामेनोपचीयमानमूर्ति प्रतिवेलमामाव्यते, जीर्यत इति जरामधिगच्छति वयोहानिमामोति, शीर्यत इति शिथिलसन्धि 'पारणा• ' इति घपाइः / / 'मविपक्षयमा• ' इति क-पाठः / Page #238 -------------------------------------------------------------------------- ________________ 212 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 पन्धनमालम्बमानचर्ममण्डलमुपलक्ष्यते तदेव जातुचिदतः शीर्यत इत्युच्यते, परिणमतीति समन्ताजराभारविधुरमानमति परिपेलवग्रहणशक्तीन्द्रियग्रामं वलीवलयलेखाविचित्रमन्यदिवोपजायते, अतो मुहुर्मुहुरुद्गमनाद् उदारमेवौदारिकं स्वार्थे प्रत्ययविधानात् / नैवमन्यानीति, यथेदमौदारिकमेवंविधानेकविशेषणविशिष्टं न तथा वैक्रियाहारकतैजसकार्मणानि, नहि वैक्रियस्य जरसा विवृद्धया वा प्रतिक्षणं योगोऽस्त्यवस्थितत्वात् तथाऽऽहारकस्य, तैजसकार्मणयोस्तु सुतरां न समस्त्यङ्गोपाङ्गाद्यनिवृत्तेः / अथवाऽन्यथा व्युत्पत्तिः-यथोद्गमं पानिरतिशेषमित्यादि भाष्यम् / यो य उद्गमो यथोद्गमं निरतिशेष निःशेषं निरतिशयं वा मांसा. स्थिस्नायवाद्यवबद्धत्वात् सर्वमेव तुल्यम् , ग्राह्यादिधर्मयोगाद् गृह्यते पाण्याद्यवयवैरिन्द्रियैर्वा, छिद्यते परश्वादिना, भिद्यते नाराचादिना, दह्यतेऽग्निभास्करादिना, हियते महावायुवेगेनेत्येवमादिभिर्विदारणादुदारमुच्यते, पृषोदरादित्वाच्च संस्कारयत्युदारणादौदारिकम् / नैवमन्यानीति सुज्ञानम् / नहि वैक्रियादिषु मांसास्थिग्राह्यादयो विशेषाः सन्ति / अथवाऽन्यथा उदारमिति चेत्यादि / चशब्दोऽथवेत्यस्यार्थे / स्थूलस्याभिधानमुदारमिति स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदुदारं स्थूल मिति / अस्यैव पर्यायान् सुखावबोधार्थमाख्यातिस्थूलमुद्गतं पुष्टं बृहन्महदित्युदारमेवौदारिकम् / स्थूलत्वाद् भेण्डवत् ऊवं गतमुच्छ्रा. यमुद्गतमतिप्रमाणत्वात् , पुष्टं शुक्रशोणितादिप्रचितत्वात् , बृहत् प्रतिक्षणं वृद्धियोगात्, योजनसहस्रप्रमाणावस्थितारोहपरिणाहत्वान्महत् , उदारमेवौदारिकमित्यनेन न तनियमः किन्तु प्रदर्शनमेतत् क्वचित् स्वार्थे क्वचिन्निवृत्ताद्यर्थेष्विति / नैवं शेषाणि वैक्रियादीनि / किं कारणम त आह-तेषां हि परं परं सूक्ष्ममित्युक्तं (2,38) यसात् तेषां वैक्रियादीनां परं परं प्राक सूक्ष्ममभिहितं तस्मान्नैवं शेषाणीति // भा०-वैक्रियमिति / विक्रिया विकारो विकृतिर्विकरणमित्यनर्थान्तरम् / _ विविधं क्रियते / एकं भूत्वा अनेकं भवति / अनेकं भूत्वा एक वैक्रियस्य विस्तरेण / " भवति / अणु भूत्वा महद् भवति / महच्च भूत्वाऽणु भवति / एकाकृति भूत्वा अनेकाकृति भवति / अनेकाकृति भूत्वा एकाकृति भवति / दृश्यं भूत्वा अदृश्यं भवति / अदृश्यं भूत्वा दृश्यं भवति / भूमिचरं भूत्वा खेचरं भवति / खेचरं भूत्वा भूमिचरं भवति / प्रतिघाति भूत्वा अप्रतिघाति भवति / अप्रतिघाति भूत्वा प्रतिघाति भवति / युगपञ्चैतान भावाननुभवति / नैवं शेषाणीति / विक्रियायां भवति, विक्रियायां जायते विक्रियायां निर्वय॑ते, विक्रियैव वा वैक्रियम् // ___टी०- वैक्रियमित्यादि भाष्यम् / प्राक तावत् सुखावबोधार्थ पर्यायानाचष्टे-विक्रिय विकारो विकृतिर्विकरणमित्यनान्तरम् / विविधा विशिष्टा वा क्रिया विक्रिया, तस्य भवं वैक्रियम् , प्रकृतेरन्यत्वं विकारः, विचित्रा कृतिर्विकृतिः, विविधं क्रियत इति विकरणम् व्याख्या Page #239 -------------------------------------------------------------------------- ________________ सूत्र 49 ] स्वोपनमाष्य-टीकालङ्कृतम् 213 एतेऽनान्तरमभिदधति ध्वनयः / एतदधुना स्पष्टयनाह-विविधं क्रियत इत्यादिना / विविधमनेकप्रकारं तद् वैक्रिय क्रियते, कथं पुनस्तदित्युच्यते-एक भूत्वा अनेकं भवति विकर्तुः समासादितवैक्रियलब्धेरिच्छानुविधानात् / एकं भवतीत्यादि भाष्यं सुज्ञानं यावत् प्रतिघाति भूत्वेत्यादि / प्रतिहननशीलं भूत्वा स्थूलत्वात सूक्ष्मावस्थानमनुप्राप्तं सदप्रति. घाति भवति, एककालमेव च सर्वानभिहितलक्षणान् भावान् विकारान् वेदयते, नैवमौदारिकाहारकादीन्यतो विशिष्टलक्षणमेवेदं विज्ञेयम् // तथा चोक्तं भगवत्यां तृतीयशते पञ्चमोद्देशके-" अंणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थीस्वं जाव संदमाणियारूवं वा विउवित्तए 1 / हंता पभू / अणगारे णं भंते ! भावियप्पा केवइयाई पभू इत्थीरूवाई विउवित्तए ? / गोयमा ! से जहा नामए जुवतिं जुवाणे हत्थेणं इत्यंति गिहिज्जा चक्कस्स वा नाभी अरगाउत्ता सिया, एवमेव गोयमा! अणगारे णंभावियपावेउब्वियसमुग्घाएणं समोहणित्ता संखिज्जाई जोयणाई दंडं निसिरति जावदोच्चंपि वेउव्वियसमुग्धाएणं समोहणित्ता पभू केवलकप्पं जंबुद्दीवं दीवं बहूहिं इत्थीरूवेहिं आइण्णं वितिकिण्णं जाव करित्तए, अदुत्तरं च णं गोयमा ! पभू तिरियमसंखेज्जदीवसमुद्दे भरिए विउवित्तए जाव नो चेव णं संपत्तीए विउव्वति वा विउव्वस्संति वा" (सू० १६१)॥तथा चतुर्दशशते अष्टमोद्देशके-"अत्थ णं भंते ! अव्वाबाधा ( हा) देवा ? हंता अत्थि। से केणटेणं भंते ! एवं वुच्चतिअव्वाबाधा देवा अव्वाबाधा देवा ? गोयमा ! पभूणं एगमेगे अव्वाबाधे देवे एगमेगस्स पुरिसस्स एगमेगंसि अच्छिपत्तंसि दिव्वं देविड्डि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसइविहं नट्टविहिं उवदंसेत्तए, नो चेवणं तस्स पुरिसस्स किंचि आबाधं वा वाबाहं वा उप्पाएइ छविच्छेदं वा करेइ, सुहुमं च णं उवदंसेजा, से तेणटेणं जाव अव्वाबाधा देवा" (सू० 531) / तथाऽष्टादशशते सप्तमोद्देशके-" "देवे णं भंते महइढिए जाव महेसक्खे स्वसहस्सं विउन्वित्ता पभूणं अण्णमण्णेणं सद्धि संगामं संगामित्तए ?हता पभू, ताओणं भंते! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ? गोयमा! एकजीवफुडाओ नोअणेगजीवफुडाओ। ते णं भंते! तेसिं 1 अनगारो भगवन् / भावितात्मा बाह्यान् पुद्गलान् अपर्यादाय प्रभुः एकं महत् स्त्रीरूपं वा, यावत् स्यन्दमानिकारूपं वा विकुर्वितुम् ? / हन्त प्रभुः / अनगारो भगवन् / भावितात्मा कियन्ति प्रभुः स्त्रीरूपाणि विकुर्वितुम् ? गौतम ! स यथा नाम युवति युवा हस्तेन हस्ते गृहणीयात् , चक्रस्य वा नाभिः अरकायुक्ता स्यात्, एवमेव गौतम / अनगारोऽपि भावितात्मा वैक्रियसमुद्घातेन समवहन्ति, यावत्-प्रभुः गौतम ! अनगारो भावितात्मा केवलकल्पं जंबूद्वीपं द्वीपं बहुभिः स्त्रीरूपैः आकीर्णम् , व्यतिकीर्णम् , यावत्-कर्तुम् / अथोत्तरं च गौतम ! प्रभुः तिर्यग्-असंख्यद्वीपसमुद्रान् भर्तुं विकुळ यावत् नो चैव सम्पच्या विकुर्वति विकुर्विष्यति वा। 2 सन्ति भदन्त ! अव्याबाधा देवाः ? हन्त सन्ति / तत् केनार्थेन भदन्त ! एवमुच्यते-अव्याबाधा देवा अव्याबाधा देवाः ? गौतम ! प्रभुः एकैकोऽव्याबाधदेवः एकैकस्य पुरुषस्य एकैकस्मिन् अक्षिपत्रे दिव्यां देवर्षि दिव्यां देव द्यति दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाव्यविधि उपदर्शयितुम् , नैव तस्य पुरुषस्य कांचिदाबाधा या व्याबाधां लोत्पादयति छविच्छेदं वा करोति, सूक्ष्मतयोपदर्शयेत्, तदेतेनार्थेन यावदव्याबाधा देवाः। 3 देवो भदन्त ! महर्धिकः यावत् महेशाख्यः रूपसहस्रं विकुळ प्रभुरन्योऽन्येन साध सङ्ग्राम सङ्ग्रामयितुम् / एम्त प्रभुः तानि भदन्त | शरीराणि किमेकजीवस्पृष्टानि अनेकजीवस्पृष्टानि ? गौतम ! एकजीवस्पृष्टानि नानेकजीव Page #240 -------------------------------------------------------------------------- ________________ 214 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा? गोयमा ! एकजीवफुडा नो अणेगजीवा. डा / पुरिसे णं भंते! अंतरे हत्थेण वा पाएण वा असिणा वा पभू विच्छिदित्तए / नो इणमहे समठे, नो खलु तत्थ सत्थं कमति " (मु०६३५)॥ एतानि च सूत्राणि वैक्रियाद्यर्थेपूपयुज्य नियोज्यानि, न स्वार्थ एव प्रत्ययविधिः / अनियमं दर्शयति-विक्रियायां भवमित्यादिना भाष्येण, एतच्च सुज्ञानमेवातः कदाचिद् वैक्रियं वैक्रयिकं चेति // आहारकम्य भा०-आहारकमाहियत इत्याहार्यम् / आहारकमन्तर्मुहूर्तशब्दार्थविस्तारः स्थिति / नैवं शेषाणि / टी-आहारमाहियत इत्यादि भाष्यम् / गृह्यते प्रतिविशिष्टप्रयोजनप्रसाधनाय कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् संशयव्यवच्छेदार्थावग्रहणार्धिदर्शनादि च कार्यम्, आह्रियते आहार्यमित्यनेन शब्दद्वयेन विशिष्टकारकसाध्यमाहारकशब्दं दर्शयति कुल्ल्युटो बहुलवचनात् , तच्चाहारकमन्तर्मुहूर्तस्थिति, एतावता च कालेनाभिलषितप्रयोजनपरिसमाप्तिस्तस्याहर्तुरुपजायते, परिनिष्ठितप्रयोजनश्च पुनर्विमुञ्चति नोत्तरकालमपि तां लब्धिमुपजीवति अतोऽन्तर्मुहूर्तस्थितिः, आत्मलाभो यस्य तदन्तर्मुहूर्तस्थिति। नैवं शेषाणीति, व्यतिरेकमन्यतः प्रतिपादयति-शेषाण्यौदारिकादीनि तत्प्रसाध्यप्रयोजननिवर्तनाय नालं नापि नियमत एव.तावत्या स्थित्या योगः प्रमाणेन वेति // . भा०-तेजसो विकारस्तैजसं तेजोमयं तेजःस्वतत्त्वं शापा * नुग्रहप्रयोजनम् / नैवं शेषाणि // . ____टी-तेजसो विकारस्तैजसमित्यादि / उष्णभावलक्षणं तेजः संसिद्धं सर्वप्राणिषु पाचकमन्धसः / तस्यैवंविधस्य तेजसो विकारस्तैजसमवस्थान्तरापत्तिरिति / एतदेव पर्यायान्तरेणाख्याति-तेजोमयं स एव विकारार्थस्तेजःस्वतत्त्वम्, तेजसः स्वतत्त्वं-स्वरूपं-आत्मा-स्वभावस्तत् तेजःस्वतत्त्वम् शापानुग्रहप्रयोजनमिति / लब्धिनिवृत्तिमपेक्ष्योच्यते शापानुग्रहौ प्रयोजनं यस्य निग्राह्यानुग्राह्यपक्षयोस्तत् तु शापानुग्रहप्रयोजनमिति / नैव शेषाणीति / औदारिकादिभ्यो व्यतिरिच्यते एतत् स्वगुणैरिति प्रथयति भा०-कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् / कार्मणविचारः टी०-कर्मणो विकार इत्यादि। ज्ञानावरणादिकर्मणो विकृतिः कार्मणमेकलोलीभाव इति कर्माणि तान्येवात्मा यस्य स्वरूपं कर्ममयमिति विकारार्थ एव पर्यायतः / नै शेषाणि इत्यौदारिकादिलक्षणव्युदासः / एवमन्वर्थसंज्ञकानि प्रतिपाद्य औदारिकादीन्येकप्रय लप्रसाध्यं लक्षणभेदाच्छरीरनानात्वमप्यतिदिशतिस्पृष्टानि, पुरुषो भदन्त ! अन्तरा हस्तेन वा पादेन वा असिना वा प्रभुविच्छेत्तुम् ! नैषोऽर्थः समर्थः नैव तत्र शस्त्रं काम्यति। रः Page #241 -------------------------------------------------------------------------- ________________ सूत्र 49 ] स्वोपज्ञमाष्य-टीकालङ्कृतम् 215 भा०–एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम्। किं चान्यत्। कारणतो विषयतः स्वामितः प्रयोजनतः प्रमाणतः प्रदेशसङ्शरीराणां नानावं रिष ख्यातोऽवगाहनतः स्थितितोऽल्पबहुत्वत इत्येतेभ्यश्च नवभ्यो हेतवः विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति // 49 // टी--एभ्य एव चार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम् / उदाराद्यर्थविशेषेभ्यो विहितलक्षणेभ्यः विविक्तस्वरूपेभ्यः शरीराणां नानात्वं सिद्धं, घटपटादीनामिव लक्षणभेदात् सिद्धमिति / किं चान्यदित्यादि / न केवलमन्वर्थसंज्ञाख्यानद्वारेणैव विशेषः शरीराणाम् , अन्येभ्योऽपि हेतुभ्यः सम्भवत्येव कारणादिभ्यः / तत्र कारणतस्तावत् स्थूलपुद्गलोपचितमृत्यौदारिकम् / न तथा वैक्रियादीनि / 'परं परं सूक्ष्मम्' (अ०२, सू०३४) इति वचनात् // तथा विषयकृतो भेदः / विद्याधरौदारिकशरीराणि प्रत्यानन्दीश्वरादौदारिकस्य विषया जङ्घाचारणं प्रत्यारुचकपर्यन्तात् तिर्यक, उर्ध्वमा पाण्डुकवनात् / वैक्रियमस ख्येयद्वीपसमुद्रविषयम् / आहारकस्य यावन्महाविदेहक्षेत्राणि / तैजसकार्मणयोरासर्वलोकात् / तथा स्वामिकृतो विशेषः। औदारिकस्य मनुष्यतियेचः / वैक्रियस्य देवनारकास्तियेंमनुष्याश्च केचित् / आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयुतः / तैजसकार्मणयोः सर्वसंसारिणः। तथा प्रयोजनकृतो भेदः / औदारिकस्य धमाधमेसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनम् / वैक्रियस्य स्थूलसूक्ष्मकत्वव्योमचंरक्षितिगतिविषयाधनेकलक्षणा विभूतिः / आहारकस्य तु सूक्ष्मव्यवहितदुरवगाहार्थव्यवस्थितिः। तैजसस्याहारपाकः शापानुग्रहदानसामर्थ्य च / कार्मणस्य मवान्तरगतिपरिणामः / तथा प्रमाणकृतो भेदः / सातिरेकं योजनसहस्रमौदारिकम् / योजनलक्षप्रमाणं वैक्रियम् / रत्निप्रमाणमाहारकम् / लोकायामप्रमाणे तैजसकार्मणे / तथा प्रदेशसङ्ख्यातो भेदः / 'प्रदेशतोऽसङ्ख्येयगुणं प्राक् तैजसात् अनन्तगुणे परे' (अ० 2, मू० 39-40 ) इत्युक्तः प्रदेशभेदः प्राक् / तथाऽवगाहनाकृतो विशेषः / सातिरेकयोजनसहस्रप्रमाणमौदारिकमसङ्ख्येयगुणप्रदेशेषु यावत्स्ववगाढं भवति तेभ्यो बहुतरकास ख्येयप्रदेशावगाढं योजनलक्षप्रमाणं वैक्रियं भवति, आहारकमाभ्यामल्पप्रदेशावगाढं भवति हस्तमात्रत्वात, तेजसकार्मणे लोकान्तायताकाशश्रेण्यावगाढे भवतः / तथा स्थितिकृतो भेदः। औदारिकं जघन्येनान्तर्मुहूर्तस्थिति, उत्कर्षेण त्रिपल्योपमस्थिति / वैक्रियं जघन्येनान्तर्मुहूर्तस्थिति, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थिति / आहारकमन्तर्मुहूर्तस्थित्येव / तैजसकार्मणयोः सम्तानानुरोधादनादित्वमपर्यवसानता चाभव्यसम्बन्धितया, अनादित्वं सपर्यवसानता च भव्यसमन्धित्वेनेति / तथाऽल्पबहुत्वकृतो विशेषः / सर्वस्तोकमाहारकं यदि सम्भवति कदा. चिम सम्भवत्यपि / किं कारणम् ? येन तस्यान्तरमुक्तं जघन्येनैकसमयः, उत्कृष्टतः षण्मासा, तपदि भवति ततो जघन्येनैकमादि कृत्वा यावदुत्कर्षेण नवसहस्राणि युगपद् भवन्त्याहारकशरीरा म् / आहारकाद् वैक्रियशरीराण्यसङ्ख्येयगुणानि नारकदेवानामसङ्ख्येयत्वात् असह 1. पर्वतात् ' इति क-पार्श्वस्थपाठः / 2 'तस्यान्तर्मुहूर्त' इति क-पाठः / Page #242 -------------------------------------------------------------------------- ________________ प्रस्तावना 216 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 ख्येयोत्सर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि भवन्ति / वैक्रियशरीरेभ्य औदारिकशरीराण्यसङ्ख्येयगुणानि, तिर्यकशरीरमनुष्याणामसङ्ख्येयत्वात्, असङ्ख्येयोत्सर्पिण्यवसार्पणीसमन यराशिसमसङ्ख्यानि // ननु च तिर्यञ्चोऽनन्ताः तत् कथमानन्त्ये च सति असङ्ख्येयानि शरीराणि स्युः / उच्यते-प्रत्येकशरीराणामसङ्ख्येयानि साधारणास्त्वनन्तास्तेषामनन्तानामेकं शरीरं भवतीत्यतोऽसङ्ख्यातानि, न पुनरनन्तानामपि प्रत्येकं शरीरमस्ति, तस्मात् सुष्टक्तमसङ्ख्येयानीति, औदारिकशरीरेभ्यस्तैजसकार्मणान्यनन्तगुणानि / तानि हि प्रत्येकं सर्वजीवानां संसारिणां भवन्त्यतोऽनन्तानि, न पुनरेकं तैजसं कार्मणं वा बहूनामिति // एवमेतेभ्यः कारणादिभ्यो नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धं-प्रतिष्ठितमवसातव्यमिति // 49 // भा०-अत्राह-आसु चतसृषु संसारगतिषुको लिङ्गनियमः / अत्रोच्य ते-जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषूक्तम्-'त्रिविधमेव लिङ्गसूत्रे सूत्र लिङ्ग-स्त्रीलिङ्गं पुल्लिङ्ग नपुंसकलिङ्गमिति' (अ० 2, सू०६ ) / " तथा चारित्रमोहे नोकषायवेदनीये विविध एव वेदो वक्ष्यते (अ० 8, सू०१०) स्त्रीवेदः पुंवेदो नपुंसकवेद इति / तस्मात् त्रिविधमेव लिङ्ग मिति // तत्र। टी०-अत्राह-आसु चतसृषु संसारगतिषु को लिङ्गनियम इति सम्बन्धग्रन्थः। अत्रावसरे शिष्यः प्रश्नयति-आसु नरकतियेङ्मनुष्यामराख्यासु चतुःसङ्ख्यानियतासु संसारगतिषु को लिङ्गनियम इति, कियन्ति लिङ्गान्यासु गतिषु सम्भवन्तीति पृच्छयते, लिङ्गसङ्ख्यामेव तावनिर्धारयितुमिच्छति, न पुनः किं लिङ्गं कस्यां गताविति पृच्छयते / अत्रोच्या ते-प्राक् तावल्लिङ्गेयत्ता निर्धार्यते ततश्च निवृत्तानि लिङ्गानि सङ्ख्यया गतिषु विभक्ष्यन्त इति / अतस्तमेव नियमं दर्शयति-त्रिविधमेव लिङ्गन न्यूनमधिकं वा, तच्च प्राक् प्रदर्शितं प्राय इत्येवमावेदयति जीवस्यौदयिकेष्वित्यादिना भाष्येण गतिकपायलिङ्गसूत्रे (अ० 2, सू०६) औदायिकमेकविंशतिभेदमाचक्षाणेन स्त्रीपुंनपुंसकलिङ्गानि त्रीण्येवाभिहितानि किमिति न स्मर्यन्ते ? तथा चारित्रमोह इत्यादि द्विविधो मोहोऽष्टमे वक्ष्यते ( अ० 8, सू०१०) दर्शनचारित्रभेदात्, तत्र चारित्रमोहे चारित्रमोहोऽपि द्विविधः-कषायचारित्रमोहो नोकषायचारित्रमोहश्च / तत्र नोकषायवेदनीये हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदभेदे विविध एव वेदो वक्ष्यते / यस्य कर्मण उदयात् पुरुषाभिलाषस्तत् कर्म स्त्रीवेदशब्दाभिधेयम्, यस्म पुनरुदयात् रूपमिलापस्तत् कर्म पुरुषवेदः, स्त्रीपुरुषद्वयाभिलाषो यदुदयात् तत् कमे नपुंसकवेद इति, तस्मात् विविधमेव लिङ्गमन्यस्यासम्भवात्, तदेव चैषां स्वस्थानं वेदानां तथैव च खसपतो विस्तरेण व्याख्यास्यन्ते, तत्र चेयत्तया व्यवच्छिन्नाः सन्त इह संसारगतिषु नियम्यन्ते को वेदः कस्यां गतावित्यत आह Page #243 -------------------------------------------------------------------------- ________________ 217 सूत्रे 50-51] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् सूत्रम्-नारकसम्मूछिनो नपुंसकानि // 2-50 // टी–केनचित् पुनरधीयते-नपुंसकवेदवन्तो जीवाः नारकसम्मछिनो नपुंसकाः, नपुंसकं येषां विद्यते, अर्शआदिपाठादतं विधाय // भा०-नारकाश्च सर्वे सम्मृच्छिनश्च नपुंसकान्येव भवन्ति, न स्त्रियो न पुमांसः / तेषां हि चारित्रमोहनीयनोकषायवेदनीयाश्रयेपु त्रिषु नपुंसकवेदव वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वबद्धनिका चितमुद्यप्राप्तं भवति, नेतरे इति // 50 // टी०- नारकाश्चेत्यादि भाष्यम् / नरकेषु भवा नारकाः सर्वे सप्तसु पृथिवीषु वर्तमानाःसम्मृच्छिनश्च सम्मूर्छनं सम्मूर्छः सम्मूर्छा वा सम्मूर्छनजन्मेत्यर्थः तद् येषां विद्यते ते सम्मूछिनः, सम्मूर्छनजन्मभाजश्च पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाश्च केचित् तिर्यङ्मनुष्याः, सर्वे एते नपुंसकान्येव नपुंसकवेदभाज एवेत्यवधारयति। सामर्थ्यालब्धमवधारणाफलं दर्शयति-न स्त्रियान पुमांसान स्त्रीवेद भाजो न पुरुषवेदवेदिनः, किं पुनः कारणं नपुंसकवेद एव तेष्वित्यत आह-तेषां हीत्यादि / यस्मात् तेषां नारकाणां सम्मृच्छनजन्मनां च चारिप्रमोहनीयनोकपायवेदनीयाश्रयेषु त्रिषु वेदए,चारित्रमोहनीयं च तन्नोकपायवेदनीयं चेति चारित्रमोहनीयनोकपायवेदनीयम्- नवधा हास्यादि तद् आश्रयः स्थानं येषां ते तदाश्रयास्तेषु तदाश्रयेषु त्रिषु वेदेषु निर्धायते / नपुंसकवेदनीयमित्यादि / नपुंसकत्वानुभवो नपुंसकवेदनीयं तदेवैकमशुभगतिनामापेक्षम्, प्रदर्शनवाक्यमिदमशुभगतिनामापेक्षमिति. अशुभगत्यादिनामगोत्रवेद्यायुप्कोदयापेक्षो मोहोदयः परो येनाशुभं महानगरदाहोपमं मेथुनाभिलाषमनुभवन्ति नारकाकाङ्क्षारूपमिति, सम्मृद्धंनजन्मानोऽपि हि तिर्यनो मनुष्याचाशुभगत्यादिनामगोत्रवेद्यायुष्कोदयापेक्षमोहोदयाकाङ्क्षावन्तो नपुंसकत्वमनुभवन्ति, पूर्ववद्धनिकाचितमुदयप्राप्तं पूर्वस्मिन् जन्मन्यनन्तरे बद्धं नपुंसकत्वयोग्यास्रवैः परिगृहीत. मित्यर्थः / निकाचितं तदेव ग्रहणानन्तरमात्मसात्कृतं क्षीरोदकवदन्योन्यानुगतिलक्षणेन सम्बन्धेनात्मप्रदेशः सहाविभागितयाऽध्यवसायविशेषाद् व्यवस्थापितम् , उदयप्राप्तमिति समासादितपरिपाकावस्थम् , तदेवंविधं नपुंसकवेदनीयमेव नारकसम्मृच्छिमानांजन्तूनां दुःखबहुलत्वाद् भवति, नेतरे स्त्रीपुंवेदनीये कदाचिदिति // 50 // उक्तं नारकसम्मूछिनां लिङ्गम्, अथ देवानां किं लिङ्गमित्यत आह.--. सूत्रम्-न देवाः // 2-51 // भा०देवाश्चतुनिकाया अपि नपुंसकानि न भवन्ति, स्त्रियः देवानां वेदी पुमांसश्च भवन्ति / तेषां हि शुभगतिनामापक्ष स्त्रीपुंवेदनीये पूर्वबद्धनिकाचिते उदयप्राप्ते द्वे एव भवतो नेतरत् / पारि Page #244 -------------------------------------------------------------------------- ________________ 218 तत्त्वार्थाविगममूत्रम् [ अध्यायः 2 शे याच गम्यते जरायबण्डपोतजातिविधा भवन्ति-स्त्रियः पुमांसो नपुं. सकानीति // 1 // टी--प्रकृतस्य प्रतिषेधं दर्शयति, नपुंसकवेदः प्रकृतः, स एव प्रतिषिध्यते, दीव्यन्ति इति देवाः क्रीडातिगतिप्यतिशयवतीपु वाच्याः, चत्वारो निकायाः-सयाताःसमूहाः येषां भवनवनचरज्योतिपिकवैमानिकाख्यास्ते चतुर्निकायास्ते चतुर्विधा अपि न नपुंसकानि भवन्ति, नपुंसकवेदप्रतिषेधोत्तरकालं चाप्रतिपिद्धत्वात् सामर्थ्यात् स्त्रीपुरुषवेदद्वययोगिता गम्यतेऽतस्तां दर्शयति-स्त्रियः पुमांसश्च भवन्ति / स्त्रीवेदभाजः पुरुषवेदवेदिनश्चेत्यर्थः। भवनपतिव्यन्तरज्योतिपिकसौधर्मेशानेषु वेदद्वयमप्युपपाततः, तदुपरि पुरुषवेद एव, नेतरः। किं पुनः कारणं देवानां नपुंसकवेदो नास्तीत्यत आह तेषां हीत्यादि। यस्मात तेषां शुभगत्यादिनामगोत्रवेद्यायुष्कापेक्षमोहोदयादमिलपितग्रीतिसाधकं मायाजेवोपचितं करीपतृणपूलाग्निसदृशं स्त्रीवेदनीयमेकं पुंवेदनीयसेवाधिकं पूर्वपद्धनिकाचितनुदयमासं भवति नेतरन्नपुंसकवेदनीयमनद्धत्वात्। अत्र च स्त्रीवेदो नपुंसकवेदापेक्षया शुभ उच्यते, न पुनः शुभ एव / इदानीं सामोल्लव्धं दर्शयति-पारिशेष्याञ्च गम्यत इत्यादिना / परिशेपसिद्धया विज्ञायते जरावरचण्डपोतजास्त्रिविधा भवन्ति-स्त्रियः पुमांसो नपुंसकानि चेति // 51 // भा०-अत्राह-चतुंगतावपि संसारे किं व्यवस्थिता स्थितिआयुपाऽपय रायुषः उताकालमृत्युरप्यस्तीति ? / अत्रोच्यते-द्विविधान्यातनादि यूंषि-अपवर्तनीयानि अनपवर्तनीयानि च। अनपवर्तनीयानि पुनर्दिविधानि-सोपक्रमाणि निरुपक्रमाणि च / अपवर्तनीयानि तु नियतं सोपक्रमाणीति // तत्र-- . टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः। अत्र प्रस्तावे संशयानः प्रश्नयति-नारकतिर्यङ्मनुष्यामरभेदभाजि संसारेऽतीतानन्तरजन्मपरिगृहीतस्यायुपः किं व्यवस्थिता तावत्येव स्थितिः-अनुभवकालः पूर्वबद्धा हि यावती, अथापरिपूरितायामपि तस्यां स्थितावपहाय प्राणान् परलोकप्रयाणाभिमुखः प्राणी प्रवर्तते / अकाले मृत्युः अकालमृत्युः प्रागुपातजीवनकालावधेरोक्काले खोपात्तमनुष्याद्यायुर्द्रव्याणामनुभवतः कृत्स्नपरिक्षयो मृत्युः स पुनः किमकालेऽपि पूर्वप्रतिबद्धायुःसंस्कारविच्छेदावधावपरिसमाप्तेऽपि भवति आहोस्विनियमत एव तावन्तं कालं प्राणिति प्राणीति,कुतः पुनरयं संशयः? सकललोकप्रवादात्,एवं लौकिकाः प्रमापन्ते-अयमकाले मृतो जन्तुळपादितो वा, अयं पुनः स्थविरः स्वकालपरिमाणमायुरनुभूय मृत्युगोचरमायात इत्यतः सन्देहः किमकालेऽपि मरणयोग इति ? तथैव सङ्ग्रामे समर्थतरुणबहुजनव्यापत्तिमनुप्रेक्ष्य युगपत् संशयप्रसवः, न तत्र प्रतिपत्तिराधातुं शक्याऽऽत्मनि अयुक्तिकत्वात,सर्व एते समायुषः सममेकसंख्यानिवन्धनमेभिभेवान्तरमासाद्यायुरुपचितमिति न शक्यमवगन्तुम् , अतः संशेते Page #245 -------------------------------------------------------------------------- ________________ सूत्रं 51] स्वोपज्ञभाष्य-टीकालङ्कृतम् 219 मनः किमकालमृत्युरप्यस्तीति, तत एव आयोधनादक्षतवपुषः परिणति(त )शतजर्जरसकलसन्धयः स्थविरास्तीव्रतिहस्तास्तीरयित्वा समरमपगच्छन्तोऽवलोक्यन्ते, अतोऽवगम्यते-न खलु कश्चिदकाल एव विषमाण्यवगाहमानोऽपि शरशतापादितक्षतिरपि प्रकृष्टदुःखवेदनार्को मरणमभिलपन्नपि प्राणैर्वियुज्यते, एवमनेकस्मिन् संशयबीजप्रसवे सति प्रश्नप्रवृत्तौ प्रतिवचनमुच्यतेद्विविधान्यायूंषि-अपवर्तनीयान्यनपवर्तनीयालि चेति / अकाले मृत्योरस्ति सम्भव इत्येवंविधार्थप्रदर्शनपरायणमिदमारतीयते भाष्यम् / द्विविधान्यायूंपि-जीवितानि भवन्ति, र प्रयोगविशेषाच्च द्वैविध्यं, न स्वभावात्, तत्रायुपो बन्धकास्तावत् सम्यग्आयुपो द्ववि. मिथ्यादृष्टिविरहिता मिथ्यादृष्टेरारभ्य यावदप्रमत्तसंयत इति षट्सु स्थानेषु ध्यम् जन्तवः अजवन्योत्कृष्टाध्यवसायविशेषभाजः पृथुपायाः सायध्रुवायुर्विकल्पयुजः, तत्र . नारकदेवासङ्ख्येयवर्षायुपः प्राणिनः पण्मास्यामवशेषायां नियमादायुपो बन्धकाः / शेपास्त्वायुपस्त्रिभागेऽयशेपे पुरोवर्तिजन्मानुभवयोग्यमायुर्वघ्नन्ति, त्रिभागत्रिभागे वाऽवशेष इति / अथवा त्रिभागत्रिभागत्रिमागे वाऽवशेष इति / एतदुक्तं भवति-त्रिभागावशेपायुपो नवभागशेपायुपः सप्तविंशतिभागावशेषायुपो वा परभवायुवेनन्ति, ततः परं नबध्नन्तीत्यर्थः / तत्रावनिजलज्वलनमारुततरुद्वित्रिचतुरिन्द्रियाणां निरुपक्रमायुपांच पञ्चेन्द्रियाणां नियमित एव त्रिभाग वशेषे बन्धो भवत्यायुपः, सोपक्रमायुषां पुनः पञ्चेन्द्रियाणामनियमेन बन्धो यावत सप्तविंशतिभागावशेषकल्पनेति, ते च प्राणिनस्तदैव तदायुर्वनन्तोऽध्यवसायविशेषात् केचिदपवर्तनाह कुर्वन्ति केचिदनपवर्तनीयमिति, मन्दपरिणामप्रयोगोपचितमपवयं तीव्रपरिणामप्रयोगोपचितमनपवर्त्यम् , तत्रापवर्तना नाम प्राक्तनजन्मविरचितस्थिते. रल्पतापादनमध्यवसानादिविशेषात् , अनपवर्तनीयं पुनस्तावत्कालस्थित्येव न हासमायाति खकालावधेरारात् , तैलवर्तिक्षयतो निर्विघातप्रदीपोपशान्तिवत् धनसंहतत्वाद् वा पवनश्लेषवत्, तच्च किलाखिन्नवीर्यारब्धत्वात् असङ्ख्येयसमयोपार्जितमायुरनपवर्त्यम्, तथा गाढवन्धनत्यानिकाचितबन्धात्मनियमादनपवायुर्भवति / अथवैकनाडिकापरिगृहीतमायुः संहतिमचात् संहतपुरुषराशिवदभेद्यं वा एकनाडिकाविवरप्रक्षिप्तवीजनिप्पादितसस्यसंहतिबदू वा, विवराद् बहिः पतितबीजप्रमूतं हि सस्यमसंहतत्वात् प्रविरलतायां सत्यां सर्वस्यैव गवादेर्गम्यम्, एवं किलायमात्माऽऽयुर्वधनने कात्मलब्धिपरिणामस्वाभाव्याच्छरीरव्याप्यपि सन्नाडिकामार्गपरिणामो भवति, ततस्तामवस्थामासाद्य यानायुष्कपुद्गलान् बन्धाति ते नाडिकाप्रविष्टत्वात् संहतिमत्त्वे सति अभेद्या विषशस्त्राग्न्यादीनामिति,मन्दतीव्रपरिणामसन्निधानाञ्च स तत् तथा जन्मा. न्तर एव रचयति इहत्यजन्मव्याधिवत् / अल्पाद्धातुवैषम्यनिदानापथ्यसेवनाद् यो व्याधिः समुपजातः स कालान्तरेणोपेक्ष्यमाणःसमासादितोदग्रवृद्धिः समूलघातं निहन्ति शरीरकं, न पुनराश्वेव, नि: पुणभिषग्वरोपदिष्टतत्प्रत्यनीकक्रियाकलापानुष्ठानाच द्राग् विच्छेदमापाद्यते,तथैव यन्म 1' समरमपयान्तः' इति क-पाठः। Page #246 -------------------------------------------------------------------------- ________________ 220 तन्वार्थाधिगमसूत्रम् [ अध्यायः न्दपरिणामप्रयोगकारणाभ्यासादासादितमनेनायुर्जन्तुनाऽतीतजन्मनि तदपवर्तनार्हमाचक्षतेधतक्लेशाः / यः पुनरतिमहान्तं धातुक्षोभमाश्रित्यापथ्यनिदानासेवनादिना समजनि व्याधिरतिदीर्घकालकलापापादितजरठिमासमुपगृढनिरवशेषाङ्गोपाङ्गसङ्घातः कुष्ठक्षयादिः, स खलु मेषजप्रकारमनेकमुपचीयमानमनुदिनमप्यवगणय्य सञ्जातबलः क्षिप्रमाक्षिपति तं रोगिणमकाम एव, न खलु प्रयत्नपरमेण धन्वन्तरिणापि शक्यः समुच्छेत्तुम् / एवं हि तीव्रपरिणामप्रयोगवी जजनितशक्ति तदायुरात्तमतीतजन्मनि न शक्यमन्तराल एवावच्छेत्तुमित्यनपवर्तनीयमुच्यते। तथा हि-कालाकालसमाप्त्योरायुषःसम्भवत्यनेकं निदर्शनं, तबलाच्च प्रतीतिरुपजायते श्रोतुः, अतस्तदभिधानमाम्रफलपाकवत् भसकव्याधिपरिगतपुरुषभोजनवत् वेष्टितार्द्रपटविततशोपवत्, वेष्टितपलालवृतरज्जुप्रगुणीकृतदाहवत्, एकार्थेषु बुद्धिमन्दग्राहककालभेदवत्, एकमार्गेऽश्वपगुगमनभेदवत् , यथैता भिन्नकालानुवर्तिन्योऽप्यवस्थास्तुल्यनिदर्शनगतास्तथा तुल्येऽपि कर्मणि स्वपरिणामादिक्रियाविशेषाद् भिन्नोऽनुभवकालः परममध्यमजघन्याख्यः, तसाद द्विविधमायुरपवर्तनीयमनपवयं चेति व्यवस्थितम् // अधुनाऽनपवर्तनीयायूंषि द्विविधान्यभिघित्सुराह-अनपवर्तनीयानि पुनर्दिविधानि-सोपक्रमाणि निरुपक्रमाणि च / तत्रोपक्रमणमुपक्रमः प्रत्यासन्नीकरणकारणमुपक्रमशब्दाभिधेयम्, अतिदीर्घकालस्थित्यप्यायुर्यन कारणविशेषेणाध्यवसानादिनाऽल्पकालस्थितिकमापाद्यते स कारणकलाप उपक्रमः,तेन तादृशो पक्रमेण सोपक्रमाण्यनपवर्तनीयान्यायूंषि भवन्ति / निर्गतोपक्रमाणि निरुपअपवर्तनेऽपि MTHG कमाण्यध्यवसानादिकारणकलापाभावात्, येथैव तजिहास्यते अतिदीर्घका लस्थितिस्वपरिणतिविशेषात् तथा अल्पमपि वृद्धिमापादयिष्यते रसायनाद्युपयोगतश्चेत् तन्न, अबद्धत्वात्, जन्मान्तरे हि बद्धमायुस्तावता वा कालेनानुभूयेत ह्रस्वीयसा वाऽध्यवसानादियोगात् आभिचारिककर्मणाऽवाप्य कालफलपाकवत् स्याद्, अबद्धं पुनर्न शक्यते संवर्धयितुममृतोपयोगेनापि / यथा हि दीर्घपटः प्रागुक्तो वेष्टनयाऽल्पः शक्यः कर्तुं न पुनर्प्रधिमानमापादयितुमनुपात्ततावदलिकत्वात् / स्यादेतद् रसायनाद्युपयोगाद् यावस्थितिकमा प्रागायुस्तावती स्थितिमखण्डयत् तदासीत न पुनवेद्धिमश्रद्धेयामाधातुमलं तदिति / अत्र च किलौपपातिका असङ्ख्येयवर्षायुषश्च निरुपक्रमा एव, चरमदेहाः उत्तमपुरुषाश्च सोपक्रमा निरुपक्रमाश्च // नन्विदं विप्रतिषेध्यमनपवायुषः सोपक्रमाचेति / उच्यते-अध्यवसानाद्युपक्रमकारणानि किल सन्त्यमीषां चरमदेहोत्तमपुरुषाणां न पुनरायुरपवत्येते, सत्स्वपि तेष्वनपवायुष्टात् , न खलूपक्रमसनिधानं तत्र प्रतिषिध्यते, किन्तु सत्यप्युपक्रमकारणसानिध्येऽतिगाढवन्धत्वान्न तदायुरपवर्त्यते // ननु चौपपातिकासङ्ख्येयवर्षायुपामपि तुल्यमेतत् सनिधानमिति / उच्यते-सत्यम्, नारकादीनामुपक्रमकलापः सन्निहितस्तथापि ते सोपक्रमायुपो न भण्यन्ते १'मार्गेऽधपङ्गु' इति ख-पाठः। 2' तथैव ' इति ख-पाठः / Page #247 -------------------------------------------------------------------------- ________________ सूत्रं 52 स्वोपनमाष्य-टीकालङ्कृतम् 221 कदाचिदप्युपक्रान्तेरदर्शनात् / अपरे वर्णयन्ति–तीर्थकरौपपातिकानां नोपक्रमतो मृत्युः, शेषाणां चरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषामुभयथा, एवंविधाभ्युपगमे भाष्यमुपरिष्टादगमितं स्यात, औपपातिकावासङ्ख्येयवर्षायुषश्च निरुपक्रमाः, चरमदेहाः सोपक्रमा निरुपक्रमाचेति भाष्यमिदमत्यन्तमसङ्गतं स्यात् / कर्मप्रकृतिग्रन्थानुसारिणस्तु वर्णयन्ति "अद्धा जोगुकस्सा, बंधित्ता भोगभूमिए सुलहं। . सव्यप्पजीवितं वजइत्तु उवट्टि(य)त्ता दोपहम् // " . उत्कृष्टप्रदेशोदयविचारे सङ्ग्रहिण्यामियं गाथा, अर्थस्त्वस्याः-उत्कृयुगालना न्यायुषा ष्टबन्धाद्धायामायुषो योगेनोत्कृष्टेन तियेगायुर्मनुष्यायुर्वा बवा मृतः सन् o, भोगभूमिजेषु तिर्यक्षु मनुष्येषु च त्रिपल्योपमस्थितिपूत्पन्नः पश्चादाशु सर्वाल्पजीवितमन्तर्मुहूर्त विहाय शेषमायुत्रिपल्योपमस्थितिकमपवर्तयन्त्यन्तर्मुहूर्तानमिति / यदा च तदपवर्तितं भवति तदा किलोत्कृष्टः प्रदेशोदयो भवतीति, न च शक्यमनेनाभिप्रायेण भाष्यं गमयितुमतिविरोधात , तस्मादवस्थितमिदमनपवर्तनीयानि द्विविधानि सोपक्रमाणि निरुपक्रमाणि चेति, अपवर्तनीयानि तु नियतं सोपक्रमाणि। तुशब्दोऽवधारकः / सोपक्रमाण्येवापवर्तनीयान्यायपि भवन्ति सर्वदा, यतो न ह्यपवर्तनाध्यवसानादिकं निमित्तमन्तरेणात्मलाभं प्रतिपद्यते / तत्र केऽनपवायुपः के वाऽपवायुष इत्यन्यतराख्यानेऽन्यतरपरिज्ञानं भवति लघुत्वाच्चानपवायुपः सूत्रेण दर्शयति-- सूत्रम्-औपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषो. नपवायुषः॥ 2-52 // टी-अनपवायुषो निर्धार्यन्तेऽमुना योगेन, तच्चावधारणं तत्र शब्देनाख्याति भाष्यकारः। .. भा०-औपपातिकाश्चरमदेहा उत्तमपुरुषाः असङ्ख्येयवर्षाarria" युष इत्यतऽनपवायुषो भवन्ति / तत्र औपपातिका नारकअनपवायुषः देवाश्चेत्युक्तम् (अ०२, सू० 35) / चरमदेहा मनुष्या एव भवन्ति, नान्ये / चरमदेहा अन्त्यदेहा इत्यर्थः। ये तेनैव शरीरेण सिद्ध्यन्ति / उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः। असङ्ख्ययवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च भवन्ति / टी०-औपपातिका इत्यादि भाष्यम् / उपपातजन्मानो नारकदेवाः, चरमः-अन्त्यो देहो येषां ते चरमदेहाः-पुनर्देहग्रहणं ये न करिष्यन्ति, उत्तमपुरुषास्तीर्थकरचक्रवर्तिवलदेववासुदेवाः / केचिदभिदधते -- नास्ति सूत्रकारस्योत्तमपुरुषग्रहणमिति तत् कथं तीर्थकरादि Page #248 -------------------------------------------------------------------------- ________________ 222 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 2 सह इति चेत्, एवं च मन्यन्ते चरमदेहग्रहाद् ग्रहीष्यन्ते, कथम्? ये किल चरमदेहास्ते नियमत एवोत्तमा भवन्ति, उत्तमास्तु चरमदेहत्वेन भाज्या वासुदेवादय इति, तस्मादनार्षमुत्तमपुरुषग्रहणमिति, उभयथा च भाष्यमुपलक्ष्यते अविगानात्, आदावुत्तमपुरुषास्तीर्थकरा. दय इति विवृतमुत्तरकालं पुनर्नोपात्तमुत्तमपुरुषग्रहणं निरुपक्रमसोपक्रमनिरूपणायाम् , अतो भाष्यादेव सन्देहः, किमस्ति नास्तीति संशयात्तमेवेदमसाकम् / असङ्ख्येयवर्षाणि गणितविष. यातीतान्या!पि येषां तेऽसङ्ख्येयवर्षायुषोऽकर्मभूम्यन्तरद्वीपका मनुष्याः, भरतैरावतविदेहेषु च तत्तुल्यकालाः पञ्चेन्द्रियतिर्यग्योनयश्च तदन्यक्षेत्रद्वीपसमुद्रेषु, एवमेतेऽनपवायुषो द्रष्टव्याः। एतदेव स्पष्टयति भाष्यकार:-औपपातिका नारका देवाश्चेत्युक्तमिति सारयति प्रागभिहितं (अ०२,सू०३५), नाधुना व्याख्येयमिति / चरमशरीरास्तु मनुष्या एव भवन्ति, नान्ये। नारकतिर्यग्देवव्युदासः सिद्धययोग्यत्वात् / चरमदेहान् प्रसिद्धतरपर्यायशब्देन कथयति-चरमदेहा अन्त्यदेहा इत्यर्थः / येतेनैव शरीरेण सकलकर्मजालमपहाय सिद्धिमशेषकर्मापगमलक्षणामाप्नुवन्ति इति / उत्तमपुरुषास्तीर्थकरचक्रवर्त्यर्धचक्रवर्तिनः तीर्थकरनामकर्मो. दयवर्तिनस्तीर्थकराः, चक्रवर्तिनोऽपि नवनिधिपतयश्चतुर्दशानां रत्नानां नेतारः स्वपौरुषोपात्तमहाभोगसुजः सकलभरताधिपा भवन्ति, अर्धचक्रवर्तिनस्तु बेलदेववासुदेवाः एवमादयश्चान्येऽपि किल प्रदर्शनाद गणधरादयो गृह्यन्ते / असङ्ख्येयवर्षायुषो मनुष्यास्तियेग्योनिजा भवन्तीत्यादि भाष्यम् / एतेष्वेवासङ्ख्येयवर्षजीवित्वं लभ्यते, न नारकदेवेषु सम्भवन्त्यपि, तत्रासङ्ख्येयानि वर्षाण्यौपपातिकग्रहणान्निवार्यन्त इति, मनुष्याणां तिरश्वां च मध्ये सम्भवन्त्यसङ्ख्येयवायुपस्तेऽनपवत्यायुषः / ते च भा०-सदेवकुरुत्तरकुरुषु सान्तरद्वीपकास्वकर्मभूमिषु कर्मभूमिषु च सुषमसुषमायां सुषमायां सुषमषमायामित्यसङ्ख्येयवर्षायुषो मनुष्या भवन्ति / अत्रैव बाह्येषु द्वीपेषु समुद्रेयु तिर्ययोनिजा असङ्ख्येयवर्षायुषो भवन्ति। औपपातिकाश्वासयवर्षायुषश्च निरुपक्रमाः / चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति / एभ्य औपपातिकवरमदेहासङ्ख्येयवर्षायुयः शेषा मनुष्यास्तियंग्योनिजाः सोपक्रमा निरुपक्रमाश्चापवायुषोऽनपवायुषश्च भवन्ति / तत्र येऽपव. अपवर्तनीया. युषि हेतुः त्यायुपस्ता विषशस्त्र मा ल्युपस्तेषां विषशस्त्रकण्टकाम्युदकाह्यशिताजीर्णाशनिप्रपा तोद्वन्धनश्वापदवननिर्यातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्व द्वन्द्वोपक्रमैरायुरपवर्त्यते। अपवर्तनं शीघ्रमन्तर्मुहूर्तात् कर्मफलोपभोगः, उपक्रमोऽपवर्तननिमित्तम् // 1 'बलदेवप्रतिवासुदेवाः' इति क-ख-पाठः / 2 अयं तु ध-पाठः, 'पातिकं चरम० ' इति तु ग-पाठः / Page #249 -------------------------------------------------------------------------- ________________ सूत्र 52 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 223 टी-मन्दनीलयोरुत्तरदक्षिणा गन्धमादनमाल्यवतोमध्य उत्तराः कुरवः एकादशयोजनसहस्रद्विचत्वारिंशाष्टशतसद्विकल विस्तृताः / मन्दरनिपधयोदक्षिणोत्तराः सौमनसाविद्युत्प्रभयोमध्ये देवकुरवस्तावत्प्रमाणाः, सह देवकुलभिरुत्तरकुरवः सदेवरू तस्कुरबस्तत्र देवा. रूत्तरकुरुयु जम्बुद्वीपधातकीखण्डपुष्करद्वीपाधिवृत्तिषु, तथा हिमवतःप्राक पश्चाद् विदिक्षु व्यादिपु नवान्तेषु योजनशतेदारवगाह्य तावद्विस्तरायामाः सहान्तरद्वीपाश्चतुचतुःप्रागुताक्रमादेकोरुकादयस्तानन्तरद्वीपान कायन्तीत्यन्तरद्वीपका मनुष्याः सहान्तरद्वीपकैः सान्तरडीपकाः, कर्मणो भूमयः यत्र जाताः प्राणिनः सकलं कर्म क्षपयित्वा सिद्धयन्ति तीर्थकरायुपदेशात् ताः कर्मभूमयो भरतैरावतविदेहक्षेत्राणि पञ्चदश प्रत्येकं पञ्चभेदत्वात् / न कर्मभूमयोऽकर्मभूमयः तासु अकर्मभूमिपु-हैमवतहरिवरिन्यकहैरण्यवताख्यासु जन्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्धवर्तिनीषु तथोक्तलक्षणासु कर्मभूमिषु च ये मनुष्याः प्रथम द्वितीयतृतीयसमासु यदा भवन्त्यसङ्ख्येयवर्घायुषस्तदा तेऽनपवत्यायुषो मन्तव्याः दृढबद्धत्वादग्न्यादिभिः कोहदुकापरानानुक्रमवद् / अत्रैव वासोधिवत्यादि / सदेवकुरुत्तरकुरुवित्यादि समस्तमुपलक्षयत्यत्रैवेति / तथा बाह्येषु मनुप्यक्षेत्रा बहिये वर्तन्ते द्वीपाः समुद्राथ तेषु तिर्ययोनिजा असक्ष्यवर्धायुषो भवन्ति,मनुप्यक्षेत्रे च बहिश्चेत्यसङ्ख्येयवर्षायुपां तिरश्चां सम्भवः / तत्र प्रागुक्तमनपवर्तनीयानि द्विविधानि भवन्तीति तद् दर्शयत्यधुना भाष्येण-औषपातिकाश्चासङ्ख्येयवर्धायुषश्च निरुपक्रमाः। न ह्येपांग्राणापानाहारनिरोधाभ्यवसाननिमित्तवेदनापरावातस्पर्शाख्याः सप्त वेदनाविशेषाः सन्त्यायुषो भेदकाः उपक्रमा इति, अतो निरुपक्रमा एव / चरमदेहाः पुनः सोपक्रमा निरूपक्रमाश्चेति / अत्रोत्तमपुरुषा नोक्ताः, एतानि प्राणापाननिरोधादीनि किल चरमदेहेषु सम्भवन्त्येव नोच्छिन्दन्तीति सोपक्रमा मण्यन्ते, केचित् तत्र निरुपक्रमा येष्वेतानि न सम्भवन्तीत्यपीति / इदानीं सामर्थ्यलब्धमर्थं दर्शयति--एभ्य इत्यादि / उक्तलक्षणेभ्यः औपपातिकादिभ्यो व्यतिरिच्यमानाः शेषाः। ते च नियमतो मनुष्याः तिर्यञ्चो वा आयुरुभयथा भजन्ते, प्राणापाननिरोधादिकारणकलापोपक्रम्यत्वात् सोपक्रमायुपः केचित, केचित् तु न तैरुपक्रम्यन्त इति निरुपक्रमायुषः / यदुक्तं-'प्रागपवर्तनीयानि तु नियतं सोपक्रमाणी'ति तद्विशेषदिदर्शयिषया आह-अपवायुपोऽनपवायुषश्च शेपाः / तत्र येऽपवायुपस्ते नियतं सोपक्रमाः। ये पुनरनपवायुपस्ते शेषाचेति-निरुपक्रमायुप एव / एतदेव भाष्यकारः स्पष्टयन विभजते-तत्र येऽपवत्योंयुषस्तेषामित्यादिना / तेषु मनुष्येषु तिर्यक्षु च येपामपवर्तनीयमायुस्तेषामपवर्त्यते / अमी विपादयो हेतवः सुज्ञानत्वाच्च न विवृताः। आदिशब्दाच्च पूर्वोक्ताः प्राणापाननिरोधादयः कांश्चिदपहाय ग्राह्याः / एभिर्हेतुभिरायुरपवर्तते स्वल्पीभवतीतियावत्, द्वन्द्व उपधात आयुषस्तस्योपक्रमः, तत्प्रत्यासन्नीकरणैरित्यर्थः / कि 1 'कंकटुकापरान्तानुपक्रमवत्' इति ग-टी-पाठः / Page #250 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 पुनरपवर्तनमुच्यत इत्याह-अपवर्तनं शीघ्रमन्तर्मुहूर्तात् कर्मफलोपभोगः, न खलु कर्मनाशोऽपवर्तनं, किन्तु शीघ्रं यः सकलायुप्फर्मफलोपभोगस्तदपवर्तनम्, अनेनैतत् कथयति तोवदपवर्तते तदायुर्यावदन्तर्मुहुर्तस्थितिजातं, ततः परं निवर्ततेताग्विधाध्यवसानाद्यभावात् / अत्र चापवर्तनफले कर्मफलोपभोगेऽपवर्तनशब्दः प्रयुक्तो भाष्यकारेण- उपक्रमोऽपवर्तन. निमित्तमिति पर्यायाख्यानमात्रमेतत् / अल्पतापत्तिकारणानामुपक्रमः, अपवर्तनमपि दीर्घकाल. स्थितितः कर्मणो ह्रस्वस्थितिकरणं निमित्तं विषशस्त्रायल्पताहेतुः, एवमिदमपवर्तनमिहायुरङ्गीकृत्याभिहितमन्यासामपि तु प्रकृतीनामनिकाचितावस्थानां प्रायोऽवसेयम् / तपोऽनुष्ठानात पुननिकाचिता अप्यपवर्त्यन्त इति पारमर्षी श्रुतिः॥ अथेदानी कर्मविनाशलक्षणमपवर्तनशब्दार्थमङ्गीकृत्य चोदयति–अत्राहेत्यादिना भाष्येण। भा०-अब्राह-यद्यपवर्तते कर्म तस्मात् कृतनाशः प्रसज्यते यस्मान्न वेद्यते। अथास्त्यायुष्कं कर्म म्रियते च, तस्मादकृताभ्यागमः प्रसज्यते येन सत्यायुप्के म्रियते, ततश्चायुष्कस्य कर्मणः आफल्यं प्रसज्यते / अनिष्टं चैतत् / एकभवस्थिति वाऽऽयुष्कं कर्म न जात्यन्तरानुबन्धि / तस्मान्नापवर्तनमायुषोऽस्तीति / अत्रोच्यतेटी०-अत्रावसरे पर आह-यद्यपवर्ततेऽपैति-विनश्यति फलमदत्वाऽऽयुष्कर्म तस्मात् यस्य कर्मणः कृतस्य सतो निष्फलत्वान्नाशः प्रसज्यते यस्मात् तन्न वेद्यते-नानुभूयत इत्यर्थः / अनिष्टं चैतद्-अवश्यं हि कर्मोपात्तमनुरूपं फलमुपाधाय स्वामिनि परिशटत्युत्तरकालं न पुनरदत्त्वैव फलं विलीयत इति / अथाननुभूते सत्येवायुष्के म्रियते तस्मादकृतस्यैवाभ्यागमो मरणस्यान्तराल एव प्रसज्यते, येन सत्यायुप्के म्रियते ततश्थायुपो विफलताप्रसङ्गः,अनिष्टं चैतत्, न खलु जैनसिद्धान्तोऽयं यत् कृतं सत्कर्म प्रणश्यति, अदत्तफलमकृतमेव चानुभूयत इति / अन्यच्च अननुभूते तस्मिन् कर्मण्ययमपरो दोषः-एकभवस्थिति वाऽऽयुष्कं कर्म न जात्यन्तरानुबन्धि // ननु चान्यस्मिन् भवे बद्धमन्यत्र वेद्यते कथमेकभवस्थिति स्यात् / उच्यते-न बन्धं प्रति ब्रूमः, उपभोगं प्रत्येकभवस्थितिकमायुराचक्ष्महे, एकस्मिन्नेकभवे भवत्यायुष उपभोगो न द्वितीयेऽपीति, यथा च त्वयाऽभ्युपेयते सत्येवायुपि म्रियते तथा तेनायुपा जात्यन्तरानुवन्धिना भाव्यम्, असिद्धान्तप्रस्थानं चैतत् , तस्माद् दोषचतुष्टयसम्भवानापवर्तनमायुषां विद्यते इति / अत्रोच्यते समाधानम् ___भा०---कृतनाशाकृताभ्यागमाफल्यानि कर्मणो न विद्यन्ते / आयुपो -हासेऽपि कृतनाशादिदोषा. नाप्यायुष्कस्य जात्यन्तरानुबन्धः, किन्तु यथोक्तैरुपक्रमैरभि हतस्य सर्वसन्दोहेनोदयप्राप्तमायुष्कं कर्म शीघ्र पच्यते तदपवर्त भावः १'तदपवर्तते' इति क-पाठः। २'चाय.' इति घ-पाठः। Page #251 -------------------------------------------------------------------------- ________________ सूत्रं 52 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 225 नमित्युच्यते / संहतशुष्कतृणराशिदहनवत् / यथा हि संहतम्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति तस्यैव शिथिलपकणिपिचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्यार्थस्याशु दाहो भवति तद्वत् // टी--न खल्वेते दोषाः प्रतिभान्ति जिनशासनावलम्बिनाम्, सिद्धान्तापरिज्ञानाचैत्र चोद्यते, नायमार्हतः कृतान्तः फलमदत्त्वा कर्म प्रणश्यतीति, किन्तु यथाक्तरुपक्रमैरथ्यवसानविपशखादिभिरभिहतस्याभिप्लुतस्य सर्वसन्दोहेन-सर्वात्मना साकल्येनासादितोदयमायुष्कं कर्म प्राप्तविपाकमाशु भवति, यस्तु तस्य क्रमभावी विपाकः सोऽपवत्येते, अनुभवः पुनः सर्वस्य युगपन्न निषिध्यते इत्येषोऽपवर्तनशब्दार्थः। बहिर्वर्तमानवस्तुविशेषप्रसिद्धया न्तःप्रसिद्धिः साध्यत इत्याह-संहतेति / संहतत्वात् परिशेषवानपि तृणपुञ्जश्चिराय दह्यते, यदा तु विरलितो भवत्यवयवशस्तदाऽऽशु भस्मसाद् भवति, तद्वदायुषोऽप्यनुभवः, यदाऽऽयुदृढसंहतमतिघनतया बन्धकाल एव परिणामापादितं भवति पवनश्लेषवत् तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत् पुनर्बन्धकाल एव शिथिलमाबद्धं तद् विकीर्णतणराशिदाहवदपवाशु वेद्यत इति / एवंविधार्थप्रक्रमे दृष्टान्तसुलभतामादर्शयन्नाह भा०-यथा वा सङ्ख्यानाचार्यः करणलाघवार्थ गुणअपवर्सनेऽप्यक्षय क्षय. कारभागहाराभ्यां राशिं छेदादेवापवर्तयति, न च सङ्ख्येयस्खे दृष्टान्तः // " स्यार्थस्याभावो भवति, तदुपक्रमाभिहतो मरणसमुद्रातदुःखातः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति // विश्चान्यत् / टी-यथा वा सङ्ख्यानाचार्य इत्यादि / सङ्ख्यान-गणितशास्त्रं तत्प्रधान आचार्यः सङ्ख्यानाचार्यो गणितप्रक्रियायामाहितनैपुणः, करणलाघवाय करणानि-गुणकारभागहारापवर्तनोद्वर्तनादीनि गणितशास्त्रप्रसिद्धानि, तत्र यो लघुः करणोपायः स्वल्पकालस्तेन तत्फलमानयति गणिताभिज्ञत्वात, तुल्येऽपि हि फलानयने गुणकारभागहारो चिराय तत्फलमभिनिवर्तयतः, स पुनर्गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिच्छेदादेवार्धादिकादपर्वतयति, पण्णवत्यादिकम्, अनपवर्तनाह पुनर्लघुकरणाभिज्ञोऽपि न शक्नोत्येवापवर्तयितुम्, एकपञ्चाशदुत्तरसहस्रादिकम् , गुणकारभागहारक्रममेवात्र प्रयोजयति, न च सङ्ख्येयस्यार्थस्याभावो भवति, फलभूतस्य करणविशेपे सत्यपि प्रेप्सितफलाभेदमादर्शयति / करणव्यापारकालो बहुरल्पभेदः फलमविशिटमेवोभययोर्यथैतबदुपक्रमाभिहतो मरणसमुद्घातदुःखातः कर्मप्रत्ययमनाभोग१ प्रसिद्धधतः प्रसिद्धिः' इति क-पाठः। Page #252 -------------------------------------------------------------------------- ________________ 226 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः योगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास फलाभाव इति, उपक्रमो-विषाग्निशस्त्रादिस्तेनाभिहतो मरणं-आयुःक्षयस्तत्र समुद्घात मरणसमुद्घातो नाम स्वशरीरकादात्मप्रदेशापको मूर्छानुगतश्चेतनाविमुक्त इवाव्यक्तप्रबोो लक्षणोऽस्तमितसकलबहिवर्तिचेष्टाक्रियाविशेषः स एव चातिचिररूढमूलप्रदशोत्खननरूपत्वाद् दुःखं तेनाता-विषण्णः किंकतेव्यताविमुखः कमेप्रत्ययं-कमेकारणं करणविशेषमुत्पाद्यापवतनाख्यम्, कर्मकारणता तु करणविशेषस्य पूर्वभवबन्धकाल एव प्रयत्नशैथिल्यात् सोपक्रमबन्धः अत्यन्तापरिज्ञानमनाभोगः अनाभोगकृतो योगः योगः-चेष्टाविशेषः अनाभोगयोगस्तत्पूर्वक तत्कारणम् / एतदुक्तं भवति-अजानान एव हि तदपवर्तनाकरणेनापवर्तनाह कर्मापवर्तयति आहा. ररसादिविपरिणामवत्, किमर्थं पुनरपवतेयति ? फलोपभोगार्थमायुष्कर्मफलोपभोगायानाभो. गनिर्वर्तितेन वीर्य विशेषेणेति, न चास्यायुष्कर्मणः फलाभावो भवति / इयांस्तु विशेषः-क्रमपरिभोगे बहुकालः, संवर्तितपरिभोगे स्वल्प इति, न पुनरभुक्तं तत्र किश्चित् कर्म परिशटतीति / किश्चान्यदित्यनेनापरमपि प्रकृतार्थोपयोगिनमादर्शयति दृष्टान्तम्--- - भा०-यथा वा धौतपटो जलाने एव संहताश्चरेण शोषप्रकृतम्य समर्थनम् , "मुपयाति, स एव च वितानितः सूर्यरश्मिवायुभिर्हतः क्षि शोषमुपयाति, न च संहते तस्मिन्नभूतस्नेहागमो नापि वितानिते सति अकृत्स्नशोषः, तद्वद्याक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति, नप कृतप्रणाशाकृताभ्यागमाफल्यानीति // 52 // टी०-यथा वा धौतपट इत्यादि / एवं चैप प्रकृतोऽर्थः प्रतिपत्तव्यः / यथा वा क्षालितपटो जललेशोपचितमूर्तिरेवावेष्टितश्चिगयोद्वायति, स एव प्रयत्नविशेषतो विस्तारितः सन् सहस्त्ररश्मिमयूखमालाभिः परिपीताशेपजललवः प्रबलपवनवेगविघटितनिरवशेषप्रदेशः शीघ्रमपास्ताश्रितजलसङ्घातःसमासादिताधिकतरधवलिमाऽपि परिशष्यति / न च संहते तरिमन्नभूतस्नेहागम इति, न चाभूतजलस्नेहागमो भवति तस्मिन् संवेष्टितपटे, किन्तु संहतत्वात तावन्त एव जलावयवाः कालेन बहुना परिशटन्ति, न पुनरभूतानामेव स्नेहावयवानामागमः, नापि वितानित अकृत्स्नशोषः, न च प्रसारिते तस्मिन् पटे कृत्स्नजलावयवपरिशोषो न भवति, विततेऽपि हि सर्व एव ते जलावयवाः परिगध्यन्ति, तेषां हि जलावयवानां यावती मात्रा वेष्टितपटे तावत्येव प्रसारितेऽपि, परिशोपकालस्तु मिद्यते। परे व्याख्यानयन्ति-न च संहते तस्मिन् न भूतः स्नेहापगमः, भूत एव सञ्जात एवेत्यर्थः, किन्तु बहोः कालात, विता. निते तु द्रागेव च कृत्स्नवारिनिवहापगमः। तद्वदित्यनेन दाष्टान्तिकमर्थम्य दर्शयतितुल्यतया यथोक्तनिमित्तापवर्तनैः क्षिप्रं फलोपभोगो भवतीति / यथाभिहितं विषा ग्निशस्त्रादि येषामपवर्तनानां तान्यवपर्तनानि यथोक्तानि निमित्तानि तैर्यथोक्तनिमित्ता १.वाय्वभिहतः' इति घ-पाठः / Page #253 -------------------------------------------------------------------------- ________________ सूत्र 52 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 227 पवर्तनैः कर्मण आयुषः शीघ्र फलविपाको मुज्यत इत्यर्थः / अतः क्रमानुभवे वेष्टिसार्द्रपटपरिशोषकालवद बहुत्वं कालस्य, प्रसारितार्द्रपटपरिशोषकालचाल्पकालता परिवतितायुष्कपरिभोगकालस्य / एवं च सति म कृतप्रणाशाकृताभ्यागमाफल्यानीति निगमयति-समस्तायुर्द्रव्योपभोगात् कृतविप्रणाशो नास्ति, न चायुष्यपरिनिष्ठिते मियत इ. स्पकृताभ्यागमाभाषः, परिभुक्तत्वादेव व सकलस्यायुषो म वैफल्यप्रसङ्गः, अत पव जात्यन्तरानुपन्धत्वामावोऽपीति / न घेह भाष्यकारेणोक्तः, प्रागुपन्यस्तस्यापि पूर्वकत्रयस्याभावे तदमावास्, तस्मादवस्थितमिदम् - केचिदकाले प्राणिनो प्रियन्ते पूर्वजन्मोपासायुष्ककालापेक्षया, केचिदनन्तरातीतजन्मोपात्तायुष्ककालमखण्डमवसायं प्रापय्य विहायास्ते(१) न शेषात् स्वकतुकर्मादिष्टं जन्मान्तरमनुषभन्तीति / / 52 // ग्रन्यायमङ्कतः 3420 इति श्रीतषार्थसूत्रेऽईत्प्रवचनाधिगमे भाष्यानुसारिण्या तत्वार्थटीकायां द्वितीयोऽध्यायः // 2 // // इति द्वितीयोऽध्यायः॥ Page #254 -------------------------------------------------------------------------- ________________ // श्रीगौडीपार्श्वनाथाय नमः // तृतीयोऽध्यायः 3 भा०-अत्राह-उक्तं भवता नारका इति गतिं प्रतीत्य जीवस्यौदयिको भाग तथा जन्मसु 'नारकदेवानामुपपातः (अ०२, सू०३५)। वक्ष्यति च स्थिती नारका पवितीयादिषु' (अ०४, सू० 43), आम्रवेषु 'षड्वारम्भपरिग्रहत्वं च नारकर यूषः' (अ० 6, सू०१६ ) इति। तत्र के नारका नाम क वति / अत्रोच्च मरकेषु भवा नारकाः। तत्र नरकप्रसिद्धयर्थमिदमुच्यते सी०-अत्राह-उक्तं भवतेत्यादिः सम्बन्धअन्यः, स चाध्यायप्रकरणसूत्रकृतः, तत्राध कृतस्तावद् द्वितीये जीवा लक्षणविधानाभ्यामभिहिताः, तत्र लक्षणमेकरूपत्वान्न पुनरभिधीर विधानं तु बहुरूपत्वात् पुनः पुनरभिधापयति, अतोऽत्रापि तृतीयेच नारकाधिकार प्रतिविशिष्टस्थाननिरूपणाद्वारेण जीवविधानमेव विवक्षितमिति / प्रक प्रस्तावना " सूत्रकृतौ तु सम्बन्धौ भाष्यकारेणोपात्तौस्वयमेव, तयोः प्राकाश्यमापार अन्न-अध्यायपरिसमाप्तिप्रस्तावे शिष्य आह-अभिहितं भवता द्वितीयेऽध्याये भावप्रव नारका इति गतिं प्रतीत्य जीवस्यौदायिको भाव इति / गतिकषायलिङ्गसूत्र (10 सू०६) अनेन भाष्येण सूचयति / तथा तस्मिमेव द्वितीये जन्मप्रकरणप्रस्तावे नार। पानामुपपातः (अ० 2, सू० 35) इत्युक्तम्, तथा चतुर्थेऽध्याये / मारकाधिकारस्था. तापायुषः प्रस्तुतायां वक्ष्यति भवान्-नारकाणां च वितीया दश वर्षसहस्राणि प्रथमायाम् (अ०४, मू० 43, 44) इति, तथा ऽध्याये कर्मास्रवविचारणायां यहवारम्भपरिग्रहत्वं च नारकस्यायुषः (अ०६, 20 इति प्रतिपादयिष्यते / तत्रैवमनेकस्मिन् स्थाने नारकशब्दश्रवणादाहितसंशयः पृच्छतिमारका नामेति जीवत्वसामान्यमवधृतं विशेषो निवासादिरनवधृत इत्यतः प्रश्नयति के नारका इति / अत्रोच्यते-नरकेषु भवा नारकाः, वक्ष्यन्ते उपरिष्टादुष्ट्रिकापिष्टपचनीसो रकाधाकृतयः सीमन्तादयो नरकाः विशिष्टाकृतयोऽपुण्यसंभारजनितगौरवाणां सत्त्वानामुल स्थानविशेषाः,ते च किलाशुभकर्मभाजो नरान् कान्ति-आयन्तीति नरकाः, "रूदिषु हि पुत्पत्तिकर्मार्था नार्थक्रियार्था" इतिवचनात् न ने कश्चिदाहयन्ति नापि नरानिति, ति मपि तत्र गमनाद. अतो न्युत्पत्तिमात्रमेव केवलम्, तेषु नरकेष्ट्रिकाद्याकृतिषु भवा नारर मामि तत्र के नाम' इति ग-टी-पाठः। 2 'चेति' इति घ-पाठः / 3 'जीवविशिष्टमेव' इति ख-पाठः / 4 // पुत्पत्ति' इति ग-पाठः / 5 'नर्थक्रिया' इति ।-टी-पाठः किश्चित्' इति क-ख-पाठः / / इति ग-टी-पाठः। Page #255 -------------------------------------------------------------------------- ________________ सूत्रं 1 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 229 सच्चविशेषा इत्यर्थः / तत्र नरकप्रसिद्धयर्थमिदमुच्यते, तत्र-तेषु नरकेषु विवक्षितेषु तन्मूलत्वात् तत्प्रतिष्ठत्वान्नारकप्रतिपत्यर्थमेव तावदिदमभिधीयते नान्तरीयकत्वादिति // सूत्रम्-रत्नशर्करावालुकापङ्कधूमतमोमहातम प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः // 3-1 // री०- सूत्रकृतोऽप्येष एव सम्बन्धोऽतः पृथग नोक्तः, अथवा वक्ष्यते नवमे-आज्ञापायविपाकसंस्थानविचयाय धयेमप्रमत्तसंयतस्य (अ० 9, सू० 37) इति, तत्र संस्थानविचय: "लोकस्यास्तिर्यग् , विचिन्तयेद्धमपि च बाहल्यम् / सर्वत्र जन्ममरणे, रूपिद्रव्योपयोगांश्च ॥"-प्रशम० श्लो० 160 इति, तत्र प्राक् तावदधोलोकस्वरूपपेव पृथिवीभेदेनोच्यते / रत्नशर्करेत्यादि सूत्रम् / ततस्तियग्लोकस्वरूप जम्बूद्वीपलवणादिप्रक्रमेण, पश्चाच्चतुर्थे ऊर्चलोकस्वरूपमिति, एवमयं त्रिविभागः पश्चास्तिकायसमुदयवृत्तिर्जीवाजीवाधारक्षेत्रलक्षणो वैशाखस्थानस्थितकटिस्थकरयुमपुरुषाकृतिर्लोकः, तस्याधस्तनभागस्वरूपावगमनायेदमुच्यते / अथवा सम्यग्दर्शनमाग्भिर्जीपैलॊकस्यासङ्ग्येयभागः स्पृष्ट इत्युक्तं प्रथमाध्याये (मू०८) सम्याष्टिनातु सर्वलोकः, तद्न्यतां निर्देशतः को लोक इत्यतोऽधोविभागादिः स आख्यायते // रत्नशरेत्यादि सूत्रम्, रत्नानि-वन्नादीनि तत्प्रधाना रत्नप्रभा, शर्करादयोऽपि प्रतीतास्तत्प्रधानाः सर्वा वक्तव्याः, प्रभाशब्दो रूपस्वभावयाची, रत्नप्रभा रत्नस्वभावा रत्नमयी रत्नबहुलेति, एवं शर्कराप्रभादयोऽपि वाच्याः, एप च प्रभासदः पत्येकमभिसम्बध्यत इति दर्शयति भा०-रत्नप्रभा शर्करामभा वालुकाप्रभा पङ्कप्रभा धूमप्रनरक पृथ्वीना - भा तमःप्रभा महातमाप्रभा इत्येता यो घनाम्बुवाताका शप्रतिष्ठा भवन्त्येकैकशः समाधाऽधः // टी-रत्नप्रभेत्यादिना भाष्येण / इत्येता भूमयो घनाम्बुवाताकाशप्रतिष्ठा भवन्त्येकैकशः सप्ताधोऽधः, एवमेता रत्नप्रभाद्याः पृथिव्यो घनाम्बुनि वायौ वियति च प्रतिष्ठिताः; नेश्वराद्याधारा इत्याचष्टे / घनाम्बु च वाताश्चाकाशं च धनाम्बुवाताकाशानि तेषु प्रतिष्ठा-स्थितिर्वर्तनं यासां ता बनाम्बुवाताकाशप्रतिष्ठा भवन्ति, एकैका एकैकशः घनाम्बुवाताकाशक्रमेण प्रतिष्ठिताः, न पुनः सप्तानामप्यध एव घनाम्बुवाताकाशानि प्रत्येकमन्तरालेषु न सम्भवन्तीति, सङ्ख्ययाऽवधार्यन्ते सप्तैवान्यूनाधिका इति / अंधोऽध इति प्रतिविशिष्टक्रमाख्यानं तिर्यगूर्वदिशो व्युदासः, एतदेव स्पष्टयति, 'सम्बन्धो न पृथगुक्तः' इति क-न-पाठः / 1 'महातमःप्रभा भूमयो' इति ग-टो-पाठः / 3 अधः' इति माधारा: क-ख-पाठः। Page #256 -------------------------------------------------------------------------- ________________ घनश 230 तत्वार्थाधिगमभूत्रम् [ अध्यायः 3 भा०–रत्नप्रभाया अधः शर्कराप्रभा, शर्कराप्रमाया अधो वालुकाप्रमा इत्येवं शेषाः / अम्बुवाताकाशप्रतिठा इति सिद्धे घनग्रहणं क्रियते तेनीयमर्थः प्रतीयेत घनमेवाम्बु अधः पृथिव्याः, बातास्नु घनास्तनवश्चेति / / टी-रत्नप्रभाया अधोऽसङ्ख्येया योजनकोटीना कोटीरवगाह्य शर्कराप्रमा भवति, शर्कराप्रभायास्त्वधोऽसङ्ख्येया एव योजनकोटीना कोटीरतिक्रम्य वालुकाप्रभा भवति, एवं शेषाः पप्रभाद्या असाव्येययोजनकोटीकोट्यवकाशान्तरा वक्तव्या ___अधोऽध इति / / अथ घनग्रहणं किमर्थं क्रियते अम्बुवाताकाशप्रतिष्ठा " इत्येतावतैवाभिलपितार्थप्रसिद्धेरिति ? मूरिराह-सत्यमेवं सिद्धयति, सि. द्धे सति यत् तथापि घनग्रहणं क्रियते तेनायमर्था ज्ञाप्यते घनमेवाम्बु अधः पृथिव्याः प्रत्येकं यथा स्यात्, मा भूद् द्रवमिति / वातास्तूभयथा घनास्तनवश्चति / यथैव पृथिवीनामधोधो व्यवस्थानमशेषाणामेवमेकस्यां पृथिव्यां स्वभदानामधोऽधो व्यवस्थानं दर्शयितुमाह - भा०--तदेवं खरपृथिवी पङ्कप्रतिष्ठा, पङ्को घनोदधिवलखरपंकादिप्रतिष्ठा " यप्रतिष्ठः, घनोदधिवलयं घनवातवलयप्रतिष्ठम्, घनवातवलय त्वम् तनुवातवलयप्रतिष्ठम्, ततो महातमोभूतमाकाशम् / सर्व चैतत् पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम्, आकाशं चात्मप्रतिष्ठम् / उक्तमवगाहनमाकाशस्यति॥ टी–तदेवं खरपृथिवी पङ्कप्रतिष्ठा / आदावत्र रत्नप्रभायाः खरपृथिवीकाण्डं रत्नबहुलं योजनसहस्रषोडशकवाहल्यम्, तत् पश्पृथिवी लाण्डे पकाहुले चतुरशीतियोजनसहस्रनहुले प्रतिष्ठितम्, तदपि पङ्कपृथिवीकाण्डमपृथिवीकाण्डे जलबहुलेऽशीतियोजनसहस्रघने प्रतिष्ठितम् / अत्र चाचार्येणाबहुलं काण्ड नोपात्तं पृथग, घनोदधिवलयग्रहणेनैवं लब्धत्वाद, घनोदधिय घनोदधिवलयं चेत्येकदेशनिर्देशात्, तत् पुनर्जलबहुलं काण्ड विंशतियोजनसहस्रबहुले घनाम्धुवलये प्रतिष्ठितम्, घनोदधिवलयमप्यमङ्ख्यययोजनसहस्रघने धनवानवलये प्रतिष्ठितम्, घनवातवलयमपि ह्यसङ्ख्येययोजनसहस्रबाहल्ये तनुवातवलये प्रतिष्ठितम्, ततस्तनुवातवलयात् परं महातमोभूतमाकाशमसङ्ख्येययोजनकोटीकोटीप्रमाणम्, तदन्तरालपति वियत् तनुवातवलयद्वितीयपृथिव्योः मुचिभेधेन सन्तमसेन समन्ततो विजृम्भमाणेनातिघनतां गतेन व्याप्तम्, अतो महातम इव तत् प्रतिभातीति महातमोभूतमुच्यते, तच्चास्याः खरकाण्डादिभेदायास्तनुवातवलयपर्यन्ताया रत्नप्रभापृथिव्याः प्रपन्नमाधारतामधिगन्तव्यमित्यादर्शयति-सर्व चैतत् पृथिव्यादीत्यादिना / न चैतत् अश्रद्धेयं प्रत्यक्षप्रमाणसमधिगम्यानि 1 'येन प्रतीयते' इति घ-पाठः। 2 'पृथिव्यां' इति ग-घ-टो पाठः। 3 'योजनकोटीरतिफम्य' इति ग-टी. पाठः। 4 'त्वात्म.' इति घ-पाठः / Page #257 -------------------------------------------------------------------------- ________________ सूत्र 1] स्वोपज्ञभाष्य-टीकालङ्कृतम् 231 चन्द्रादित्यादि विमानानि निरालम्बे विहायसि परिप्लवन्ते, न चाधः पतन्ति लोकानुभावादेवमेवैताः पृथिव्योऽपीति, आकाशं पुनरात्मन्येव प्रतिष्ठितम्, नाधारान्तरसमासादितप्रतिष्ठमिति, यस्मादृक्तम्-अवगाहनमाकाशस्यति, पञ्चमेऽध्याये सूत्रतः उक्तम्-'आकाशस्यावगाहः' (अ० 5, मृ० 18 ) उपकारः, अवगाहदानेन व्याप्रियत आकाशं सर्वद्रव्याणामवगाहवतां निरवगाहदानव्यापारपरं सदवगाहिन्यते तदन्यत्र तदनुरूपाधाराभावादतः स्वप्रतिष्ठं प्रतिपत्तव्यम् // भा०-तदनन क्रमेण लोकानुभावसन्निविष्टा असङ्ख्येययोजनकोटीकोव्यो वि. स्तृताः सप्त भूमयो रत्नप्रभाद्याः / सप्तग्रहणं नियमार्थम् / रत्नप्रभाद्यामा भूवन्नेकशः अंनियतसङ्ख्या इति। किश्चान्यत्। अधः सप्तयेत्यवधार्यते, ऊच त्वकैवेति वक्ष्यते।। टी०-तदनेन क्रमणेत्यादि भाष्यम्, तस्मादनेन क्रमेण घनाम्बुधनवाततनुवातवल . याकाशप्रतिष्ठानाः सप्तापि भूमयो लोकानुभावादेव सन्निविष्टाः, प्रतिष्ठाने लोकस्थितिहेतुः . लाल - लोकानुभावो हि लोकस्थितिग्नाद्या न केनचिदीश्वरादिना कृता व्योमव * दकृत्रिमा, असङ्ख्यययोजनकोटीकोट्यो विस्तृता इति तियाप्रमा. णमाचष्टे, नाधःप्राच्यात् रत्नप्रभापृथिवीपर्यन्तात् प्रतीच्यं तत्पर्यन्त एतावदन्तरालमतीत्य भवतीत्येवं शेषाणामपि बहुतरा बहुतमाश्च कोटयो भवन्ति, वृत्तत्वाच्च सर्वासांतुल्यं विष्कम्भायामताऽध्यवसेया। प्रवचनं चेदम् --" कतिविहाणं भंते ! लोकहिती पण्णत्ता ? गोयमा! अविहा लोगटिई पण्णत्ता, तंजहा-आगासपतिटिए वाए 1 वातपतिठिए उदही 2 उदधिपइटिया पुढवी 3 पुढवीपतिहिता तसथावरा पाणा 4 अजीवा जीवपतिहिया 5 जीवा कम्मपइटिया 6 अजीवा जीवसंगहिता 7 जीवा कम्मसंगहिता 8 ॥से केणटेणं भंते ! एवं वुचति अविहा लोगहिती ? गोयमा! से जहा नामए केति पुरिसे वत्थिमाडोवेति, वत्थिमाडोवेत्ता उप्पिसि ते बंधति, बंधित्ता मज्झे गंठिं देति, मझेगठिं दलइत्ता उवरिलं गंटिं मुइत्ता उवरिल्लं देसं वामेति, वामेत्ता आउकायस्स पूरेति, पूरित्ता उपिसि तं बंधति, बंधित्ता मज्झिल्लं गठि मुयति, तेणं गोयमा ! से आउकाए तस्स वाउकायस्स उवरितले चिति, से तेणं अटेणं गोयमा! एवं बुचति-अद्दविहा लोकहिती पण्णत्ता। से जहा वा केइ पुरिसे वत्थिमाडोवेति, आडोवेत्ता कडीए धनियत' इति घ-पाठः / २'तुल्यविष्कम्भायामेत्यध्यवसेया' इति ख-पाठः / 3 कतिविधा भदन्त / लोकस्थितिः प्रज्ञप्ता ? गौतम! अष्टविधा लोकस्थितिः प्राप्ता, तद्यथा-आकाशप्रतिष्ठितो पातः, वातप्रतिठित उदधिः, उदधिप्रतिष्ठिता पृथ्वी, पृथ्वीप्रतिष्ठिता त्रसस्थावराः प्राणाः, अजीवा जीवप्रतिष्ठिताः, जीवाः कर्मप्रतिष्ठिताः, अजीवा जीवसंगृहीताः, जीवाः कर्मसंगृहीताः / अथ केनार्थेन भदन्त। एवमुच्यते-अष्टविधा लोकस्थितिः? गौतम! तत् यथानामकः कश्चित् पुरुषः बस्तिमापूरयति, बस्तिमापूर्य उपरिष्टात् तां बनाति बद्ध्वा मध्ये प्रन्थि ददाति, मध्ये प्रन्थि दवा उपरितनं मन्थि मुक्त्वा उपरितनं देशं वमयति (रिक्तीकरोति) वमयित्वा अप्कायं पूरयति, पूरयित्वा उपरिष्टात् ता बनाति, बध्या मध्यमं प्रन्धि मुश्चति, तेन गौतम | सः अपकाया तस्य वायुकायस्म उपरितले तिष्ठति, तदेतेनार्थेन गौतम! एवमुच्यते-अधविधा लोकस्थितिः प्राप्ता / अप यथा वा कथित पुरुषः Page #258 -------------------------------------------------------------------------- ________________ 232 तत्वार्थाधिगमसूत्रम् [ अध्यायः बंधति, पंधित्ता अत्थाहमतारमपोरिसियंसि उदगंसि ओगाहेजा, गुणं गोयमा ! से प्रति तस्स आउकायस्स उप्पिं उवरितले चिति ? हंता चिति, एवमेव अविहा लोकहिती पणत्ता' (भग०श०१,उ०६,मू०,५४)।रत्नप्रभाषाश्च प्रथमं काण्डं रत्न वन-वैडूर्य-लोहिताख्य-मसारगल्ल हसगर्भ-पुलक-सौगन्धिक-ज्योतीरसाञ्जनाञ्जन-पुलक-रजत-जातरूपाङ्क-स्फटिकारिष्टभेदार षोडशधा, इतरे त्वेकाकारे पङ्कजलबहुले काण्डे, शेषाश्च भूमयः शर्कराद्याः एकाकारा एवावसा तव्याः। सप्तग्रहणं नियमार्थमित्यादि, विशिष्टसङ्ख्याशब्दोपादानानियमः क्रियते सप्तवा धः पृथिव्यः, का पुनराशङ्का नियमाभिप्रायानुवर्तिनः सूरेरिति?। उच्यते-रत्नप्रभाधा मा भूब नेकशी ह्यनियतसङ्ग्या इति / रत्नप्रभायाः प्रथमं काण्डं षोडशधा, तथा पङ्कबहुर काण्डं जलबहुलं काण्डमिति एकैकस्य भेदस्य पृथिवीत्वाद् बहुत्वं पृथिवीनामधः स्यात्, अ एवमेकेका हनियतसङ्ख्या मा भूदिति सप्तग्रहणमुपात्तम्, इतरा अपि च प्रतरादिभेदे भिधमाना बहुत्वमनुयान्ति स्वस्थान एवेति तस्मानियमापादनम् / किश्चान्यत्-अन्यर्दा . हि सप्तग्रहणस्य प्रयोजनमस्त्येव किश्चित् , अधः सप्तवत्यवधार्य अधःपृथ्वीनां विशिष्टसङ्ख्यानियमोऽधः प्रदश्यते, न पुनः पृथिव्य एतावत्य ए - त्रैलोक्य इत्यवधायते, यत ऊर्ध्वं त्वेकैवेति वक्ष्यति, उपरिष्टात् पुन सर्वकल्पविमानान्यतीत्यार्धतृतीयद्वीपविष्कम्भायामोत्तानकच्छत्राकृतिरीषत्प्राग्भारा नाम / थिवी दशमेऽध्याये (19 तम)कारिकाभाष्येण व्याख्यास्यते 'तन्वी मनोज्ञा सुरभिः, पुण्य परमभासुरा' इत्यादिनेति / तथाऽन्यदपि सप्तग्रहणस्य प्रयोजनमाख्यायते भा०-अपिच-तन्त्रान्तरीया असङ्ख्ययेषु लोकधातु भसङ्ख्यप्रस्तारे निरासा तर असख्येयाः पृथिवीप्रस्तारा इत्यध्यवसिताः, तत्प्रतिषेधार्थ / असरल्ययाः प्रायवाप्रस्तारा सप्तग्रहणमिति॥ टी०-तन्त्रान्तरीया इत्यादि भाष्यम् / अन्तरे भवाः अन्तरीयांस्तन्त्रप्रधाना अन्तरी यास्तन्त्रान्तरीयाः-जिनप्रवचनबाह्यास्ते च प्रायः प्रस्तावान्मायासूनवीया एव गृह्यन्ते, सर्वत किलासङ्ख्येया एव लोकधातवस्तेषु घासङ्ख्येया एव पृथिवीप्रस्तारा इत्यध्यवसित दुर्मेधसः // तदागमश्चायम् “यथा हि वर्षति देवे प्रततधारं नास्ति वीचिका वा अन्तरिका : एवमेव पूर्वायां दिशि लोकधातवो नैरन्तर्येण व्यवस्थितास्तथाऽन्यास्वपि दिक्ष्विति" तत्त तिषेधार्थ च सप्तग्रहणं क्रियते, सप्तैवैताः सर्वतः परिमाणपरिच्छिन्ना लोकान्तर्वर्तिन्यः लोकश्च परिमाणवान् सर्वतो जीवाजीवात्मकत्वाच्छरीरादिवदिति, मूर्तिमद्रव्यात्मकत्वा पा घटादिवत् / बस्तिमापूरयति आपूर्य कठ्या बध्नाति, बद्ध्वा अस्ताधमतायमपौरुषेय उदकमवगाहेत, नूनं गौतम! स पुरुषः तर अकायस्य उपरि उपरितले तिष्ठति ! हन्त तिष्ठति, एवमेव अष्टविधा लोकस्थितिः प्रज्ञप्ता। .. 'माभूवननेकशः' इति ग-टी-पाठः / १'नियमादापादनम् ' इति ग-टी-पाठः / Page #259 -------------------------------------------------------------------------- ________________ सूत्रं 1] स्वोपज्ञभाष्य-टीकालङ्कृतम् 233 भा०-सर्वाश्चैता अधोऽधः पृथुतराइछत्रातिच्छत्रसंस्थिताः / पृथ्वानामाकारा धर्मा वंशा शैला अञ्जना रिष्ठा माघव्या माधवीति च आसां नामानि बाहल्यं च नामधेयानि यथासङ्ख्यमेवं भवन्ति। रत्नप्रभा घनभावेनाशीतं योजनशतसहस्रम् , शेषा द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकमिति / ___टी.-सर्वाश्चैता इत्यादि भाष्यम् / रत्नप्रभाद्या महातमःप्रभापर्यवसाना अघोऽधः पृथुतराः-एकरज्जुप्रमाणा विष्कम्भायामाभ्यां रत्नप्रभा, शर्कराप्रभाऽर्धतृतीयरज्जुप्रमाणा, वालुकाप्रभा चतूरज्जुप्रमाणा, पङ्कप्रभा पञ्चरज्जुप्रमाणा, धूमप्रभा रज्जुषट्कप्रमाणा, तमःप्रभाऽर्धसप्तरज्जुप्रमाणा, महातमःप्रभा सप्तरज्जुप्रमाणेति / अत एव छत्रातिच्छत्रसंस्थिता भवन्त्येताः, छत्रातिच्छत्रे ह्युपरितनं छत्रमायामविष्कम्भाभ्यां लघु भवति, तदधोवर्ति विस्तीर्णतरम्, तस्याप्यधो विशालतममित्यतः छत्रातिच्छत्रवत् स्थिताः, सर्वत्र घनभावेन समा झल्लयोकृतयः। तासां चोत्कीर्तनमुभयथा नामतो गोत्रतश्च, तत्र प्रथमा घर्मा नाम्ना रत्नप्रभा गोत्रेण, द्वितीया वंशा नाना शर्कराप्रभा गोत्रेण, तृतीया शैला नाम्ना वालुकाप्रभा गोत्रेण, चतुर्थ्यञ्जना नाम्ना पङ्कप्रभा गोत्रेण, पश्चमी रिष्ठा नाम्ना धूमप्रभा गोत्रेण, षष्ठी मावव्या नाम्ना तमःप्रभा गोत्रेण,सप्तमी माधवी नाम्ना महातमःप्रभा गोत्रेणेति,एवमेतानि नामधेयानि-नामान्येवासां यथाक्रममुभयथाऽवगन्तव्यानीति / / तत्र रत्नप्रभा पूर्वापरादिविभागव्यवच्छिन्ना सर्वत्र धनभावेन बहलतया अशीतिसहस्रोत्तरयोजनलक्षप्रमाणेति, द्वितीया द्वात्रिंशत्सहस्रोत्तरलक्षप्रमाणा, तृतीयाऽटाविंशतिसहस्रोत्तरलक्षप्रमाणा, चतुर्थी विंशतिसहस्रोत्तरलक्षप्रमाणा, पञ्चम्यष्टादशसहस्रोत्तरलक्षप्रमाणा, षष्ठी पोडशसहस्रोत्तरलक्षप्रमाणा, सप्तमी सहस्राष्टकोत्तरलक्षप्रमाणेति / / अधुना सर्ववसुधावर्तिनो घनोदधीन मध्यप्रदेशे बहलतया निर्दिशति भा०-सर्वे घनोद्धयो विंशतियोजनसहस्राणि, घनांततनुघनोदश्यादि. ___वातास्त्वसङ्ख्येयानि, अधोऽधस्तु घनतरा विशेषेणेति // 1 // मानम् टी०-सर्वे घनोधयो विंशतियोजनसहस्राणि / घनाः सर्वपृथिवीनामधोभागवर्तिनां मध्यप्रदेशेषु, प्रदेशहान्या तु हीयमानाः पार्थिवाः पृथिवीपर्यन्तप्रदेशेषु वलयाकृतिव्यवस्थानास्तनुतरा भवन्ति, तद्यथा-प्रथमायां धनोदधिवलयबहलता सर्वत्र षड् योजनानि, द्वितीयस्यां घनोदधिवलयं सत्रिभागपइयोजनबहलम्, तृतीयस्यां त्रिभागोनसप्तयोजनबहलम्, चतुर्थ्याः सप्तयोजनबहलम् , पञ्चम्याः सत्रिभागसप्तयोजनबहलम् , षष्ठयास्त्रिभागोनयोजनाटकवहलम्, सप्तम्यां योजनाष्टकबहलमिति / तथा सर्व घनवाता असङ्ख्येयानि योजनसहस्राणि मध्येषु, पर्यन्तेषु तनुकाः, रत्नप्रभायारतावंदर्धपञ्चमयोजनबहलं घनवातवलयम्, द्वितीयस्याः १'धनवातास्त्व.' इति क-पाठः / 2 'स्थानात् तनुतरा' इति प्रतिभाति / 3 'अध्यधपञ्चम' इति ग-टी-पाठः / Page #260 -------------------------------------------------------------------------- ________________ 234 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 क्रोशोनपञ्चयोजनबहलम्, तृतीयस्याः पञ्चयोजनबहलम्, चतुर्थ्याः सक्रोशपञ्चयोजनबहलम् पञ्चम्यास्त्वर्धपष्ठयोजनबहलम्, षष्ठयाः क्रोशोनयोजनपट्कबहलम्, सप्तम्याः पइयोजनवहलमिति / तनुवातवलयमपि मध्ये सर्वासामसङ्ख्येयानि योजनसहस्राणि घनम्, पर्यन्तेषु प्रदेशहान्या तनुकम्, रत्नप्रभायास्तावत् तनुवातवलयं षट्क्रोशघनम्, द्वितीयस्याः सत्रिभागफ्ट क्रोशघनम् , तृतीयस्यास्त्रिभागोनसप्तकोशधनम्, चतुर्थ्याः सप्तकोशघनम् , पञ्चम्याः सत्रिभाग सप्तकोशधनम्, षष्ठयास्त्रिभागोनाष्टकोशधनम्, सप्तम्याः क्रोशाष्टकघनमिति / एते च घनवाततनुवाताः घना धनतरा घनतमाश्चाधोधो विशेषणानादिपरिणामवशादेव द्रष्टव्याः // एतासां च पृथिवीनां सप्तानामपि परतस्तिर्यग् न समनन्तरमेवालोको भवति, नापि सप्तम्याः समनन्तरोऽधः, किन्तु रत्नप्रभायास्तावद द्वादश योजनानि गत्वा परतश्चतसप्वपि दिक्षु विदिक्षु सर्वासु पश्चादलोको भवति, द्वितीयस्यास्त्रिभागोनानि त्रयोदश योजनानि गत्वा भवत्यलोकः, तृतीयस्याः सत्रिभागानि त्रयोदश योजनानि यात्वाऽलोकः, चतुर्थ्याश्चतुर्दश योजनान्यवगाह्यालोकः, पञ्चम्यास्त्रिभागोनानि पञ्चदश योजनानि प्रविश्यालोकः, षष्ठयाः सत्रिभागानि पञ्चदश योजनान्यतीत्यालोकः, सप्तम्याः षोडश योजनानि तिर्यगधय गत्वा भवत्यलोक इति // सर्वाश्चता अनादिपारिणामिकभावव्यवस्थानाः, नामान्यपि रत्नाद्याकारसम्बन्धात् गोत्रकृतानि रत्नप्रभादीनि तत्स्वभावत्वादनाद्यानि, धर्मादीन्यपि यादृच्छिकान्यनादिकालप्रसिद्धानीति, एवमयमधोलोकश्चतुर्थपृथिव्यवकाशान्तरसमधिकार्धव्यतीतमभ्योऽधोमुखशरावाकृति व योजनशतान्यवगाह्य समतलाद् भूभागादधोरत्नप्रभाव्यवस्थितोपरितना धस्तनक्षुल्लकप्रतरारब्धः, सप्तमपृथिवीपरतो यावत् पोडश योजनानीति // 1 // अधुना नारकजीवविवक्षायामन्तरतमतदाधारमिदमेव प्रक्रियते भूमिपु सूत्रम्-तासु नरकाः // 3-2 // भा०-तासु रत्नप्रभाद्यासु भूमिषु ऊर्ध्वमधश्चैकैकशी योजनसहस्रमेकैक वर्जयित्वा मध्ये नरका भवन्ति / / ___टी०-उक्ता भूमयो नामतो गोत्रतः संस्थानतः सङ्ख्यातच, प्रस्तुतत्वात् ताः सर्वनाम्ना परामृश्यन्ते, तासूक्तलक्षणासु रत्नप्रभाद्यासु भूमिपूर्ध्वमेकैकस्याः पृथिव्याः स्वावगाहाद् योजनसहस्रमपहायोपर्यधश्चैकं परित्यज्य शेष स्वावगाहे नरैका भवनारकाणां न्ति ऑपष्ठयाः, रत्नप्रभायास्तावदष्टसप्ततिसहस्राधिकलक्षायाम्, द्विती यस्यास्त्रिंशत्सहस्राधिकलक्षायाम्, तृतीयस्याः पड्विंशतिसहस्राधिकलक्षायाम, चतुर्थ्यास्त्वष्टादशसहस्राधिकलक्षायाम्, पञ्चम्याः षोडशसहस्राधिकलक्षायाम्, षष्ट्या स्थानम् 'मधोऽधो' इति ग-पाठः। २'भूषवं.' इति घ-पाठः। 3 'त्यज्याशेष' इति क-पाठ: / ४'नारका' इति क-ख-पाठः / 5 'आद्याः' इति क-ख-पाठः। Page #261 -------------------------------------------------------------------------- ________________ सूत्र 2 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 235 अतुर्दशसहस्राधिकलक्षायाम्, सप्तम्यास्त्ववगाह्याधः पश्चाशत्सहस्राणि पञ्चविंशतिशताधिकानि अधव-तावन्त्येव विहाय मध्ये त्रिषु सहतेषु नरका भवन्ति, एष च सप्तमपृथिवीगतविशेषो नोपात्तः साक्षाद् भाष्यकारेण, तत्रायमभिप्राय:-यत् किल बाहुल्याद् वर्तते तदुपा. चमितरदेकपृथिवीवर्तियुतकमेवाऽतो नाख्यातमिति // तानिदानी प्रसिद्धैरिहत्यनिदर्शनैर्भयानकसंस्थानैर्नरकान् प्रतिपादयितुमाहभा०-तद्यथा-उष्ट्रिकापिष्टपचनीलोहीकरकेन्द्रजानुकाजन्तोकायस्कुम्भायः कोष्टादिसंस्थाना वज्रतलाः सीमन्तकोपक्रान्ताः, रौरवोऽच्युतो साना रौद्रो हाहोरवो पातनस्तापनः शोचनः क्रन्दनो विलपनश्छेदनो संस्थान नामानि भेदनः खटापटः कलापेञ्जर इत्येवमाद्याः अशुभनामानः, कालमहाकालरौरवमहारौरवाऽप्रतिष्ठानपर्यन्ताः // टी-तद्यथा-उष्ट्रिकेत्यादि / उष्ट्रिकादयो भाण्डकविशेषा लोकप्रसिद्धत्वात् सुज्ञाना एव, एवंविधाकृतयो हि नरका अविद्यमानसुखाः क्षुरप्राकृतिवातलाः प्रबहलध्वान्तपटलपूरिताथसपेमाजोरादिमृतकगन्धयः करपत्र-शक्ति-कुन्त-तोमराग्रसदृशस्पर्शाः आवलिकातो बहिर्वत. माना नानासंस्थाना उष्ट्रिकाद्याकृतयः प्रकीर्णनरका भवन्ति, आवलिकान्तःपातिनस्तु त्रिविधसंस्थाना वृत्तव्यस्र चतुरस्राकृतयः, ते च सीमन्तकोपक्रान्ताः, सर्वेऽपि हि ते रत्नप्रभापृथिवीप्रथमातरमध्यवर्तिसीमन्तकाभिधाननरकेन्द्रकमवधिमवस्थाप्योपक्रम्यन्ते, तत्रावलिकाप्रविष्टा दिक्षु रत्नप्रभायां त्रयोदशसु प्रस्तरेषु विदिक्षु च प्रथमप्रतरदिगावलिका प्रमाणेनैकोनपश्चाशन्नरकाः, अष्टचत्वारिंशच नरका विदिक्ष्वावलिका, इदमावलिकाद्वयमप्येकैकेन नरकावासेन हीयमानं हीयमानमशेषप्रतरवर्ति तावनेतव्यं यावत् सप्तमवसुन्धरायामेकैकः शेषो दिक्षु नरकः सञ्जातो विदिक्षु नास्त्येव मध्ये चैक इन्द्रकः शेष इति / अत्र कांश्चिन्नामग्राहमाख्याति-रौरवोऽच्युत इत्यादिना / एषां मध्ये केचिदिन्द्रकाः केचिदावलिकाप्रविष्टाः केचित प्रकीर्णकाः मूरिणोपात्ताः सत्त्वानां संवेगप्राप्त्यर्थम्, एषां हि नामान्यप्यादधति भयमतुलमाकर्ण्यमानानि, किमुत तत्र जमभोग इति भीताः सन्तो न सहसा पापस्थानेषु वर्तिष्यन्त इत्यभिप्रायः॥ एवमाद्या-एवंप्रकाराः, अशुभनामानो यावन्तः किल लोके व्याधयः शपथाश्थानिष्टनामानि च तन्नामानो नरकाः सर्वे भवन्ति // अधुना सप्तमपृथिवीवर्तिनः पञ्च नरकान्नामादेशं कथयतिकालेत्यादि / अप्रतिष्ठाननरकेन्द्रकात् पूर्वतः कालः, अपरतो महाकालः, रौरवो 'तदुपपातं' इति क-पाठः। 2 'पृथिवीवर्तियुतकमेवावर्तियुतकमेव' इति ग-पाठः। 3 'जानुकजन्त्राकाय इति घ-पाठः। 4 'हारवः' इति ग-टी-पाठः। 5 'शोचनस्तापनः क्रन्दनो' इति घ-पाठः / 6 'संवेगमाप्त्यर्थ इति, संवेगसमाप्त्यर्थं' इति च ग-टी-पाठः। Page #262 -------------------------------------------------------------------------- ________________ 236 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 दक्षिणतः, उत्तरतो महारौरवः, मध्ये चाप्रतिष्ठाननरकेन्द्रकः, स च सकलनरकेन्द्रकपर्यन्तवर्ती, न ततः परमन्यो नरकसत्त्वावासः समस्ति / तत्रभा०-रत्नप्रभायां नरकाणां प्रस्तरास्त्रयोदश / द्विद्रयूनाः शेषासु // .. रत्नप्रभायां नरकावासानां त्रिंशच्छतसहस्राणि / शेषासु नरकेषु प्रस्तराणां नरकावासानां पञ्चविंशतिः पञ्चदश दश त्रीणि एकं पञ्चोनं नरकशतसहस्रच संख्या ख्या मित्याषष्ठयाः, सप्तम्यां तु पञ्चैव महानरका इति // 2 // टी-रत्नप्रभापृथिव्यां नरकप्रस्तरास्त्रयोदश वेश्मभूमिकाकल्पाः / द्विद्वयुनाः शेषासु-शर्कराप्रभादिषु महातमःप्रभापर्यवसानासु, त्रयोदश द्वयनाः द्वितीयस्यामेकादश प्रस्तराः, एकादश द्वथूनाः तृतीयस्यां नवप्रस्तराः, नव द्वथूनास्तुर्यवसुधायां सप्त, सप्त द्वथूनाः पञ्चम्यां पञ्च, पञ्च द्वयूनाः षष्ठयां त्रयः, त्रयो द्वयूनाः सप्तम्यामेक इति // कियन्तः पुनरेकैकस्यां भूमौ नरका इति तत्प्रसिद्धयर्थमाह-रत्नप्रभायामित्यादि / रत्नप्रभागामावलिकाप्रविष्टनरकाणां चत्वारि सहस्राणि त्रयस्त्रिंशदुत्तरचतुःशताधिकानि, प्रकीर्णकानामेकोनत्रिंशल्लक्षाः पञ्चनवतिसहस्राणि पश्च शतानि सप्तपष्टचधिकानि, उभयेऽप्येकीकृतास्त्रिंशल्लक्षा भवन्ति प्रथमायाम्, शेषासु पञ्चविंशतिरित्यादि / शर्कराप्रभादिषु सप्तम्यन्तासु यथाक्रममेतत्परिमाणमावेदयति नरकाणाम्, द्वितीयस्यामावलिकाप्रविष्टानां पइविंशतिशतानि पञ्चनवत्यधिकानि, प्रकीर्णकानां चतुर्विंशतिलेक्षाः सप्तनवतिसहस्राणि शतत्रयं पञ्चोत्तरम् , एकत्र पञ्चविंशतिलेक्षाः। तृतीयस्यामावलिकाप्रविष्टानां चतुदश शतानि पञ्चाशीत्यधिकानि, प्रकीर्णकानां चतुदेश लक्षाः सहस्राण्यष्टानवतिः पञ्च शतानि पञ्चदशोत्तराणि, एकत्र पञ्चदश लक्षाः / चतुर्थ्यामावलिकाप्रविष्टानां सप्त शतानि सप्तोत्तराणि, प्रकीर्णकानां नव लक्षाः सहस्राणि नवनवतिः द्वे शते त्रिनवत्यधिके, एकत्र दश लक्षाः / पञ्चम्यामावलिकाप्रविष्टानां द्वे शते पञ्चषष्टयधिके, प्रकीर्णकानां द्वे लक्षे नवनवतिसहस्राणि सप्त च शतानि पञ्चत्रिंशदधिकानि, एकत्र तिस्रो लक्षाः। षष्ट्यामावलिकाप्रविष्टानां त्रिपष्टिः, प्रकीर्णकानां नवनवतिसहस्राणि नव शतानि द्वात्रिंशदधिकानि, एकत्र नरकपञ्चकोनैकलक्षाः / सप्तम्यांतु पञ्चैव नरकाः, प्रकीर्णका न सन्त्येवेति / अत्र रत्नप्रभात आरभ्य आपप्ठ्याः केचि. भरकाः सङ्ख्येयानि योजनसहस्राणि आयामविष्कम्भपरिधिभिः, केचिदसङ्ख्येयानीति, सप्तम्यामप्रतिष्ठाननरकेन्द्रको विष्कम्भायामपरिधिभिर्जम्बूद्वीपतुल्यः, कालादयस्तु चत्वारोऽ. संख्येयानि योजनसहस्राणि विष्कम्भायामपरिधिभिः, सर्वे चैते नरका बुन्नप्रदेशे योजनसहस्रबहलाः, मध्येऽपि योजनसहस्रप्रमाणशुषिरभाजः, उपर्यपि सङ्कुचिता योजनसहस्रमेवमेते नरकास्तासु रत्नप्रभादिभूमिषु महातमःप्रभापर्यवसानासु व्यवस्थिताः पृथिव्यादिवदना 1 'नरकाः' इति घन्टी-पाठः। Page #263 -------------------------------------------------------------------------- ________________ सूत्रं 3 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 237 दिकालसन्निवेशिनः पृथुपापविपाकभाजां सत्चानामाश्रयाः वज्रकुडयमयोः नित्यान्धतमसाश्च वेदितव्याः / विशेषार्थिना चावलिकाप्रविष्टवृत्तव्यस्रचतुरस्रयत्तापरिज्ञानाय देवेन्द्रनरकेन्द्रकप्रकरणमपेक्षणीयमिति // 2 // किश्चान्यत् / सूत्रम्-तेषु नारका नित्याशुभतरलेश्यापरिणामदेहवेदना विक्रियाः // 3-3 // टी०-तेषु व्यावर्णितलक्षणेषु, नरकेषु भवा नारकाः / नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः, अथवोभयमाक्षिप्यतेऽनेन नरकाः नारकाच, तेषु नित्याशुभेत्यादि सूत्रम्, इह सूत्रे नरका नारकाश्च उभये परिगृह्यन्ते, प्रस्तावान्नरका लेश्यादेहवेदनाविक्रियासम्भवान्नारकाः, नित्यशब्दोऽभीक्ष्णवचनो नित्यग्रहसितादिवत्, नित्याशुभतरलेश्यादयो येषु येषां वा ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः॥ . भा०-ते नरका भूमिक्रमेणाधोऽधो निर्माणतोऽशुभतराः। अशुभा रत्ननरकनारकाणां प्रभायाम्, ततोऽशुभतराः शर्करामभायाम्, ततोऽप्यशुभतरा स्वरूपर वालुकाप्रभायाम्, इत्येवमासप्तम्याः // टी-ते नरका इत्यादि भाष्यम् / प्राक्तनसूत्रनिरूपिताः सर्वनामशब्देनात्र गृह्यन्ते नरकाः सीमन्तकादयोऽप्रतिष्ठानपर्यन्ताः,रत्नप्रभादिभूकमेणाधोनिमोणतःसंस्थाननिवृत्तः, अशुभतरा भयानकाः, अशुभा रत्नप्रभायामधस्तनीष्वशुभतरा अशुभतमाश्चेत्यासम्याः / एतद भाष्यकारेण सामान्यतो युक्तमेव व्याख्यातम्, न पुनरशुभग्रहणमस्ति सूत्रे, पञ्चाशुभतरग्रहणं तल्लेश्यादिभिः सम्बद्धम्, अतःसामान्यव्याख्यानमिदं प्रतिपत्तव्यम्, एकेशेषनेर्देशाद वा सिद्धम् // सम्प्रति नित्यार्थमाचष्टे भा०-नित्यग्रहणं गतिजातिशरीराङ्गोपाङ्गकर्मनियमादेते लेश्यायो मावा नरकगतो नरकंजातौ च नैरन्तर्येणाभवक्षयोदर्तनाद् भवन्ति, न च कदाचेदक्षिनिमेषमात्रमपि, नॅ शुभा वा भवन्तीत्यतो नित्या उच्यन्ते / ___टी-नित्यग्रहणं गतिजाति नियमादेत लेण्यादय इत्यादि / नित्यशब्दोपानिमत्र नरकगतिनरकपञ्चेन्द्रियजात्योर्नियमादशुभतरलेश्यादिभिः सम्बन्धप्रतिपादनार्थम्, 'वज्र कुम्भमयाः' इति क-पाठः / 2 'तेषु नारका' इति घ-पुस्तके नास्ति / 3 'नारका' इति क-पाठः / 4 'सप्तम्याम्' इति ग-टी-पाठः। 5 'एकदेशानिर्देशाद्', 'एकदेशनिर्देशाद्' इति क-ख-पाठः। 6 नरकपञ्चेन्दियजातौ' इति घ-पाठः / 7 'न भवन्ति शुभा' इति घ-पाठः। 8 इत्युच्यन्ते इति घ-पाठः। Page #264 -------------------------------------------------------------------------- ________________ 238 तत्त्वार्थाधिगमसूत्रम् [अव्यायः 3 एतदेव विवृणोति-एते सूत्रोपात्ता लेश्यादयो भावा नैरन्तर्येणाविच्छेदेन पौनःपुन्येनाभवक्षयादुद्वर्तनकालावधिका भवन्ति, भवक्षये हि सति ते उद्वर्तन्ते, अन्तराले नास्ति जीवितक्षय इत्यावेदयति / नैरन्तर्यार्थ पुनः स्पष्टयति-लोचननिमेपप्रमितमपि कालमशुभेन नास्ति तेषां वियोगः, किमु बहुतरकमिति दर्शयति / अथवैतावन्तमेव कालमशुभास्ते लेश्यादयः स्युरिदमपि नास्तीत्यतो नित्यास्त उच्यन्ते / नन्वेवं विधे नित्यशब्दार्थेऽनुपपन्नमाभीक्ष्य स्यात् , तिरोधानपूर्वकः प्रादुभोवः पुनः पुनराभीक्ष्ण्यशब्दार्थः, इह तु नैरन्तर्यण व्याख्यातमा. भवक्षयादिति, उच्यते-तावेव हि तिरोधानाविर्भावौ विशेष्येते नैरन्तर्येण, तौ हि निर्व्यवधानी भवतः सर्वकालमेव तेषाम्, अथ 'तभावाव्ययं' (अ० 5, मू०३०), नित्यलक्षणमपि सम्बद्धुं शक्यते, न कश्चिदपराध इति / भा०-अतोऽशुभतरलेश्याः / कापोतलेश्या रत्नप्रभायाम् ततस्तीव्रतरसनालया क्लेशाध्यवसाना कापोता शर्कराप्रभायाम् / ततस्तीवतर सङ्केशाध्यवसाना कापोतनीला वालुकाप्रभायाम् / ततस्तीत्रतरसङ्क्तशाध्यवसाना नीला पङ्कप्रभायाम् / ततस्तीव्रतरसङ्क्लेशाध्यवसाना नीलकृष्णा धूमप्रभायाम् / ततस्तीव्रतरसङ्क्लेशाध्यवसाना कृप्या तनःप्रभायाम् / ततस्तीव्रतरसक्लेशाध्यवसाना कृष्णैव महातमःप्रभायामिति / / टी--अतोऽशुभतरलेश्या इत्यादि / आद्यास्तिस्रोऽशुभलेश्यास्ताः सप्तस्वपि पृथिवीषु प्रकृष्टतया विभज्यन्ते क्रमवपरीत्येन, तेषां हि मानसपरिणामो लेश्या, स तीवस्तीव्रतरस्तीव्रतम इत्यशुभाभिभूतत्वाद् भवति, तत्र प्रथमायां कापोता तीव्रा, शर्कराप्रभायां सैव तीव्रतरा, तीव्रतमा च कापोता तीवा च नीला वालुकाप्रभायाम, पङ्कनभायां नीला तीव्रतग, धूमप्रभायां नीला तीव्रतमा कृष्णा च तीत्रा, तमःप्रभायां कृष्णा तीव्रतरा, महातमःप्रभायां कृष्णैव तीव्रतमा। अपरे मन्यन्ते-नारकाणां पडपि . लेश्याः सम्भवन्ति, सम्यक्त्वप्रतिपत्तेरिति // भा०-अशुभतरपरिणामः / बन्धन-गति-संस्थान-भेद-वर्ण-गन्ध-रस-स्प - गुरुलघुशब्दाख्यः, दशविधोऽशुभः पुद्गलपरिणामः, नरकेषु नारकाणां पुद्गलपरिणामः मपुर- अशुभतरश्च / तियर्गवमधश्च सर्वतोऽनन्तेन भयानकेन नित्यो. त्तमकेन तमसा नित्यान्धकाराः श्लेष्म-मूत्र-पुरीप-स्रोतो-मलसाधर-वसा-मेद-पूधानुलेपनतलाः / श्मशानमिव पूति-मांस-केशास्थि-चर्म दन्तनखास्तीर्णभूमयः / श्व-शृगाल-मार्जार नकुल-सर्प-मूषिक-हस्त्यश्व-गो-मानुष शवकोष्ठाशुभतरगन्धाः / हा मातः! धिगहों कष्टं बत मुञ्चतं धावत प्रसीद भतः! मा वधीः कृपणकमित्यनुवन्धरुदितस्तीबकरुणैः दीनविक्लवैर्विलापैरार्तस्वननिनादै. 1 'अतः' इति घ-पुस्तके नास्ति / 2 'अधोऽधः' इत्यधिको घ-पाठः / 3 'मुञ्च तावत् धावत' इति घ-पाठः / Page #265 -------------------------------------------------------------------------- ________________ सूत्रं 3 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 239 दीनकृपणकरुणैर्याचितैर्वाष्पसन्निरुद्धैर्निस्तनितैर्गाढवेदनैः कूजितैः सन्तापोच्छासनिश्वासैरनुपरतभयस्वनाः। ____टील-अशुभतरपरिणाम इत्यादि। स्पर्श-रस-गन्ध-वर्ण-शब्द-संस्थान-भेद-गति-बन्यागुरुलघुपरिणामो दशधा | स्पर्शस्तावद् वृश्चिकदंश-कपिकच्छू-मुर्मुराङ्गारसदृशः, रसोऽपि तत्रत्यपुद्गलानां पिचु-मन्द-कोशातकीनिर्याससमः, गन्धोऽपि श्व-माजोर-शृगाल-हस्त्यश्व-कुथितमृतकगन्धातिरिक्ततराशुभपरिणामः, वर्णोऽपि गम्भीरलोमहर्पणः त्रासकारी परमकृष्णः, शब्दोऽपि खरपरुषनिष्ठुरपरिणामः, संस्थानं नरकाकृतिः नारकाकृतिश्च, उभयमप्यालोक्यमानमेवोद्वेगमुपजनयति महाश्वभ्रवत् पिशाचाकृतिवद् वा, भेदपरिणामोऽपि पुद्गलानामशुभः शरीरनरककुड्यादिभ्यो विभिद्यमानाः पुद्गलाः वर्णस्पर्शादिभिरशुभपरिणामा जायन्ते, ततश्च दुःखहेतवो भवन्ति, गतिनोरकाणामप्रशस्तविहायोगतिनामकोदयादशुभा भवन्त्युष्टपतङ्गादिवद्, वन्धोऽपि पुद्गलानां शरीरादिषु संश्लिष्यतामत्यन्ताशुभतरपरिणामो भवति, वर्णादिभिः अगुरुलघुपरिणामोऽप्यशुभः, सर्वेषां हि जीवानां शरीराण्यात्मनो न गुरूणि नापि लघूनीत्यगुरुलघुपरिणामः, स चानिष्टोऽनेकविधदुःखाश्रयत्वात्। अत्र च भाष्यकारेण स्पर्शादिदशविधपरिणामे किञ्चिद दर्शितं किञ्चिन्न / तिर्यगूर्वमधश्चेत्यादिना वर्णपरिणामः प्रतिपादितः, श्व-शृगाल-मार्जारादिना गन्धः, हा मात:! धिगहो कष्टमित्यादिना शब्दपरिणामः / शेषास्तु ग्रन्थगौरवभीत्या न प्रतिपदमुक्ताः, एतत्सम्बन्धित्वात् तु वक्तव्या इति // भा०--अशुभतरदेहाः / देहाः शरीराणि / अशुभनामप्रत्ययादशुभान्यनारकाणां शरी- ङ्गोपाङ्गनिर्माणसंस्थानस्पर्शरसगन्धवर्णस्वराणि हुण्डानि निलूरस्वरूएं मानं च नाण्डजशरीराकृतीनि / क्रूर करुण-बीभत्स प्रतिभयदर्शनानि दाखभाज्यशुचीनि च तेषु शरीराणि भवन्ति / अतोऽशुभतराणि चाधोऽधः / सप्त धनुषि त्रयो हस्ताः षडङ्गुलमिति शरीरोच्छायो नारकाणां रत्नप्रभायाम् / द्विर्द्विः शेषासु / स्थितिवचोत्कृष्टजघन्यतो वेदितव्यः // ___टी०-अशुभतरदेहा इत्यादि / अशुभनामकर्मोदयप्रत्ययात सर्वाण्यङ्गोपाङ्गादीनि तदेहेष्वशुभानि द्रष्टव्यानि,सर्वाङ्गावयवानांस्वप्रमाणेष्वव्यवस्थानात,तेषां हि नियतमेव हुण्डानि शरीराणि, उत्खातशेपपिच्छपक्षिशरीरव वीभत्सानि / तानि च तेषां द्विविधानि शरीराणि भवन्ति-भवधारकाण्युत्तरवैक्रियाणि च,तत्र भवधारकं जघन्येनाङ्गुलासङ्ख्येयभागप्रमाणं प्रथमायाम्, अन्यासु च पृथिवीषु, उत्कर्षेण सप्त धनूंषि त्रयो हस्ताः पट्ट चाङ्गुलानीति उत्सेधागुलमङ्गीकृत्योच्यते / परमाण्वादिक्रमेणाष्टौ यवमध्यान्यङगुलमेकम्, चतुर्विशत्यगुलो हस्तः, 1 'पोष्णैश्च निश्वा०' इति घ-पाठः / २०ता वेदितव्या' इति घ-पाठः / Page #266 -------------------------------------------------------------------------- ________________ 240 तत्वार्थाधिगमसूत्रम् [ अध्यायः चतुर्हस्तं धनुरिति / अथ शेषासु कथं भूमिष्वित्यत आह--द्विह्निः शेषासु / रत्नप्रभानास्त शरीरप्रमाणं द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणम् / तदपि द्विगुणं तृतीयस्याम् / एवं यावत सप्तम्यां पञ्च धनुःशतानि पूर्णानि / उत्तरवैक्रियं तु प्रथमायां जघन्येनाङ्गुलसङख्येयभागप्रमितम्, अन्यासु च, उत्कर्ण पञ्चदश धषि अर्धतृतीयाश्च रत्नयः प्रथमायाम्, एतदेव द्विगुणं द्वितीयस्याम्, एवं तावत् ज्ञेयं यावत् सप्तम्यां धनुःसहस्रमिति / एतच्चाधःप्रमाणे रत्नप्रभादिषु पर्यन्तवर्तिप्रतरनारकाणामुत्कृष्टं द्रष्टव्यम्, जघन्यमुत्कृष्टं वा प्रथमप्रतरादिभेदेन सर्वत्र वक्तव्यम्,स्थितिवत् / यथाऽऽयुपः स्थितिः प्रथमप्रतरादिभेदेन भिद्यमाना दशनवतिसहस्रादिना रत्नप्रभायां पर्यन्तप्रतरे सागरोपमप्रमाणा भवत्येवमेव शरीरप्रमाणमपि प्रथमप्रता दिभेदेन जघन्योत्कृष्टाभ्यां भेत्तव्यमित्यावेदयति / उक्तमिदमतिदेशतो भाष्यकारेणास्ति चैतत्, न तु मया कचिदार्गेमे दृष्टं प्रतरादिभेदेन नारकाणां शरीरावगाहनमिति // भा०--अंशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः। तद्यथा--प्रथमायां उष्णवे दनाः, द्वितीयायामुष्णवेदनाश्च, तीव्रतरास्तीव्रतमाश्चातृतीयायानारकाणावदना म, उष्णशीते चतुर्थ्याम् , शीतोष्णे पञ्चम्याम्, परयोः शीततराः शीततमाश्चेति, तद्यथा-प्रथमशरत्काले चरमनिदाघे वा पित्तप्रकोपाभिभूतशरी रस्य सर्वतो दीसाग्निराशिपरिवृतस्य व्यत्रे नभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति / पौषमाघयोश्च मासयोस्तुषारलिप्तगात्रस्य रात्री हृद्यकरचरणाधरोष्ठदशनायासिनि प्रतिसमयप्रवृद्धे शीतमारते निरग्न्याश्रयप्रावरणस्य यादृक् शीतसमुद्भव दुःखमशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति / यदि किलोष्णवेदनान्नरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशावुद्दीप्ते प्रक्षिप्येत सकिल सुर्शातां मृदुमारुतां शीतलच्छायामिव प्राप्तः सुखमनुपमं विन्द्यात्, निद्रां चोपलभेत, एवं कष्टतरं नारकमुष्णमाचक्षते। तथा किल यदि शीतवेदनानरकादुक्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सैदन्तशब्दोत्तमप्रकम्पायासकरेऽपि तत्सुखं विन्द्यादनुपमा निद्रां चोपलभेत, एवं कष्टतरं नारकशीतदुःखमाचक्षते इति / / 1 कशब्दः क-ख-पाठे नास्ति / २'शरीराणां द्विगुणं' इति क-ख-पाठः / 3 'पूर्णानीति' इति ग-पाठः / 4 'प्रमाणं' इति क-पाठः / 5 आगमशब्देनात्र मूलागमः, तेन वृत्यादिषु एतत्सत्वेऽपि न क्षतिः, उत्तर तु पृथ्वीवर द्वेगुणमिति स्पष्टमेव / 6 'अशुभतरवेदनाः' इत्यधिको ग घ-पाठः / 7 'तद्यथा-उष्णवेदनास्तीवास्तीव्रतरास्तीबतमाश्च तृतीयायाः' इति ग-घ-पाठः। ८'शीताः शीततराश्चेति' इति घ-पाठः / ९'प्रकृष्टमुष्ण' इति क-ख-पाठः / .'तुषारभिन ' इति क-पाठः / 11 'सदन्त' इति घ-पाठः / Page #267 -------------------------------------------------------------------------- ________________ सूत्रं 4 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 241 अशुभतरविक्रियाः / अशुभतराश्च विक्रिया नरकेषु नारकाणां भवन्ति, शुभं करिष्याम इत्यशुभतरमेव विकुर्वते / दुःखाभिहतमनसश्च दुःखप्रतीकार चिकीर्षवः गरीयस एव ते दुःखहेतून विकुर्वते इति॥३॥ टी-अशुभतराश्च वेदना इत्यादि भाष्यम् / प्रथमायां तीव्रोष्णवेदना, द्वितीयस्यां सैव तीव्रतरा, तृतीयस्यां तीव्रतमा, चतुर्थ्यामुष्णवेदनाका बहवो नारकाः, शीतवेदनाकास्त्वल्पे, तेनोभय्यपि वेदना तस्याम्, पञ्चम्यां शीतवेदनाका बहवः स्तोकास्तूष्णवेदनाकाः, तत्राप्युभय्येव वेदना, षष्ठयामतिशीता, सप्तम्यां शीततमेति // अधुनावेदनाद्वयस्यापि किञ्चित् साधर्म्यमङ्गीकृत्य दृष्टान्तद्वयमुपन्यस्यति असद्भावप्रज्ञापनया, न पुनारकः केनचिदुत्क्षेप्तुमानेतुं चेह शक्यते, प्रकृष्टाशुभकर्मानुभावादेवेति, न च तत्राग्निरस्ति पृथिवीपरिणाम एवासौ क्षेत्रस्वभावादनादिपरिणामलक्षणः प्रकृष्टोष्णतानुगतः सन्तमसंरूपः सत्त्वानां दुःखहेतुरिति // तद्यथा प्रथमशरत्काल इत्यादि भाष्यमेव सुज्ञानम् // अशुभतरविक्रिया इत्यादि भाष्यम्, उत्तरवैक्रियं हि ते शरीरमाकलितप्रयत्ना अपि रचयन्तो रूपवत्तेच्छया क्षेत्रकर्मानुभावाद् विरूपतरमाविष्कुर्वते विदूषकवदिति // 3 // ते च नारकास्तासु भूमिषु नरकेषु वा / सूत्रम्-परस्परोदीरितदुःखाः // 3-4 // भा०-परस्परोदीरितानि च दुःखानि नरकेषु नारकाणां भवन्ति / क्षेत्रस्वभावजानिताचाशुभात् पुद्गलपरिणामादित्यर्थः // टी०-मिथ्यादृष्टयो भवप्रत्ययविभङ्गानुगतत्वादालोक्य परस्परमेवाभिघातादिभिर्दुःखानि उत्पादयन्ति, सम्यग्दृष्टयस्तु संज्ञित्वादेवात्मानमनुशोचन्तोऽतीतजन्मानाचारकारिणं क्षेत्रस्वभावजनितानि दुःखानि सहमानाः परैरुदीरितवेदनाः स्वायुषः क्षयमुदीक्षन्तेऽतिदु:खिताः न पुनरन्यनारकाणां ते समुदीरयन्ति वेदनाः, तेषां चावधिज्ञानं न विभङ्ग इति / न केवलं परस्परोदीरणनिर्वृत्तानि तेषां दुःखानि किन्तु सहजान्यपि सन्तीत्यत आह-क्षेत्रस्वभावेत्यादि / नरकक्षेत्रस्यायमेव स्वभावो यद् दुःखात्मकता। नहि तत्र काचित सुखमात्रा समस्ति / यदपि ह्युपपातादिहेतुकं सुखमाचक्षते तदपि बहुतरदुःखपरिलीढत्वादल्पकालस्थायित्वाच्च दुःखमेव, अत एवंविधक्षेत्रानुभावनिवेर्तितपुद्गलपरिणामाच ते दुःखमनुभवन्तीत्यर्थः / एतदेव वचनं व्याख्यानयति सूत्रमपहाय 'अशुभतरवेदना' इति ग-पाठः / 2 'स्वरूपः' इति क-पाठः / 31 Page #268 -------------------------------------------------------------------------- ________________ 242 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः भा०-तत्र क्षेत्रस्वभावजनितः पुद्गलपरिणामः शीताष्णक्षुत्पिपासादिः। शीतोष्णे व्याख्याते / क्षुत्पिपासे वक्ष्यामः / अनुपरतशुष्कन्धक्षेत्रजा वेदना नोपादाननेवाग्निना तीक्ष्णेन प्रततक्षुदग्निना दन्दह्यमानशरीरा अनुसमयमाहारयन्ति ते सर्वपुद्गलानप्यास्तीव्रया च नित्यानुषक्तया पिपास या शुष्ककण्ठोष्टतालजिहाः सर्वोद्धीनपि पिबेयुः, न च तृप्ति समाप्नुयुस्ते वèयातामेव चैषां क्षुत्तृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि // ....टी.-तत्र क्षेत्रस्वभावजानितेत्यादि सुगमम् / पुनः सूत्रं परामृश्य सूत्रार्थाख्यान करोति // भा०-परस्परादीरितानि च / अपि चोक्तम्-'भवप्रत्ययोऽवधि रकदेवानाम्'(अ०१,सू०२२)इति / तत्रारकेप्ववधिज्ञानम् अशुभभवहेतुकंमिथ्यादर्शनयोगाच्च विभङ्गज्ञानं भवति / भावदोषोपघातात तुतेषां दुःखकारणमेव भवति / तेन हिते सर्वतः तिर्यगू मधश्च दूरत एवाजलं दुःखहेतून् पश्यन्ति / यथा च काको लूकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः। यथा वा अपूर्वान् शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्त्यन्योऽन्यं प्रहरन्ति च, तथा तेषां नारकाणामवधिवि .... षयेण दूरत एवान्योऽन्यमालोक्य क्रोधस्तीव्रानुशयो जायते, परस्परोदीरितं स्त दुरन्तो भवहेतुकः / ततः प्रागेव दुःखसमुद्घातार्ताः क्रोधा. दुःखम् ग्न्यादीपितमनसः अतर्किता इव श्वानः समुद्धता वैक्रियं भयानक रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावजनितानि चायःशूलशिला-मुशल-मुद्गर-कुन्त-तोमरासि-पहिश-शक्ति-योधन-खड्ग-यष्टि-परशु-भिण्डि मालादीन्यायुधान्यादाय कर-चरण-दशनैश्वान्योऽन्यमभिघ्नन्ति / ततः परस्पराभिहता विकृताङ्गा निस्तनन्तो गाढवेदनाः सूनाघातनप्रविष्टा इव महिषशूकरोरभ्राः स्फुरन्तो रुधिरकर्दमेऽपि चेष्टन्ते। इत्येवमादीनि परस्परोदीरितानि नरकेषु नारकाणां दुःखानि भवन्तीति // 4 // टी-परस्परोदीरितानि चेत्यादि / परस्परोदीरणायां कारणं दर्शयति-अपि चो. क्तं-भवप्रत्ययोऽवधिारकदेवानामिति मिथ्यादृशां विमङ्गज्ञानमितरेषामवधिज्ञानमेव, शेष सुज्ञानमत्र भाष्यमिति // 4 // एवं ते परस्परेणोदीरयन्ति दुःखम्, विशेषेण तुसूत्रम्-सक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुथ्याः // 3-5 // भा-सक्लिष्टासुरोदीरितदुःखाश्च नारका भवन्तीति / तिसृषु भूमिषु माक् चतुर्योः। १.नितपुद्गल.' इति ख-घ-पाठः / २'तीक्ष्णोदरामिना' इति ग-पाठः' 'तीक्ष्णेन प्रततेन क्षुद० ' इति तु घ-पाठः / 3 'येन ते' इति ग-पाठः / 4 'प्नुयुर्वर्धयाता' इति ग-पाठः। 5 'शक्त्ययोधन' इति क-पाठः / Page #269 -------------------------------------------------------------------------- ________________ 243 सूत्र 5] स्वोपज्ञभाष्य-टीकालङ्कृतम् .टी.-चशब्दः परस्परोदीरणं क्षेत्रस्वभावं चाभिमुखीकरोति / प्राक् चतुर्थ्या इति मर्यादा नाभिविधिरिति / सतिष्टचित्तास्त्वशुभानुवन्धिवालतपोकामनिजेरोपार्जितदेवजमानः स्वल्पविभवलाभाध्माता जन्मान्तरानालोकिनः एतावत्रैलोक्ये सुखमित्यव्यवसिताः। ते च भवनवासिनां प्रथम एवासुरनाम्नि निकाये भवन्ति, नान्येषु, तेषु नामोत्कीर्तनेनापि रौद्रतया भयमादधति किमुत दर्शनेनेत्यावेदयति भा०-तद्यथा-अम्बाम्बरीष-श्याम-शबल-रुद्रोपरुद्रकाल-महाकालास्यसिपत्रवन-कुम्भी-वालुका-चैतरणी-खर-स्वर-महाघोषाः पञ्चदश परमाधार्मिका मिथ्यादृष्टयः पूर्वजन्मसु सक्लिष्टकर्माणः पापाभिरतयः आसुरीं गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणां वेदनाः समुदीरयन्ति विचित्राभिरूपपतिभिः / तद्यथा--तप्तायोरसपायननिष्टप्तायःस्तम्भालिङ्गनकूदशाल्मल्यग्रारोप __णावतारणायोधनाभिघातवासीारतक्षणक्षारतसतैलाभिषेचपरमाधामिक नायस्कुम्भपाकाम्बरीषभजनयन्त्रपीडनायाशूलशलाकाभेदन . क्रकचपाटनाङ्गारदहनवाहनसूचीशाड्वलापकर्षणैस्तथा सिंहव्याघ्र-दीपि-श्व-शृगाल-वृक-कोक-मार्जार-नकुल-सर्प-वायस-गध्र-काकोलूक-श्येनादिखादनैस्तथा तप्तवालुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति॥ स्यादेतत् किमर्थमेवं ते कुर्वन्तीति / अत्रोच्यते-पापकर्माभिरतय इत्युक्तम्। तद्यथा-गो-वृषभ-महिष-वराह-मष-कुक्कुट-वार्तकलावकान्मुष्टिमल्लांश्च युध्यमानान परस्परं चाभिघ्नतःपश्यतांरागद्वेषाभिभूतानां अकुशलानुबन्धिपुण्यानां नराणां पराप्रीतिसत्पद्यते तथा तेषामसुराणांनारकास्तथा तानि कारयतामन्योन्यं घ्नतश्च पश्यतां परा प्रीतिरुत्पद्यते / ते हि दुष्टकन्दस्तिथाभूतान् दृष्ट्वाऽटहासं मुश्चन्ति, चेलोत्क्षेपाक्ष्वोडितास्फोटितावल्लिततलतालेनिपातांश्च कुर्वन्ति, महतश्च सिंहनादान नदन्ति / तच्च तेषां सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपहतस्यानालोचितभावदोषस्याप्रत्यवक स्याकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं, यत्सत्स्वप्यन्येषु प्रीतिहेतुष्वशुभभावा एव प्रीतिहेतवः समुत्पद्यन्ते / इत्येवमेप्रीतिकरं निरन्तरं सुतीनं दुःखमनुभवतां मरणमपि काङ्क्षतां तेषां न विपत्तिरकाले विद्यते, कर्मनिर्धारितायुषाम् / उक्तं. हि-'औपपातिकचरमदेहोत्तमपुरुषासंख्ययवर्षायुषोऽनपवायुषः' (अ०२, सू०५३) इति। नैव तत्र शरणं विद्यते, नाप्यपक्रमणम् / ततः कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेषां सद्य एव संरोहन्ति शरी १.पायिनोनिष्ट ' इति क-पाठः। 2. तर्जन' इति घ-पाठः। 3 'वतरासिपत्र' इति क-पाठः / 'निपातनाश्च' इति ग-पाठः, 'निपातनांश्च' इति तु घ-पाठः / 5 'मप्रतीकारम्' इति ग-टी-पाठः। Page #270 -------------------------------------------------------------------------- ________________ 244 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 राणि दण्डराजिरिवाम्भसि // एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति // 5 // टी०-अम्बाम्बरीषेत्यादि भाष्यम् / अम्बाः, अम्बरीपाः, श्यामाः, शवलाः, रुद्राः, उपरुद्राः, कालाः, महाकालाः, असयः, असिपत्रवनाभिधानाः, कुम्भीनामानः, वालुकाभिधानाः, वैतरणीसंज्ञाः, खरस्वराः, महाघोपाश्चेति एते पञ्चदशासुरनिकायान्तःपातिनो देवविशेषा एव परमाधार्मिका उच्यन्ते / अधर्मचारिणः अधार्मिकाः / प्रकर्षपर्यन्तवर्तिनः अधामिकाः परमाधार्मिका इति / एते च भिन्नहेतुकदुःखोत्पादनादेवावाप्तताग्विधसंज्ञाः समवगन्तव्याः, शेष भाष्यं सुज्ञानमेव प्रायः, एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्ति, परस्परोदीरणजनितानि क्षेत्रस्वभावोत्पन्नानि सङ्लिष्टासुरोदीरितानि वाऽऽचतुर्थ्याः, चतुर्थ्यादिषु परस्परोदीरितानि क्षेत्रानुभावजनितानि चेति द्विविधान्येवेति॥५॥ नारकाश्चानपवायुष्वादनुबद्धातिविषमदुःखानुमूलालीढमूर्तयो नाकाले मर्तुमिच्छन्तोऽपि हि नियन्ते, पूर्णे स्वायुपि पश्चादुद्वतिष्यन्ते, तत् पुनः स्वायुस्तेषां किमित्यत आहसूत्रम्-तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्राविंशति-त्रयस्त्रिंशत् सागरोपमाः सत्त्वानां परा स्थितिः // 3-6 // टी०-'तासु नरका' इत्येतान् नरकान् सूत्रत्रयान्तरितान् भाष्यकृदभिसम्बन्धयति॥ भा०-तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति / तद्यथा-रत्नप्रभाया. ____मेकं सागरोपमम् / एवं त्रिसागरोपमा, सप्तसागरोपमा, दशनारकाणां परा स्थितिः र सागरोपमा, सप्तदशसागरोपमा, द्वाविंशतिसागरोपमा, त्रय स्त्रिंशत्सागरोपमा इति / जघन्या तु पुरस्तादू वक्ष्यते / 'नारका. णां च द्वितीयादिषु' , 'दश वर्षसहस्राणि प्रथमायाम्' (अ०४, सू०४३-४४) इति॥ टी-तेपु-उक्तलक्षणेषु नरकेषु ये सत्त्वाः / सत्त्वशब्दः प्रेक्षापूर्वकारितयोपात्तः अनुकम्पाप्रदर्शनार्थम् / सत्त्वा वराका इति, क्लेशभुजो जनाः सत्त्वा इति लोकेऽनुकम्पाशब्देनोच्यन्ते / एताश्चोत्कृष्टाः स्थितयो भवन्ति, रत्नप्रभायामेकं सागरोपमं प्रकृष्टा स्थितिः सत्त्वानाम, एवं त्रिसागरोपमा स्थितिर्द्वितीयस्यामित्यादि सुज्ञानम् / उपमानमुपमा-सादृश्यं सागरेणोपमाः सागरोपमाः,बहुत्वप्रतिपादनार्थ सागरग्रहणम्, एका(क) सागरोपमा(मं) प्रमाणं यस्याः स्थितेःसैकसागरोपमा स्थितिरित्येवमन्यत्रापि योज्यम् / जघन्या स्थितिः पुरो वक्ष्यते लाघवमुपजीवताऽऽचार्येण चतुर्थेऽध्याये-'नारकाणांच द्वितीयादिपु' 'दश वर्षसहस्राणि प्रथमायाम् (सू० ४३-४४)इति, / रत्नप्रभायामवरतो दश वर्षसहस्राण्यायुपः स्थितिः, द्वितीयादिषु 1 निकायानामुपपातिनः' इति क-पाठः / 2 . ०पमाः ' इति क-ख-ग-पाठः / Page #271 -------------------------------------------------------------------------- ________________ सूत्रं 6 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 245 षट्स्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशतिसागरोपमा जघन्या स्थितिर्भवति / इयं चस्थितिर्जघन्या उत्कृष्टा वा सामान्येनैकस्यां पृथिव्यामुक्ता न प्रथमप्रतरादिभेदेन,प्रतिप्रतरं स्थितिपरिज्ञानाय विशेषार्थिना नरकेन्द्रकाः समालोकनीया इति / अथैतासु सप्तसु पृथिवीषु किमविशेषेण सर्वे प्राणिनो नरकास्रवर्तिनः सर्वानुत्पद्यन्ते उत केचित् कस्याश्चिदिति, तथा के वा कुतो भूमेरुदवृत्ताः सन्तो भवन्ति, किं वा लभन्ते सम्यग्दर्शनादीनाम् ? इत्यत आहभा०-तत्रास्रवेषु यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामुत्प द्यन्ते / सरीसृपा द्वयोरादितः प्रथमद्वितीययोः / एवं पक्षिणस्ति. नारकाणामाMAHINI सृषु / सिंहाः चतसृषु। उरगाः पञ्चसु / स्त्रियः षट्सु / मत्स्यम नुष्याः सप्तस्विति। न तु देवा नारका वा नरकेषूपपत्तिमाप्नुवन्ति / नहि तेषां बद्वारम्भपरिग्रहादयो नरकगतिनिर्वतका हेतवः सन्ति(अ०६,सू० 16) / नाप्युद्धवं नारका देवेषुत्पद्यन्ते। न ह्येषांसरागसंयमाद्यो देवगतिनिर्वतका हेतवः सन्ति (अ०६,सू० 20) / उदृत्तास्तु तिर्यग्योनौ मनुष्येपु वा उत्पद्यन्त। मनुध्यत्वं च प्राप्य केचित् तीर्थकरत्वमपि प्राप्नुयुरादितस्तिमृभ्यः, निर्वाणं चतसृभ्यः, संयम पञ्चभ्यः, संयमासंयम षड्भ्यः , सम्यग्दर्शनं सप्तभ्योऽपीति / _टी०-तत्रास्रवेषु यथोक्तैर्नारकसंवर्तनीयरित्यादि भाष्यं सुज्ञानम् // अधस्तनीषु षट्स्वपि भूमिपु रत्नप्रभादिवत् किं द्वीपादिविनिवेशाः सन्ति ? न सन्तीत्यत आह'भा०-द्वीप-समुद्र-पर्वत-नदी-हद-तडाग-सरांसि वा ग्राम-नगर-पत्तनाद ___ योविनिवेशा बादरोवनस्पतिकायो वृक्ष-तृण-गुल्मादिः दीन्द्रिनारकेष्वसंभविनः दावन यादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति / __अन्यत्र समुद्घातोपपातविक्रियासमतिकनरकपालेभ्यः / उपपाततस्तु देवा रत्नप्रभायामेव सन्ति / नान्यासु / गतिस्तृतीयां यावत् / ___टी०--द्वीपसमुद्रेत्यादि भाष्यं सुज्ञानं प्रायः / नैते द्वीपादयः सन्ति सन्निवेशा रत्नप्रभामपहायान्यत्रेति, एतस्य विधेरपवादः अन्यत्र समुद्घात इत्यादि / समुद्घातगताः केवलिनः, औपपातिका नारका एव, तथा वैक्रियलब्धिसम्पन्नाः, साङ्गतिकाः पूर्वजन्ममित्रादयः, नरकपालाः परमाधार्मिकाः, एते सर्वेऽपि द्वितीयादिषु भूमिषु कदाचित् केचित क. चित् संभवेयुरपीति, उपपातमङ्गीकृत्य रत्नप्रभायामेव देवाः सन्ति न शेषासु, गमनमङ्गीकृत्य यावत् तृतीयां ततः परं न गच्छन्त्येव, शक्तौ सत्यामपि लोकानुभावादेवेति / तथा अन्यमपि लोकानुभावमादर्शयति प्रसङ्गात् 5 'तत्रास्रवैः' इति घ-पाठः / 2 उद्वर्तितास्तु' इति घ-पाठः / Page #272 -------------------------------------------------------------------------- ________________ 246 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 भा०-यच्च वायव आपो धारयन्ति न च विष्वग् गच्छन्ति आपश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते / पृथिव्यश्चाप्सु विलयं न लोकानुभावजाः बजार गच्छन्ति। तत् तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोकविनिपदाथों वेशस्य लोकस्थितिरेव हेतुर्भवति / टी०-यच्च वायव इत्यादि / तनुवातवलयमाकाशप्रतिष्ठमनालम्बनं धनवातवलयं त्रिभर्ति, धनमारुतवलयमप्यापो धत्ते, न च ता आपो विष्वग् गच्छन्ति,विशीर्यन्ते स्रवन्तीत्यर्थः आपश्च कठिनीभूताः सत्यः पृथिवीर्धारयन्ति न स्पन्दन्ते, ताश्च पृथिव्यो न तास्वप्सु विलीयन्ते, स एष सर्वोऽप्यनादिपारिणामिकः क्रमसनिवेशो नित्यसन्ततिर्द्रव्यास्तिकनयावलम्बनात् / तथा चागमः-"इमा णं भंते ! रयणप्पभा पुढवी किं सासता असासता ? गोयमा! सिय सासया सिय असासया, से केणडेणं भंते ! एवं वुचइ ? गोयमा ! दव्वयाए सासया, वणपज्जवेहिं गन्धपज्जवेहिं रसपजवेहिं फासपज्जवेहि असासया, से एतेणं अटेणं गोयमा! एवं बुच्चइ" / अस्यावस्थानस्य लोकानुभाव एव हेतु:-कारणं भवतीति! भा०-अत्राह-उक्तं भवता-'लोकाकाशेऽवगाहः' (अ०५, सू०१२), 'तदनन्तरमूवं गच्छत्यालोकान्तात् (अ०१०, सू० 5) इति / तत्र लोकः कः कतिविधो वा किंसंस्थितो वेति ? / अत्रोच्यते-पञ्चास्तिकायसमुदायो लोकः / टी०-अत्राह-उक्तं भवतेत्यादिः सूत्रपातनिकाग्रन्थः / सूत्राण्यधिकृत्योच्यते, उक्त भवता-'लोकाकाशेऽवगाहः' पञ्चमेऽध्याये (मू०१२), तथा दशमे (मू० 5) 'तदनन्तरमूवं गच्छत्यालोकान्तादिति, " एवमनेकस्मिन् सूत्रे लोकशब्द उच्चरितः, तत्र को लोकः कतिविधो वा किंसंस्थितो वेति ? उच्यते-पञ्चास्तिकायसमुदायो लोकः / धर्माधर्माकाशजीवपुद्गलाः पञ्चास्तिकायास्तत्समुदायो लोकः, आकाशमाधारो भवति, धर्मादयस्त्वाधेयाः, आधाराधेयमावेन यदवस्थानमनाद्यमेपां स लोकः, तथा चागमः"किमिदं भंते ! लोगेत्ति पञ्चति? गोयमा ! जीवा चेव अजीवा चेव"। भा०-ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता वक्ष्यन्ते च / स च लोकः क्षेत्रविभागेन त्रिविधः-अधस्तिर्यगूर्व चेति / धर्मा लोकस्य त्रैविध्यं धर्मास्तिकायौ लोकव्यवस्थाहेतू / तयोरवगाहनविशेषाल्लोका नुभावनियमात् सुप्रतिष्ठकवज्राकृतिर्लोकः / अधोलोको गोकॅन्धरार्धाकृतिः // 1 इयं भदन्त ! रत्नप्रभा पृथ्वी कि शाश्वतो अशाश्वती? गौतम ! स्यात् शाश्वती स्यात् अशाश्वती / तत् केना. थेन भदन्त / एवमुच्यते ? गौतम ! द्रव्यार्थतया शाश्वती. वर्णपर्यवैर्गन्धार्यवै रसपर्यवेः स्पर्शपर्यवैरशाश्वती. तदेतार्थेन गौतम ! एवमुच्यते। 2 किमयं भदन्त ! लोक इति प्रोच्यते? गौतम ! जीवाश्चैव अजीवाश्चैव / 3 गूर्वश्चेति' इति घ टी-पाठः। ४'लोकहेतू' इति क-ग-पाठः। 5 कन्धराकृतिः इति क-खपाठः। 'कन्धाराधरार्धाकृतिः' इति तु ग-पाठः / Page #273 -------------------------------------------------------------------------- ________________ सूत्र 6] . स्वोभाष्य-टीकालङ्कृतम् 247 . टी--ते चास्तिकाया इत्यादि / अस्ति च ते कायाश्चास्तिकायाः, प्रवाहनित्यतामस्तिशब्दः प्रतिपादयति, न कूटस्थनित्यताम्, कायग्रहणं प्रदेशावयवबहुत्वार्थमिति पञ्चमे वक्ष्यते, स्वतत्त्वतः-स्वरूपतः-औपशमिकादिभावतः स्वतत्त्वो जीवः / विधानतः-संसारिमुक्तादिभेदतः, लक्षणतः-उपयोगो लक्षणमित्येवं जीवास्तिकायोऽभिहितः, शेषाच कचित् प्रसङ्गेनेत्यत उक्ताः, पञ्चमे पुनः प्रतिपदमेव वक्ष्यन्ते धर्मास्तिकायादयः स्वतत्त्वविधानलक्षणैरिति // स चैवंविधलक्षणः लोकः क्षेत्रविभागेन त्रिविधः अधस्तिर्यगूच चेति / क्षेत्रविभागो विशिष्टमर्यादाव्यवच्छिन्नः, तद्यथा-समतलाद् भूभागादधोऽवगाह्य नव योजनशतानि रत्नप्रभाव्यवस्थितोपरितनाधस्तनक्षुल्लकातरारब्धः सप्तमधरायाः परतो यावत् षोडश योजनानि तावदधोलोकः, तिर्यग्लोकस्तु तेभ्य एव क्षुल्लकातरेभ्य आरब्धोऽष्टादशयोजनशतान्यूद्धमारुह्य यावज्ज्योतिर्लोकोपरितनतलस्तावद् भवति, ज्योतिर्लोकोपरितनतलारयो यावदूवं सिद्धक्षेत्रादुपरि योजनमेकं तावदृ लोक इति // अधुना लोकसंस्थानव्याख्यानायाह-धर्माधर्मास्तिकायावित्यादि / धर्माधर्मद्रव्ये हि वक्ष्यमाणे समन्ततो लोकसन्निवेशमर्यादाव्यवस्थायाः कारणभूते, यावत्याकाशेऽवगाढे यथावस्थिते तथा तदवगाहनवशाल्लोकसनिवेशः / ननु क्वचित् पृथुनी कचित् तनुके कचित् प्रदेशवृद्धिपरिहाणियायिनी केन सन्निवेशं ग्राहिते इत्याह-लोकानुभावनियमात् / लोकानुभावो हि महानुभावश्चित्रानेकशक्तिगर्भोऽनादिपारिणामिकस्वभावविशेपस्तत्कृतादेव नियमात् तथासंस्थाने ते द्रव्ये नेश्वरादीच्छाविरचिते, इत्येवं धर्माधर्मद्वयव्यवस्थानकृतो लोकसन्निवेशः / स च सुप्रतिष्ठकवज्राकृतिः सुप्रतिष्ठकवज्रयोरिव संस्थान-आकृतिर्यस्यासौ सुप्रतिष्ठकवज्राकृतिर्लोकः, सुप्रतिष्ठक:शरयन्त्रकं यत्र व्यवस्थाप्य वासांसि धूप्यन्ते, तत् किल बहनुहरति लोकसन्निवेशस्य, वज़मपि शक्रायुधं तदपि बहुसदृशमाचक्षते प्रवचनविदः, लोकसंस्थानस्य स्फुटतरः सन्निवेशोऽमुनव सुरिणा प्रकरणान्तरे (प्रशम० गा० 210-211 ) अभिहितस्तद्यथा "जीवाजीवौ द्रव्यमिति षविध भवति लोकपुरुषोऽयम् / वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः / / आर्या तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् / / स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् // " // एवं समुदायसन्निवेशमाख्यायाधुना प्रत्येकमधोविभागादिसन्निवेशाभिधित्सया आहअधोलोको गोकन्धरार्धाकृतिः / गोग्रीवायास्त्वधरमर्धमुपरिष्टात् सङ्क्षिप्तमधस्तात् क्रमवृद्ध्या विशालं विशालतरं च भवति तद्वदधोलोकसन्निवेशः , उपरि तनुकोऽधस्तु विशालो विशालतरश्चेति / एतदर्थसमर्थनायाह १'सिद्धिक्षेत्रात् ' इति क-ख-पाठः। २'तदा' इति ग-पाठः / 3 ते तु' इति ग-पाठः / 4 'केन था' इति ग-पाठः। Page #274 -------------------------------------------------------------------------- ________________ 248 तत्त्वार्थाधिगमसूत्रम् / [ अध्यायः 3 भा०-उक्तं ह्येतद् / भूमयः सप्ताधोऽधः पृथुतराइछन्नातिच्छत्रसंस्थिताः तिर्यग्लोक- (अ०३, सू०१) इति ता यथोक्ताः / तिर्यग्लोको झल्लयांकृतिः। प्रस्तावना ऊलोको मृदङ्गाकृतिरिति / तत्र तिर्यग्लोकप्रसिद्धयर्थमिद माकृतिमात्रमुच्यते // 6 // टी०-उक्तं ह्येतदित्यादिना / यथोक्तं यथासन्निवेशं यथाप्रमाणं चाधोलोक इति। झल्लयांकृतिस्तियालोकः। झल्लरी सर्वत्र समतला तुल्यविष्कम्भायामा वादिनविशेषस्तद्वत् तिर्यग्लोकसन्निवेशः, स च विष्कम्भायामाभ्यां रज्जुप्रमाणो जम्बूद्वीपमेरुरुचकमध्य इति / मृदङ्गाकृति लोक इति // मृदङ्गो चादिनविशेष उपरिष्टादधश्च संक्षिप्तो मध्ये पृथुस्तद्वदूर्वलोकः, ऊर्वाधः किश्चिदूनसप्तरज्जुको ब्रह्मलोकाऽधोव्यवस्थितकृष्णराजिमध्यगलो. कान्तिकदेवनिवासरिष्ठविमानप्रस्तारमध्यस्तिर्यक्पञ्चरज्जुप्रमाणो ब्रह्मलोकप्रदेशेऽन्यत्र प्रेदेशहान्या अनियतप्रमाण इति / तत्र च त्रितयेऽधोलोकः प्रागाख्यातः,अधुना तिर्यग्लोक प्रसिद्धयर्थमिमाकृतिमात्रमुच्यते, एवंविधस्तिर्यग्लोक इत्यस्यार्थस्य प्रतीतये सर्वमिदं आ अध्यायपरिसमाप्तेः प्रतायते, संस्थानमात्रं , मात्रशब्दः संक्षेपाभिधानार्थः केनचिलेशोद्देशेन न पुनर्विस्तरेणेति, विस्तरतस्तु द्वीपसागरप्रज्ञप्त्यादिभ्योऽधिगन्तव्य इत्यावेदयति // 6 // सूत्रम्-जम्बूदीपलवणादयः शुभनामानो द्वीपसमुद्राः // 3-7 // भा०-जम्बूद्धीपादयो दीपा लवणादयश्च समुद्राः / शुभद्वीपसमुद्र - नामान इति / यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः / शुभान्येव वा नामान्येषामिति ते शुभनामानः। द्वीपादनन्तरः समुद्रः। समुद्रादनन्तरो द्वीपः // टी-जम्बूद्वीपादयो दीपा इत्यादि भाष्यम् / जम्बूद्वीप ·इति संज्ञासंजिसम्यन्धोऽत्रानादिः, पुरुषप्रवाहानादित्वात, जम्बूतरोश्च सर्वदा सत्त्वात लोकसन्निवेशस्य च न कदाचिदनीदृशत्वात्, स च शब्दार्थसम्बन्धः पुरुषान्तरव्यवस्थाप्योऽनादिप्रयाहरूपोऽपि व्यवहारक्षमतया सनियुज्यत इति / जम्बूद्वीपादयो द्वीपाः लवणादयः समुद्रा इत्यादिशब्दस्य प्रत्येकमभिसम्बन्धमापादयति / शुभनामान इत्यनेन विशिष्टामेव संज्ञा द्वीपसमुद्राण प्रतिपादयति, शुभानि च तानि नामानि चेति शुभनामानि प्रशस्ताभिधानानीत्यर्थः / शुभनामानि येषां ते शुभनामानः, एतदेव स्पष्टयति-यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः / कियन्ति पुनस्तानि ? असङ्ख्येयानि लोके शुभनामानीति। तचासङ्ख्येयकं विशिष्टमेव परिगृह्यते, तद्यथा-असङ्ख्येयखण्डवालाप्रभूतासङ्ख्येयवर्षकोट्युद्धारकालसूक्ष्मपल्योपमप्रपञ्चनिष्पन्नार्धतृतीयसागरोपमोद्धारसमयराशिप्रमाणतुल्या द्वीपसमुद्राः / शुभान्येव वा नामान्येषामिति एतावदविगानेनावधार्यते, शुभानि हि सर्वेषां द्वीपसमुद्राणां १'ब्रह्महान्या' इति ख-पाठः / व्यवस्था Page #275 -------------------------------------------------------------------------- ________________ सूत्रं 8 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 249 नामानि, नाशुभान्यपीति, अस्मिन् पक्षे सङ्ख्योन्नेया / द्वीपादनन्तरः समुद्रः समुद्रादनन्तरो द्वीपः इत्यनेनैतत् कथयति-नासङ्ख्येयसकलद्वीपपरिसमाप्तौ जातायां पश्चाल्लवणादयः समुद्राः, किन्तु प्राक् तावद् द्वीपः पश्चात् समुद्रोऽनन्तरः पुनीपः पुनः समुद्र इत्येवमास्वयम्भूरमणसमुद्रादिति // एतदेव विवृणोति यथासङ्ख्यमित्यादिना भाष्येण भा०-यथासङ्ख्यम् / तद्यपा-जम्बूद्वीपो द्वीपःलवआपसमुद्र णोदः समुद्रः / धातकीखण्डो दीपः / कालोदः समुद्रः। नामानि पुष्करवरो द्वीपः / पुष्करोदः समुद्रः / वरुणवरो द्वीपः / वरुणोदः सनुद्रः / क्षीरवरो दीपः / क्षीरोदः समुद्रः। घृतवरो द्वीपः / घृतोदः समुद्रः / इक्षुवरो द्वीपः / इक्षुवरोदः समुद्रः / नन्दीश्वरो द्वीपः / नन्दीश्वरोदः समुद्रः / अरुणवरो द्वीपः / अरुणवरोदः समुद्रः / इत्येवमसङ्ख्यया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्या इति // 7 // ____टी०-लवणोद इति, "संज्ञायामुत्तरपदस्य " ( परिभाषे ) इति वचनादुदभावः, शेष सुज्ञानम् / पर्यन्ते उपसंहरति, न खलु शक्यन्ते नामग्राहमाख्यातुमसङ्ख्येयत्वादत एवंप्रकारा द्वीपाः समुद्राश्चासंख्येयाः स्वयम्भूरमणसमुद्रपर्यन्ता वेदितव्याः / सर्व चैतज्जम्बूद्वीपादिसमुद्रद्वीपवलयजालमस्यामेव रत्नप्रभापृथिव्यामवस्थितमवसेयम्, एतावांच तिर्यग्लोकः न ततः परम्, अधोलोकादिविभागतचेह लोकोऽपदिश्यते साकल्येन सर्वज्ञज्ञानविपयत्वात् / सर्वं हि ज्ञेयं ज्ञातव्यं सर्वज्ञेनोपदेष्टव्यं च चरित्रोपयोगि श्रद्धानलक्षणसम्यग्दर्शनविषयतया च निरवशेपं मुक्तिमार्गाङ्गतया, तथातिशयज्ञानविभूतिलाञ्छितत्वाञ्च सवोतीन्द्रियाणां पदाथानां सुप्रत्ययितपुरुषप्रत्यक्षेक्षितजनपदव्यवहारप्रतिपत्तिवत् सर्व सुश्रद्धानमित्यवेत्य मुक्तसंशयं प्रतिपत्तव्यम्, ज्योतिपनिमित्तगणितशास्त्राणां सर्वज्ञलाञ्छनत्वात् ध्यानप्रक्रियायां च लोकसन्निवेशविशेपजीवोत्पादादिचिन्तनमुपदिष्टमतो यदभिदधते बालिशाः कुतकेपटप्रसारणपटवो बटवः, क्लेशादिप्रहाणोपायोपदेशवहिर्भूतो द्वीपसमुद्रादिसनिवेशोपदेशो मुमुक्षोरनुपदेशा( श्यः अ )युज्यमानत्वात्, तदपास्तमवसातव्यमिति // 7 // एते चानन्तरसूत्रनिर्दिष्टा द्वीपाः समुद्राश्च सर्वेऽपिसूत्रम्--द्विर्दिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः // 3-8 // भा०-सर्वे चैते द्वीपसमुद्रा यथाक्रममादितो द्विििर्वष्कम्भाः तत्यानपूर्वपूर्वपरिक्षेपिणो वलयाकृतयः प्रत्येतव्याः। तद्यथाटी-सर्वे चैत इत्यादि भाष्यम् / जम्बूद्वीपादयो द्वीपाः स्वयम्भूरमणसमुद्रपयन्ता येन क्रमेण व्यवस्थिता निर्दिष्टा वा तेन क्रमेण, आदितः प्रभृति लवणसमुद्रप्रभृति, द्विगुणविष्कम्भा भवन्ति / विष्कम्भो-व्यासो विस्तारः तत्क्रमानुसारितयैव पूर्वपूर्वपरिक्षे. 1 क्षीरवरोदः' इति घ-टी-पाठः / 2 'नन्दीश्वरवरोदः' इति घ-पाटः / द्वीपसमद्र 32 Page #276 -------------------------------------------------------------------------- ________________ 250 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः पिणो वलयाकृतयश्च प्रत्येतव्याः // ननु चानितिमेवेदं द्विढिविष्कम्भा इति, सति मौलविष्कम्भे नितिस्वरूपे युज्यत एतच्छेपाणां, द्विगुण इत्यत्र तु स एव न निरूपित इत्यत्रा शङ्कमान आह भा०-योजनशतसहस्रं विष्कम्भो जम्बूद्वीपस्य वक्ष्यते (सू०९)।तद्विगुण लवणजलसमुद्रस्य, लवणजलसमुद्रविष्कम्भाद द्विगुणो धातकीखण्डद्वीपस्य,इत्ये. वमास्वयम्भूरमणसमुद्रादिति // पूर्वपूर्वपरिक्षेपिणः / सर्वे पूर्वपूर्वपरिक्षेपिणः प्रत्येतव्याः / जम्बूद्वीपो लवणसमुद्रेण परिक्षिप्तः / लवणजलसमुद्रो धातकीखण्डद्वीपेन परिक्षिप्तः / धातकीखण्डद्वीपः कालोदसमुद्रेण परिक्षिप्तः / कालोदसमुद्रः पुष्करवरद्वीपार्धन परिक्षिप्तः। पुष्करवरछीपार्धमानुषोत्तरेण पर्वतेन परिक्षिप्तम्। पुष्करवरद्वीपः पुष्करवरोदेन समुद्रेण परिक्षिप्तः / एवमास्वयम्भूरमणात् समुद्रादिति // वलयाकृतयः। सर्वे च ते वलयाकृतयः सह मानुषोत्तरेणेति // 8 // टी०-योजनशतसहस्रं जम्बूद्वीपविष्कम्भो वक्ष्यते अनन्तरागामिनि सूत्रे / शेषेषु लवणजलादिपु द्विगुणद्विगुण इति पूर्व पूर्व उत्तरणोत्तरेण परिक्षिप्तो-वेष्टितस्तच्छीलेनेति, एतच्चानिष्टविनिवेशव्यावृत्त्यर्थं वचनम्, तियगेवं व्यवस्थिता इत्यर्थः / वलयस्येवाकृतिः-संस्थान येषां लवणजलादीनां ते वलयाकृतयः, चतुरस्रादिनिवृत्त्यर्थ चेदमवगतव्यम्, शेपं सुज्ञानमेव भाष्यमित्यतो न विवियत इति // 8 // वलयाकृतयो द्वीपा इत्यनन्तरसूत्रेऽभिहितम्, अतो जम्बूद्वीपस्यापि द्वीपत्याद् वलयाक तिप्रसक्तिस्तदपवादायेदमुच्यते सूत्रम्--तन्मध्ये मेरुनाभित्तो योजनशतसहस्र विष्कम्भो जम्बूद्वीपः // 3-2 // . टी-जम्वृतरुप्रधानत्याज्जम्बूद्वीपः / भा०-तेषां द्वीपसमुद्राणां मध्ये तन्मध्ये। मेरुनाभिः, मेरुरस्य नाभ्यामिति __ मेरुर्वाऽस्य नाभिरिति मेरुनाभिः / मेकरस्य मध्ये इत्यर्थः / - सर्वदीपसमुद्राभ्यन्तरो वृत्तः कुलालचक्राकृतिर्योजनशतस हस्रविष्कम्भो जम्बूद्वीपः, वृत्तग्रहणं नियमार्थम् / टी.-तेषामित्यादि भाष्यम् / अनेन विशिष्टसमासप्रतिपत्ति दर्शयति / तेषामसङ्ख्येयानामुक्तलक्षणानां द्वीपसमुद्राणां मध्ये तन्मध्ये इति, मध्यमत्र नैश्चयिक, न व्यावहारिकमिति / अन्येऽपि जम्बूद्वीपाः सन्त्यतो विशेषणमाह-मेरुनाभिरिति / नाभिरिव नाभिः, जम्व 1 योजन - 4000 क्रोशाः / 2 'पुष्करद्वीपार्ध' इति घ-पाठः। Page #277 -------------------------------------------------------------------------- ________________ स्त्र 9 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 251 यथा शरीरमध्ये नाभिरवयवोऽङ्गिनां भवत्येवमसौ मेर्जम्बूद्वीपस्य मध्ये व्यवस्थित इति मेरुनाभिरुच्यते। कण्ठेकालवद गमकत्वात् समासः / व्यधिकरणबहुव्रीहिभीत्या वाक्यान्तरेणाहमेरुवाऽस्य नाभिरिति मेरुनाभिः, नाभिशब्दो मध्यवचन इति दर्शयति, मेरुरस्य मध्ये इत्यर्थः / वृत्त इत्यनेन प्रतरवृत्ताख्यानं करोति, तत्प्रदर्शनार्थं च कुलालचक्राकृतिरित्याह / भा०--लवणादयो वलयवृत्ताः, जम्बूद्वीपस्तु प्रतरवृत्त इति यथा गम्येत, वलयाकृतिभिश्चतुरस्रव्यस्रयोरपि परिक्षेपो विद्यते तथा च मरुस्वरूपम् मा भूदिति // मेरुरपि काञ्चनस्थालनाभिरिव वृत्तो योजनसहस्रमधो धरणितलमवगाढः नवनवत्युच्छ्रितः दशाधो विस्तृतः सहस्रमुपरीति / त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुर्भिर्वनैर्भद्रशाल नन्दन सौमनसपाण्डकैः परिवृतः / तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमे प्रथम काण्डम् / द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलम् / तृतीयं षत्रिंशत् सहस्राणि जाम्बूनद्वहुलम् / वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशद योजनान्युच्छायेण मूले द्वादश विष्कम्भेण मध्येऽष्टावुपरि चत्वारीति / मूले वल. पपरिक्षपि भद्रशालवनम् / भद्रशालवनात् पञ्च योजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृतं नन्दनम् / ततोऽर्धत्रिषष्टिसहस्राण्यारुह्य पञ्चयोजनशतप्रतिकान्तिविस्तृतमेव सौमनसम् / ततोऽपि षत्रिंशत् सहस्राण्यारुह्य चतुर्नवतिचतुःशतप्रतिक्रान्तिविस्तृतं पाण्डुकवनमिति / नन्दनसौमनसाभ्यामेकादशैकादश सहस्राण्यारुह्य प्रदेशपरिहाणिर्विष्कम्भस्येति // 9 // टी.-.--लवणाद्यो वलयवृत्ताः। अयं पुनः कुलालचक्रवत् प्रतरवृत्त इति नियम आपाघते, योजनेयत्ताभिधानं तच्छेपविष्कम्भप्रसिद्धयर्थम्,न वलयाकृतिना लवणजलधिना परिक्षिप्त इति वृत्तताऽवगम्यते यस्माद् वलयाकृतिभिश्चतुरस्रव्यस्रयोरपि परिक्षेपो विद्यत इति प्रेक्षापूर्वकारितया च मेरुविशेषणतयोपात्तस्तत्स्वरूपमप्याख्यास्यामीत्यत आह-मेरुरपि काञ्चनस्थालनाभिरिव वृत्तः, काञ्चनस्थालं-काञ्चनपात्री तन्मध्ये नाभिस्तद्वद् वृत्तः, अधस्ताद् योजनसहस्रं प्रविष्टः नवनवतिसहस्राणि दृश्योच्छायः, यददृश्यं सहस्रं भूमौ तत् सर्वत्र विष्कम्भायामाभ्यां दश सहस्राणि, उपरि सहस्रं यत्र चूलिकोद्गमः / काण्डं विशिप्रमाणानुगतो विच्छेदः / त्रिकाण्डः त्रिलोकस्पृक चतुर्भिर्वनैर्भद्रशालाभिर्वेष्टितः। तत्र च यद् भूमावरगाढं पृथिव्यादिविशेषणं योजनसहस्रप्रमाणं तदेकं काण्डम, भूपरितलारब्धं द्वितीयं त्रिषष्टियोजनसहस्राणि रजतादिविशेषणं, तृतीयं तदुपरि षट्त्रिंशत् सहस्राणि जम्बूनदबहुलं,ततस्तदुपरि वैहयवहुला चूलिकाऽस्य चत्वारिंशद्योजनोचा, उद्गमप्रदेश विष्कम्भायामाभ्यां द्वादश योजनानि, मध्येऽष्टौ उपरि चत्वारि / भूमौ व्यवस्थितं भद्रशालवनं वलयाकृति,भद्रशालवनभूमेः पञ्च योजनशतान्यारुह्योपरि Page #278 -------------------------------------------------------------------------- ________________ 252 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 प्रथममेखलायां तावत्प्रतिक्रान्तिविस्तृतं तावती चासौ प्रतिक्रान्तिश्च तावत्प्रतिक्रान्तिः, विस्तारः पञ्चयोजनशतप्रमाण एव, तावत्प्रतिक्रान्त्या विस्तृतमेवंप्रकारेण विस्तीर्णमित्यर्थः / तञ्च द्वितीयं वनं नन्दनं नाम / ततोऽत्रिषष्टीत्यादि / त्रिपष्टिसहस्रसङ्ख्यापूरणस्य योजनसहस्रार्धेन युक्ता सङख्यात्रिपष्टिरुच्यते / अत्र पञ्च योजनशतानि द्वितीयकाण्डप्रमाणादाक्षिप्तानि नन्दनवनेनेत्यतोऽधत्रिपष्टिसहस्राण्यारुह्योपरि / पञ्चयोजनशतविस्तीणमेव द्वितीयमेखलायां सौमनसं वनं तृतीयं भवति / ततोऽप्युपरि षत्रिंशत् सहस्राण्यारुह्य चतुर्नवत्युत्तरैश्चतुर्भिर्योजनशतैर्विस्तीर्ण पाण्डुकं नाम वनं मेरोः शिरसि तुर्यमवसेयम् / अयं च मेरुगिरिने सर्वत्र समप्रमाणप्रवृद्धः , किन्तु प्रदेशपरिहाण्या परिहीयमानः प्रवृद्ध इति / तद् दर्शयति-नन्दनसौमनसाभ्यामित्यादि / नन्दनादूर्ध्व सामनसाचाधः किल मध्य एकादशैकादश योजनसहस्राण्यारुह्य योजनसहस्रं परिहीयते विष्कम्भस्येति, ऊर्ध्वं सौमनसानन्दनवनाच्चाधो न सूरिणा परिहाणिरुक्ता / प्रदेशपरिहाणिग्रहणमङ्गुलादिप्र(सिद्धयर्थमङ्गुलादि)प्वप्ययमेव परिहाणि विधिरिति / एपा च परिहाणिराचार्योक्ता न मनागपि गणितप्रक्रियया सङ्गच्छते , यतः सौमनसवनेऽन्तर्विष्कम्भः सहस्रत्रय शतद्वयं द्विसप्तत्यधिकमष्टौ चैकादशभागाः , बहिर्विष्कम्भः पुनः संहस्रचतुष्टयं शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्य / तत्राचार्योक्तपरिहाण्या नैकोऽपि विष्कम्भ आगच्छति, न चैतावत्या चा ( सत्यावा ) गमेऽधीतत्वाच्छ्रङ्गग्राहिकयेति / गणितशास्त्रविदो हि परिहाणिमन्यथा वर्णयन्त्यानुसारिणः / मेरोर्योजनान्य॒र्ध्वमेका लक्षा, तत्राधो भूमावदृश्य योजनसहस्रमपचयरहितं,सर्वत्र च वृत्तविष्कम्भो योजनसहस्राणि दश,यद् दृश्यं तत्र परिहाणिः,भद्रशालवनादध्वं पञ्च योजनशतान्यारुह्य सर्वतश्च पञ्चयोजनशतान्यन्तः प्रविश्य नन्दनवनं भवति / तत्र वने मेरोरन्तर्बहिर्वा कीदृगु विष्कम्भ इति,तत्रेदं कर्म त्रैराशिकभङ्गया- यदि योजनमेकमारुह्योपरि वृत्तक्षेत्रेऽपचयः सर्वत्रैकादशभागो योजनस्य ततः पञ्च योजनशतान्यारुह्य कोऽपचयः स्यात् / लब्धं पञ्चचत्वारिंशन योजनानि पञ्च चैकादशभागा योजनस्य,एतदधस्तनवृत्तदशसहस्रविष्कम्भादपास्य शेषमुपरि विष्कम्भो नन्दनवने बहिलेभ्यत इति, स चायम्-नव सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि पट् चैकादशभागाः योजनस्य / अस्माच्च बहिविष्कम्भात् सर्वतो नन्दनवनचक्रवालविष्कम्भं पञ्चशतिकं द्विगुणमपास्यान्तर्विष्कम्भोऽयं नन्द नवन एव भवति-अष्टो सहस्राणि नव शतानि चतुःपञ्चाशदधिकानि पट चैकादशभागाः। इदानीं नन्दनवनादुपरि योजनसहस्राण्यर्धत्रिपष्टिरा(मा)रुह्य को मेरुविष्कम्भो बहिर्भवति ? अत्रापि तदेव कम, यदि योजनमारुह्य वृत्तविष्कम्भे सर्वतोऽपचयो योजनस्यैकादशभागस्तत अद्यार्धत्रिपष्टिः(प्टिं)योजनसहस्राणि कोऽपचयो भवेदिति? लब्धं पञ्च सहस्राणि पट् शतान्येकाशीत्यधि 1 'चाधोधो न' इति क-पाठः / 2 'प्रत्ययया' इति क-पाठः। 3 32726 / 4 4272,5 / 5 45 / Page #279 -------------------------------------------------------------------------- ________________ सूत्रं 10 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 253 कानि नव चैकादशभागा योजनस्य / एतन्नन्दनवनान्तर्विष्कम्भादपास्य शेषमुपरि सौमनसेऽन्तर्विष्कम्भो लभ्यते / स चायम् त्रीणि सहस्राणि शतद्वयं च द्विसप्तत्यधिकमष्टौ चैकादशभागा योजनस्येति। अस्मिन्नेव सौमनसान्तर्विष्कम्भे सौमनसवनचक्रवालविष्कम्भं पञ्च[विंशतिकं द्विगुणं निधाय बहिर्विष्कम्भो लभ्यते, स चायम् चत्वारि सहस्राणि द्वे शते द्वातरसप्तत्यधिके अष्टौ चैकादशभागा इति / इदानीं सौमनसवनादारुह्योपरि पत्रिंशद्योजनसहस्राणि पाण्डकवनं भवति / तस्य च विष्कम्भो योजनसहस्रम्, सौमनसवनाद योजनमारुह्य कोऽपचयो भवतीति नाभिहितः / स चायमपचयो गणितधर्मण भवति-यदि योजनमेकमारुह्य योजनस्य पण्णवतित्रिशतभागाः पञ्चविंशतिक्षयः (१)सर्वतस्ततः पत्रिंशन योजनसहस्राण्याख्या कोऽपचयो भवेदिति ? लब्धं संहस्रत्रयं शतद्वयं च द्वयुत्तरसप्तत्यधिकं योजनैकादशभागाधाष्टौ / एतत् सौमनसवनाभ्यन्तरविष्कम्भादपास्यं स्यात्, शेषमुपरि पाण्डुकवनस्य वृत्तविकम्भो योजनसहस्रमिति // 9 // स एवंविधो जम्बूद्वीपः सप्तक्षेत्रात्मको बोद्धव्यः / तानि चामूनिसूत्रम्-तत्र भरत-हैमवत-हरि-विदेह-रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि // 3-10 // भा०-तत्र जम्बूद्वीपे भैरतहैमवतहरयो विदेहाः रम्यकभरतादिक्षेत्रस्व देण्यवतमरावतमिति वंशाःक्षेत्राणि भवन्ति / भरतस्योत्तरतः हैमवतम् / हैमवतस्योत्तरतः हरयः / इत्येवं शेषाः। वंशा वर्षा वास्या इति चैषां गुणतः पर्यायनामानि भवन्ति / .... टी-तत्र जम्बूद्वीप इत्यादि भाष्यम् / तत्रोक्तलक्षणे, जम्बूद्वीप इत्यनेनैतद् दर्शयतिन द्वीपान्तराण्येतानि भरतादीनि, किन्तु जम्बूद्वीपस्यैवैकस्य विशिष्टावधिका विभागा इति, जगतः स्थितेरनादित्वात् संज्ञामात्रम् भरतदेवनिवाससम्बन्धाद् वा भरतं भारतं वा, हिमवतोऽभवत्वाद हैमवतम्, हरयो विदेहाश्च पञ्चालतुल्याः, रम्यकमिति संज्ञायां कन्, हैरण्यवत हरण्यवतदेव निवाससम्बन्धात्, तथैरावतमपीति / एवमेते सप्त वंशा वर्षाः क्षेत्राणीत्यनातरत्वं दर्शयति / / अधुना विशिष्टक्रमसन्निवेशप्रदर्शनाभिधित्सया आह-भरतस्योत्तरतो हैमवतमित्यादि गतार्थ प्रायः / वंशादीनि गुणतः पर्यायनामानि भवन्तीति / वंशाः किल पर्ववन्तो भवन्ति तद्वत् पर्वभागविभजनाद् वंशा एवामी भरतादयः, वर्षसन्निधानाच्च वर्षाः, मनुजादिनिवासाच्च वास्याः। 1 327266 / 2 42726 / 3 32726 / 4 भरत हैमवतं हरयो' इति घ-पाठः / रूपम् Page #280 -------------------------------------------------------------------------- ________________ 254 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः भा०-सर्वेषां चैषां व्यवहारनयापेक्षादादित्यकृताद् दिगनियमादुत्तरत मेरुर्भवति / ___टी-सर्वेषामित्यादि भाष्यम् / सर्वक्षेत्राणां चैषां भरतादीनामैरावतपर्यन्तानां ज्यवहारनयापेक्षादादित्यकृताद् दिगनियमादुत्तरतो मेरुर्भवति / व्यवहारो हि सङ्ग्रीतानां पदार्थानां विधिपूर्वकमवहरणं, लोकप्रसिद्धव्यवहारतत्परत्वात्, न खलु निश्चयमवलम्बते, सर्वव्यवहारोच्छेदप्रसङ्गात् / तथा चाह-"असत्योपाधि यत् सत्यं, तद्वच्छब्दनिवन्धनम्" इति शुक्ला बलाका कृष्णो भ्रमर इत्येवमादिप्रसिद्धिवशव्यवस्थितमेव वस्तु प्रतिजानीतेऽस्तीति / तमेवंविधव्यवहारनयमपेक्षते यो दिग्नियमः सवितगतिजनितस्तस्माद् दिग्नियमात् सर्वेषामुत्तरतो मेरुदक्षिणतश्च लवणजलनिधिरिति / न पुनश्चयिकदिग्व्यवस्थासमासादनेनेदमुच्यते, किन्तु यस्मिन् क्षेत्रे यत्रादित्य उदेति सा दिक् प्राची, यस्यामस्तमेति सोऽऽशा प्रतीची, कर्कटकादिराशीन् धनुर्धरान्तान् यत्र व्यवस्थितश्चरति क्रमेण सा दक्षिणा, तथा मकरादीन मिथुनान्तान् यत्र स्थितश्चरति सोत्तरा दिगिति,तथाऽन्तरालदिशि(शः) एतत्संयोगाद्वाच्याः / तथोर्ध्वमधश्च / सवित्रपेक्षैव दिग् व्यवह्नियत इति व्यावहारिकी सर्वेषां दिन भवति / कथं पुनर्व्यवहारमात्रमेवेद निरपेक्षमिति ? / उच्यते यतोऽस्माकं यत्रादित्य उदेति सा प्राची, सैव च पूर्वविदेहकानां प्रतीची, तत्रादित्यस्यास्तमितत्वाद्, विप्रतिषिद्धं चेदम्, एवमन्यास्वपि योज्यम्, तस्माद् व्यवहारमात्रमिदं, न निश्चय इति / अथ नैश्वयिकी दिक् कथं प्रतिपत्तव्येत्यत आह शशिकागो भा०-लोकमध्यावस्थितं त्वष्टप्रदेशं रुचकं दिग्नियमहेत क्षया व्यवस्था प्रतीत्य यथासम्भवं भवतीति // 10 // __टी०-लोकमध्यावस्थितमित्यादि / तिर्यग्लोकमध्यावस्थितः समतलभूभागमेरुज्यवस्थितो वियत्प्रदेशाष्टकनिर्माणो रुचकश्चतुरस्राकृतिः / स किल दिशामैन्द्रयादीनां विदिश चानेयादीनां प्रभवः, तत्र दिशो द्विप्रदेशादिकाः प्रदेशद्वयोत्तरवृद्धया वर्धमाना महाशकटोद्धिसंस्थानाः सादिका विगतपर्यवसाना नभोदेशैरनन्तैर्विशिष्टाकृतिलब्धव्यवस्थानैर्जनितस्वरूपाश्चतस्रः, विदिशस्तु मुक्तावलीसन्निभा एकैकाकाशदेशरचनाहितस्वरूपाः सादिकाश्चापर्यवसिताथानन्तप्रदेशाश्वतस्र एव,उपरिष्टात्तानेव चतुरः प्रदेशानवधीकृत्योपरिस्थितचतुःप्रदेशादिका नुत्तरा विमला नाम दिग्भवति, तथाऽधस्तात् तमोऽभिधानाऽधस्तनाकाशप्रदेशचतुष्टयप्रवहेति। एताश्चानादिकालसन्निवेशिन्यस्तथाऽनादिकालप्रसिद्धनामानो निश्चयनयावलम्बनात् प्रतिपतव्याः / न तदङ्गीकरणेनोत्तरतो मेरुरुच्यत इति / अतस्तमेवंविधं रुचकं दिग्नियमहेतु प्रतीत्य यथासम्भवं-येन प्रकारेण यस्याः सम्भवो द्विप्रदेशादिकेन द्वयुत्तरादिना एकप्रदेशादिना चानुत्तरेण तथा चतुःप्रदेशादिनाऽनुत्तरेणैव यथासम्भवं भवतीत्युच्यत इति // 10 // १'सा प्रतीचा' इति क-पाठः। २'चाट.' इति घ-पाठः / 3 'स्थितांश्च०' इति ग पाठः। Page #281 -------------------------------------------------------------------------- ________________ सूत्र 11] स्वोपनभाष्य-टीकालङ्कृतम् 255 अथैषां भरतादिक्षेत्राणां किंकृतो विभाग इत्याहसूत्रम्-तद्विभाजिनः पूर्वापरायता हिमवन्-महाहिमवन्-निषध-नील रुक्मिशिखरिणो वंशधरपर्वताः॥३-११॥ . टी०–तानि विभक्तुं शीलमेपामिति तद्विभाजिनोऽकृत्रिमसन्निवेशित्वात् तच्छीलाः, पूर्वापरायता इत्युभयतो लवणजलधिमवगाढाः हिमवदादिसंज्ञानिर्देशः, वंशा वर्षा वा क्षेत्राणि तेषां धारकाः-विशिष्टव्यवच्छेदकारिणो गिरयोऽनादिकालव्यवस्थानाः / भा०--तेषां वर्षाणां विभक्तारः हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरीत्येते षड् वर्षधराः पर्वताः॥ भरतस्य हैमवतस्य च विभक्ता .. हिमवान् / हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवान्, हिमवदादिवर्ष इत्येवं शेषाः // तत्र पञ्च योजनशतानि षड्विंशानि षट् चैको नविंशतिभागा (526,6 ) भरतविष्कम्भः। स दिबिर्हिमवद्धमवतादीनामाविदेहेभ्यः / परतो विदेहेभ्योऽर्धार्धहीनाः // टी-- तेषां वर्षाणामित्यादि भाष्यं प्रायो गतार्थम्, कथं पुनरमी वंशधरपर्वता इत्यादर्शयति-भरतस्य हैमवतस्य च विभक्ता हिमवान् / तन्मध्यव्यवस्थितत्वाद् भारतहमवतयोविभागमापादयति हिमवान् / तथा हैमवतहरिवंशयोर्व्यवस्थाकारी महाहिमवान्। इत्येवं शेषगिरयोऽपि नामग्राहं वक्तव्या इत्यतिदिशति, हरिवंशविदेहयोर्विभक्ता निषधः, विदेहरम्यकयोर्विभक्ता नीलः, रम्यकहैरण्यवतयोविभक्ता रुक्मी, हैरण्यवतैरावतयोविभक्ता शिखरीति॥अधुनैपां क्षेत्राणां विभागे सति प्रमाणमाख्याति-तत्र भरतक्षेत्रमारोपितचापाकारम्, अतः प्रागिपोरेव प्रमाणमुच्यते-पञ्च योजनशतानि षइविंशत्यधिकानि षट् चैकोनविंशतिभागा योजनस्य भरतक्षेत्रविष्कम्भः / अपरे त्विदमेव भाष्यवाक्यं सूत्रीकृत्याधीयते / विष्कम्भत इति मध्यप्रदेशे भवति, एवमैरावतक्षेत्रविष्कम्भोऽपि / हिमवदादिपर्वतानां शेषक्षेत्राणां चैवमतिदिशन्नाह-से द्विििहमवद्वैमवतादीनामाविदेहेभ्य इति, तद्यथा-हिमवच्छिसरिगोर्योजनसहस्र द्वयुत्तरपञ्चाशताधिकं द्वादश चैकोनविंशतिभागा योजनस्य, हैमवतहैरण्यवतयोः सहस्रद्वयं शतं च पञ्चोत्तरं पञ्च चैकोनविंशतिभागा योजनस्य, महाहिमवद्रुक्मिणोश्चत्वारि सहस्राणि शतद्वयं दशोत्तरं दश चैकोनविंशतिभागा योजनस्य, हरिरम्यकयोरष्टौ सहस्राणि चत्वारि शतान्येकविंशत्यधिकानि एकश्चैकोनविंशतिभागो योजनस्य, निषधनीलयोः षोडश सहस्राण्यष्टौ शतानि द्वयुत्तरचत्वारिंशताधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य, विदेहानां त्रयस्त्रिंशत्सहस्राणि षट् च शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्येति / परतो विदेहेभ्योऽर्धार्धहीना इति / नीलादीनां प्रमाणमाचष्टे लापविक आचार्यः 1 वर्षधर०' इति घ-पाठः / 2 ‘स भरतेषुर्द्विगुणो द्विगुणः पर्वतानां क्षेत्राणां विष्कम्भो भवस्याविदेहेभ्य इति प-टी-पाउः / Page #282 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः विदेहक्षेत्रेपुरर्धहीनो नीलेपुर्भवति, सोऽर्धहीनो रम्यकेपुरित्येवं यावदैरावतक्षेत्रमिति // अधुनैषां हिमवदादिकुलपर्वतानां अवगाहोच्छ्यान् प्रतिपादयतिहिमवदादीनां . भा०-पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्यो हि मानम् मिवान् / तद्विमहाहिमवान् / तद्विनिषध इति / / टी-पञ्चविंशतीत्यादि उच्छायचतुर्भागोऽवगाहः सर्वेषाम्, उच्छायो योजनशतं अवगाहः पञ्चविंशतिर्योजनानि हिमवतः / एतदेव द्विगुणमुच्छ्यावगाहप्रमाणं महाहिमवतः, योजनशतद्वयमुच्छ्यः पञ्चाशदवगाहः / एतद्विगुणं निपधस्य, चत्वारि शतान्युच्छ्रायः शतमवगाह इति। नीलादीनां निषधादियदुच्छ्यावगाहाविति // इदानीं जीवाधनुःकाष्ठे कथयति __ भा०--भरतवंशस्य योजनानां चतुर्दश सहस्राणि चत्वारि भरतस्य ज्यामानादि दे शतान्येकसप्ततीनि च षड्भागा विशेषोना (14471,,) ज्या। इपुर्योक्तो (52666) विष्कम्भः, धनुःकाष्ठं चतुर्दश रहस्राणि शतानि पश्चाष्टाविंशानि एकादश च भागाः साधिकाः(१४५२८११) / टी०-- भरतवंशस्येत्यादि भाष्यम् / हिमवत आराद्भागवर्तिनी जीवेयं प्रतिपत्तव्या, धनुःकाष्ठं च, इषुयथोक्तो विष्कम्भ इति प्रागभिहितोऽपि पुनरिहोपन्यस्तः इषुरिति, तत्रैवं नोक्तस्तस्मात् पुनरुपन्यास इति / भा०-भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताठ्यपर्वतः षड् योजनानि सक्रोशानि धरणिमवगाढः पश्चाशद् विस्तरतः वैताव्यो देवकुरवश्व पञ्चविंशत्युच्छ्रितः // विदेहेपु निषधस्योत्तरतो मन्दरस्य दक्षि __णतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवः। टी---भरतक्षेत्रमध्य इत्यादि / वैताठ्यपर्वतो दक्षिणोत्तरार्धविभागकारी विद्याधराधिवासः पञ्चाशत्पष्टिनगरयुक्तदक्षिणोत्तरश्रेणिद्वयालंकृतो गुहाद्वयोपशोभितश्च प्रतिपत्तन्यः। विदेहेष्वित्यादि / मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवो भवन्ति, ते च काश्चनपर्वतकशतेनोपशोभिताः हृदपञ्चकोभयपर्यन्तव्यवस्थितैर्दशभिर्दशभिः काञ्च नपर्वतैर्विभूषिताः, शीतोदानदीपूर्वापरगौ निपधाचतुस्त्रिंशाष्टशतसचतुःसप्तभागान्तरौ चि. त्रविचित्रकूटौ योजनसहस्रोच्चौ तावदधोविस्तृतौ तदर्धमुपरि ताभ्यां चोपशोभिता देव कुरवः। ते च १०तवर्ष' इति घ-पाठः / २'विशेषतो' इति घ-पाठः / 3 4 कोशाः-१ योजनम् / Page #283 -------------------------------------------------------------------------- ________________ देहादयः सूत्र 11] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 257 ____ भा०--विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ / एवमेवोत्तरेणोत्तराः कुरवः चित्रकूटविचित्रउत्तरकुरुवि - कूटहीना द्वाभ्यां च काञ्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः // विदेहा मन्ददेवकुरुत्तरकुरुभिर्विभक्ताःक्षेत्रान्तरवद् भवन्तिपूर्वे चापरे च / पूर्वेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः, अपरेऽप्येवंलक्षणाः षोडशैव / तुल्यायामविष्कम्भावगाहोच्छायौ दक्षिणोत्तरी वैताढ्यौ, तथा हिमवच्छिखरिणौ महाहिमवद्रुक्मिणौ निषधनीली चेति // _____टी-विष्कम्भेणेत्यादि सुज्ञानम् / इदानीमुत्तरकुरूनतिदिशति-एवमेवोत्तरेणोतराः कुरवः काश्चनकनगशतेनोपशोभिताः, किन्तु चित्रविचित्रकूटाभ्यां हीनास्ततस्थाने च काञ्चनाभ्यां तत्प्रमाणाभ्यामेव यमकपर्वताभ्यां शीतानदीकूलगाभ्यां विराजिता इति // विदेहा इत्यादि / मन्दरगिरिणा देवकुरूत्तरकुरुभिश्च विभक्ता व्यवच्छिन्नमर्यादाः स्थापिताः,एकक्षेत्रान्तःपातिनोऽपि क्षेत्रान्तरवद् भवन्ति। तत्रत्यमनुष्यादीनां परस्परेण गमनागमनाभावात् / अतः पूर्व चापरे च उभये विदेहा भवन्ति, मेरोः पूर्वतः पूर्वे, अपरतोऽपरे, तत्र पूर्वेषु विदेहेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः चक्रवर्तिनां विजेतव्या भोक्तव्याच, नदीभिर्गिरिभिश्च विभक्ताः परस्परेणागम्याः क्षेत्रविशेषा इत्यर्थः / अधुनाऽपरानप्यतिदिशति-अपरेऽप्येवंलक्षणाः षोडशैव चक्रवर्तिविजयाः सरिगिरिविभक्ताः परस्परासम्भाव्यमानगमना इति / अधुनोत्तरभागवर्तिपर्वतान् प्रमाणतो निर्दिशति-तुल्यायामेत्यादि भाष्यमेव सुज्ञानम् / भा०-क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीषण्डपुष्करार्धकाः महामन्दरात पञ्चदशभिर्योजनसहनेहीनोच्छायाः / षड्भिर्योजनशतैर्धरणिक्षुद्रमन्दर5 तले हीनविष्कम्भाः / तेषां प्रथम काण्डं महामन्दरतुल्यम् / द्वितीयं सप्तभि_नम् / तृतीयमष्टाभिः। भद्रशालनन्दनवने महामन्दवत् / अर्धपट्पञ्चाशद् योजनसहस्राणि सौमनसं पञ्चशंतविस्तृतमेव / ततोऽष्टाविंशतिसहस्राणि पाण्डुकं चतुर्नवतिचतुःशतविस्तृतमेव भवति / उपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्द्रेण / चूलिका चेति // टी०-क्षुद्रमन्दरास्त्वित्यादि // धातकीपण्डे द्वौ पुष्करद्वीपार्धे द्वौ इत्येवं चत्वारोऽपि क्षुल्लकमन्दरा भवन्ति जम्बूद्वीपमध्यवर्ति मेरोहीनप्रमाणत्वात् / तच्चादर्शयतिमहामन्दात् पञ्चदशभिर्योजनसहौहीनोच्छाया:-चतुरशीतियोजनसहस्रोच्छिताः / तथा षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः चतुःशताधिकनवसहस्र स्वरूपम् १'स्परागमाः' इति घ-पाठः / २'शतं विस्तृतम्' इति घ-पाठः / Page #284 -------------------------------------------------------------------------- ________________ 258 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 विष्कम्भा इत्यर्थः / तेषां चतुर्णामपि प्रथमं काण्डं महामन्दरतुल्यं धरणिमवगाद सहस्रप्रमाणमित्यर्थः। द्वितीयं काण्डं सप्तभिः सह ौीनं मन्दरात् षट्पञ्चाशत्सहस्रप्रमाणमित्यर्थः / तृतीयं काण्डमष्टाभिः सहभैीनं, मेरोः सकाशात् अष्टाविंशतिसहस्रप्रमाणमित्यर्थः / भद्रशालनन्दनवने महामन्दरे इव द्रष्टव्ये, धरण्यां भद्रशालवनम्, तदुपरि पञ्चशत्यां नन्दनमिति, तत उपरि अर्धषट्पञ्चाशत्सहस्राण्यारुह्य सौमनसम् , पञ्च शतानि नन्दनवनेनाक्षिप्तानि द्वितीयकाण्डस्यातोऽर्धपट्पञ्चाशत्सहस्राणि गत्वा तत् पञ्चशतविस्तीर्णमेव भवति / ततोऽष्टाविंशतिसहस्राण्यारुह्य पाण्डुकवन चतुर्नवतिचतुःशतविस्तीर्णमेवावसेयम्, तथोपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण यथासङ्ख्यमत्राभिसम्बन्धः, उपरि मस्तके यो विष्कम्भः स महामन्दरेणेपां तुल्यः, सहस्रप्रमाण इत्यर्थः, अधश्च योऽवगाहः सोऽपि महामन्दरेण तुल्यः, योजनसहस्रमानः, एपां भवति / चूलिका चैषां महामन्दरचूडासदृशी प्रमाणतोऽवसातव्येति / अधुना लायवार्थ द्वीपादीनां परिधिगणितपदजीवाद्यानयनाय करणोपाया भण्यन्ते / तत्रेप्सितवृत्तक्षेत्रपरिधेरानयनायेदं करगसूत्रम्भा०-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, स विष्कम्भपादाभ्यस्तो गणितम् / इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुपरिध्यानयना ___ गुणस्य मूलं ज्या / ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भादिकरणम् ___च्छोव्यं शेषामिपुः / इपुवर्गस्य पगुणस्य ज्यावर्गयुतस्य मूलं धनुःकाष्ठम् / ज्यावर्गचतुर्भागयुक्तमिपुवर्गमिपुविभक्तं तत्प्रतिकृतिवृत्तविष्कम्भः / उदग्धनुःकाष्टादू दक्षिणं शोध्यं शेषाधु बाहुरिति / अनेन करणाभ्युपायेन क्षेत्राणां वैताट्यादिपर्वतानामायामविष्कम्भज्येपुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि // 11 // टी०-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, विष्कम्भो योजनशतसहत तल्लक्षगुणं, कृतिः वर्गो भवति, पुनर्दशगुणा क्रियते, पश्चान्मूलमानीयते, तद् वृत्तक्षेत्रपरिक्षेपः, तत्र योजनराशौ लब्धव्ये व्येकषद्विद्विकसप्तकैः क्रमेण मूलमानेतव्यम्, ततोऽयं राशिरधस्तात् जातः 632454 / एपोऽर्धन छिन्नो योजनविलक्षपोडशसहस्रसप्तविंशद्विशतसङ्ख्यो भवति, शेपमुपरीदं 484471 चतुर्भिर्गुण्यते, चतुर्गव्यूतं योजनं यतः, ततो गंव्युतराशिर्भवति / पडादिराशिना भागो हार्यः, लब्धमिदं गव्यूतत्रयं शेपमुपरीदं 40522 / धनुःसहस्रद्वयेन गुण्यते जातः ततो धनुराशिः / पडादिराशिना भागलब्धमिदं 5 ‘कृतस्य ' इत्यधिको घ-पाठः / 2 'सर्वक्षेत्राणां सर्वपर्वता.' इति घ-पाटः। 3 (1937884 ) / 4' यतस्ततो ' इति पाठः / 5 (81014000) / Page #285 -------------------------------------------------------------------------- ________________ 259 सूत्र 11 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 128, शेषमुपरीदं 89888 / षण्णवत्यगुलं धनुर्भवतीति वणवत्या गुण्यते, जातोऽङ्गुलेराशिः / भागलब्धमिदं 13, शेषमुपरीदं 407346 / द्वाभ्यां गुण्यते यतोऽर्धाङ्गुलद्वयेनैकमङ्गुलं भवति, जातोऽर्धाङ्गुलराशिः, षडादिराशिना भागलब्धमिदं 1 // शेषाश्चार्धाङ्गुलभागा एतावन्त उद्धरिताः 182238 / अधस्तात् पडादिराशिः एष जम्बूद्वीपपरिधिः / वृत्तग्रहणं चतुरस्रादिक्षेत्रव्यावृत्त्यर्थम्, परिक्षेपग्रहणं विष्कम्भेषु जीवादिव्यावृत्त्यर्थमिति / अधुना गणितपदमानीयते जम्बूद्वीपस्य, तत्रेदं करणसूत्रम् // स विष्कम्भपादाभ्यस्तो गणितं प्रक्रान्तविष्कम्भो लक्षैकपादः पञ्चविंशतिसहस्राणि विष्कम्भपादेनाभ्यस्तो-गुणितो विष्कम्भपादाभ्यस्तः, स इति परिधिः जम्बूद्वीपस्याभिसम्बध्यते, प्रक्रान्तार्थपरामर्शित्वात् सर्वनामशब्दानाम् / गणितमिति गणितपदमित्यर्थः / जम्बूद्वीपे योजनप्रमाणानि चतुरस्रखण्डान्येतावन्ति भवन्तीत्यर्थः / तत्र परिधियोजनराशिः पञ्चविंशतिसहस्रगुणितोऽयं 7905675000 / गव्युतत्रितयं पञ्चविंशतिसहस्रगुणं जातमिदं 75000 / गव्युतराशिवायं योजनीक्रियते / चतुर्भिांगलब्धमिदं 18750 / योजनराशिरयम् / धनुरपि पञ्चविंशतिसहस्रगुणः, जातमिदं 3200000 / अयमपि धनुराशिर्योजनीक्रियते / अष्टौ धनुःसहस्राणि योजनं भवतीति वचनात् अष्टाभिः सहस्रर्भागलब्धमिदं 400 / अयमपि योजनराशिरनन्तरराशौ प्रक्षिप्तः, जातमिदं .19150 / अयमपि.च सप्तकोटिशतादिराशी, जातमिदं 7905694150 / अगुलराशिः पञ्चविंशतिसहस्रगुणो जातमिदं 325000 / अर्धागुलं पञ्चविंशतिसहस्रगुणं जातमिदं 25000 / अस्यार्धाङगुलराशेरधं गृह्यते ततोऽगुलानि लभ्यन्तेऽमृनि 12500 / एतान्यङ्गुलराशौ क्षिप्यन्ते, जातमिदं 337500 / ततः षण्णवत्या भागो यस्मात् षण्णवत्यङ्गुलं धनुर्भवति / भागलब्धमिदं 3515 / अयं धनराशिः, शेषमङ्गुलानां पष्टिः / अस्य धनूराशेभागः सहस्रद्वयेन, लब्धमेकं गव्यूतं शेषमिदं 1515 // - अधुना जीवानयनमुच्यते-इच्छावगाहोनावगाहाभ्यस्तविष्कम्भस्य चतुर्गुणस्य मूलं ज्या / / ईप्सितोऽवगाहो यावान् स इच्छावगाहस्तेनोनो विष्कम्भः इच्छावगाहोनः पुनरवगाहेनाभ्यस्यते-गुण्यते, इच्छावगाहोनश्वासाववगाहाभ्यस्तश्च इच्छावगाहोनावगाहाभ्यस्तः, तस्य पुनश्चतुर्भिगुणितस्य यन्मूलं सा मण्डलक्षेत्रस्य जीवा भवति / अत्र विष्कम्भो योजनलक्षः, एष ईप्सितावगाहोनः क्रियते, ईप्सितश्चाय 526 षट् च कला 6 / एप उपरितनो राशिः संवर्ण्यते कलीक्रियत इत्यर्थः / एकोनविंशत्या गुण्यते, जातमिदं 9994 / अत्र षट् कलाः क्षिप्यन्ते, जातमिदं 10000 / विष्कम्भराशिरपि संवर्ण्यते एकोनविंशत्या, जातमिदं 1900000 / एषोऽवगाहराशिरमुतः पात्यते, जातमिदं 1890000 / पुनरवगाहराशिना गुण्यते, जातमिदं 18900000000 / ततश्चतुर्भिगुण्यते जातमिदं 75600000000 / अस्य मूलं जीवा भवति, तच ग्राह्यं द्विसप्तचतुष्कनवपञ्चचतुष्ककैः, 1 (8629248) / 2 (814692) / Page #286 -------------------------------------------------------------------------- ________________ 260 तत्वार्थाधिगमसूत्रम् [ अध्यायः 3 क्रमेण जातमिदं / 2978884 1 अधस्त्योऽर्धेन च्छिन्नो जातमिदं 274954 / अस 549908) राशेरेकोनविंशत्या भागलब्धमिदं 14471 / कलाश्च पञ्च / शेषं यदुद्धरितं तत्रैका न्यूना कला लभ्यत इत्येपा जीवा // अधुना करणसूत्रमिपोरानयनाय-ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भारुयोध्यं शेषामिषुः / जीवावर्गस्य विष्कम्भवर्गस्य च (यो) विशेषस्तस्य मूलं विष्कम्भाच्छोध्यते, शेपस्य यदधैं स इषुर्भवति, तत्र जीवावर्गोऽयं 75600000000 विष्कम्भवर्गश्वायमेकपष्टयुत्तरत्रिशतगुणः 36100000000 / अस्माज्जीवावर्गे विशुद्ध शेषमिदं भवति 3534400000000 / अस्य मूलमादीयते, शून्याष्टकस्यार्धेन चत्वारि शून्यानि शेषस्य मूलमेव काष्ठकाष्ठकैलब्धमिदं 1880000 / एतद् विष्कम्भादेकोनविंशतिगुणाच्छोध्यम्, शेपं जातमिदं 20000 / अस्यार्धेनेदं 10000 / अस्यैकोनविंशत्या भागलब्धमिदं 526 षट् व कला इषुरिति / / अधुना धनुःकाष्ठानयनाय करणसूत्रम्-इषुवर्गस्य षड्गुणस्य ज्यावर्गयुक्तस्य [कृतस्य ] मूलं धनुःकाष्ठम् // इषोः कलीकृतस्यायं वर्गः 100000000 / एष षड्भिर्गुण्यते, जातमिदं 600000000 / एष ज्यावर्गे क्षिप्यते, ज्यावर्गश्चायं 756000 000000 / जातमिदं 76200000000 / अस्य मूलमात्रं धनुःकाष्ठं भवति, तब द्विकसप्तपशून्यचतुष्कत्रिकैः क्रमेणादीयते, ततोऽयं राशिर्भवति अधस्त्यस्या-(२६२१५१] 552086) धैन छिन्नस्यैकोनविंशत्या भागलब्धमिदं 14528 / एकादश चैकोनविंशतिभागा इति / सम्प्रति विष्कम्भानयनाय करणसूत्रमिदम्-ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्तं तत्प्रकृतिवृत्तविष्कम्भः // जीवावर्गचतुर्भागेन युक्त इषुवर्गः इषुणा विभतः स्वभाववृत्तविष्कम्भो भवति, ज्यावर्गः 75600000000 / अस्य चतुर्भागोऽयं 18900000000 / एष इषुवर्गे क्षिप्यते, इषुवर्गवायं 100000000 / एकीकृतमिदं जातं 19000000000 / भागपरावृत्या एकषष्टयधिकशतत्रयेणेषुर्गुण्यते, एकोनविंशतिभागेनैकः स गुणकार उपरितनस्य, इतरस्य चैकोनविंशतिभागेनैकोनविंशतिरेव, शून्यचतुष्कापगमे तया भागलब्धमिदं 100000 // _अधुना बाहुरानीयते, तत्रेदं करणसूत्रम्-उदग्धनुःकाष्ठाद् दक्षिणं शोध्यं शेषाध बाहुरिति / अनेन करणाभ्युपायेन क्षेत्राणां वैताढयादिपर्वतानामायामविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि // उदग्धनुःकाष्ठमिदं 25230 कला 4 चत्वारश्चैकोनविंशतिभागाः, अमुष्माद् दक्षिणं धनुःकाष्ठं पात्यते, तच्चेदं 14528 / Page #287 -------------------------------------------------------------------------- ________________ सूत्र 12 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 261 एकादश चैकोनविंशतिभागाः, पोतिते उपरितनराशिरयं 10702 / अधस्तादेकादश कला न पतन्ति चतसृभ्यः कलाभ्य इतिकृत्वा उपरितनराशिनं ददात्यर्धमतो रूपमेकमवतार्यते, एकोनविंशतिमध्यादेकादश शुद्धा अष्टौ शेषकलाचतुष्टयक्षेपाद्वादश, जाताः अर्धेन पद, उपरितनराशिनं ददात्यर्धमतो रूपमेकमवतार्यते एकोनविंशतिरपि नार्धं ददातीत्येकोनविंशतिरूपमपनीयते, तस्यार्धेनार्धकलाः,अष्टादशानामर्धेन नवषट्कपश्चदशकलाः सार्धा जाताः उपरितनराशेरधेनेदं 5350 / एतावती बाहा क्षुल्लहिमवत इत्यनेन च परिक्षेपज्यानयनकरणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानां चायामविष्कम्भेषुधनुःकाष्ठप्रमाणान्यवगन्तव्यानीति / अपरे पुनर्विद्वांसोऽतिबहूनि स्वयं विरचय्यास्मिन् प्रस्तावे सूत्राण्यधीयते विस्तरदर्शनाभिप्रायेण, तन्न युक्तमयं सङ्ग्रहः सूरिणा संक्षेपः कृत इत्यतोऽत्र विस्तराभिधानमपाचीनमाचक्षते प्रवचननिपुणाः / अथ विस्तरतो विवक्षितस्ततो ग्रन्थलक्षपरिभाषिताया जम्बूद्वीपदेशनायाः पटुप्रज्ञैस्तैर्विस्तृणद्भिरपि कियदत्र विस्तृतं स्याद् ? विस्तरार्थिनो वा बहुगुणः सिद्धान्त एव तत्कृतसूत्रेभ्य इत्यत उपेक्षणीयस्तदभिप्राय इति // 11 // एवमिमा जम्बूद्वीपवक्तव्यतां परिसमाप्य समासतः सम्प्रति द्वीपानारवक्तव्यताभिधित्सयोवाच-- सूत्रम्-द्विर्धातकीरूण्डे // 3-12 // टी०-अस्य भाष्यम् / भा०-ये एते मन्दरवर्षवंशधरा जम्बूद्वीपेऽभिहिताः एते द्विगुणा धातकी ___खण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभधातकीखण्डे क्षेत्रातिदेशः इषु सक्ताः / एभिरेव नामभिर्जम्बूदीपकसमसङ्ख्या पूर्वार्धेऽपकारौ च रार्धे च चक्रारसंस्थिता निषधसमोच्छायाः कालोदलवणजलपशिनो वंशधराः सेष्वाकारा अरविवरसंस्थिता वंशा इति // 12 // टी-ये एते मन्दरवर्षवंशेत्यादि भाष्यम् / लवणजलनिधेहिर्धातकीखण्डो द्वीपो धातकीवृक्षसम्बन्धाद् वलयाकृतिः लक्षचतुष्टयविष्कम्भः, तस्मिन् धातकीखण्डे मन्दरादयो जम्बूद्वीपकमन्दरादिभ्यः सङ्ख्यया द्विगुणमाना वेदितव्याः, जम्बूद्वीपे मेरुरेकस्तत्र द्वौ पूर्वापरदिग्मध्यव्यवस्थितौ मेरू, वंशा भरतादिक्षेत्राण्यैरावतपर्यवसानानि, तानि तत्र द्विसङ्ख्यायुक्तानि प्रत्येकं 2 / वंशधरा हिमवदादयः पर्वता वैताढयादयश्च तेऽपि तत्र द्विद्धिः स्थिताः, एते च सर्वेऽपि मन्दरादयो द्वाभ्यामिष्वाकारपर्वताभ्यामृजुभ्यामित्यर्थः / दक्षिणोत्तरदिङमध्यव्यवस्थिताभ्यां दक्षिणोत्तरायताभ्यां च विभक्ताः-विच्छिन्नाः पूर्वार्धे चापरार्धे व व्यवस्थिताः, एभिरेव नामभिजेम्बद्वीपकैः समा सङ्ख्या येषां भरतादिप्रतिक्षेत्र जम्बू पास्यन्ते' इति ग-टी-पाठः। २रवंशवर्षधरा' इति घ-पाठः / 3 ‘एतैरेव' इति क-पाठः / Page #288 -------------------------------------------------------------------------- ________________ 262 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः३ दीपकसमसङ्ख्याः ,चक्रनाभिप्रतिबद्धारकवत् संस्थिताः, तत्र वर्षधरपर्वता निषधगिरिसदृशोच्छ्रायाश्चतुर्योजनशतोच्छ्ाया इत्यर्थः / कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकाराः कालोदसमुद्रो धातकीखण्डपरिक्षेपी लवणोदधिर्जम्बूद्वीपपरिक्षेपी, एतयोर्जलं कालोदलवणजलं तत्स्प्रष्टुं शीलमेषामिति कालोदलवणजलस्पर्शिनो हिमवदादयः, सहेष्वाकारपर्वताभ्यां पञ्चयोजनशतोच्छ्रायाभ्यामिति / धातकीखण्डवर्तिनश्च हिमवदादयो जम्बूद्वीपकहिमवदादिविच्छेदप्रतिनिधिना व्यवस्थिता वैताढयादयः क्षेत्राणि चेति / अरविवरसंस्थिता वंशा इति / अराणां विवराण्यन्तरालानि तद्वद् व्यवस्थिताः वंशाः-क्षेत्राणि तत्रेति / सङ्क्षपात तु प्रतिपत्तव्यमिदं यन्नाम किश्चिन्नदीदेवकुरूत्तरकुरुप्रभृति जम्बूद्वीपेऽभिहितं तत् सर्व धातकीखण्डे द्विरिवसातव्यमिति // 12 // यथैव धातकीखण्डे जम्बूद्वीपविधिर्द्विरुक्तस्तथैव सूत्रम्-पुष्कराधे // 3-13 // भा०-यश्च धातकीखण्डे मन्दरादीनां सेष्वाकारपर्वतानां सङ्ख्याविषये नियमः स एव पुष्करार्धे वेदितव्यः // टी-पुष्करद्वीपः कालोदसमुद्रपरिक्षेपी षोडशलक्षविष्कम्भस्तस्यार्धमारात्तममष्टौ योजनलक्षास्तस्मिन् पुष्करार्धे च जम्बूद्वीपविधिििर्बर्द्रष्टव्यः / यश्चधातकीखण्डे विधिरुक्त इष्वाकारौ दक्षिणोत्तरदिङ्मध्यावस्थितौ दक्षिणोत्तरायतौ पञ्चशतोचौ, तथा मन्दरौ चतुरशीतिसहस्रोच्छ्यादिको वंशधराश्चतुःशतोच्चा इत्येवमादिकः सङ्ख्याविशेषनियमः स पुष्करार्धेऽप्यशेषो वेदितव्य इति / / भा०-ततः परं मानुषोत्तरो नाम पर्वतो मानुष्यलोकपरिक्षेपी सुनगरप्रा ____ कार(वत् )वृतः पुष्करद्वीपार्धे निर्दिष्टः काञ्चनमयः / सप्तदशैकमानुषात्तर पवतः विशानि योजनशतानि उच्छ्रितः / चत्वारि त्रिंशानि क्रोश चाधो धरणितलमवगाढः / योजनसहस्रद्वाविंशमधस्ताद् विस्तृतः / सप्तशतानि त्रयोविंशानि मध्ये। चत्वारि चतुर्विंशान्युपरीति / टी-ततः परमित्यादि भाष्यम् / आरात्तमपुष्करार्धात् परतः समनन्तरोधान्यपल्यकार्धाकृतिः वलयवृत्तो मानुपोत्तराभिधानो गिरिमानुष्यलोकपरिक्षेपी महानगरप्राकारप्रतीकाशः कनकमयः पुष्करद्वीपार्धविभागकारीति / शेषं समुच्छ्रायादि सुज्ञानम् / भा०-न कदाचिदस्मात् परतो जन्मतः संहरणतो वा चारणविद्याधरौद्धप्राप्ता अपि मनुष्या भूतपूर्वा भवन्ति भविष्यन्ति च / टी०-न कदाचिदस्मादित्यादि / अस्मान्मानुषोत्तराद् गिरेः परतो न कस्मिंश्चिदपि काले जायन्ते जनिष्यन्तेऽजनिषत चेति मनुष्या इत्यत एवायं मानुषोत्तरोभिधीयते / तथा Page #289 -------------------------------------------------------------------------- ________________ एवं 13 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 263 संहरणतोऽपि न सन्ति मनुष्याः, तत्र संहरणं नाम वैराद्यनुबन्धात् केनचिद् देवविद्याधरादिना हत्यमनुष्यस्तत्रोत्क्षिप्य नीयेतायमत्रोर्ध्वशोषं शुष्यतु म्रियतां वाप्यकृतप्रतीकारः क्षिप्रमेवं वैरादिनिर्यातनाथै, संहरणममून् विहाय क्रियते "संमणी अवगतवेदं, परिहारपुलागमप्पमत्तं च / चोदसपुलिं आहा-रयं च णवि कोइ संहरइ // " आर्या तस्मादपि संहरणतो न मनुष्यास्तत्परत इति, अवश्यं हि मनुष्येण मर्तव्यमन्तर्मानुषो. तरनगस्येति / तथा चारणविद्याधद्धिप्राप्ता आप मनुष्यास्तमुल्लय गताः सन्तः परतो न प्रियन्ते इति नियम्यते, न पुनर्गमनमेषां मानुषोत्तराद् बहिनिषिध्यते, तपोविशेषानुष्ठानाजवाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिदीपान् गच्छन्ति चैत्यवन्दनायै, प्रसिद्धश्चायमावश्यकादिष्वपि प्रायो विधिः, तथा विद्याधरा महाविद्यासम्पन्नाः ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छन्ति परतः, न तु प्राणान् परित्यजन्ति तत्रैवेति / एवंविधातिशयप्राप्ता अपि तत्र नो नियन्ते, किमुत निरतिशयमनुष्या इति दर्शयतिमानवोत्तराभिधाने भा०-अन्यत्र समुद्घातोपपाताभ्यामत एव च मानुषोत्तर . कारणम् इत्युच्यते / / ___टी०-अन्यत्र समुद्घातोपपाताभ्यामित्यपोद्यते मारणान्तिकसमुद्धातेन समुपहतः कश्चिदर्धतृतीयद्वीपान्तर्वर्ती बहिर्वतिद्वीपसमुद्रेषत्पत्स्यते तेन चोत्पत्तिप्रदेशे प्रक्षिप्तमात्मप्रदेशजालमिलिकागतिना पश्चाम्रियते तत्र व्यवस्थित इति / तथोपपातमङ्गीकृत्य जन्माभिसम्बध्यते बहिर्वीपसमुद्रवर्तिनाऽसुमता येन मनुष्यायुर्निबद्धमर्धतृतीयद्वीपाभ्यामन्तरे चोत्पत्स्यते वक्रगत्या, तस्य तन्मनुष्यायुर्वकाले विपच्यते, तदैव चासौ मनुष्यो जातस्तदुदयवर्तित्वात् / तथा चागमः-" मणुस्से णं भंते ! मणुस्सेसु उववज्जइ अमणुस्से मणुस्सेसु उववज्जइ ? गोयमा! मणुस्से 2 सु उववज्जइ, नो अमणुस्से मणुस्सेसु उववज्जइ // " एवं समुद्धातोपपातौ विरहय्य नान्येन प्रकारेण बहिर्मानुषोत्तरधरणीधरात् मरणं मनुष्याणां जन्म वा सम्भाव्यते इति / ये त्वेतद् भाष्यं गमनप्रतिषेधद्वारेण चारणविद्याधरर्द्धिप्राप्तानामाचक्षते तेषामागमविरोधः, सर्वेषां हि चारणादीनां आगमे गमनाभ्यनुज्ञानाद, बहिर्जन्ममरणे न सम्भाव्यते इत्यवधीकृत्येदमुच्यते-अत एव मानुषोत्तर इति / 1 श्रमणीमपगतवेदं परिहारं पुलाकमप्रमत्तं च / चतुर्दशपूर्विणमाहारकं च नैव कोऽपि संहरति ॥-भग० श० 25, उ० 6 वृत्ती 2. मित्यापाद्यते' इति क-पाठः। 3 मनुष्यो भदन्त ! मनुष्येषु उत्पद्यते, अमनुष्यो मनुष्येषु उत्पद्यते ? गौतम ! मनुष्यो मनुष्येषु अमनुष्यो मनुष्येषु उत्पद्यते। Page #290 -------------------------------------------------------------------------- ________________ 264 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः भा०-तदेवमर्वाग्मानुषोत्तरस्यार्धतृतीया द्वीपाः,समुद्रद्वयं,पश्च मन्दराः पञ्च त्रिंशत् क्षेत्राणि, त्रिंशदू वर्षधरपर्वताः, पञ्च देवकुरवः, पश्चो नरलोके द्वीपसमद्रादिसंख्या मु. त्तराः कुरवः, शतं षष्ट्यधिकं चक्रवर्तिविजयानाम् / वे शते पञ्चपञ्चाशजनपदानाम्, अन्तरद्वीपाः षट्पञ्चाशदिति // 13 // टी०-तदेवमर्वाग् मानुषोत्तरस्येत्यादि भाष्यम् / व्यावर्णितलक्षणस्य मानुषोत्तरगिरेराय जम्बूद्वीपधातकीखण्डपुष्करार्धान्यर्धतृतीया द्वीपाः; लवणकालोदौ समुद्रद्वयम् जम्बूद्वीप एको धातकीखण्डे द्वौ, पुष्करार्धे च द्वावेव पञ्च मन्दराः जम्बूद्वीपे भरतादीनि सप्त धातकीपण्डे चतुर्दश, पुष्करार्धे चतुर्दशैवं पञ्चत्रिंशत क्षेत्राणि; जम्बूद्वीपे पद, धातकीखण्डे द्वादश,पुष्करार्धे द्वादशै त्रिंशद् वर्षधरपर्वताः,जम्बूद्वीपे एकः, धातकीखण्डे द्वौ, पुष्कराचे द्वावेवं पञ्च देवकुरवः, एवमेव पश्चोत्तराः कुरवः; जम्बूद्वीपे द्वात्रिंशत्, धातकीखण्डे चतुःपष्टिः, पुष्करार्धे चतुःपष्टिश्चैवं पष्टयधिकं शतं चक्रवर्तिविजयानाम्; पञ्चसु भरतेषु पञ्चसु चैरावतेषु प्रत्येकं पञ्चविंशतिर्जनपदा अर्धं चार्याः एते दशगुणा द्वे शते पञ्चपञ्चाशदधिके जनपदानामार्याणाम्; जम्बूद्वीप एव हिमवतः प्राक् पश्चाद् विदिक्षु सप्त सप्तान्तरद्वीपा एकत्राष्टाविंशतिस्तथा शिखरिणोऽप्यष्टाविंशतिरेवमेते षट्पञ्चाशद् भवन्ति। उत्सेधाङ्गुलं सहस्रगुणितं प्रमाणागुलं भवति, तदनुमानेन चैषां द्वीप-क्षेत्र-गिरि-कूट-सरित-सागर-काण्ड-पातालभवनकल्पविमानादीनां विष्कम्भायामपरिधयो ग्राह्याः। क्षेत्रादीनि च यथावत्परिमाणतो ज्ञात्रा तत्प्रत्ययार्थ सङ्ख्यानमुक्तम्, तच्च गणितग्रन्थेभ्यः साक्षात् सम्बन्धिफलत्वादव्यभिचारि प्रत्येतव्यम्, यैश्च क्षेत्रादिपरिमाणं सङ्ख्यातं तैरवश्यं सङ्ख्यानशास्त्रं प्रमाणेयम्, प्रमेयपदार्थप्रणयने प्रमाणप्रणयनवत्, यद्यपि चेयत्ता आगममात्रप्रतिपाद्या तथाऽनु तदन्यैरपि सङ्ख्यात तत्सङ्ख्यानलक्षणं तु नोक्तम्, यदप्युक्तम् तदपि क्षेत्रपरिक्षेपादि व्यभिचरति, सर्वभुवनको. शादिप्रक्रियान्तःपाति प्रदश्य, प्रायश्च सावर्णिसांशपायनबुद्धादयः सातिशयज्योतिपक्षेत्रगणितशास्त्रानभिज्ञास्तेषामविपय एवायम् / यदि नाम मूढतया कश्चिदभिनिविशेत, स तु प्रतिवृत्तफलकसूत्रदीपच्छायादिभिः प्रत्ययैः प्रत्याय्यः, यस्येयान् विष्कम्भस्तस्य परिक्षेपः कियान् भवतीति सङ्ख्याननियमात् , पूर्वापराविरोधि प्रत्यक्षफलं च सङ्ख्यानम्, अतः सर्वज्ञज्ञानविषयाभ्यन्तरत्वात् ज्ञानातिशयत्वाच महातडागोदरसंस्थितजलद्रव्यपलपरिमाणपरिज्ञानोपायोपदेशवत् तीर्थकरैः सर्वमिदमनवद्यमादर्शितं सर्वज्ञतालाञ्छनमिति // 13 // भा०-अत्राह-उक्तं भवता-मानुषस्य स्वभावमार्दवार्जवत्वं च ( अ० 6 मू०१८) इति / तत्र के मनुष्याः क वेति / अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादि पातनिकाग्रन्थः / सूत्रेषुक्तमाश्रवप्रस्तावे षष्ठेऽध्याये(सू०१८) स्वभावमार्दवार्जवं च मानुषस्येति, तत्र के मनुष्या आर्यादिभेदेन केन व्यवस्थिताः क वा द्वीपक्षेत्रे समुद्रे वा ? / अत्रोच्यते Page #291 -------------------------------------------------------------------------- ________________ सूत्रे 14-15] स्वोपज्ञभाष्य-टीकालङ्कृतम् 265 . सूत्रम्-पाङ् मानुषोत्तरान्मनुष्याः // 3-14 // भा०-प्राङ् मानुषोत्तरात् पर्वतात् पञ्चत्रिंशत्सु क्षेत्रेषु सान्तरद्वीपेषु ज न्मतो मनुष्या भवन्ति / संहरणविद्यर्द्धियोगात् तु सर्वेष्वर्धतृतीमनुष्याणां // येषु द्वीपेषु समुद्रद्वये च समन्दरशिखरेष्विति / भारतका हैमस्थानम् वतका इत्येवमादयः क्षेत्रविभागेन / जम्बूद्वीपका लवणका इत्येवमादयो द्वीपसमुद्रविभागेनेति // 14 // ____टी०-मानुषोत्तरगिरिमर्यादाव्यवच्छिन्नाः, पञ्चत्रिंशत्सु भरतक्षेत्रादिषु, सातरहीपेषु, जन्मासादयन्ति मनुष्याः, एतेन भाष्येण न व्याप्तिरर्धतृतीयद्वीपानां समुद्रस्य दर्शिता / अधुना व्याप्तिमादर्शयति-संहरणविद्यर्द्धियोगात् त्वित्यादि / सर्वत्र संहरपादिभिः कारणैः सन्निधानं स्यान्मनुष्याणामिति / एवमेषां स्थानानि निरूप्य मनुष्याणां क्षेत्रादिविभागेन भेदमाख्याति-भारतका इत्यादि सुज्ञानम् // 14 // अधुनैषां क्षेत्रादिकृत एव विभागो विशेष्यते कर्मनिर्वृत्तिसंश्रयेण,अतस्तदाख्यानायाह सूत्रम्-आर्या म्लेच्छाश्च // 3-15 // टी०-चशब्दोऽनेन भेदत्वमुभयोरापादयति / भा०-द्विविधा मनुष्या भवन्ति-आर्या म्लेच्छाश्च / तत्रार्याः षइविधा: क्षेत्रार्याः, जात्यार्याः, कुलार्याः, कार्याः, शिल्पार्याः, मामा भाषार्या इति / तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु जाता स्तथा भरतेष्वर्धषड्विंशतिषु जनपदेषु जाताः शेषेषु च चक्रपतिविजयेषु / जात्यार्या इक्ष्वाकवो विदेहा हरयोऽम्बष्ठा ज्ञाताः कुरवः व॑वनाला उग्रा भोगा राजन्या इत्येवमादयः / कुलार्याः कुलकराः चक्रवर्तिनो बलदेवा वासुदेवाये चान्ये आ तृतीयादा पञ्चमादा सप्तमाद्वा कुलकरेभ्यो वा विशुद्धान्वयप्र. कृतयः / कमोयों यजनयाजनाध्ययनाध्यापनप्रयोगकृषिलिपिवाणिज्ययोनिपोषणवृत्तयः / शिल्पार्यास्तन्तुवाय-कुलाल-नापित-तुन्नवाय-देवटादयोऽल्पसावद्याः अगहिंताजीवाः / भाषार्या नाम ये शिष्टभाषानियतवर्ण लोकरूढस्पष्टशब्द पश्चविधानामप्यायोंणां संव्यवहारं भाषन्ते // टी०-द्विविधा इत्यादि भाष्यम् / तत्रार्धषड्विंशतिजनपदजाताः भूयसा आयोः, अन्यत्र आता म्लेच्छाः,तत्र क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषा-ज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानपेताचरणशीला आर्याः, एतविपरीतास्तु म्लेच्छा भवन्त्यव्यक्तानियतभाषाचेष्टत्वात् / तत्रा - १'बुचनाला ' इति क-पाठः, 'बुवुनाला ' इति तु घ-पाठः / 2 भोजा ' इति क-पाठः / Page #292 -------------------------------------------------------------------------- ________________ 266 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः३ योःषइविधा इत्यादि / क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाभेदेन,तत्र क्षेत्रार्या इत्यादि सुज्ञानम्। जात्यार्या इक्ष्वाकव इत्यादि / सर्व एते जातिभेदाः केनचिनिमित्तान्तरेणाध्यवसेयाः / कु. लार्या इत्यादि / अत्रापि निमित्तभेदेन भिद्यन्ते / अपरे परिभाषन्ते-पित्रन्वयो जातिः, मात्रन्वयः कुलम् / कार्या इत्यादि / अनाचार्य के किल कर्म तत्रार्याः कर्मायोः शिल्पार्या इत्यादि / आचा र्योपदेशात् शिक्षितं शिल्पं तन्तुवायादि तत्रार्याः शिल्पार्याः / भाषा नामेत्यादि / शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृतार्धमागधिकादिका च, तत्र शिष्टभापानियता अकारादयो वर्णा विशिष्टेन पौर्वापर्येण सन्निवेशिता यस्य शब्दप्रधानसंव्यवहारस्यासौ शिष्टभाषानियतवर्णस्तं लोकरूढस्पष्टशब्दं लोकरूढः-अत्यन्तप्रसिद्धःसंव्यवहारेषु स्पष्टःस्फुटो नाव्यक्तो बालभाषावत् लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे तमेवंविधम् , पञ्चविधानामप्यार्याणां क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारमागच्छ याहीदं कुरु मै कार्षीरित्येवमादिकं भाषन्ते ये ते भाषायोः // भा०-अतो विपरीता म्लिशः // ____टी०-उक्तक्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाव्यतिरिक्तक्षेत्रादिषटकभाजः सर्वे म्लिशो भवन्ति, शक-यवन-किरात-काम्बोज-बाहीकादयोऽनेकभेदाः, तथाऽन्तरद्वीपकाः फिल म्लेच्छा एव, क्षेत्रादिषट्कविपर्यासात् / भा०–तद्यथा-हिमवतः प्राक् पश्चाच्च चतसृषु विदिक्षुत्रीणि अन्तरद्वीपकाः - योजनशतानि लवणसमुद्रमवगाह्य चतमृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा भवन्ति, त्रियोजनशतविष्कम्भायामाः / तद्यथा-एकोरुकाणां आभासिकानां लालिनां विषाणिनामिति 1 / चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भाः। एवमेव हयकर्णानां गजकर्णानां गोकर्णानां शकु. लीकर्णानामिति 2 / पञ्च योजनशतान्यवगाह्य पश्चयोजनशतायामविष्कम्भा एवान्तरद्वीपाः। तद्यथा-आदर्श-मेष-हय-गजमुखनामानः३। षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा एवान्तरद्वीपाः। तद्यथा-अश्व-हस्ति-सिंह-व्याघ्रमुखनामानः। सप्त योजनशतान्यवगाह्य सप्तयोजनशतायामविष्कम्भा एवान्तरद्वीपाः / तद्यथाअश्वकर्ण-सिंहकर्ण-हस्तिकर्ण-कर्णप्रावरणनामानः५। अष्टौ योजनशतान्यवगाह्या. ष्टयोजनशतायामविष्कम्भा एवान्तरद्वीपाः / तद्यथा-उल्कामुख-विद्युजिह्व-मेषमुख-विद्युद्दन्तनामानः 6 नव योजनशतान्यवगाह्य नवयोजनशतायामविष्कम्भा एवान्तरदीपा भवन्ति / तद्यथा-घेनदन्त-गूढदन्त-श्रेष्ठंदन्त-शुद्धदन्तनामानः / / 'एवान्तरद्वीपाः, तद्यथा' इति घ-पाठः / 2 गजमुखानां व्याघ्रमुखानामादर्शमुखानां गोमुखानामिति' इति ध. पाठः / 3 'अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखानामिति' इति घ-पाठः / 4 / सप्त शतान्यवगाय' इति क-पाठः / 5. घनदन्त-श्रेष्ठदन्त' इति क-पाठः / 6 'विशिष्ठदन्त' इति घ-पाठः / Page #293 -------------------------------------------------------------------------- ________________ 267 सूत्रं 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् एकोरुकाणामेकोरुकद्वीपः / एवं शेषाणामपि स्वनामभिस्तुल्यनामानो वेदितव्याः / शिखरिणोऽप्येवमेवेत्येवं षट्पञ्चाशदिति // 15 // टी.-तद्यथा-हिमवतःप्राक् पश्चाच विदिक्षु इत्यादि भाष्यम् / हिमवतः प्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतुसृषु, त्रीणि योजनशतानि लवणजलधिमवगाह्य द्वीपकाः प्रथमतः सन्निविष्टास्तासां मनुष्यजातीनामेकोरुकादिकानाम्, तत्र पूर्वोत्तरस्यां दिशि त्रीणि योजनशतान्यवगाह्य लवणसागरजलं त्रिशतायामविष्कम्भः प्रथम एकोरुकाभिधानो द्वीप एकोरुकपुरुषाणामधिवासः द्वीपनामतः पुरुषनामानि, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमणाः नैकोरुका एवेत्येवं शेषा अपि वाच्याः, तथा दक्षिणपूर्वस्यां दिशि लवणजलमवगाह्य त्रीणि शतानि त्रिशतायामविष्कम्भः प्रथमो द्वीप आभासिकाभिधान आभा. सिकमनुष्यावासः, तथा दक्षिणापरस्यां दिशि हिमवतस्त्रीणि शतानि लवणजलमवगाह्य त्रिशतायामविष्कम्भो लाङ्ग्रलिकाभिधानः प्रथमद्वीपो लाङ्गलिकमनुष्यावासः, तथोत्तरापरस्यां त्रीणि शतान्यवगाह्य लवणजलं त्रिशतायामविष्कम्भः प्रथमद्वीपो वैपाणिकाभिधानः वैषाणिकमनुष्यावासः। एवं हयकर्ण-गजकर्ण-गोकर्ण-शष्कुलीकर्णाश्चत्वारि योजनशतान्यवगाह्य हिमवतो लवणोदधिं पूर्वोत्तरादिकासु विदिक्षु चतुर्योजनशतायामविष्कम्भाश्चत्वारो द्वीपा भवन्ति, एवं शेपचतुष्काण्यपि विभजनीयानि यावत् सप्तमो द्वीपः शतानि नवावगाह्य लवणजलधिं नवयोजनशतायामविष्कम्भो विदिशि विदिशि भवतीति,आदर्शमुख-मेण्मुख-हयमुख-गजमुखाः अश्वमुख-हस्तिमुख-सिंहमुख-व्याघ्रमुखाः अश्वकर्ण-सिंहकर्ण-हस्तिकण-कर्णप्रावरणाः उल्कामुखविद्युजिह्व-मेपमुख-विद्युदन्ताः घनदन्त-गूढदन्त-विशिष्टदन्त-शुद्धदन्ताख्याः।एते च युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुपोऽष्टधनुःशतोचाः पुरुषा भवन्ति / एवमेवाष्टाविंशतिरन्तरद्वीपकानां हिमवगिरिप्रागपरपर्यन्तप्रवाहा भवन्त्युक्तेन न्यायेन / तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽ. प्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणामुनैव नामकलापेन चान्तरद्वीपकानामष्टविंशतिर्भवत्येकत्र षट्पञ्चाशदन्तरद्वीपका भवन्ति / एतच्चान्तरद्वीपकभाष्यं प्रायो विनाशितं सर्वत्र कैरपि दुर्विदग्धैर्येन पण्णवतिरन्तरद्वीपका भाष्येषु दृश्यन्ते / अनार्ष चैतदध्यवसीयते जीवाभिगमादिषु षट्पञ्चाशदन्तरद्वीपकाध्ययनात्, नापि वाचकमुख्याः सूत्रोल्लङ्घनेनाभिदधत्यसम्भाव्यमानखात्, तस्मात् सैद्धान्तिकपाशैविनाशितमिदमिति // 15 // तदेतस्मिन्नार्यानार्य विकल्पे मनुष्यक्षेत्रे काः कर्मभूमयोऽकर्मभूमयो वेत्यत आहसूत्रम्-भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः॥३-१६॥ भा०-मनुष्यक्षेत्रे भरतैरावतविदेहाः पञ्चदश कर्मभूमयो भवन्ति / अन्यत्र देवकुरुत्तरकुरुभ्यः। १'आभाषिका' इति क-पाठः / Page #294 -------------------------------------------------------------------------- ________________ स्वरूपम् 268 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 टी०-मनुष्यक्षेत्र इत्यादि भाष्यम् / अर्धतृतीयद्वीपाभ्यन्तरे पञ्च भरतानि पझे रावतानि पञ्च विदेहाः पञ्चदश कर्मभूमयो भवान्त, कात्स्येन प्राप्ते कर्मभूमिले विदेहानामपवादः क्रियते-देवकुरुत्तरकुरुखो विदेहाः कर्मभूमयो भवन्तीति, तदन्तः पातित्वान्निषेधः // अथ कः कर्मभूमिशब्दार्थ इत्यत आह भा०-संसारदुर्गान्तगमकस्य सम्यग्दर्शनज्ञानचारित्रात्मकर्माकर्मभूमि ___ कस्य मोक्षमार्गस्य ज्ञातारः कर्तार उपदेष्टारश्च भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्ते / अत्रैव जाताः सिद्धयन्ति नान्यत्र, अतो निर्वाणाय कर्मणः सिद्धिभूमयः कर्मभूमय इति। शेषास्तु विंशतिवैशाः सान्तरद्वीपा अकर्मभूमयो भवन्ति / / टी-संसारदुर्गान्तगमकस्येत्यादि / मोक्षमार्गो विशिष्यते, संसारो नारकादिभेदः स एव दुर्ग-गहनमनेकजातिप्रमुखत्वाद दुःखात्मकत्वाच तस्यान्तः पारः संसारदुर्गान्तस्तं संसारदुगान्तं गमयति-प्रापयति यस्तस्य संसारदुगान्तगमकस्य मोक्षमार्गस्य-सम्यक्त्वज्ञानचरणात्मकस्येति मोक्षाङ्गानामियत्तांमावेदयति, एवंविधस्य मोक्षपथस्य, ज्ञातारस्तीर्थकरा यथावदवगन्तार इत्यर्थः / कर्तार इति प्रणेतारः प्रदर्शयितार इतियावत् नित्यत्वात् प्रवचनार्थस्येति, सम्यक्त्वाद्यात्मकं तीर्थ तत्प्रणयनात् तीर्थकरा भवन्ति, गणधरादिप्रजाजनाद् वा, वाग्योगेन चोपदिशन्ति भगवन्त इत्युपदेष्टारः श्रुतज्ञानाभावादिति सूचयति, यशोलक्ष्म्यादियोगाद् भगवन्तः, परमर्षयः कृतार्थत्वे सति सन्मार्गोपदेशेन भव्यसत्त्वाभ्युद्धरणात् तीर्थकरणहेतवस्तच्छीलास्तदनुलोमवृत्तयो वा तीर्थकरा अत्रोत्पद्यन्ते पञ्चदशसु क्षेत्रेषु, एतेष्वेव च पुनः सकलकर्मक्षयं विधाय सिद्धिधामाभिधावन्ति नान्यत्र क्षेत्र इति / अतो निर्वाणाय कर्मणः सिद्धिभूमयः कर्मभूमय इति / अतः सकलकमाग्नेर्विध्यापनाय सिद्धिप्राप्त्यै भूमयः कर्मभूमयोऽभिधीयन्त इति / परिशेषलब्धमकर्मभूमिशब्दार्थमाख्याति-शेषास्त्वित्यादि / जम्बूद्वीपे हैमवत-हरिवर्ष-रम्यक हैरण्यवताख्याश्चत्वारो वंशाः, एत एव धातकीखण्डेऽष्टौ द्विगुणाः पुष्कराधे चाष्टावेकत्र विंशतिवंशाः सहान्तरद्वीपैरेकोरुकादिभिः षट्पञ्चाशद्भिरकर्मभूमयो भवन्ति, तीर्थकरजन्मादिरहितत्वात् / पूर्वापोदितमर्थमुपसंहरति भा०-देवकुरूत्तरकुरवस्तु कर्मभूम्यभ्यन्तरा अप्यकर्मभूमय इति // 16 // टी०--सर्वदाचरणप्रतिपत्तेरभावादित्यवगमयति // 16 // Page #295 -------------------------------------------------------------------------- ________________ से 17-18 1 स्वोपज्ञमाष्य-टीकालङ्कृतम् 269 -- अथैते मनुष्या आर्यादिभेदवर्तिनः कियन्तं कालमनुपाल्यायुःप्राणान् विजहतीत्याह-- सूत्रम्-नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते // 3-17 // भा०-नरो नरा मनुष्या मानुषा इत्यनान्तरम् / मनुष्याणां परा स्थितिस्त्रीणि पल्योपमानि, अपरा अन्तर्मुहूर्तेति॥१७॥ टी-नरो नरा इत्यादि भाष्यम् / पर्यायाख्यानेन व्याख्यातमेतत् नृसब्दस्य, परा. उत्कृष्टा स्थितिरायुषोऽवस्थानं जीवितकालः त्रीणि पल्योपमानि मनुष्याणाम्, एतानि चाद्धापल्योपमेन जीवानामाग्रंषि गण्यन्ते, अपरा अन्तर्मुहर्ता जघन्या स्थितिरायुषोऽन्तर्मुहूर्तपरिमाणा भवतीति // 17 // सूत्रम्-तिर्यग्योनीनां च // 3-18 // भा०—तिर्यग्योनीनां च परापरे स्थिती त्रिपल्योपमामामा न्तर्मुहर्ते भवतः यथासङ्ख्यमेव / पृथकरणं यथासङ्ख्यदोषविनिवृत्त्यर्थम्, इतरथा यद्येकमेव सूत्रमभविष्यत् / उभयत्र चोभे यथासंख्यं स्यातामिति / -टी-तिर्यग्योनीनामप्यत्रैवोच्यते स्थितिरायुपः समानप्रक्रमत्वात् / तिर्यग्योनीनां चेत्यादि भाष्यम् / तिर्यग्योनयः-पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः तेषामपि परापरे स्थिती जीवितव्यस्य त्रिपल्योपमान्तर्मुहूर्ते भवतः यथासङ्ख्यम् उत्कृष्टजघन्ये स्थिती बोद्धव्ये, पृथग्योगकरणं यथासङ्ख्यदोषविनिवृत्त्यर्थमित्यादि। नृतिर्यग्योनीनां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते इत्येवं न्यासे सति त्रिपल्योपमा परा स्थितिर्मनुष्याणाम्, अपरा स्थितिस्तिरश्चामन्तर्मुहूर्तप्रमाणेति एवं स्यात् सूत्रार्थ इत्याचार्याभिप्रायः। न खल्वेवमपि न्यस्यमाने कश्चिद् दोपः, स्थिती परापरे इति समुदितमेवेदं समासपदत्वादभिसमन्त्स्यते, नृणां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते तिरश्चां च परापरे त्रिपल्योपमान्तमुहूर्ते, व्याख्यानतो वा विच्छेदः आर्षानुवादित्वाद वाऽस्य सूत्रप्रबन्धस्येति / _भा०-द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः-भवस्थितिः कायस्थितिश्च / मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती / कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानीति / तियेग्योनिजानां च यथोक्ते समासतः परापरे भवस्थिती। टी-द्विविधा चैषामित्यादि भाष्यम् / नृतिरश्चां द्विप्रकारा स्थिति:-भवस्थितिः कायस्थितिश्च / तत्रभवस्थितिमनुष्यजन्म लम्वा तिर्यग्जन्म वा कियन्तं कालं जीवति Page #296 -------------------------------------------------------------------------- ________________ नम् 270 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 प्राणी जघन्येनोत्कर्षेण वेति / कायस्थितिर्मनुष्यो भूत्वा तिर्यग्योनिर्वा मरणमनुभूय पुनर्मनुष्येप्वेव मनुष्यः तिर्यक्ष्वेव तिर्यग्योनि:रन्तर्येण कतिकृत्वः समुत्पद्यते / तत्र मनुष्याणां यथोते त्रिपल्योपमान्तमुहूर्ते परापरे भवस्थिती, कायस्थितिः सप्ताष्टौ वा भवग्रहणानि प्रकर्षतः सप्ताष्टौ वेति नैरन्तर्येण मानुषः स्यात्, कथं पुनरिदं भाव्यते-पूर्वकोट्यायुमेनुष्यो मृत्वा पुनः पुनः पूर्वकोट्यायुरेव मनुष्यः सप्तकृत्वः प्रादुरस्तीति, अष्टमभवे तु देवकुरूत्तरकुरुषु उत्पद्यते पश्चाद् देवलोकं गच्छति / तिर्यग्योनिाजनां चेत्यादि / उक्त भवस्थिती सङ्ग्रहतः। भा०-व्यासतस्तु शुद्धपृथिवीकायस्यपरा द्वादश वर्षसहस्राणि,खरपृथिवीका / यस्य द्वाविंशतिः,अपकायस्य सप्त,वायुकायस्य त्रीणि,तेजःकाय. पृथ्व्यादानामायुमा स्य त्रीणि रात्रिंदिनानि,वनस्पतिकायस्य दश वर्षेसहस्राणि। ए. _षांकायस्थितिरसङख्येयाःअवसर्पिण्युत्सर्पिण्यः वनस्पतिकायस्यानन्ताः। द्वीन्द्रियाणां भवस्थिति दश वर्षाणि / त्रीन्द्रियाणामेकोनपश्चाशदा. त्रिंदिनानि / चतुरिन्द्रियाणांषण्मासाः / एषां कायस्थितिःसङ्ख्येयानि वर्षसहस्राणि / पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः। तद्यथा-मत्स्याः उरगाः परिसाःपक्षिणश्चतुष्पदा इति। तत्र मत्स्यानामुरगाणां भुजगानां च पूर्वकोट्येव / पक्षिणांपल्योपमासङ्ख्येयभागः। चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः। तत्र म त्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशदुरगाणां द्विचत्वारिंशत् भुजगानां दि. सप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मच्छिमानां भवस्थितिः। एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि / सर्वेषां मनुष्यतियग्योनिजानां कायस्थिति रप्यपरा अन्तर्मुहतैवेति // 18 // टी०-व्यासतस्तु शुद्धपृथिव्या द्वादश वर्षसहस्राणि खरधरणेाविंशतिरित्यवमादि सुज्ञानम्, एषां पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां कायस्थितिरसङ्ख्येया अवसर्पिण्युत्सर्पिण्यः साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः / द्वीन्द्रियाणामित्यादि सुज्ञाना भवस्थितिः / एषां कायस्थितिः सङ्ख्येयानि वर्षसहस्राणि पश्चेन्द्रियेत्यादि सुज्ञानम् / सप्ताष्टौ वा भवग्रहणानि मनुष्यवद् भावनीयानि / सर्वेषामित्यादि मनुष्यतिरवामपरा कायस्थितिर्जघन्याऽन्तमुहूर्तप्रमाणैव भवतीति // 18 // ग्रन्थाग्रमङ्कतः 8212 (1) // इति श्रीतत्त्वार्थसूत्रेऽर्हत्प्रवचने भाष्यानुसारिण्यां टीकायां लोकप्रज्ञप्ति - ___ माध्यायस्तृतीयः॥३॥ // इति तृतीयोध्यायः॥ Page #297 -------------------------------------------------------------------------- ________________ // श्रीपरमात्मने नमः // घात: चतुर्थोऽध्यायः 4 भा०-अत्राह-उक्तं भवता 'भवप्रत्ययोऽवधि रकदेवानाम्' (अ० 1, सू० 22) इति // तथौदयिकेषु भावेषु देवगतिरिति (अ० 2, अध्यायोपोद"दू: सू०६)॥'केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य' (अ० 6, सू०१४ ) // सरागसंयमादयो देवस्य ( अ०६, सू० 20) // 'मारकसम्मछिनो नपुंसकानि, न देवाः' (अ० 2, सू० 50-51 ) / तत्र के देवाः कतिविधा वेति / अत्रोच्यते___टी०-अत्राह-उक्तं भवतेत्यादि सम्बन्धग्रन्थः / उक्तमिदं प्रथमे (सू० 22 ) भवप्रत्ययोऽवधि रकदेवानामिति / तथा द्वितीये (सू०६) औदयिकभावविचारप्रस्तावे देवगतिरित्युक्तम् / तथा षष्ठे(सू०१४)वक्ष्यति- केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोइस्यास्त्रवो भवति, तथा तत्रैव सरांगसंयमसंयमासंयमाकामनिर्जरा[विरत] बालतपांसि (च) देवस्य (अ० 6, सू०२०) आयुष आस्रवो भवति, तथा वितीये (सू० 50-51) नारकसम्मछिनो नपुंसकानि, न देवा इति, एवमनेकसूत्रोपात्तदेवशब्दश्रवणाद् आहिततद्विषयजिज्ञासः प्रश्नयति-तत्र के देवाः कतिविधा वेति / तेषु-सूत्रस्थानेषु, के देवाः प्रतिपत्तज्याः-किस्वरूपाः ? क्रीडाद्यर्थबहुत्वादिति, निरूपितस्वभावाश्च ते किमेकरूपा उत भेदभाज इति द्वितीयः प्रश्नः प्रावृतत्, एवं प्रश्नद्वयोपन्यासानन्तरं सरिराह-अत्रोच्यते-प्रश्नव्येऽप्यनुरूपं प्रतिवचनमिति, प्रश्नद्वयप्रतिवचनदिदित्सया सूत्रमुपन्यस्यति-देवाश्चतुर्निकाया इति / अथवा उक्तं लोकद्वयविधानं भूद्वीपसागरविन्यासेन / अधुनोलोकाभिधानावसरस्तदभिधित्सया सूत्रप्रणयनम् / सूत्रम्-देवाश्चतुर्निकायाः // 4-1 // टी०- नन्वधोलोकतिर्यग्लोकयोरपि देवाः सन्ति, तत् कथमूर्ध्वलोक एवामिधास्यते चतुर्थाध्याय इति 1 / उच्यते-वैमानिकानधिकृत्येदमुच्यते ऊर्ध्वलोकावसर इति, प्रधानत्वात्, अन्यथा भवनपतयोऽधोलोके, व्यन्तरज्योतिष्कास्तिर्यग्लोक इति / द. भा०-देवाश्चतुर्निकाया भवन्ति / तान पुरस्ताद वक्ष्यामः॥१॥ प्रतिपादनम् Page #298 -------------------------------------------------------------------------- ________________ त्पत्त्यथेः 272 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 टी०-देवाश्चतुर्निकाया इत्यादि भाष्यम् / दीव्यन्तीति देवाः, स्वच्छन्दचारित्वात्, _____ अनवरतक्रीडासक्तचेतसः क्षुत्पिपासादिभिर्नात्यन्तमाघाता इति भावार्थः। देवशब्दस्य व्यु- द्योतन्ते वा भास्वरशरीरत्वादस्थिमांसामुकप्रवन्धरहितत्वात् सवाङ्गोपाङ्ग सुन्दरत्वाच देवाः / अथवा विना विद्यामन्त्राजनादिभिः पूर्वकृततपोऽ. पेक्षजन्मलाभसमनन्तरमेवाकाशगतिभाजो देवाः, सा ह्यतिशयवती गतिस्तेपामनालम्बाकाशचारिणाम, यथोक्तमागमे (भग०सू०५८४)-केमहालएणं भंते ! लोए पन्नत्ते ? गोयमा! अयं चणं जम्बुद्दीवे दीवे सव्वदीवसमुदाणं मज्झे खुड्डुलए पण्णत्ते / तेणं कालेणं तेणं समएणं छद्देवा महिड्यिा जंबुद्दीवे दीवे मन्दरपव्वए मंदरचूलियं सव्वओ समन्ता संपरिक्खिवित्तौणं चिढेजा, अहे णं चत्तारिदिसाकुमारीमहयरियाओ चत्तारि बलिपिंडे गहाय जंबुद्दीवस्स दीवस्स उसुवि दारेसु बहियाभिमुहीओ ठिच्चा ते चत्तारि बलिपिंडे जमगसमगं बहियाभिमुहे पवाहेज। पभू णं गोयमा ! ततो एगमेगे देवे ते चत्तारिवि बलिपिंडे धरणितलमसंपत्ते खिप्पामेव पडिसाहरित्तए / ते णं गोयमा ! उकिटाए जाव देवगतीए एगे पुरत्याभिमुहे पयाते, एवं छस्सुवि दिसासु पयाता / तेणं कालेणं तेणं समएणं वाससहस्साउए दारए पयाते, तए णं तस्स दारगस्स अम्मापियरो पहीणा भवन्ति, नो चेव णं ते देवा लोयंत संपाउणंति, तए णं तस्स दारगस्स आउए पहीणे भवति, नो चेव णं ते देवा लोयंत संपाउणंति, तए णं तस्स दारगस्स अहिमिंजे पहीणा भवन्ति, नो चेव णं ते लोअंत संपाउणंति, तए ण तस्स दारगस्स सत्तमेऽवि कुलवंसे पहीणे भवति, नो चेव ण ते लोयंत संपाउणंति, तते णं तस्स दारगस्स नामगोत्तेऽवि पहीणे भवति, नो चेव णं संपाउणंति, तेसि णं भंते! देवाणं किं गए बहुए अगए वहुए ? गोयमा ! गए बहुए, नो अगए बहुए, गतातो से अगते असंखिज्जतिभागे, अगतातोसे गए असढेजगुणे, एवं महालए गोयमा! लोए पण्णत्ते"।तथा विमानमहत्त्वं प्रज्ञापना १कियन्महान् भदन्त ! लोकः प्रज्ञप्तः ? गौतम | अयं च जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां मध्ये क्षुल्लकः प्रज्ञप्तः / तस्मिन् काले तस्मिन् समये षट् देवा महर्द्धिका जम्बूद्वीपे द्वीपे मन्दरपर्वते मन्दरचूलिकां सर्वतः समन्तात् संपरिक्षिप्य तिष्ठेयुः, अथ चतस्रः दिक्कुमारीमहतरिकाः चतुरो बलिपिण्डान् गहीत्वा जम्बूद्वीपस्य द्वीपस्य चतुर्वपि द्वारेषु बहिरभिमुख्यः स्थित्वा तान् चतुरो बलिपिण्डान् युगपद् बहिरभिमुखान् प्रवाहयेयुः। प्रभुर्गौतम! ततः एकैकः देवः तान् चतुरोऽपि बलिपिण्डान् धरणीतलमसंप्राप्तान् क्षिप्रमेव प्रतिसंहर्तुम् / ते गौतम ! उत्कृष्टया यावद् देवगत्या एको देवः पूर्वाभिमुखः प्रयातः, एवं षट्स्वपि दिक्षु प्रयाताः, तस्मिन् काले तस्मिन् समये वर्षसहस्रायुष्को दारकः प्रजातः। ततः तस्य दारकस्य मातापितरौ प्रहीणौ भवतः, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य आयुः प्रहीणं भवति, नैव ते देवा लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य अस्थिमज्जाः प्रहीणा भवन्ति, नैव ते ( देवा) लोकान्तं संप्राप्नुवन्ति, ततः तस्य दारकस्य सप्तमोऽपि कुलवंशः प्रहीणो भवति, नैव ते लोकान्तं संप्राप्वन्ति, ततः तस्य दारकस्य नामगोत्रमपि प्रहीणं भवति, नैव संप्राप्नुवन्ति, तेषां भदन्त / देवानां किं गतं बहुकं अगतं बहुकं ! गौतम ! गतं बहुकं, न अगतं बहुकं, गतात् तद् अगतं असंख्येयभागे, अगतात् तद् गतं असंख्येयगुणं, एवंमहान् गौतम ! लोकः प्रज्ञप्तः / २'बलदेवा' इति क-पाठः। 3 वेत्ताणं ' इति क-पाठः / Page #299 -------------------------------------------------------------------------- ________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् 273 पामुक्तम्-केमहालया णं भंते ! विमाणा पण्णता ? गोयमा ! अयण्णं जंबुद्दीवे दीवे सबदीवसमुदाणं मज्झे खुड्डुलए, देवे महिइढिए जाव महाणुभागे जाव इणामेवत्तिकटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवातेहिं तिसत्तख़ुत्तोअणुपरियहित्ता णं हव्वमागच्छेज्जा, से णं देवे ताए उकिटाए तुरियाए चंडाए चवलाए सीहाए उद्धृताए जयणाए छेयाए दिव्वाए देवगतीए जाव एगाहं वा बियाहं वा तियाहं वा उक्कोसेणं छम्मासे वीतिवएजा अत्थेगइयं विमाणं वीइवएज्जा, अत्थेगइयं नो वीतिवएजा, एमहालयाणं गोयमा ! विमाणा पण्णता" / एवंविधाः किल गतयो विमध्यमा देवानाम्, अन्येषां उत्कृष्टतमाः सन्ति / एवमन्येऽपि यथासम्भवं विजिगीषादयो धात्वर्था वाच्याः / अनेन प्रथमप्रश्नार्थप्रतिवचनमादर्शितम्, यतो नामकर्मोदयजनिता देवगतयः सातिशयक्रीडागद्युतितिस्वभावाः प्रतिविशिष्टस्थानाध्यासिनः सुखप्राया देवा भवन्तीति / चतुर्निकाया देवा भवन्तीत्यनेन द्वितीयप्रश्नप्रतिवचनं प्रथयति, चत्वारो निकाया-वासा येषां ते चत्वारो वा सङ्घास्ते चतुर्निकायाः, वाँसो युत्पादस्थानमेषां विभिन्नः, भवनपतयो रत्नप्रभायामासादयन्ति जन्मोध्वमधश्च सहस्रमपहाय व्यन्तरास्त्वस्यामेवोपरि यत् परित्यक्तं सहस्रं तस्याध ऊध्वं च योजनशतमेकैकमपहाय मध्ये ... ऽष्टामु योजनशतेषु जन्म प्रतिलभन्ते, ज्योतिष्कास्तु समतलादू भूभागात चतुर्विधदवाना सप्त शतानि नवत्यधिकानि योजनानामारुह्य दशोत्तरयोजनशतपृथौ नभो " देशे लोकान्तात् किञ्चिन्यूने जन्मागृह्णन्ति / पैमानिका रज्जुमध्यर्धामधिरुह्यामतः सौधर्मादिषु कल्पेषु सर्वार्थसिद्धिविमानपर्यवसाने त्पद्यन्ते जन्मतः / तदेवमुत्पादनिवासभेदात् चतुर्विधा निकायाः, स्वधामसूत्पन्ना भवनपत्यादयोऽन्यत्रापि लवणजलधिमन्दरवंशधराद्रिद्रुमगहनप्रभृतिषु वसन्त्युक्तस्थानव्यतिरेकेण / अत्रैणामुत्पादोन जन्मनाऽस्तीति निवासार्थः सम्रहार्थोऽपि प्रकृष्टाप्रकृष्टतद्योग्यास्रवासेवनाद् बहुलीकृतकर्मोदयापेक्षः आर्यानार्यमनुष्यसंगृहभेदवद्,अतः स्वधर्मापेक्षजातिविशेषसामर्थ्यानिकाया इति // तानेतान् निकायभिन्नान् देवान् पुरो वक्ष्यामः क्रमेण, अमुनाऽत्र सूत्रेण सामान्यमात्रस्वरूपाख्यानं परिस्थूरभेदकथनं च कृतमवसेयम्॥ननु च भगवत्यां(श०१२,उ०९,सू०४६१) पञ्चविधा देवा इ. देवानां पञ्चवि चि. त्युक्तम्- "कतिविधाण भंते! देवा पण्णत्तागोयमा! पञ्चविधा देवा पण्णत्ता,तंधत्वम् जहा-भवियदव्वदेवा नरदेवा धम्मदेवा देवाहिदेवा भावदेवा य"। तत्र भव्य . 1 कियन्महान्तो भदन्त / विमानाः प्रज्ञप्ताः ? गौतम ! अयं जंबूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां मध्ये क्षुल्लकः, देवो महद्धिको यावत् महानुभागो यावत् इदमेवेतिकृत्वा केवलकल्पं जम्बूद्वीपं द्वीपं त्रिभिः अक्षरनिपातैः त्रिसप्तकृत्वः अनुपरिवर्त्य शीघ्रमागच्छेत् / स देवस्तया उत्कृष्टया त्वरितया चण्डया चपलया शीघ्रया उद्भुतया यतनया छेकया दिव्यया देवगत्या यावत् एकाहं वा द्वयहं वा व्यहं वोत्कृष्टतः षण्मासं व्यतिवर्तेत कियदेकं विमानं व्यतिवर्तेत कियदेकं न व्यतिवर्तेत , इयन्महान्तो गौतम ! विमानाः प्रज्ञप्ताः / 2 'तिहिसत्त' इति क-ख-पाठः / 3 'निवासो' इति ग-पाठः / 4 कतिविधा भदन्तः! देवाः प्रज्ञप्ताः ? गौतम / पश्चविधा देवाः प्रज्ञप्ताः, तद्यथा--भव्यद्रव्यदेवा नरदेवा धर्मदेवा देवाधिदेवा भावदेवाश्च / 35 Page #300 -------------------------------------------------------------------------- ________________ 274 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 देवः पञ्चेन्द्रियतिर्यग्योनिजो मनुष्यो वा देवायुषि बद्धेऽनन्तरागामिजन्मनि यो देवतयोत्पत्स्यतेस त्वागामिनीवृत्तिमाश्रित्य देव इति प्रज्ञायते तद्दलिकत्वाद् दारुच्छेदप्रज्ञापनवत्,नरदेवाः-चक्रवर्तिनो रत्नचतुर्दशकाधिपतयः शेषमनुजोत्कृष्टत्वात्,धर्मदेवाः-साधवो यथोक्तप्रवचनार्थानुष्ठा यिनः सद्धर्मप्रधानव्यवहारत्वात्, देवाधिदेवाः-तीर्थकरनामकर्मोदयवर्तिनः कृतार्थाः सदुपदेशेन भव्यसत्त्वानामनुग्राहकत्वाच्छेषदेवपूज्यत्वाच, भावदेवाः पुनः भवनवनचरज्योतिष्कमानिका देवगतिनामकर्मोदयलक्षिताः देवायुषो वेदकाः क्रीडाधतिशयवर्तित्वादिति, एवं पञ्चभेदेषु सत्सु देवेषु किमर्थ चतुर्निकाया इति ? उच्यते-भावदेवानामेवात्र विवक्षितत्वाचतुनिकायत्वम्, तथा च पातनिकाग्रन्थे सर्वत्र भावप्रस्तावः मूरिणा दर्शितः / अपि चाद्याश्यत्वारो मनुष्या एव कश्चिदतिशयमङ्गीकृत्य देवा इति यथा तथा प्रतिपादितमेव, तस्माद् भावदेवाश्चतुर्निकाया इति युक्तमुक्तं आचार्येण, ऊर्ध्वलोकस्वरूपाख्यानप्रस्तावे च तदधिकारादिति // 1 // अथ कथमेतत् प्रतिपत्तव्यं देवाश्चतुर्निकायाः सन्तीति ? उच्यते-तदेकदेशनिकायप्रत्यक्षत्वात् तत्सद्भावावगमकोऽयमनुमानभूत उपलभ्यते सूत्रम्-तृतीयः पीतलेश्यः // 4-2 // भा०-तेषां चतुर्णा देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति / कश्चासौ ? ज्योतिष्क इति // 2 // टी-तृतीयः पीतलेश्यः, नहि प्रत्यक्षमपह्नोतुं शक्यम्, प्रमाणज्येष्ठत्वात्, चन्द्रादित्यादिविमानानि हि प्रत्यक्षप्रमाणसमधिगम्यानि, तानि च कदाचित् केनचिदधिष्ठितान्यपि का, निवासत्वान्नगरपामगेहादिवत्, ये च तेषामधिष्ठातारस्ते ज्योतिष्का देवा इति प्रतीयताम्, तच्छेपास्तु तदेकदेशदृष्टेः सेनावनादिवत् प्रतिपत्तव्या इति / तृतीय इति क्रमसन्निवेशमार्षमङ्गीकृत्येदमुच्यते, अथवा वक्ष्यमाणमिहत्यमेवाभिसन्धाय-ज्योतिष्कदेवनिकायस्तृतीय इत्युक्तम् / पीता लेश्या यस्यासौ पीतलेश्यः, इह च द्रव्यलेश्या-शरीरवर्णः प्रतिनियम्यते, नाध्यवसायविशेषः, लेश्याः षडपीष्यन्ते देवानां प्रतिनिकायमिति / तेषां चतुर्णामित्यादि भाष्यम् / तेषां-पूर्वसूत्रोपन्यस्तानां चतुःसङ्ख्यानियतानां देवसमूहानां तृतीयो देवनिकायः पीतलेश्य एव भवतीति, सामर्थ्यादवधारणोपपत्तेरेवशब्दो नोपात्तः, साक्षाद् दर्शितश्च सामर्थ्याल्लभ्यो विवृण्वतेति / कश्चासौ तृतीय इत्यविज्ञातक्रमसन्निवेशस्य नामग्राहमाचष्टेज्योतिष्क इति // 2 // ते च निकाया यथासङ्ख्यं भवनपतिव्यन्तरज्योतिष्कवैमानिकाख्याः / / सूत्रम्--दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः॥४-३ // टी०-खनिकायापान्तरालभेदनियमः क्रियतेऽमुना योगेन, अमी च दशादयो भेद Page #301 -------------------------------------------------------------------------- ________________ सूत्रं 4 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 275 वक्ष्यमाणाः भवनपत्यादीनाम्, अधिवासवाची चायं कल्पशब्दः / अन्ते परिगताः पर्यन्ताः, कल्पोपपन्नाः पर्यन्ता येषां त इमे कल्पोपपन्नपर्यन्ताः कल्पाश्च द्वादश वक्ष्यमाणाः सौधमादयोऽच्युतपर्यवसानाः, तत्पर्यन्तमेतच्चतुष्टयं भवतीत्यावेदयति, परे तु द्विर्विकल्पाः-प्रैवेयकवासिनो विजयादिविमानपञ्चकनिवासिनश्च / / ... भा०–ते च देवनिकाया यथासङ्ख्यमेवंविकल्पा भवन्ति / तद्यथा दशविकल्पा भवनवासिनः असुरादयो वक्ष्यन्ते / अष्टविकल्पा भवनपत्यादिदेवानां भेदविचारः व्यन्तराः किन्नरायः। पञ्चविकल्पा ज्योतिष्काः सूर्यादयः / द्वादशविकल्पा वैमानिकाः कल्पोपपन्नपर्यन्ताः सौधर्मा दिष्वपि // 3 // टी०--ते च देवनिकाया इत्यादि भाष्यं सुज्ञानमेव // 3 // अनुधा दशादिभेदान् प्रत्येकं पुनर्विभित्सुराहप्रतिकल्पमिन्द्राया सूत्रम्--इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपाभेदार ____ लानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः॥४-४॥ भा०-एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति / तद्यथा-इन्द्राः, सामानिकाः, प्रायस्त्रिंशाः, पारिषद्याः, आत्मरक्षाः, लोकपालाः, अनीकाधिपतयः, अनीकानि, प्रकीर्णकाः, आभियोग्याः, किल्बिषिकाश्चेति / तत्रेन्द्रा भवनवासिव्यन्तरज्योतिष्कविमानाधिपतयः / इन्द्रसमानाः सामानिकाः अमात्यपितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः / त्रायस्त्रिंशाः-मन्त्रिपुरोहितस्थानीयाः। पारिषद्याः-वयस्यस्थानीयाः। आत्मरक्षाः-शिरोरक्षस्थानीयाः / लोकपाला आरक्ष(क्ष)कार्थचरस्थानीयाः। अनीकाधिपतयो-दण्डनायकस्थानीयाः। अनीकानि-अनीकस्थानीयान्येव / प्रकीर्णकाः-पौरजनपदस्थानीयाः / आभियोग्याः-दासस्थानीयाः / किल्बिषाः-अन्तस्थस्थानीया इति // 4 // टी०-एकैकशश्चैतेष्वित्यादि भाष्यम् / दशानामेकैकस्मिन् भेदे एकशो दश दशेन्द्रादयो भवन्ति भेदाः, एवमितरेष्वप्यष्टादिषु / तत्रेन्द्रा इत्यादि। इन्द्राः सामानिका दिभेदानां नवानामधिपतयः परमैश्वर्ययुक्ताः / सामानिकास्त्विन्द्रतुल्या भवन्त्यायुष्कादिभिः, केवलमिन्द्रत्वं सकलकल्पाधिपत्वं नास्ति, शेष समानम्, अतः समानस्थाने भवाः सामानिकाः समानस्य तदादेश्चेति वचनादौपसङ्ख्यानिकष्ठक / अन्यस्यानिर्देशादिन्द्रैः सह समानभावः प्रत्यासन्नै( ते 1 )श्चेति, ते चामात्यापितगुरूपाध्यायमहत्तरवद 1 'दिध्विति ' इति घ-पाठः / 2 'शत्पा० ' इति ग-पाठः / 3 किल्बिषिका ' इति घ-पाठः। Page #302 -------------------------------------------------------------------------- ________________ 276 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः द्रष्टव्याः, अमा सहार्थे, सह भवन्तीत्यमात्याः-कार्यालोचनसमर्थाः पिता गुरुरुपाध्यायो महत्तरश्च सर्व एते पूजनीयास्तद्वत् तेऽपि सामानिका इति / त्रयस्त्रिंशदेव त्रायस्त्रिंशाः स्वार्थेऽष्ण 'तद्धिताः' (पा० अ०४,पा० 1,076) इति बहुवचननिर्देशादनुक्ततद्धितोत्पत्तिदृष्टशब्दान्वाख्यानाच, एते मन्त्रिपुरोहितस्थानीयाः,मन्त्रिणः-राज्यचिन्ताभराधिरूढमानसाः, पुरोहिताः-शान्तिकपौष्टिकाभिचारिककर्मकारिणः। पारिषद्या वयस्यस्थानीयाः,परिपदि साधवः पारिपयाः मित्रसदृशाः। आत्मरक्षाः शिरोरक्षस्थानीयाः उद्यताहरगा रौद्राः पृष्ठतोऽवस्थायिनः, अपायाभावात् कल्पनावैयमिति चेत् तद् न स्थितिमात्रपरिपालनात् प्रीतिप्रकपहेतुत्वाच। लोकपाला आरक्षकार्थचरस्थानीयाः स्वविषयसन्धिरक्षणनिरूपिता आरक्षकाः, अर्थचराचौरोद्धरणिकराजस्थानीयादयस्तत्सदृशा लोकपालाः / अनीकाधिपतयो दण्डनायकस्थानीयाः दण्डनायको विक्षेपाधिपतिः सेनापतिरितियावत्, अनीकान्यनीकान्येव सैन्यानीत्यर्थः, हयगजरथपदातिवाहनस्वरूपाणि प्रतिपत्तव्यानि, सूत्रे चानीकान्येवोपा तानि सरिणा, नानीकाधिपतयः, भाष्ये पुनरुपन्यस्तास्तदेतदेकत्वमेवानीकानीकाधिपत्योः परिचिन्त्य विवृतमेवं भाष्यकारेण, अन्यथा वा दशसङ्ख्या भिद्येत / प्रकीर्णकाः पौरजनपदस्थानीयाः प्रकृतिसदृशा इत्यर्थः। आभियोग्या दासस्थानीयाः आभिमुख्येन योगोऽभियोगः परारिराधयिषयाभिमुखीकृ. तकर्मविशेषः, अभियोगकर्म आभियोग्यं तद् येषां विद्यते ते भवन्त्याभियोग्याः-कर्मकरस्थानीयाः। अन्तस्थस्थानीयाः किल्बिषिका इति अन्तस्थाः-चण्डालादयस्तद्वत् किल्विपिका देवानां मध्य इति // 4 // चतुर्वपि निकायेषु दशविधेन्द्रादिभेदप्रसक्ताविदमपोद्यते / / सूत्रम्-त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः // 4-5 // भा०-व्यन्तरज्योतिष्काश्चाष्टविधा भवन्ति, त्रास्त्रिंशलोकपालवर्जा इति // 5 // टी०-न यथासङ्ख्यमत्र प्रतिपत्तव्यम्, अनन्तरसूत्रे त्वेकशो ग्रहणाद्, अतो व्यन्तराणां त्रायस्त्रिंशा लोकपालाश्च न सम्भवन्ति ज्योतिष्काणां चेत्यतोऽष्टप्रकारा एव // 5 // अथ य एते विकल्पा दशादयश्चतुर्पु निकायेक्तास्तत्र किमेकैक इन्द्र उतान्यथेत्यत आह-पूर्वयोभन्द्राः / अथवा निकायपारमैश्वर्याचतुरिन्द्रप्रसङ्गे सतीदमुच्यते-- सूत्रम्-पूर्वयोर्दीन्द्राः // 4-6 // भा०-पूर्वयोवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानांद्वौ द्वाविन्द्रौ भवतः / तद्यथा-भवनवासिषु तावद् द्वावसुरकुमाराणां इन्द्रौ भवतः-चमरो 1' चेत् न' इति क-पाठः / 2 'मापाद्यते' इति क-पाठः। 3 ०शल्लोक०' इति ग-पाठः / Page #303 -------------------------------------------------------------------------- ________________ 277 सूत्रं 7 ] . स्वोपज्ञमाष्य-टीकालङ्कृतम् पलिश्च / नागकुमाराणां धरणो भूतानन्दश्च / विद्युत्कुमाराणां हरिहरिसहश्च / भवनपत्यादिदेवा _ सुपर्णकुमाराणां वेणुदेवो वेणुदारी च / अग्निकुमाराणां अग्नि " शिखोऽग्निमाणवश्च / वातकुमाराणां वेलम्बः प्रभञ्जनश्च / नामिन्द्राः स्तनितकुमाराणा सुघोषो महाघोषश्च / उदधिकुमाराणां जलकान्तो जलप्रभश्च / द्वीपकुमाराणां पूर्णो वसिष्ठश्च / दिक्कुमाराणाममितगतिरमितवाहनश्चेति // व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ-किन्नरः किंपुरुषश्च / किंपुरुषाणां सत्पुरुषो महापुरुषश्चेति / महोरगाणामतिकायो महाकायश्च / गन्धर्वाणां गीतरतिर्गीतयशाश्च / यक्षाणां पूर्णभद्रो माणिभद्रश्च / राक्षसानां भीमो महाभीमश्च / भूतानां प्रतिरूपोऽतिरूपश्च / पिशाचानां कालो महाकालश्चेति // ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च // वैमानिकानामेकैक एव / तद्यथा-सौधर्मे शक्रः / ई(ऐ)शाने ईशानः। सनत्कुमारे सनत्कुमार इति / एवं सर्वकल्पेषु स्वकल्पाहवाः / परतस्त्विन्द्रादयो दश विशेषा न सन्ति / सर्व एव स्वतन्त्रा इति // 6 // टी-पूर्वयोवनिकाययोरित्यादि भाष्यम् / दशाष्टसङ्ख्यापरिच्छिन्नौ पूर्वशब्देन भवनपतिव्यन्तरनिकायौ परिगृह्येते,तत्र देवविकल्पानामसुरादीनां किन्नरादीनां च प्रत्येकं द्वौ द्वाविन्द्रौ भवतः, द्वौ द्वाविन्द्रौ एषु विकल्पेषु ते द्वीन्द्राः, पूर्वयोनिकाययोर्विकल्पा भवन्तीत्यन्तगीतवीप्साको बहुव्रीहिः। शेषं सुज्ञानम्,ज्योतिष्काणांत्वित्यादि / इन्द्राधिकारप्रस्तावमुपजीवल्लाँघवार्थमाह-ज्योतिष्कदेवानां सूर्याः शशिनश्चन्द्राः, ते च बहवोऽसङ्ख्येयद्वीपसमुद्रवर्तित्वात् / वैमानिकानां सौधर्मादिष्वेकैक इन्द्रः, सौधर्मे शक्रः ऐशाने ईशानः, सनत्कुमारे सनत्कुमारः, इत्येवं सर्वविमानेषु सर्वकल्पमध्यवर्तिषु स्वकल्पाहा इन्द्रा भवन्ति / माहेन्द्र माहेन्द्रः, ब्रह्मलोके ब्रह्म, लान्तके लान्तकः, महाशुक्रे महाशुक्रः, वैमानिकानां कल्पाः" सहस्रारे सहस्रारः, आनतप्राणतयोद्वयोरप्येक एवेन्द्रः प्राणताभिधानः, आरणाच्युतयोद्वयोरपि कल्पयोरेक एवेन्द्रः अच्युतः, अच्युतकल्पात् परत इन्द्रादयो विकल्पा ग्रैवेयकेषु विजयादिषु च न भवन्ति / सर्व एव हि ते स्वतन्त्रत्वादहमिन्द्रा गमनागमनरहिताश्च प्राय इति // 6 // ___अनयोस्तु खलु नितिदेवेन्द्रयोरुत्तरत्र देवनिकाययोर्लेश्याभिधाने ग्रहणं पुनर्मा कार्यमित्यतः पूर्वयोरित्यधिकृत्याह __ सूत्रम्-पीतान्तलेश्याः // 4-7 // भा०-पूर्वयोनिकाययोर्देवानां पीतान्ताश्चतस्रो लेश्या भवन्ति // 7 // 1 'जलभवश्च' इति क-पाठः / 2 'अवशिष्टश्च' इतिःघ-पाठः / Page #304 -------------------------------------------------------------------------- ________________ 278 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः॥ ____टी-पूर्वयोरित्यादि भाष्यम् / शास्त्रीयमानुपूर्व्यमाश्रित्य निर्देशः, पीता अने यासां लेश्यानां ताः पीतान्ताः-कृष्णनीलकापोततैजस्यः, पीतान्ता लेश्या येषां ते पीतान्त लेश्याः, पूर्वयोनिकाययोर्देवा भवन्ति, शरीरवर्णमात्रेत्वाद् द्रव्यलेश्या एताः, भावलेश्या स्तु षडपि भवेयुरिति // 7 // . . एते च पुनः सर्वे त्रिविधा देवा भवन्ति-सदेवीकाः सप्रवीचाराः पच अदेवीकाः सप्रवीचाराः, अदेवीका अप्रवीचारा इति / तत्र ये सदेवीका सप्रवीचारास्तानधिकृत्येदमुच्यते सूत्रम्-कायप्रवीचारा आ ऐशानात् // 4-8 // भा०-भवनवास्यादयो देवा आ ऐशानात् कायप्रवीचारा भवन्ति। काये प्रवीचारविचारः . प्रवीचार एषामिति। कायप्रवीचारो नाम मैथुनविषयोपसेवनम् / व ते हि सङ्क्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीब्रानुशयाः कायसङ्क्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिभुपलभन्त इति॥८॥ टी-कायः-शरीरं, प्रवीचारो-मैथुनोपसेवा, कायन प्रवीचार एषामिति कायप्रवी. चाराः-पुरुषवन्मैथुनमासेवन्ते भवनवास्यादयः आ ऐशानात्, अभिविधावयमाङ्, न मर्यादायां, यस्माद भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानकल्पेषु जन्मनोत्पद्यन्ते देव्यः, न परत इति, भाष्यं सुज्ञानमेव // 8 // अथ ये अदेवीकाः सप्रवीचारास्तेषां कथं मैथुनोपसेवेत्याह- . सूत्रम्-शेषाः स्पर्श-रूप-शब्द-मनःप्रवीचारा दयोद्धयोः // 4-9 // भा०-ऐशानादूर्व शेषाः कल्पोपपन्ना देवा दयोईयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् / तद्यथा-सनत्कुमारमाहेन्द्रयोर्दैवान् मैथुनसुखप्रेप्सूनुत्पन्नास्थान् विदित्वा देव्य उपतिष्ठन्ते / ताः स्पृष्ट्वैव च ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति // तथा ब्रह्मलोकलान्तकयोवान् एवंभूतोत्पन्नास्थान् विदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति। तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति॥ तथा महाशुक्रसहस्रारयोर्दैवानुत्पन्नप्रवीचारास्थान् विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहरान् शृङ्गारोदाराभिजातविलासाभिलाषच्छेदतलतालाभरणरवमिश्रान् हसितकथितगीतशब्दानुदीरयन्ति / तान् श्रुत्वैव प्रीतिमुपलभन्ते निवृ 1 टीकाकारमतमेतत् यदुत शरीरवर्णरूपा लेश्या, अन्ये तु योगपरिणामो लेश्या, लेश्यापुद्गलास्तु अन्य एवागमेषु निर्दिश्यन्ते / Page #305 -------------------------------------------------------------------------- ________________ 279 सूत्रं 9] . स्वोपज्ञभाष्य-टीकालङ्कृतम् तास्थाश्च भवन्ति // आनतप्राणतारणाच्युतकल्पवासिनो देवाः प्रवीचारायोत्पनास्था देवीः संकल्पयन्ति,सङ्कल्पमात्रेणव च ते परां प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति // एभिश्च प्रवीचारैः(रादिभिः) परतः परतःप्रीतिप्रकर्षविशेषो. अनुपमगुणो भवति, प्रवीचारिणामल्पसङ्क्लेशत्वात् / स्थितिप्रभावादिभिरधिका इति वक्ष्यते ( अ० 4, सू० 21 ) // 9 // टी०-ऐशानादूर्ध्वं शेषा इत्यादि भाष्यम् / सनत्कुमारमाहेन्द्रयोर्देवान् मैथुनप्राप्तीच्छाभिमुखीकृतानुत्पन्नास्थान प्रादुर्भूतादरानवबुध्य सौधर्मेशानदेव्य उपतिष्ठन्ते, तत्प्रभावादेव परिज्ञाताभिप्रायाः, अपरिगृहीता गणिकास्थानीयाः अप्सरसः, तासां जघन्येन सौधर्मकल्पनिवासिनीनां स्थितिरेकं पल्योपममुत्कर्षेण पञ्चाशत् पल्योपमानि, ऐशाने त्वपरिगृहीतानां जवन्येन सातिरेक पल्योपममुत्कर्षेण पञ्चपञ्चाशत् पल्योपमानि / तत्र सौधर्मनिवासिनीनामप्सरसां पल्योपमं समयावधिक स्थितिः यासां यावद् दश पल्योपमानि ताः सनकुमारकल्पवासिदेवभोग्या भवन्ति, यासां च सौधर्मे दश पल्योपमानि समयाधिकानि याव विंशतिपल्योपमानि स्थितिरप्सरसांता ब्रह्मलोककल्पवासिदेवभोग्याः,तथा देवीभोगागा. सौधर्म एव यासां स्थितिरप्सरसां विंशतिपल्योपमानि समयावधिकानि यावत्रिंशत्पल्योपमानि ता देव्यो शुक्र( कल्प)वासिदेवभोग्याः, तथा सौधर्म एव यासामप्सरसां स्थितिस्त्रिंशत्पल्योपमानि समयावधिकानि यावच्चत्वारिंशत्पल्योपमानिता देव्य आनतकल्पवासिदेवभोग्याः,तथा सौधर्म एव यासामप्सरसां स्थितिः चत्वारिंशत्पल्योपमानि समयावधिकानि यावत् पञ्चाशत् ता आरणकल्पवासिदेवोपभोग्याः, ऐशानकल्पे यासां सातिरेकपल्योपमं समयावधिक स्थितिर्यावत् पञ्चदश पल्योपमानि ता माहेन्द्रकल्पवासिदेवभोग्याः, तथैशान एव यासां पञ्चदश पल्योपमानि स्थितिः समयावधिकानि यावत् पञ्चविंशतिपल्योपमानि ता लान्तककल्पवासिदेवभोग्याः, असिन्नेवैशाने यासां पञ्चविंशतिः पल्योपमानि समयावधिकानि स्थितिः यावत् पञ्चविंशतिपल्योपमानि ताः सहस्रारकल्पवासिनां भोग्याः, तथैशान एव यासां पञ्चत्रिंशत् पल्योपमानि समयावधिकानि यावत् पञ्चचत्वारिंशत्पल्योपमानि स्थितिस्ताः प्राणतकल्पवासिदेवोपभोग्याः, तस्मिन्नेवैशाने यासां स्थितिः पश्चचत्वारिंशत्पल्योपमानि समयावधिकानि यावत् पञ्चपञ्चाशत्पल्योपमानि ता देव्योऽच्युतकल्पवासिदेवोपभोग्या भवन्ति / यासां पल्योपमं स्थितिर्देवीनां समयावधिकं यावत् सप्त पल्योपमानि ताः सौधर्मकल्पवासिनां परिग्रहः, ऐशानकल्पे तु यासां सातिरेकं पल्योपमं समयावधिकं स्थितिर्यावन्नव पल्योपमानि तास्तन्निवासिदेवपरिग्रह इति / अत्र चापरिगृहीता वेश्यास्थानीया अधस्तनकल्पद्वयोत्पन्ना अपि उपरितनकल्पान् गच्छन्ति तद्देवप्रभावादेवेति // धिकारः 1 'शुकदेवभोग्याः ' इति क-पाठः, ' महाशुक्रवासि० ' इति तु ग-पाठः / Page #306 -------------------------------------------------------------------------- ________________ [ अध्यापः। 280 तत्त्वार्थाधिगमसूत्रम् एभिश्च प्रवीचारादिभिरित्यादि / स्पर्शादिभिः सूत्रोपन्यस्तैरुपरिष्टात् परिहसनि रल्पसक्लेशत्वाचेतसोऽनुपमः प्रीतिप्रकर्ष उपजायते, इदं हि कायादिकर्म सलिए चित्तत्वाद् दुःखमावहति, यथाऽऽह " नग्नः प्रेत इवाविष्टः कणन्तीमुपगृह्य ताम् / क्लेशायासितसर्वाङ्गः, सुमुखी रमते किल // " स्थित्यादिमिरेवोपरिष्टाद् वक्ष्यन्तेऽधिका देवाः, चित्तक्लेशेन तु परिहीयमानस्वमा भवन्त्युपर्युपरीति / अत्र च पुनः प्रवीचारग्रहणमुत्तरसूत्रे किल विस्पष्टार्थमाश्रितं, अन्या तुल्यत्वात् संहितयोः सन्देहः स्यादिति // 9 // अदेवीकाश्चाप्रवीचाराश्चाधुनाऽभिधीयन्ते सूत्रम्----परे अप्रवीचाराः॥ 4-10 // भा०-कल्पोपपन्नेभ्यः परे देवा अप्रवीचारा भवन्ति, अल्प- | कल्पातीतानाम - सलेशत्वात् / स्वस्थाः शीतीभूताः / पञ्चविधप्रवीचारो प्रवीचारत्वम् - वादपि प्रीतिविशेषादपरिमितगुणप्रीतिप्रकर्षाः परमसुखतृप्ता एव भवन्ति // दी०-परे अप्रवीचाराः,अविद्यमानप्रवीचाराः अप्रवीचाराः,कल्पोपपन्नेभ्यः परेरे देवा अवेयकवासिनोऽनुत्तरविमानवासिनश्चाप्रवीचारा भवन्ति, अल्पसङ्क्लेशत्वाद्धेतोरन्तः शुद्धत्वात् च, ते स्वसमाधिजमेव सुखमुपभुञ्जते, अधिकतरं चैषां तद् भवत्यल्पमोहत्वान् कायक्लेशरहितम्,स्वस्थाः प्रतनुकमोहनीयकर्मपटलानुरञ्जितस्वरूपत्वात् मन्ददेवाग्नित्वाच्छीतीभूताः, पञ्चविधाः प्रवीचारा रूपरसगन्धस्पर्शशब्दाः प्रवीचारहेतवो मनोहराः कारणे कार्योपचाराध्यारोपादुक्ताः तत्समुदायजादपि सुखविशेषादपरिमितगुणप्रीतिप्रकों बहुगुणप्रीतिप्रकर्षयुजः परमसुखत्ता एव भवन्ति / दुर्लभं हि तादृक् संसारे सुखमन्यनिवासेषु शब्दादिविषयनिरपेक्षत्वात् सहजम्, अतस्तेन जन्मप्रभृत्या स्थितिक्षयात् सततमेव तृप्तास्त इति / न परे इति सूत्रे कर्तव्ये यदाचार्येण पुनरप्रवीचारग्रहणमकारि तज्ज्ञापनार्थमस्यार्थस्य-अल्पः सङ्क्लेशस्तेषु, न बहरिति / सूत्रत्रये यत् प्रवीचारग्रहणं अप्रवीचारग्रहणं च तज्ज्ञापनायामुष्यार्थस्य संसारः किल प्रवीचारसमुद्भव इति / सामान्याभिधाननिकायविकल्पसङ्ख्याविधिरुक्तः पुरस्तात्, तेषां विशेषसंज्ञानिकायविकल्पान् प्रति व्याचिख्यासुरनियमप्रसङ्गे पौरस्त्यनिकायविकल्पसंज्ञानिर्देशार्थमिदमवोचत्-भवनवासिनोऽसुरनागविद्यु. त्सुपर्णाग्निवातस्तनितोद्धिद्वीपदिक्कुमाराः (मू० 11) / तत्र १'शीतभूताः' इति क-ख-पाठः / 2 सूत्रत्रये प्रथमे तावत् कायप्रवीचारशब्दो रूढस्तादृशे मैथुने यादृर्श नरतिरश्चामिति स उपात्तः, द्वितीये स्पर्शादिमात्रमेव प्रवीचारतया न विवक्षितं, किन्तु स्पर्शादिविशेषा इति ज्ञापनायं स्पर्शप्रवीचारा इत्यादि प्रतिपादितं, तृतीये तु यदि न परे इत्येवोच्येत तर्हि न ते स्पर्शादिभिः प्रवीचारका इत्येवायों गम्येत, परं सर्वथा भावो न ज्ञायेत इष्टं च तज्ज्ञापयितुमिति अप्रवीचारा इति सथा प्रवीचारनिषेधं चंकुः सूक्ष्मधियो वाचका इति / 3 विकल्पौ प्रति' इति क-पाठः / Page #307 -------------------------------------------------------------------------- ________________ सूत्र 11 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 281 . भा०-अत्राह-उक्तं भवता-'देवाश्चतुर्निकायाः' (अ० 4, सू 1), 'दशाटपञ्चद्वादशविकल्पाः ' ( अ० 4, सू० 3) इति, तत् के निकायाः के चैषां विकल्पा इति ? / अत्रोच्यते-चत्वारो देवनिकायाः / तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति // 10 // तत्र टी-अत्राह-उक्तं भवतेत्यादिपातनिकाग्रन्थः / देवाश्चतुर्निकाया इत्युक्तमध्यायादौ, तथा दशादिभेदाश्चाधीताः,तदेतन्निर्दिश्यतामञ्जसा के पुनस्ते निकायाः के चैषां निकायानां दशादयो विकल्पा इति / अत्रोच्यते-चत्वारस्तावनिकायाः-भवनवासिनो व्यन्तराज्योतिष्का वैमानिका इति // 10 // तत्र तेषु चतुर्पु निकायेषु भवनवासिनामेव तावद् भेदप्रतिपादनं क्रियते, तत्रसूत्रम्-भवनवासिनोऽसुरनागविद्युत्सुपर्णामिवातस्तनितोदधिद्री पदिक्कुमाराः // 4-11 // भा०-प्रथमो देवनिकायो भवनवासिनः / इमानि चैषां विधानानि भवन्ति / ___ तद्यथा-असुरकुमाराः, नागकुमाराः, विद्युत्कुमाराः, सुपर्णभवनवासना. कुमाराः, अग्निकुमाराः, वातकुमाराः, स्तनितकुमाराः, उदधिविधानानि कुमाराः, द्वीपकुमाराः, दिक्कुमारा इति / टी०-भूमिष्ठत्वात् भवनानि, तेषु वस्तुं शीलं येषां ते भवनवासिनः, प्रथमो निकायोऽसुरादयो भेदाः / तत्कुमारशब्दः प्रत्येकमभिसम्बध्यते / कः पुनः कुमारशब्दार्थ इत्याह भा०-कुमारवदेते कान्तदर्शना असुरकुमारा मृदुमधुरललितगतयःशृङ्गाराभिजातरूपविक्रियाः कुमारवचोद्धतरूपवेषभाषाभरणप्रहरणावरणपातयानवाहनाः कुमारवञ्चोल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते / असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, शेषास्तु भवनेषु // ___टी०-कुमारवदेते कान्तदर्शना इति सुज्ञानम्।असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, आवासाः कायमानस्थानीया महामण्डपा नानारत्नप्रभासितोल्लोचाः, तेषु तादृशेषु भूयसा वसन्त्यसुरकुमाराः कदाचित् भवनेष्वपीति / शेषास्तु नागादयो भवनेध्वेव प्रायो वसन्ति, नावासेष्विति / तानि च भवनानि बहिर्वृत्तान्यन्तश्चतुरस्राण्यधः पुष्करकर्णिकासंस्थानानि // क पुनस्ते आवासा भवनानि चेत्याह- . भा०-महामन्दरस्य दक्षिणोत्तरयोर्दिगविभागयोबहवाषु योजनशतसहस्र१सुकुमारा' इति घ-पाठः। 2 'प्रहरणचरणपातवाहनाः' इति क-पाठः, 'प्रहरणावरणयानवाहनाः' इति तु घ-पाठः। Page #308 -------------------------------------------------------------------------- ________________ 282 तत्त्वार्थाधिगमसूत्रम् __ [ अध्यायः 1 कोटीकोटीषु आवांसाः / भवनानि च दक्षिणार्धाधिपतीनामुत्तरार्धाधिपतीना च यथास्वं भवन्ति / टी०-महामन्दरस्येत्यादि / धातकीखण्डादिमन्दरव्यावृत्त्यर्थं महामन्दरग्रहणम्, चिह्नमात्रं महामन्दरग्रहणमत्र, योजनसहस्रमात्रावगाहित्वात्, तस्य दक्षिणस्यां दिशि तिर्यम्बहीषु योजनलक्षकोटीनां कोटीषु भवन्त्यावासाः, भवनानि च दक्षिणार्धाधिपतीनां चमरादीनामुत्तरार्धाधिपतीनां च बलिप्रभृतीनां यथायथमसुरादीनां इति / आर्षे तु रत्नप्रभाया बाहल्यात् सहस्रमुपर्यधश्च सन्त्यज्य मध्येऽष्टसप्ततिसहस्राधिकलक्षायां कुसुमप्रकरवत् प्रकीर्णानि भवनानि सर्वत्र // भाष्यकाराभिप्रायस्तु भा०-तत्र भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये, भवनेषु वसन्तीति भवनवासिनः / भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति / तद्यथा-गम्भीराः श्रीमन्तः काला महाकाया रत्नो . त्कटमुकुटभास्वरांश्चूडामणिचिह्ना असुरकुमारा भवन्ति / असुरकुमासदाना शिरोमुखेष्वधिकप्रतिरूपाः कृष्णाः श्यामा मृदुललितगतयः वर्णनम् - शिरस्सु फणिचिह्ना नागकुमाराः / लिग्धा भ्राजिष्णवोऽवदाता / वज्रचिह्ना विद्युत्कुमाराः। अधिप्रतिरूपग्रीवोरस्काः ' श्यामावदाता गरुडचिनाः सुपर्णकुमाराः / मानोन्मानप्रमाणयुक्ता भास्वन्तोऽवदाताः घटचिहाः अग्निकु. मारा भवन्ति / स्थिरपीनवृत्तगात्रा निम्नोद अश्वचिह्ना अवदाता वातकुमाराः। लिग्धाः लिग्धगम्भीरानुनादमहास्वनाः कृष्णा वर्धमानचिह्नाः स्तनितकुमाराः। उरुकटिष्वधिकप्रतिरूपाः कृष्णश्यामा मकरचिह्ना उद्धिकुमाराः / उरःस्कन्ध. बाह्वग्रहस्तेष्वधिकप्रतिरूपाः श्यामावदाताः सिंहचिहा द्वीपकुमाराः / जवानपादेष्वधिकप्रतिरूपाः श्यामा हस्तिचिहा दिकुमाराः / सर्वेऽपि च विविधवस्त्राभरणा भवन्तीति // 11 // टी-तत्र भवनानीत्यादि भाष्यम् / रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवनानि भवन्ति,तस्मिन्नेव स्थाने नवतिसहस्राण्यधोऽवगाह्य,आवासास्तु सहस्रद्वयपरिवर्जितायां रन्तप्रभायां सर्वत्रेत्यभिप्रायः / भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति / भवहेतुकास्ता जन्मतपोनुष्ठाननिरपेक्षा विक्रियाः सम्बध्यन्ते / नामकर्मनियमाच स्वजातिविशेषनियता विकिया भवन्ति / अङ्गोपाङ्गनामकर्मो 1 नावासानां स्थितौ क्रमः कोऽपि असुरादीनां यथा भवनेषु तेषामिति / २“अर्धः खण्डेऽध समांशे" इत्यनेकार्थोक्तेः तुल्यभागेऽर्ध इति अर्धसुदर्शनदेवनमिति च लिङ्गानुशासनाचे खण्डार्थोऽर्थोऽत्र / 3 मध्ये भवन्ति' इति घ-पाठः / 4 'अधिकरूप' इति क-घ-पाठः। 5 'भास्वतः' इति ग-पाठः। 6 निमनोदरा' इति ग-घ-पाठः / Page #309 -------------------------------------------------------------------------- ________________ भवनसङख सूत्र 12 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 283 दयान्निर्माणनामकर्मोदयाद वर्णादिनामोदयाच प्रतिजातिविशेषकारिण्यो विक्रिया जायन्ते / गम्भीरा घनशरीराः श्रीमन्तः सर्वाङ्गोपाङ्गसुन्दराः कृष्णवर्णा महाशरीरा इत्येतत् सर्व नामकर्मोदयजनितमेषामसुराणाम्, एवं नागादीनामपि योजनीयं स्वजातिविशेषनियतवचनात्, शेषं भाष्यमेव सुज्ञानम् / एषां च भवनसङ्ख्या सामान्यतः सप्त कोट्यः सप्ततिलक्षा लक्षद्वयाधिकाः, विशेषेण तु दक्षिणदिग्व्यवस्थितासुराणां चतुस्त्रिंशत् लक्षाः,उत्तरदिग्भाजां त्रिंशदेकत्र चतुष्पष्टिः, . दक्षिणदिग्नागानां चतुश्चत्वारिंशदुत्तरदिग्नागानां चत्वारिंशदेकत्र चतुरशी तिः, दक्षिणविद्युत्कुमाराणां चत्वारिंशदुत्तरवासिनां पत्रिंशदेकत्र षट्सप्ततिः / एषैव सङ्ख्या दक्षिणोत्तरभिन्नानामग्निस्तनितोदधिद्वीपदिक्कुमाराणामिति, दक्षिणसुपर्णानामष्टात्रिंशदुत्तरनिवासिनां चतुस्त्रिंशदेकत्र सप्ततिद्वर्युत्तरेति / दक्षिणमरुतां पञ्चाशदुत्तरवासिनो षट्चत्वारिंशदेकत्र षण्णवतिः / लक्षाः सर्वत्र सम्बन्धनीया इति // 11 // अधुना भवनचरनिलयानन्तरदेवनिकायोद्देशभाजो येष्टविधास्तेऽभिधीयन्तेया सूत्रम्--व्यन्तराः किन्नर-किंपुरुष-महोरग-गान्धर्व-यक्ष राक्षस-भूत-पिशाचाः // 4-12 // भा०-अष्टविधो द्वितीयो देवनिकायः / एतानि चास्य विधानानि भवन्ति / अधस्तिर्यगूवं च त्रिष्वपि लोकेषु भवनेनगरेषु आवासेषु च प्रतिवसन्ति / टी०-अथ किमर्थ व्यन्तरा उच्यन्ते, तत्र भाष्यमधस्तिर्यगूज़ चेत्यादि / रत्नप्रव भारत्नकाण्डे योजनशतद्वयवर्जितेऽष्टासु योजनशतेषत्पन्नाः सन्तस्त्रिलोक्यां स्वभवनेषु स्वनगरेषु स्वावासेषु च प्रतिवसन्ति बालवत् स्वभावानवस्थानातु, अतो विविधमन्तरम्-आवसनमेषामिति व्यन्तराः / एतदेव स्पष्टयति भाष्यकारः भा०-यस्माचाधस्तिर्यगूज़ च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात् पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचाराः, मनुष्यानपि केचिद् भृत्यवदुपचरन्ति / विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्ति, अतो व्यन्तरा इत्युच्यन्ते // तत्र किन्नरा दशविधाः / तद्यथा-किंपुरुषाः किंपुरुषोत्तमाः किन्नराः किंपुरुषादि किन्नरोत्तमा हृदयङ्गमा रूपशालिनोनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठाइति // किंपुरुषा दशविधाः / तद्यथा-पुरुषाः सत्पुरुषाः महापुरुषाः पुरुषवृषभाः पुरुषोत्तमाः अतिपुरुषोत्तमाः 1 भुमिष्ठानि नगराणि भवननगराणि, यद्वा भवनानि भूमिष्ठानि नगराणि प्राकारादिविशेपरचनावन्ति तिर्यक आवासा यथाई सर्वत्र योग्यस्थाने / २अतिपुरुषाः' इति घ-पाठः / भदाः Page #310 -------------------------------------------------------------------------- ________________ 284 तत्त्वार्थाधिगमसूत्रम् [अव्यायः मरुदेवाः मरुतो मरुत्प्रभा यशस्वन्त इति // महोरगा दशविधाः / तद्यथाभुजगा भोगशालिनो महाकायाः अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षाः मेरुकान्ताः भास्वन्त इति // गान्धर्वा द्वादशविधाः / तद्यथा-हाहा हूहू तुम्बुरवो नारदा ऋषिवादका भूतवादिकाः कादम्बा महाकादम्बा रैवता विश्वा. वसवो गीतरतयो गीतयशस इति // यक्षास्त्रयोदशविधाः / तद्यथा-पूर्णभद्राः माणिभद्राः श्वेतभद्राः हरिभद्राः सुमनोभद्राः व्यतिपातिकभद्राः सुभद्राः सर्वतो. भद्राः मनुष्ययक्षा वनाधिपतयो वनाहारा रूपयक्षा यक्षोत्तमा इति // साविधा राक्षसाः / तद्यथा-भीमा महाभीमा विघ्ना विनायका जलराक्षसा राक्षसराक्षसा ब्रह्मराक्षसाः // भूता नवविधाः / तद्यथा-तुरूपाः प्रतिरूपाः अतिरूपाः. भूतोत्तमाः स्कन्दिकाः महास्कन्दिकाः महावेगाः प्रतिच्छन्ना आकाशगा इति // पिशाचाः पञ्चदशविधाः / तद्यथा-कूष्माण्डाः पटका जोषा आह्नकाः कालाः महा. कालाश्चोक्षा अचोक्षाः तालपिशाचा मुखरपिशाचा अधस्तारका देहा महाविदेहाः तूष्णीका वनपिशाचा इति // तत्र किन्नराः प्रियङ्गुइयामाः सौम्याः सौम्यदर्शना किन्नरादीनां मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा अशोकवृक्षध्वजा अवदाताः // किंपुरुषा ऊरुबाहुवधिकशोभा मुखेष्वधिकभास्वरा विविधाभरणभूषणाश्चित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः // महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धः ग्रीवा विविधंचिलेपना विचित्राभरणभूषणा नागवृक्षध्वजाः॥गान्धवों रक्तावदाता गम्भीराः प्रियदर्शनाः सुख्पाः सुमुखाकाराः सुस्वरा मौलिधरा हारविभूषणाः तुम्बरुवृक्षध्वजाः // यक्षाः श्यामावदाता गम्भीरास्तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालुजिबोटा भास्वरमुकुट धरा नानारलविभूषणा बटवृक्षध्वजाः // राक्षसा अवदाता भीमा भीमदर्शनाः शिरःकराला रक्तलम्बोटाः तपनीयविभूषणा नानाभक्तिविलेपनाः खट्वाङ्गध्वजाः // भूताः श्यामाः सुरूपाः सौम्या आपीवरा नानाभक्तिविलेपनाः सुल. सध्वजाः कालाः // पिशाचाः स्वरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभू. षणाः कदम्बवृक्षध्वजाः // इत्येवंप्रकारस्वभावानि वैक्रियाणि स्पचिह्नानि व्यन्तराणां भवन्तीति // 12 // तृतीयो देवनिकायः / टी-यस्माचाधस्तिर्यगूर्व चेत्यादि भाष्यम् / स्वातन्त्र्यात्-स्वेच्छया, फाभियोगाच शक्रादिदेवेन्द्राज्ञया चक्रवर्त्यादिपुरुषाज्ञया वा प्रायोनियतगतिप्रचारा भव. 1. पैक्षाः' इति क-पाटः , 'चौक्षाः ' इति तु घ-पाठः 2 'धानुविले.' इति घ-पाठः / 3 ' सुरूपाः वर्णनम् इति घ-पाठः। Page #311 -------------------------------------------------------------------------- ________________ सूत्र 13 ] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् 285 न्तीति / तथा मनुष्यानपि केचिद् भृत्यवदुपचरन्ति चक्रधरादीनतो विगतान्तरा मनुष्येभ्योऽविशिष्टाः केचिद् व्यन्तराः। विविधेषु वा शैलकन्दरान्तरादिषु प्रतिवसन्ति तिर्यग्लोक इति व्यन्तराः, निकायद्वयान्तरस्थायित्वाद् व्यन्तराः प्रसिद्धवाद्, गोसंज्ञावदिति / रत्नप्रभायां त्वेषां तिर्यगस ख्येयानि भवनानि भवन्ति यथोद्दिष्टावगाहलक्षणक्रमाद् दक्षिणोत्तरदिग्भेदावस्थायिनोऽष्टास्वपि भेदेषु वक्तव्याः / भेदाचैषां किन्नरादीनां स्वस्थाने भाष्यकृता वहवो निदार्शतास्ते चार्षे सूचिता लेशतो न प्रतिपदमधीताः / शेष पठितसिद्धमिति // 12 // अधुना तृतीयो देवनिकायोऽवसरप्राप्त उच्यतेसूत्रम्---ज्योतिष्काः-सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च // 4-13 // भा०-ज्योतिष्काः पञ्चविधा भवन्ति / तद्यथा-सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि प्रकीर्णतारका इति पञ्चविधा ज्योतिष्का इति / ज्योतिष्कभेदाः _ असमासकरणमाषर्षाच्च सूर्यःचन्द्रमसोः क्रमभेदः कृतः, यथा गम्येत एतदेवैषामूर्ध्वनिवेशे आनुपूर्व्यमिति / तद्यथा-सर्वाधस्तात् सूर्यास्ततश्चन्द्रमसस्ततो ग्रहास्ततो नक्षत्राणि ततो विप्रकीर्णताराः। ताराग्रहास्त्वनियतचारित्वात् सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति, सूर्येभ्यो दशयोजनाावेलाम्बनो भवन्तीति / समाद् भूमिभागादष्टासु योजनशतेषु सूर्याः, ततो योजनानामशीत्यां चन्द्रमसः, ततो विंशत्यां तारा इति / द्योतयन्त इति ज्योतींषि-विमानानि तेषु भवा ज्योतिष्काः ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः / मुकुटेषु शिरोमुकुटोपाहिभिः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिरैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति / / 13 // टी-ज्योतिष्काः पञ्चविधा भवन्तीत्यादि भाष्यम् / असमासकरणे पारमर्षप्रवचनक्रमभेदे च प्रयोजनमाह-असमासकरणात् तावत् तिर्यङ्मण्डलिकयाऽवस्थानं निषिध्यते, उपर्युपर्यवस्थानं कथं नाम गम्येत ? क्रमभेदोऽप्यमुनैव क्रमेणोर्ध्वमेषां सन्निवेश इत्यनेनाभिप्रायेण, आर्षे तु प्रारु चन्द्रः पठ्यते पश्चात् सूर्य इति / न चैवमुपरि सन्निवेशः / तत्र समतलाद् भूमिभागादारुह्योपरि सप्त योजनशतानि नवत्यधिकानि प्रथमो ज्योतिष्कविमानप्रस्तारः, तदुपरि दशयोजनशतान्यारुह्य भानोविमानप्रस्तारः, तदुपर्यशीतियोजनान्यारुह्य ज्योतिष्काणां वि- चन्द्रमसो विमानप्रस्तारः, तदुपरि विंशतियोजनान्यारुह्य ताराग्रहाणां मानप्रस्तारः विमानप्रस्तारः, एवमयं ज्योतिर्लोको दशोत्तरयोजनशतबहुल एकादश 1' द्योतींषि ' इति घ-पाठः / Page #312 -------------------------------------------------------------------------- ________________ 286 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 भिर्योजनशतैरेकविंशत्युत्तरैर्जम्बूद्वीपकमेरुमगन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितः, लोकान्तं चैकादशभिरेव योजनशतैरेकादशोत्तररस्पृशन् सर्वतोऽगन्तव्यः, ताराग्रहास्त्वनियतचारित्वादित्यादि / अनियता चैषां गतिरुमधस्तिर्यक चेत्यतोऽधस्तात् तावल्लम्बन्तेऽङ्गारकादयो यावत् सूर्याद् दश योजनानि भवन्त्यनवस्थितचारित्वात्, एवं चाधस्ताद् दशयोजनावलम्बकसंयोगादष्टासु योजनशतेषु सूर्य इति / अत्र च सर्वोपरि किल स्वातिनक्षत्रं, नक्षत्रमण्डलिकायाः सर्वाधस्ताद् भरण्यः, सर्वदक्षिणतो मूलः, सर्वोत्तरतश्वाभाचिरिति / द्योतयन्त इति ज्योतीषि-विमानानीत्यादि / अत्यन्तप्रकाशकारित्वाज्ज्योतिःशब्दाभिधेयानि विमानानि तेषु विमानेषु भवा ये देवास्ते ज्योतिष्काः / यष्टगादिसूत्रात् टक / अपरे ब्रुवते- भाष्यकृता सवृद्धिकः शब्दो नोचरित इत्यतः परिहारो वृद्धेः प्राप्ताया वक्तव्यः, स चायम्-एकानुबन्धकृतस्यानित्यत्वाद् दंष्ट्राशब्दे ङीपप्रत्ययाभाववद वृद्धयभावः।।ज्योतिषो वा देवाः, विमानगतज्योतिपः सम्बन्धिनो देवाः तेन दीव्यन्ति, वपुःसम्बन्धिना वा ज्योतिषा ज्वलन्तीति. ज्योतिष्काः, ज्योतिरेव वा भास्वरशरीरत्वात् समस्तदिग्मण्डलद्योतनत्वादतः स्वार्थे कन् / ज्योतिष्काः / मुकुटेष्वित्यादि / मुकुटेषु चिह्नानि भवन्ति-शिरोमुकुटोपगृहीनि प्रभामण्डलस्थानीयान्युज्ज्वलानि सूर्यादीनि, सूर्यस्य सूर्याकारं चिह्नम्, एवं चन्द्रा. दीनामपीति // 13 // त एते पञ्चविधा अपि ज्योतिष्काः सूत्रम्---मेरुप्रदक्षिणा नित्यगतयो नृलोके // 4-14 // भा०-मानुपोत्तरपर्यन्तो मनुष्यलोक इत्युक्तम् (अ० 3, सू० 14), तस्मिन् ... ज्योतिष्का मेरुप्रदक्षिणा नित्यगतयः भवन्ति, मेरोः प्रदक्षिणा ज्योतिष्काणां गतिः नित्या गतिरेषामिति मेरुप्रदक्षिणानित्यगतयः / एकादशसु एकविंशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति / टी-मानुषोत्तरपर्यन्त इत्यादि भाष्यम्, उक्तलक्षणो मानुषोत्तरगिरिः स पर्यन्तःअवसानं यस्यासौ मानुपोत्तरपर्यन्तो मनुष्यलोको विष्कम्भायामाभ्यां पश्चचत्वारिंशल्लक्ष. प्रमाणस्तस्मिन्नेते ज्योतिष्काः सूर्यादयो मेरुप्रदक्षिणा नित्यगतयो भवन्ति / मेरोः प्रदक्षिणा मेरुप्रदक्षिणा नापसव्येति कथयति, नित्यशब्दोऽभीक्ष्णवचनः / नित्या गतिरेपामिति नित्यगतयोऽनवरतभ्रमणा इत्यर्थः / नित्यग्रहणाद् गतेरुपरमाभावं प्रतिपादयति, साऽपि गतिः 1 एकोनविंशत्यु' इति ग-पाठः / यद्यपि सर्वेष्वादशेषु एकोनविंशतीत्यादिक एव पाठस्तथापि एकादशस्वेकर्विशेष इत्याद्युत्तरभाष्यात् इकारसजोयणसय इगवीसिकारेत्यादिवचनप्रामाण्याच एकविंशतीत्यादिक एव न्याय्यः' इति ग-टी-पाठः / अयं च जनानन्द पुस्तकालयप्रतिपाठः / 2 वमन्तव्यः' इति ग-पाठः / 3 'सूत्रात् ' इति ग. पाठश्चिन्तनीयः / 4 'भवन्ति' इति घ-पाठः। Page #313 -------------------------------------------------------------------------- ________________ सूत्र 14 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 287 प्रादक्षिण्येन नापसव्येन मेरोः, लोकस्थित्यनुभवाद् विमानान्येव नृलोके भ्रमणशीलानि भवन्ति, न पुनरभ्रमन्त्यपि / ये वा प्रेरयन्ति / तानि च पृथिवीकायनिर्माणान्यातपनामकर्मोदयात् स्फटिकमणिप्रकाशानि भ्राजिष्णूनि कपित्थफलार्धसंस्थानानि भवन्ति // ननु च ध्रवः सर्वदा ध्रुवस्तत्रैवोपलभ्यते, नहि तस्य मेरुप्रदक्षिणा नित्या गतिरस्ति, स च ज्योतिकस्तदेतत् कथमिति ? उच्यते-पञ्चप्रकारा सूर्यादयो ज्योतिष्काः, तत्रैको भेदस्तारकाख्यस्तस्याप्येकदेशो ध्रुवो यदि मेरोःप्रादक्षिण्येन (प्र)वज्यां न प्रतिपद्यते ततस्तदगत्या किमवशेषाणां नानुशासितव्या गतिः / यथा हि राजादिप्रधानपुरुषप्रयाणकप्रदाने तिष्ठत्स्वपि केषुचित् प्रयाणकं दत्तं स्कन्धावारेणेति लोकः प्रभाषते तथा प्रधानेषु सूर्यादिषु प्रयात्सु तद्भेदैकदेशागमनेऽपि ज्योतिष्का नित्यगतयोऽभिधास्यन्ते / अथवा नित्यगतय इति तत्रैव स्थाने स ध्रुवः परिभ्राम्यति, न तु मेरोः पादक्षिण्येन गतिं प्रतिपद्यते, तथाहि-तदद्यापि ध्रुवताराचक्रमाक्रान्तो. त्तरदिकं परिवर्तमानमुपलभ्यते प्रत्यक्षप्रमाणेनैव, अतो मेरुप्रदक्षिणाः केचिनित्यगतयश्च, अपरे नित्यगतयो न मेरुप्रदक्षिणा इति / अथवा मेरुप्रदक्षिणा अनित्या गतिर्येषां ते मेरुप्रदक्षिणानित्यगतय इत्ययं वाक्यार्थो भवति, न सर्वेषामवश्यंभाविनी गतिभैरोः प्रादक्षिण्येन, किन्तु केषांचिद् भवति केषांचिन्न, गतिः पुनरवश्यंभाविनी तथाऽन्यथा वा, न तस्या निषेध इति / एकादशस्वेकविंशेष्क्त्यिादि गतार्थ प्रायः / मेरोश्चतुर्दिशमिति दिक्शब्देन समानार्थो दिशाशब्दस्तमनुसन्धाय भाष्यकारेणोक्तं चतुर्दिशमिति।। अधुना अर्धतृतीयद्वीपान्तर्वर्तिनां सूर्यादीनामियत्तामावेदयितुमाह भा०-तत्र द्वौ सूर्यो जम्बूद्वीपे / लवणे चत्वारः / धातकीखण्डे द्वादश / कालोधौ द्विचत्वारिंशत् / पुष्करार्धे द्विसप्ततिः / इत्येवं मनुष्यलोके द्वात्रिंशत् सूर्यशतं भवति / चन्द्रमसामप्येष एव विधिः / अष्टाविंशतिनक्षत्राणि / अष्टाशीतिघेहाः / षट्षष्टिसहस्राणि नव शतानि पञ्चसप्ततीनि ताराकोटाकोटीनामेकैकस्य चन्द्रमसः परिग्रहः / सूर्याचन्द्रमसो ग्रहा नक्षत्राणि च तिर्यगलोके, शेषास्तूर्वलोके ज्यो. तिष्का भवन्ति / टी-तत्र द्वौ सूर्यावित्यादि / एते तु स्वतापच्छेदतः प्रकाशयन्तः प्रदक्षिणं चरन्ति,ता पक्षेत्र चैषामन्तः सङ्कुटं बहिर्विशालं नालककुसुमाकृतिः सप्तचत्वारिंशद्योजनसहस्राणि त्रिषष्ट्यधिकानि शतद्वयोत्तराणि योजनैकषष्टिभागाश्चैकविंशतिः( 472639) प्रत्येकं सूर्याणां, मनुष्यक्षेत्रे च द्वात्रिंशदुत्तरं सूर्यशतमवगन्तव्यं, चन्द्रमसोऽप्येतावन्त एव बोद्धव्याः / अष्टाविंशतिनक्षत्राण्यभिजिता सह, ग्रहाणामष्टाशीतिर्भसराश्यादीनाम्, एकस्य खलु चन्द्रमसस्ताराः कोटीनां कोट्य एतावत्यो भवन्ति षट्पष्टिसहस्राणि नव च शतानि पञ्चसप्तत्यधिकानि। -सूर्यादीनां संख्या Page #314 -------------------------------------------------------------------------- ________________ 288 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 सवितुश्च द्वियोजनान्तरितमार्गाणां त्र्यशीतं मण्डलशतम् / तेषां हि पूर्वविदेहदिवसान्तात् पूर्वदक्षिणविदिग्भाजो मार्गान् मार्गान्तरगामिनस्त्रिषष्टिरुदयानिषधमस्तके दक्षिणक्षेत्रवर्तिमनुप्यचक्षुद्देश्या द्वौ हरिवर्षज्याकोट्यां, शेपमष्टादशोत्तरं शतं लवणोदधाविति, अपरविदेहान्तेऽप्येवं, द्वितीयस्य तु पश्चिमोत्तरविदिग्भाजो नीलमस्तके रम्यके लवणोदधौ चोत्तरक्षेप्रजानां दृष्टिपथस्थायिन इति, उदयविधानात् त्वस्तमयं विद्यात् / चन्द्रमसः पञ्चदश मण्डलानि / सर्वोत्तरोदयस्य सर्वदक्षिणोदयस्य चान्तरं पञ्च योजनशतानि दशोत्तराणि सवितुः, तत्राशीतं योजनशतं जम्बूद्वीपे लभ्यते, त्रीणि योजनशतानि त्रिंशदुत्तराणि लवणोदधौ लभ्यन्तेऽर्कस्य / सूर्या इत्यादि भाष्यम् / एते किल तिर्यग्लोकव्यवस्थिताः / शेषास्तु प्रकीर्णतारका ऊर्ध्वलोके भवन्ति इति / आचार्य एवेदमवर्गच्छति, नत्वार्षमेवमवस्थित, सर्वज्योतिष्काणां तिर्यग्लोकव्यवस्थानादिति / भा०-अष्टचत्वारिंशद् योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशत्, ग्रहाणामधयोजनम्, गव्यूतं नक्षत्राणाम्, सर्वोत्कृष्टायास्ता राया अर्धक्रोशः, जघन्यायाः पञ्च धनुःशतानि, विष्कम्भाधसुर्यादीनां विष्कम्भ: बाहल्याश्च भवान्त सर्वे सूर्यादयः, नृलोक इति वर्तते / बहि स्तु विष्कम्भबाहल्याभ्यामतोऽधं भवति // टी०-अष्टचत्वारिंशदित्यादि / आयाम विष्कम्भाभ्यामिदमादित्यमण्डलप्रमाणम्, तथा चन्द्रमसः सुज्ञानम्, अर्धयोजनप्रमाणं ग्रहविमानम्, नक्षत्रविमानं गव्यूतप्रमाणम्, आयुषा सर्वोत्कृष्टायास्तारकाया अधक्रोशप्रमाणं विमानम्, सवेजघन्यायाः पञ्च धनुःशतानि, शेषा विमध्यमा प्रतिपत्तिर्वक्तव्येति / एषामेव सूर्यादिविमानानां बहलत्वनिर्दिदिक्षया आह---विष्कम्भाधबाहल्याश्च भवन्ति नृलोकान्तर्वर्तिसूर्यादिविमानानि स्वविष्कम्भार्धेन बहलानि भवन्ति / तद्यथा-सवितुर्विमानमण्डलं चतुर्विंशतिरेकषष्टिभागा योजनस्य, एवं शेषाणामपि वाच्यम् / अथ मानुषोत्तरात् परतः कथमित्यत आह-बहिस्तु विष्कम्भवाहल्याभ्यामतोऽधं भवति नृलोकान्तर्वर्तिनां सवित्रादिविमानानां यो विष्कम्भोऽभिहितस्तस्याधं बहिर्वर्तिनामुष्णकरादि विमानानां विष्कम्भो भवति, यथाऽन्तर्वतिनः आदित्यस्याष्टचत्वारिंशदेकपष्टिभागा योजनस्य विमानविष्कम्भस्तदर्ध चतुविंशतिरेकषष्टिभागा योजनस्य बहिर्वर्तिनः सवितुर्विमानविष्कम्भ इत्येवं शेषाणामपिवाच्यम्, तथाऽन्तर्वर्तिनः सवितुश्चतुर्विंशतिरेकषष्टिभागा योजनस्य विमानबाहल्यमुक्तं बहिर्वर्तिनस्तदर्धं द्वादशैकषष्टिभागा योजनस्य विमानवाहल्यम्, एवं शेषाणा 1 अशीत्यधिकाष्टाशस्यामवस्थितात् चन्द्राद ऊर्ध्वभागीये लोके, ततः विशत्यामवस्थानाभ्युपगमात्, नवशत्याध तिर्यग्लोकत्वेनास्वीकारात्, प्राकू तिर्यग्लोके इत्युक्तिस्तूचंभागे सूर्यादीनां तारादिवदनियततावारणार्थम् / २'वाच्या इति क-पाठः। Page #315 -------------------------------------------------------------------------- ________________ 289 सूत्र 15 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् मपि वाच्यम् / सूर्ययोश्चन्द्रमसोश्च जम्बूद्वीपे सर्वाभ्यन्तरमण्डलस्थयोरन्तरं नवनवतिर्योजनसहस्राणि षट् च शतानि चत्वारिंशदधिकानि / / भा०-एतानि च ज्योतिष्कविमानानि लोकस्थित्यां प्रसक्तावस्थितगती _ न्यपि ऋद्विविशेषार्थमाभियोग्यनामकर्मोदयाच नित्यगतिरतयो ज्यातिष्कावमान देवा वहन्ति / तद्यथा-पुरस्तात् केशरिणः। दक्षिणतः कुञ्जराः। वाहकः अपरतो वृषभाः / उत्तरतो जविनोऽश्वा इति // 14 // टी-एतानि च ज्योतिष्कविमानानीत्यादि, नेश्वरादीच्छातः, किन्तु लोकानुभावादेव, एतानि विमानानि ज्योतिषां प्रसक्तावस्थितगतीन्यपि प्रसक्ता-सम्बद्धा अवस्थिता-आभीक्ष्ण्येन गतिर्येषां तानि प्रसक्तावस्थितगतीन्यपि सन्ति समृद्धिविशेषप्रकटनायाभियोग्यनामकर्मोदयभाजः सर्वदेव गतिरतयो-गमनक्रीडाशीला देवा वहन्ति / चशब्दः समुच्चये / ऋद्विविशेषार्थमाभियोग्यनामकमोदयाचेत्यनेनैतद् भाष्येण प्रतिपादयति-न च तेषां वोढणां भारजनितं दुःखं समस्ति, ते हि गमनक्रीडाप्रियत्वाल्लोकानुभावादेव तेषु भ्रमस्वधस्तात् स्थिता नानावेषधारिणो व्रज्यां प्रतिपद्यन्ते, अवन्ध्यफलत्वादाभियोग्यकर्मणः, तद्यथा-नखदंष्ट्राटोपकेसरभासुरसटाप्रकीर्णकिरणसमूहानुरञ्जिताः कपिलनयनतारकाः केसरिणः पुरस्ताद वहन्तीति / दक्षिणतो मदप्रसेकाद्रगण्डा मदावचूर्णितप्रसारितकराः षड्दन्तोपशोभितानना दन्तिनः, अपरतः प्रशस्ताङ्गोपाङ्गोपचितमूर्तयो वृषभाः, उत्तरतो अविनोऽश्वा इति / सर्वे चैते षोडशसहस्रसङ्ख्या देवाः सवितुर्विमानं वहन्ति, तथा चन्द्रमसः / ग्रहविमानमष्टौ सहस्राणि वहन्ति, नक्षत्रविमानं चत्वारि सहस्राणि, ताराविमानं सहस्रद्वयमिति / सर्ववहिर्मण्डलस्थयोरन्तरं योजनलक्षं पट् च शतानि पष्टयधिकानि सूर्ययोः, चन्द्रमसोरप्येतदेव बहिर्मण्डलस्थयोरन्तरं पोडशैकपष्टिभागहीनं, पञ्च शतानि नवो. तराणि त्रिपञ्चाशचैकपष्टिभागाश्चन्द्रमसः काष्ठान्तरमवसेयम्, मण्डलान्तरं तु पञ्चत्रिंशद् योजनानि त्रिंशदेकपष्टिभागाश्चत्वारश्च सप्तभागा योजनस्येति // 14 // येयं ज्योतिषां गतिः सातत्येनैनामन्ये काल इत्यध्यवस्यन्ति, तत् कथमिति ? उच्यतेन गतिशब्दवाच्यः कालः, तत्साध्यः किन्तु योऽयमतीतानागतवर्तमानभेदः सः / सूत्रम्-तत्कृतः कालविभागः॥४-१५॥ भा०-कालोऽनन्तसमयः वर्तनादिलक्षण इत्युक्तम् (अ०५, सू० 39, 22) / तस्य विभागो ज्योतिष्काणां गतिविशेषकृतश्चारविशेषेण हेतुना / तैः कृतस्तत्कृतः। टी०-अथवा यत एव ज्योतिष्काः सदा नियतगतयो नान्ये, अत एवायं नृलोके तत्कृतः कालविभागः / कालोऽनन्तसमय इत्यादि भाष्यम् / मुख्यवृत्तिसमाश्रयणात् सक Page #316 -------------------------------------------------------------------------- ________________ 290 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 लमनुष्यक्षेत्रव्यापी समय एको वर्तमानकालः, स च परस्ताद् वक्ष्यते स्वरूपतः / अत्र च प्रवचने सङ्ग्रहव्यवहारापेक्षयोभयथा प्रस्थानम् / एके मन्यन्ते-जीवाजीवद्रव्ययोरेव पर्यायः कश्चिद् विशिष्टो वर्तनापरिणामक्रियापरापरत्वलक्षणः काल इति व्यपदिश्यते, न पुनर्जीवाकाशधर्माधर्म - पुद्गलद्रन्यव्यतिरिक्तोऽतिस्पष्टलिङ्गः कश्चिद् द्रव्यविशेषः समस्ति, यमुरकालस्य द्रव्यता. - रीकृत्येदमभिधानं प्रवर्तिष्यते-कालोऽयमिति / अपि च-पश्चास्तिकाया विचार: उक्ताः प्रवचने, यदि कालोऽपि पृथक् स्यात् षडस्तिकायाः प्रसज्येरन्, अनिष्टं चैतत् / आगमश्च-"किमिदं भंते ! कालेत्ति वुच्चत्ति ? / गोयमा! जीवा चेव अजीवा चेव" (भग०)। अपरे मन्यन्ते-पञ्चास्तिकायव्यतिरिक्तं कालद्रव्यं षष्ठमस्ति कार्यानुमेयत्वादण्वादिवत, असति हि नियामकद्रव्ये किसलयकलिकाफलप्रसवपरिणतयः सहकारतरोर्युगपदाविर्भवेयुः, क्रमभाविनी चैषां किसलयादिपरिणतिरुपलभ्यते, ततः शक्यमनुमातुं-यदनुरोधादेताः कार्यव्यक्तयस्तारतम्येनात्मातिशयमासादयन्ति सोऽस्त्यत्र कोऽपि कालः / तथादृष्टस्य स तरोरेव कार्याविर्भाव इति चेन सततसन्निहितत्वात् समकमेव सकलकार्याविर्भावप्रसङ्गः स्यात् // ननु यस्यापि कालद्रव्यमेकं विविक्तं तस्यापि तत्सन्निधानात् सवाः कार्यावस्थाः किमिति युगपन्नानुवर्तन्ते ? / उच्यते-तद्धि शिशिरवसन्तादिभेदेन भिद्यमानमनेकधा कार्यव्यक्तीः सृजति, ते च भेदाः प्रतिविशिष्टपरिणतिमनुरुध्यमाना विविक्तकार्यहेतवस्तस्मादस्तु द्रव्यान्तरं कालः / तथा चागमः-"कई णं भंते ! दव्या पण्णत्ता ? गोयमा! छ दव्वा पण्णत्ता, तंजहा-धम्मथिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पुग्गलत्थिकाए अद्धासमए" (भग०) तथा नियुक्तिकारेणाप्यावश्यके द्रव्याद्धायथायुष्कादिभेद कालं व्याचक्षाणेन पृथग्द्रव्यादिभ्यः कालो व्याख्यात इति / पञ्चमेऽध्याये च यदत्र वक्तव्यं तद् वक्ष्यामः / सम्प्रति प्रकृतमनुस्रियते। स एष कालोऽनन्तसमय इति समूहाध्यारोपादुच्यते-वर्तनादीनि लक्षणानि यस्यासौ वर्तनादिलक्षण इत्युक्तं (22) सूत्रमात्रेण पञ्चमेऽध्याये, तस्यैवंविधस्य कालस्य, विभागाः समयावलिकादयो ज्योतिष्काणांगतिविशेषकृताः स्वतः सोऽभिन्नः परोपाधिकं भेदमापद्यते,ते चास्य भेदाः सवितृगतिविशेषेणोपलक्ष्यन्ते,चारविशेषेण हेतुना नक्तंदिवादयः परिस्थूराः, न तु समयादयोऽत्यन्तसूक्ष्माः / केन ह्याकारेण समयप्रज्ञापनायामादित्यगतिरुपलक्षणं स्यात् / तसादतिस्थूलः कालः कालभेदेन भिद्यमानो भिद्यमानः परां काष्ठामनुप्राप्तः समय उच्यते। तैयॊतिष्कचारविशेषैः कृता-उपलक्षितस्तत्कृतः कालस्यायं विभागकलापः परिज्ञेयः, तत्र समयस्यैकत्वाद् विभागाभावः, समूहस्य चामुख्यत्वादेव न विभागः, तस्माद् विभागशब्द उपचारार्थः कल्पितो विभाग इत्यर्थः / / 1 कोऽयं भदन्त ! काल इत्युच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव / 2 कति भदन्त | द्रव्याणि प्रज्ञप्तानि ? गौत. म !षइ द्रव्याणि प्रज्ञप्तानि, तद्यथा-धर्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायः अद्धासमयः। 3 'उपचारः' इति ग-पाठः / Page #317 -------------------------------------------------------------------------- ________________ भेदान्तरम् सूत्र 15 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 291 भा०तद्यथा-अणुभागाश्वारा अंशाः कला लवा नालिका मुहूर्ता दिवसा लौकिकसम- रात्रयः पक्षा मासा ऋतवः अयनानि संवत्सरा युगमिति लौकिकालविभागः कसमो विभागः / पुनरन्यो विकल्पः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः / पुनस्त्रिविधः परिभाष्यते-सङ्ख्येयोऽसङ्ख्ययोऽनन्त इति // टी०-तद्यथा अणुभागाश्चारा अंशाः कला लवा इत्यादि / सर्व एते कालविशेषाभिधायिनः शब्दा इति, एप च लौकिकैः समः-तुल्यो विभागः कालस्य, वैशेषिकपौराणिकादिनिरूपितकालविभागसदृश इत्यर्थः / पुनरन्यो लौकिकसम एव विभागः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः / प्रत्युत्पन्नो-वतेमानः, समय एव निश्चयात्, स चातीतानागताभ्यां विना वर्तमानव्यपदेशमेव नाश्नुत इत्यवश्यं तौ तदवधिभूतावेषितव्यौ, सम्बन्धिशब्दत्वादिति / व्यावहारिकस्तु स्वपरिकल्पवशात् प्रत्युत्पन्नादिस्त्रिविधः, प्रत्युत्पन्नो .. मुहूर्तादिरनेकभेदः, अनागतो द्विधा-भावतो विषयतश्च, भावतो घटाद्यप्रत्युत्पन्नादीनां ". नुत्पादकालः, अप्राप्तदर्शनो विषयतः, अतीतोऽपि द्विधा-भावविषयभे 2. दतः, भावतः कुम्भादिविलयः, दर्शनादूर्ध्व विषयत इति, भावो विषयो वाऽत्रोपलक्षणमात्रमवगन्तव्यमिति / पुनस्त्रिविधः स्वसमये परिभाष्यते-सङ्ख्येयोऽसङ्ख्येयोऽनन्त इति // तत्र सङ्ख्येयादित्रिविधकालस्वरूपपरिज्ञानाय सकलकालभेदादित्वात् समय एव तावत् प्रज्ञाप्यत इत्याह. भा०-तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वाव गाहनक्षेत्रव्यतिक्रमकालः समय इत्युच्यते परमदुरधिगमोसमयस्य स्वरूपम् 2 ऽनिर्देश्यः / तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति, न तु निर्दिशन्ति, परमनिरुद्धत्वात्, परमनिरुद्ध हि तस्मिन् भाषाद्रव्याणां ग्रहण निसर्गयोः करणप्रयोगासम्भव इति। . टी-तत्र परममूक्ष्मक्रियस्येत्यादि / तत्र-एतस्मिन् त्रिविधकालव्याख्याप्रस्तावे समयस्तावदयं भवति, परमसूक्ष्मा क्रिया-गतिपरिणामो यस्य, अत्यन्तजघन्य इति प्रसिद्धतरेण ध्वनिना विवृणोति, परमाणोनिर्विभागस्य पुद्गलद्रव्यस्य, स्वावगाहनक्षेत्रव्यतिकमकाल इति स्वावगाहक्षेत्रम्-आकाशपरमाणुस्तस्य व्यतिक्रमो-लङ्घनं परित्यागस्तदनन्तरप्रदेशसङ्क्रान्तिरित्यर्थः, स्वावगाहक्षेत्रव्यतिक्रमस्तस्य यः कालः स समय उच्यते / एतदुक्तं भवति-परमाणोः स्वावगाहक्षेत्रात् तदनन्तरवर्तिस्वावगाहक्षेत्रसङ्क्रान्तिक्रियोपलक्षितः कालः समयोऽभिधीयते, स चाविभागः परमनिरुद्धोऽत्यन्तसूक्ष्मत्वात् परमदुरधिगमः परमैरप्यतिशयसम्पन्नः दुःखेनाधिगम्यते इति / अनिर्देश्यश्वासौ-न स कालो निर्देष्टुं शक्यते, परमीणां तु स्वप्रत्यक्षत्वात् स्वसुखादिवत्, न नि ठितस्वरूपः परेभ्यः प्रतिपादयितुं शक्यते घटादिवत, 1 स च मुखादिविनिलुंठित' इति क-पाठः / Page #318 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 अतः कयाऽपि काका निदर्शनरूपया प्रज्ञाप्यत इत्यावेदयति, तमेवंप्रकारं समयं यस्मादनुपमलक्ष्मीप्रयत्नभाजः परमर्षयः परिहीणच्छमानः समस्तज्ञेयग्राहिणा केवलज्ञानेनावगच्छन्ति स्वरूपतो न पुनर्निर्दिशन्त्यन्यस्मै, परमनिरुद्धत्वादिति अल्पत्वादित्यर्थः / यावत् तत्स्वरूपप्रतिपादनाय भाषाद्रव्याण्यादीयन्ते तावदसङ्ख्येयास्तेऽतिक्रामन्तीत्यर्थः / परमनिरुद्धे हि तस्मिन भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति / कायकरणप्रयोमेण भापाद्रव्याण्यादाय वाक्पर्याप्तिकरणव्यापारेण निसृजति, तयोश्च निसर्गग्रहणविषययोः कर व्यापारयितुं न शक्यतेऽत्यल्पत्वात् , अतः परमनिरुद्धे तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्मासम्भवादवगतिरेव केवला न प्रज्ञापनमस्तीति / अथवाऽऽर्षप्रसिद्धया तुन्नोगदारकपदृशाटि. काननिदर्शनात् समयप्रज्ञापना कार्या / एवं तावत् समयः सर्वकालभेदादिरवसेयः / भा०-ते त्वसङ्ख्येया आवलिका। ताः सङ्ख्येया उच्छ्यासः, तथा निःश्वासः। सोयलवतः पविन्द्रियस्य कल्पस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः / ते सप्त स्तोकः / ते सप्त लवः / तेऽष्टांत्रिंशधैं च नालिका / ते वे मुहूर्तः / ते त्रिंश र दहोरात्रम् / तानि पञ्चदश पक्षः / तौ द्वौ शुक्लकृष्णौ मासः। आयालकाद- तो द्वौ मासातुः / ते त्रयोऽयनम् / ते वे संवत्सरः / ते पन्न चन्द्रचन्द्राभिवधितचन्द्राभिवर्धिताख्या युगम् / तन्मध्येऽन्ते चाधिकमासकी। रनर्यसावनचन्द्रनक्षत्राभिर्वर्धितानि युगनामानि / वर्षशतसहस्रं चतुरशीतिगुणिसं पूर्वाङ्गम् / पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् / एवं तान्ययुतकमलनलिनकुमुदतुट्यडडाववाहाहाहूहूचतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः / टी०- ते चासङ्ख्येयाः समया आवलिका मण्यते, सा च जघन्ययुक्तकासङ्ख्येयकसमयप्रमाणा भवति / ताः सङ्ख्येयाः(४४४६२४७८) सत्य आवलिका एक उच्यासो निश्वासो वा ऊर्ध्वाधोगमनभेदात् / तावुच्छ्यासनिःश्वासावित्थंप्रमाणौ शारीरबलयुक्तस्यानुपहतकरणग्रामस्य नीरुजस्य मध्यवयोऽनुप्राप्तस्य मनोदुःखेनानभिभूतस्य पुरुषस्य प्राणो नाम कालविशेपो भवति, बलवदादिविशेषणानि च प्रतिविशिष्टोच्छासपरिग्रहणाय,अन्यथा कर्तृभेदादनेकरूपाः समुच्छासनिःश्वासा इति न शक्येत प्रागस्वरूपं निरूपयितुमनवस्थितत्वात्, अत एवं प्रकारस्य पुंसो यावुच्छासनिःश्वासाविति / उक्तलक्षणाः प्राणास्ते सप्तसङ्ख्याकाः स्तोको नाम कालविशेषः। ते स्तोकाः सप्त लवोऽभिधीयते। लवानामष्टाधिका त्रिंशल्लवार्धं च नालिका भव. ति। नालिकाद्वयं मुहूर्तः। त्रिंशन्मुहूर्तमहोरात्रम् / पश्चदशभिरहोरात्रैः पक्षः। शुक्लकृष्णौ द्वौ पक्षी मासः / मासद्वयमृतुर्वसन्तादिभेदः / ऋतुत्रयमयनम् / अयनद्वयं संवत्सरः। ते १'तुशगदारुक पदशाटिका' इति क-पाठः / 2 'ऽष्टाधिकात्रिंश' इति क-पाठः / 3 पन्यमध्यमोत्कृष्टपरीत्तयुक्तासंख्यातासंख्यातभेदेनासंख्या तस्य नवविधत्वात्, चतुर्थ चैतत् / Page #319 -------------------------------------------------------------------------- ________________ चन्द्रमासादीनां सूत्र 15]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 293 संवत्सराः पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्या युगम् / तत्र चन्द्रसंवत्सरपरिज्ञा , नाय चन्द्रमासपरिमाणमेव तावदाख्यायते-एकोनत्रिंशद् दिनानि द्वात्रिंशच तन्नामसंवत्सरा- द्विषष्टिभागा (2913) दिवसस्य चन्द्रमासः / एवंप्रकारेण मासेन द्वादशणां च स्वरूपम् - मासपरिमाणवान्द्रः संवत्सरः / स चायं-त्रीणि शतान्यहां चतुष्पश्वाशदुत्तराणि द्वादश द्विषष्टिभागा ( 35412) इति / एतेन शेषाणि चन्द्रसंवत्सराणि व्याख्यातानि॥अधुनाऽभिवर्धितसंवत्सरपरिज्ञानायाभिवर्धितमासोऽभिधीयते-एकत्रिंशद् दिनानि एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागा ( 31124 ) नामभिवर्धितमासः / एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्धितसंवत्सरः, स चाय-त्रीणि शतान्यहां व्यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागाः ( 38366) / एतैश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति। तन्मध्येऽन्ते चाधिकमासको तेषां पश्चानां संवत्सराणां मध्ये भिवर्धिताख्ये संवसरेऽधिकमासकः पतति, अन्ते च अभिवर्धित एव, सूर्यमासस्त्वयमवगन्तव्यः-त्रिंशद् दिनान्यर्ध च(३०), एवंविधद्वादशमासनिष्पन्नः संवत्सरः सावित्रः, स घायं-त्रीणि शतान्यहां षट्पट्यधिकानि(३६६), अनेन च मानेन सर्वकालः सर्वायूंषि समा विभागाच गण्यन्ते / सावनमास त्रिंशदहोरात्र एव, एष च कर्ममास ऋतुमासश्चोच्यते, एवंविधद्वादशमासनिष्पन्नः सावनसंवसरः, स चायं-त्रीणि शतान्यहां षष्ट्यधिकानि (360 ) / चन्द्राभिवर्धितायुक्तौ / नक्षत्रमास. स्वयं-सप्तविंशतिदिनान्येकविंशतिः सप्तषष्टिभागाः (2011), एवंविधद्वादशमासनिष्पन्नो नक्षत्रसंवत्सरः / स चाय-त्रीणि शतान्यहां सप्तविंशत्युत्तराण्येकपश्चाशच्च सप्तपष्टिभागा (32716) इत्येवं स्वस्वमासनामनिष्पन्नानि युगनामानि भवन्ति / विंशतिभियुगैर्वर्षशतं भवति / दशभिर्वर्षशतैर्वर्षसहस्रम् / वर्षसहस्रं शतगुणं वर्षशतसहस्रम् / तच्चतुरशीति गुणितमेकं पूर्वाङ्गम् / पूर्वाङ्गलक्षाः चतुरशी तिगुणिताः पूर्वम् / प्रयागादस्वरूपम् प्रर्वतः पूर्वतो विकल्पात् परः परो विकल्पश्चतुरशीतिलक्षगुणो वेदितव्यः तुय्यङ्गाद्यावच्छीर्षप्रहेलकेति, तुट्यङ्गं तुटिका, अडडाङ्गं अडडा, अववाङ्गं अववा, (हाहाङ्गं हाहा ), हृदङ्गं हूहुका, उत्पलाङ्गं उत्पलम्, पद्माङ्गं पद्मम्, नलिनाङ्गं नलिनम्, अर्थनियूराङ्गं अर्थनियूरम्, चूलिकाङ्गं चूलिका, शीर्षप्रहेलिकाङ्गं शीर्षप्रहेलिका, प्रावचनक्रमोऽयम्, आचा १'तिलक्षगु०' इति ग-पाठः, स च चिन्तनीयः / 2 शीर्षप्रहेलिकानुपादमात् उपलक्षणं, वाचनाभेदेनामिधानभेदस्तु नासंभवी / Page #320 -------------------------------------------------------------------------- ________________ 294 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 येण वन्यथोपात्तः स्वल्पस्थानश्चेति, सर्वथा शीर्षप्रहेलिकान्तः सङ्ख्येयः कालो भवति समयादिरिति / सूर्यप्रज्ञप्तौ तु पूर्वादुपरि लताङ्गादिक्रमः शीर्पग्रहेलिकान्त इति, एतावान् गणितशास्त्रविषयोऽपीति / भा०-अत ऊर्ध्वमुपमानियतं वक्ष्यामः / तद्यथा हि नाम योजनविस्तीर्ण / योजनाच्छ्रायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामङ्गपल्योपमादिवि मादा लोन्नां गाढं पूर्ण स्याद्, वर्षशताद वर्षशताकैकास्मन्नुद्धियमाणे शुद्धिनियमतो यावता कालेन तद् रिक्तं स्यादेतत् पल्योपमम् / तद् दशभिः कोटाकोटिभिर्गुणितं सागरोपमम् / तेषां कोटाकोट्यश्चतस्रः सुषमसुषमा।तिस्रः सुषमा / वे सुषमदुष्षमा / द्विचत्वारिंशद् वर्षसहस्राणि हित्वा एका दुष्पमसुषमा।वर्षसहस्राणि एकाविंशतिर्दुष्षमा / तावत्येव दुष्षमदुष्षमा // ___टी०-अत ऊर्ध्वमुपमानियतं वक्ष्याम इति / सङ्ख्येयादनन्तरमसङ्ख्येयः कालो भण्यते / स च गणितविषयातीतत्वादुपमया कयाचिन्नियम्यते, सर्वश्चैष बौद्धो व्यवहारः परप्रतिपत्तयेऽभ्युगम्यते, बाह्यार्थशून्यत्वात्, अन्यथा परमार्थविचारणायामतिदुष्करं स्यादिदं सर्वम्, तद्यथा हीत्यादि यावदेतत् पल्योपममिति सुज्ञानम्,तच त्रिविधम् -उद्धारपल्योपममद्धापल्योपल्योपमस्यावा- पमं क्षेत्रपल्योपमं चेति / पुनवर्वादरसूक्ष्मभेदादेकैकं द्विधा, तत्रोक्तलक्षणं भान्तरभेदाः तेषां प्ये बादराद्धापल्यं सङ्ख्येयवर्षकोटिव्यतिक्रान्तिसमकालम् / तान्येव वालाप्रयोजनानि च ग्राण्येकैकशोऽसङ्ख्येयान्यदृश्यानि खण्डानि कृत्वा बुद्धया स एव पल्यो भ्रियते। ततः प्रतिवर्षशतमेकैकवालाग्रोद्धारे वर्षाण्यसङ्ख्येयानि व्यतिक्रामन्त्येतत् सूक्ष्माद्धापल्योपमम्। अस्य च प्रयोजनमुत्सापिण्यादिविभागपरिज्ञानम्, ज्ञानावरणादिकर्मस्थितयः कायभवस्थितयश्च पृथिव्यादिकायानां निरूप्यन्त इति / उद्धारपल्योपमं तु बादरं स्थूलवालाग्रापहारे प्रतिसमयमेकैकस्मिन् सति भवति, तच्च सङ्ख्येयसमयपरिमाणं वेदिव्यम् / एतान्येव वालाग्राण्येकैकशोऽस ङ्ख्येयखण्डीकृतानि / ततः प्रतिसमयमेकैकवालाग्रोद्धारे वर्षकोटिभिः सङ्ख्येयाभिः सूक्ष्मोद्धारपल्यं भवति / अस्य च प्रयोजनमधेतृतीयसागरोपमोद्धारसमयराशिप्रमाणतुल्या द्वीपसमुद्रा इति / क्षेत्रपल्योपममपि बादरसूक्ष्मभेदाद् द्विविधम्, बादरलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं बादरक्षेत्रपल्योपमम्, सूक्ष्मलोमखण्डभृतक्षेत्रप्रदेशराश्यपहारे प्रतिसमयं मूक्ष्मक्षेत्रपल्योपमम्, असङ्ख्योत्सर्पिणीभिश्च परिनिष्ठानमस्य भवति / एतेन च पृथिव्यादिजीवपरिमाणमानीयत इति प्रवचनविदो वर्णयन्ति प्रयोजनम् / एषां च त्रयाणामपि पल्योपमानां प्रत्येक कोटीनां कोटी दशगुणिता सती सागरोपममिति व्यपदिश्यते त्रिविधमेव / एषां सागरोपमाणां चतस्रः कोटीकोटयः सुषमसुषमानामकालविशेषः / तिस्रः कोटीकोव्यः सागरोपमाणां , इतः परं सद्भावेऽपि गणितस्य न तव्यावहारिकमिति नोक्तम् / २'माणे यावता' इति क-पाठः / Page #321 -------------------------------------------------------------------------- ________________ क्षेत्रापेक्षया कालविचारः सूत्रं 15 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 295 सुषमा / द्वे सागरोपमकोटीकोटयौ सुषमदुष्षमा। द्विचत्वारिंशद्वर्षसहस्राणि हित्वा चैका कोटीनां कोटी दुष्षमसुषमा। एकविंशतिवर्षसहस्राणि दुष्षमा / तावत्येव दुषमदुष्षमा, एकविंशतिवर्षसहस्राणीत्यर्थः। भा०-एताः अनुलोमप्रतिलोमा अवसर्पिण्युत्सर्पिण्योर्भरतैरावतेष्वनाधनन्तं परिवर्तन्ते अहोरात्रवत् / तयोः शरीरायुःशुभपरिणामानामनन्तगुणे हानिवृद्धी / अशुभपारिणामानां वृद्धिहानी / अवस्थिताऽ! वस्थितगुणाश्चैकैकाऽन्यत्र / तद्यथा-कुरुषु सुधमसुषमा, हरि रम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुष्षमानुभावः, विदेहेषु सान्तरद्वीपेषु दुष्षमसुषमा इति,एवमादिमनुष्यक्षेत्रे पर्यायापन्नः कालविभागो ज्ञेय इति // 15 // टी-एताः सुषमदुप्पमाद्या यथोपन्यस्ता आनुलोम्येन पडप्यवसर्पिणीनामकालः शरीरोच्छायायुष्ककल्पवृक्षादिपरिहाणेर्दशसागरोपमकोटीकोट्यः परिमाणतः / तथा प्रातिलोम्येनोत्सर्पिणीनामकालः शरीरोच्छायादिपरिवृद्धेदशसागरोपमकोटीकोट्य एवं परिमाणतः / एतच्चोत्सर्पिण्यवसर्पिणीकालचक्रकं पञ्चसु भरतेष्वैरावतेषु पञ्चस्वनावन्तं परिवर्तते, यथाऽहोरात्रे वासरो रजनी वा न शक्यते निरूपयितुमादित्वेनान्तत्वेन वाऽनादित्वादहोरात्रचक्रकप्रवृत्तेस्तथैतदपीति / तत्रावसर्पिण्यां शरीरोच्छायादेरनन्तगुणपरिहाणिः परतः परतः। सुषमसुपमायां गव्यूतत्रितयं शरीरोच्छायो मनुष्याणामायुस्त्रीणि पल्योपमानि शुभपरिणामोऽपि कल्पवृक्षादिरनेकः / सुषमायां गव्यूतद्वयं पल्योपमद्वयं कल्पवृक्षादिपरिणामश्च शुभो हीनतरः / सुपम दुष्पमायामेकं गव्यूतमेकं पल्योपमं हीनतरश्च कल्पवृक्षादिपरिणामः / दुकालचक्रे शरीरोकछायादिविचारः प्पमसुपमायां पञ्चधनुःशतप्रभृति सप्तहस्तान्तं शरीरप्रमाणमायुरपि पूर्वलक्ष " परिमाणं परिहीनश्च कल्पवृक्षादिपरिणामः / दुप्पमायामनियतं शरीरप्रमाणमायुरप्यनियतं वर्षशतादर्वाक पर्यन्ते विंशतिवर्षाणि परमायुः शरीरोच्छायो हस्तद्वयं औपधिवीर्यपरिहाणिरनन्तगुणेति / अतिदुष्पमायामप्यनियतं शरीरोच्छ्रायादि सर्व पर्यन्ते तु हस्तप्रमाणं वपुः परमायुः पोडश वर्षाणि निरवशेषौपधिपरिहाणिश्चेति, एवं वृद्धिः प्रातिलोम्येन वक्तव्या / अशुभानां परिमाणविशेषाणामवसर्पिण्यां वृद्धिरुत्सर्पिण्यां हानिरिति / अवस्थिता स्वरूपेण न भ्रमति / ये च गुणास्तस्यां ते चावस्थिताः कल्पवृक्षादिपरिणामविशेषाः अतोऽवस्थिता (वस्थितगुणा) चान्यत्रैकैका सुपमसुपमादिर्भवति, तद्यथा-देवकुरुत्तरकुरुघुसुषमसुधमानुभावाःसर्वदावस्थिताः,हरिरम्यकवास्येषु सुषमानुभावोऽवस्थितः, हैमवतहेरण्यवतेपु सुषमदुष्षमानुभावोऽवस्थितः,विदेहक्षेत्रेषु पट्पञ्चाशत्सु चान्तरदीपेषु दुष्षमसुषमानुभावोऽवस्थितः / एवमादिमनुष्यक्षेत्रे पर्या १'ताः' इति घ-पाठः / 2 गुण' इति घ-पाठः / 3 ०णामवृद्धि.' इति घ-पाटः / Page #322 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः॥ थापन्नः कालविभागो ज्ञेय इति / एवमादिरित्यनेनानेकभेदत्वमादर्शयति / कालस्य पुद्गलपरावर्तादेः, सर्वाद्धादिश्वानन्तः काल इति / मनुष्यक्षेत्रपर्यायापन्न इति परिमितदेशवतित्वं कालस्यावगमयति / इह प्रसिद्धनान्यत्रापि वर्तमाना देवतादयो व्यवहरन्ति, कालस्य समूहबुद्ध्याऽङ्गीकृतस्य समयादिविभागो वेदितव्यः इति, असङ्ख्येयत्वमनन्तत्वं च कालस्य भाष्यादेव परिगन्तव्यम् / गणितविषयातीतोऽसङ्ख्येयः, अविद्यमानोऽन्तोऽनन्त इति // 15 // अत्राह-यदि ज्योतिष्का मेरुप्रदक्षिणा नित्यगतयो नृलोके (अ० 4, सू०१४) भवन्ति अथ ये बहिर्नृलोकात् ते कथमित्यत्रोच्यते सूत्रम्-बहिरवस्थिताः॥४-१६ // भा०-नलोका बहियोतिष्काः अवस्थिताः, अव. लोकबहिज्योतिकविचारः त स्थिता इत्यविचारिणः, अवस्थितविमानप्रदेशा अवस्थितले. श्याप्रकाशा इत्यर्थः / सुखशीतोष्णरश्मयश्चेति // 16 // टी०--नृलोकाद् बहिरवस्थिता ज्योतिष्का इत्यादि भाष्यम् / नृलोकादित्यर्थवशाद विभक्तिपरिणतिः। मानुषोत्तरगिरेबहिर्ये सूर्यादयस्तेऽवस्थिताः-न परिभ्रमन्ति स्वभावादेवाविचारिणो देवाः। अवस्थितविमानप्रदेशा इति विमानानां प्रदेशा-बुध्नाः प्रतिष्ठास्थानानि, अवस्थिता विमानप्रदेशा येषां तेऽवस्थितविमानप्रदेशाः निश्चलत्वान्न देवाः परिभ्रमन्त्येवं न विमानानि यथा नृलोक इति प्रतिपादयति, अवस्थितलेश्याप्रकाशा इत्यर्थः / अवस्थिती लेश्याप्रकाशी येषां तेऽवस्थितलेश्याप्रकाशाः, लेश्या-वर्णः,स नृलोकान्तवर्तिनामुपरागादिभिरन्यत्वमपि प्रतिपद्यते, तदहिवर्तिनां तु तदभावादवस्थितपीतवर्णत्वम्, प्रकाशोऽप्यवस्थितस्तेषां योजनशतसहस्रपरिमाणो निष्कम्पत्वादस्तमयोदयाभावाच्चेति, अवस्थितशब्दव्याख्यानाविच्छे. दाभिप्रायेण मूरिरित्यर्थ इति प्रयुक्तवान् / सुखशीतोष्णरश्मयश्चेति / सुखाः शीतोष्णरश्मयो येषां ते सुखशीतोष्णरश्मयः चन्द्राः सवितारश्च, नात्यन्तशीताः शिशिरत्विषः, नात्यन्तोग्णाः किरणमालिनः किरणाः, किन्तु द्वयोरपि साधारणाः स्वभावादेवेत्यतः सुखहेतुत्वात् सुखाः, सर्वशशाङ्काश्च बहिरभिजिता युक्ताः, सवितारश्च पुष्यैरिति // 16 // उक्ता ज्योतिष्काः स्थानादिप्रक्रमेण / अथ तुरीयो देवनिकायः किनामा कतिभेदो वेत्यत्रोच्यते-वैमानिकाः / अथवा तत्राभिहितलक्षणाधिवास विशेपे यस्तुर्यो देवनिकायो यस्तस्य विकल्पव्याख्याप्रसङ्गे लघ्वर्थमादितः पाक स्थितेः प्रतिसूत्रमिदमवोचमित्यध्यकार्षीत, स्थानसम्बन्धेन यानुपदेक्ष्यामः, सर्वे एवते सूत्रम्-वैमानिकाः // 4-17 // भा०. चतुर्थो देवनिकायो वैमानिकाः,तेऽत ऊर्वं वक्ष्यन्ते / विमानेषु भषा वैमानिकाः॥१७॥ Page #323 -------------------------------------------------------------------------- ________________ 297 सूत्राणि 18-20] स्वोपज्ञभाष्य टीकालङ्कृतम् ... टी०-चतुर्थो देवनिकाय इत्यादि भाष्यम् / चतुर्णा पूरणश्चतुर्थः देवनिकायः-सुरसमूहः नामतो वैमानिकाः,तेऽतः--इतः प्रभृत्यु प्राक् स्थिते वक्ष्यन्ते, विशेषेण सुकृतिनो मानयन्ति विमानानि तेषु भवा वैमानिका देवा इत्यतः प्रतिसूत्रमवचनमधिकारात्, अथवा परस्परस्य भोगातिशयं तत्रस्थं मिमत इति मन्यते वा हिताहितविज्ञानात्, तानि च त्रिविधान्येव भवन्ति-इन्द्रकश्रेणिपुष्पप्रकीर्णकानि / सवेत्रान्वों पारिभाषिकी व्याख्या, तेषु भवा वैमानिका इति // 17 // ते पुनरनेकविशेषर्द्धियुक्ता विमानवासिनो देवा मूलभेदतो द्विविधाःसूत्रम्-कल्पोपपन्नाः कल्पातीताश्च // 4-18 // भा०-विविधा वैमानिका देवाः-कल्पोपपन्नाः कल्पातीताध / वैमानिकानां विध्यम् तान् परस्तात् वक्ष्याम इति // 18 // टी०-कल्पोपपन्नाः इन्द्रादिदशतया कल्पनात् कल्पाः-सौधर्मादयोऽच्युतान्ताः तेषूपपन्नाः कल्पोपपन्नाः, कल्पानतीताः कल्पातीताः उपरिष्ठाः सर्वे ग्रैवेयकविमानपञ्चकाधिवासिनः / द्विविधा वैमानिका इत्यादि भाष्य सुज्ञानं प्रायः / तान् द्विप्रकारानपि परस्तात् प्रभेदतो वक्ष्याम इति // 18 // एतेषु पुनः कल्पाः कथं सन्निविष्टा इत्याह सूत्रम्-उपर्युपरि // 4--19 // भा०-उपर्युपरि च यथानिर्देशं वेदितव्याः / नैकक्षेत्रे नापि तिर्यगघो घेति // 19 // टी-उपर्युपरि चेत्यादि भाष्यम् / कल्पाः सम्बध्यन्ते, न देवा विमानानि वा, योऽयं निर्देशः करिष्यते सौधर्मादिस्तदङ्गीकरणेन वेदितव्याः यथानिर्देशं, नैकक्षेत्रे पर्तिनः कल्पाः, नैकस्मिन् प्रदेशे वर्तन्त इत्यर्थः / नापि तिर्यक प्रतिसन्निवेशेन व्यवस्थिताः, नाधस्तादिति // 19 // ते चामी क्रमात् सूत्रम्-सौधर्मैशान-सनत्कुमार-माहेन्द्र-ब्रह्मलोक-लान्तकमहाशुक्र-सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजय वैजयन्त-जयन्तापराजितेषु सर्वार्थसिद्धे च // 4-20 // भा०-एतेषु सौधर्मादिषु कल्पविमानेषु वैमानिका देवा भवन्ति / तद्यथा१ . उपर्युपरि न तिर्यग् नाप्यसमजसं ज्योतिष्कविमानवत् ' इति ग-टी-पाठः / 30 Page #324 -------------------------------------------------------------------------- ________________ 298 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः सौधर्मस्य कल्पस्योपरि ऐशानः कल्पः / ऐशानस्योपरि सनत्कुमारः / सनत्कु मारस्योपरि माहेन्द्र इत्येवमा सर्वार्थसिद्धादिति // टी--एतेषु सौधर्मादिष्वित्यादि भाष्यम् / कल्पः समुदायः सन्निवेशो विमानमात्रपृथिवीप्रस्तारः, स निमित्तभेदाद् द्वादशधा उपयवस्थितः। तद्यथा-ज्योतिष्कोपरितनप्रस्तारादसङ्ख्येययोजनमध्वानमारुह्य मेरूपलक्षितदक्षिणभागार्धव्यवस्थितः प्राक तावत् सौधर्मः कल्पः प्राचीप्रतीच्यायत उदग्दक्षिणविस्तीर्णोर्धचन्द्राकृतिरर्चिालीव भास्वरोऽसङ्ख्येययोजनकोटीकोट्य आयामविष्कम्भाभ्यां परिक्षेपतश्च सर्वरत्नमयो लोकान्तविस्तारो मध्यव्यय सौधर्मकल्पादीनां स्थितसवेरत्नमयाशोकसप्तपणेचम्पकचूतसोधमोवतंसकोपशोभितशकावावर्णनम् दाना सः, तस्यैवरूपस्योपरि सौधर्मस्य ऐशानकल्पः / सोऽप्येवंविध व एवोदग्रव्यवस्थितः ईपदुपरितनकोट्या समुच्छ्रिततरो मध्यव्यवस्थिताङ्कस्फटिकरजतजातरूपेशानावतंसकविभूषितः / सौधर्मस्योपरि बहूनि योजनान्यतिक्रम्य समश्रेणिव्यवस्थितः सनत्कुमारः कल्पः सौधर्मवद् द्रष्टव्यः, एवमैशानस्योपरि माहेन्द्रसम्मुच्छ्रिततरोपरितनकोटिरैशानवदवगन्तव्यः / सनत्कुमारमाहेन्द्रकल्पयोरुपरि बनि योजनान्यतीत्य मध्यवर्ती सकलनिशाकराकृतिब्रह्मलोकनामकल्पः / अत्र लोकग्रहणं लोकान्तिकदेवप्रतिपत्त्यर्थम् / ते हि किल भक्तिप्रवणीकृतचेतसः सर्वदा जिनेन्द्रजन्मादिप्रलोकनपराः शुभाध्यवसायप्रायाः परिवसन्तीति / एवमुपयुपरि लान्तकमहाशुक्रसहस्रारास्त्रयः कल्पाः प्रतिपत्तव्याः। अत्र च सूत्रे मूरिणा सप्त सप्तम्य उपात्ताः, ताश्च लघीयस्त्वावस्थितेरधाक्रमप्रदर्शनार्थी इति, तत उपरि बहूनि योजनान्यतिलय सौधर्मेशानकल्पद्वयवदानतप्राणतनामानौ द्वौ कल्पाववस्थिताविति, तदुपरि समश्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रवदारणाच्युतावित्येवं द्वादश कल्पाः / तत उपरि 7वेयकानि नवोपयुपरि, तदुपरि च. पञ्च महाविमानानि, इत्येष वैमानिकदेवानामवच्छेद इति // भा०-सुधमा नाम शक्रस्य देवेन्द्रस्य सभा, सा तस्मिन्नस्तीति सौधर्मः कल्पः / ईशानस्य देवराजस्य निवास ऐशानः, इत्येवमिन्द्राणां निवासयोगाभिख्याः सर्वे कल्पाः / अवेयकास्तु लोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टा ग्रीवाभरणभूता यैवा ग्रीव्या ग्रैवेया ग्रैवेयका इति // टी-कल्पमध्यवर्तिनी सुधर्मा नाम शक्रस्य तन्निवासिसुराधिपतेः सभा, सातस्मिन् कल्पेऽस्तीति सौधर्मः,चातुरार्थिकोऽण् / ईशानस्य देवराजस्य निवासः ऐशान इति, तस्य निवाससम्बन्धेनाण् / एवमुपरितनाः सर्वेऽपीन्द्राणां निवासयोगाभिख्याः कल्पाः / ग्रैवेयकास्तु लोकपुरुषस्य ग्रीवाभरणभूताः उपचाराल्लोक एव पुरुषस्तस्य ग्रीवेव ग्रीवा तस्यां भवा ग्रैवा अवेया च 'ग्रीवाभ्योऽण्च' ( पा० अ०४, पा०३, मू०५७ ) इति / तथा Page #325 -------------------------------------------------------------------------- ________________ 299 सूत्रं 21 ] स्वोपज्ञभाष्य टीकालङ्कृतम् 'कुलकुक्षिग्रीवाभ्यः श्वास्यलकारेषु' (पा० अ०४, पा०२, सू० 96 ) वदत्र ग्रीवायां प्रायो भवा ग्रैवेयकाः, तथा ग्रीव्या इति भाष्यकृतोपन्यस्तं ग्रीवायां साधवो ग्रीव्या इति स्याद् व्युत्पत्तिः॥ _ भा०-अनुत्तराः पञ्च देवनामान एव / विजिता अभ्युदयविघ्नहेतवः एभिरिति विजयवैजयन्तजयन्ताः / तैरेव विघ्नहेतुभिने पराजिता अपराजिताः / अनुत्तराणां सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थश्च सिद्धाः सर्वे चैषामभ्युद्पञ्चविधत्वम् यार्थाः सिद्धा इति सर्वार्थसिद्धाः। विजितप्रायाणि वा कर्माण्येभिरुपस्थितभद्राः परीषहैरपराजिताः सर्वार्थेषु सिद्धाः सिद्धप्रायोत्तमार्था इति विजयादय इति // 20 // टी०-अनुत्तराः पश्चेत्यादि / विमानविशेषाः पञ्च सर्वोपर्यनुत्तराः अविद्यमानमुत्तरमन्यद् विमानादि येषां तेऽनुत्तराः देवनामान एव ते विमानविशेषाः / विजिता अभिभूताः, अभ्युदयः-स्वर्गस्तस्य विघ्नहेतवो निरस्ता एभिर्देवैरिति विजयवैजयन्तजयन्ताः, ते हि सकलालभ्युदयविधातहेतूनपास्य हस्तकृत्य स्वर्गसुखसन्दोहरसमुपभुञ्जते / तैरेव चाभ्धुदयविधातहेतुभिर्न पराजिता इत्यपराजिताः / सर्वेष्वभ्युदयार्थेषु सिद्धाः सर्वार्थसिद्धाः आभ्युदयिकसुखप्रकर्षवर्तित्वात् सर्वप्रयोजनेष्वव्याहतशक्तयः सर्वार्थसिद्धाः / अथवा सर्वाथैश्च सिद्धाः। चशब्दो वाशब्दार्थः / सर्वाऽतिशयवद्भिः शब्दादिभिरतिमनोहरैः सिद्धाः-प्रख्याताः सर्वार्थसिद्धाः, सर्वे चैषामभ्युदयार्थाः सिद्धाः सर्वार्थसिद्धा इति निरवशेषमभ्युदयप्रयोजनप्रतिष्ठत्वाद् वा सर्वार्थसिद्धा इति / अयमपरः कल्पः-विजितप्रायाणि वेत्यादि, प्रतनुकर्मपटलावच्छन्नत्वात् प्रत्यासनानवद्यसुखनिर्भरसिद्धिवधूसमागमत्वादुपस्थितपरमकल्याणाः साधुजन्मनि परीषहैरपराजिताः सन्तो मरणादुत्तरमपराजिता एव देवाः समुत्पन्नाः, तत्र वा सतततप्तत्वान्न क्षुदादिभिः पराजीयन्त इत्यपराजिताः, तथा सर्वकर्तव्यतायाः परिसमाप्तेः सांसारिक्याः सर्वार्थसिद्धाः, सिद्धप्राय उत्तमार्थो येषां सकलकर्मक्षयलक्षणो मोक्षोऽनन्तरागामिजन्मभावित्वात् ते सर्वार्थसिद्धाः / एवं विजयादय इति / एवम्-एतेन प्रकारेण विजयादयोऽपि सर्वार्थसिद्धा एव / तथापि तु काचित् कचित् प्रसिद्धतरा भवति गमनाद गौर्यथेति // 20 // तत्राधिगतानुपूर्वीकाः दिवौकसः प्रकृताःसूत्रम्-स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतो धिकाः // 4-21 // भा०-यथाक्रमं चैतेषु सौधर्मादिषु उपर्युपरि देवाः पूर्वतः पूर्वत एभिः स्थित्या 1 'स्वास्यलङ्कारेवुढवुन्' इति ग-पाठः / Page #326 -------------------------------------------------------------------------- ________________ 300 तत्त्वार्थाधिगमसूत्रम् [अध्यायः दिभिरथैरधिका भवन्ति।तत्र स्थितिरुत्कृष्टा जवन्या च परस्ताद(०२९-४२) वक्ष्यते। इह तु वचने प्रयोजनं येषामपि समा भवति तेषामप्युपर्युपरि गुंगतोषिका भवतीति यथा प्रतीयेत ॥प्रभावतोऽधिकाः / यः प्रभावो निग्रहानुग्रहविक्रियापराभिः योगादिषु सौधर्मकाणां सोऽनन्तगुणाधिक उपर्युपरि, मन्दाभिमानतया तु अलप तरसंक्लिष्टत्वादेते न प्रवर्तन्त इति // क्षेत्रस्वभावजनिताच शु. स्थितिप्रभावा- भपद्गलपरिणामात् सुखतो द्यतितश्चानन्तगुणप्रकर्षणाधिकाः॥ दिभिरुत्तरोत्तदेवानामाधि लेश्याविशुद्धयधिकाः।लेदयानियमः परस्तादेषां वक्ष्यते (मृ०२३)। क्यम् इह तु वचने प्रयोजनं यथा गम्यत यत्रापि विधानतस्तुल्या स्तत्रापि विशुद्वितोऽधिका भवन्तीति / कर्मविशुद्धित एवं वा अधिका भवन्तीति // टी-यथाक्रमं चैतेष्वित्यादि भाष्यम् / येन क्रमसन्निवेशेन वैमानिकाः सौधर्माः दिषु कल्पेषु व्यवस्थिताः उपर्युपरि तेनैव क्रमसन्निवेशविशेषेण पूर्वस्माद् पूर्वस्माद विमानप्रस्ता. रात् कल्पाद वा एभिः स्थित्यादिभिः सप्तभिरथैरधिका भवन्ति / तत्र स्थितिरापुपो द्विविधाऽप्युपरिष्टाह (सू०२९-४२) वक्ष्यते। इहोपन्यासे तु प्रयोजनं येषामप्यधस्तनरौपरिष्ठानां तुत्यास्थितिर्भवति तेषामप्युपर्युपरि गुणतोऽधिका भवतीति यथा प्रतीयेत,गुणाः सुखाहारग्रहणाल्पशरीरत्वादयस्तरुपरितनानामधिका अवगन्तव्याः / अचिन्त्या शक्तिः प्रभावः, सोऽधिको भवत्युपरीति,निग्रहानुग्रही प्रसिद्धौ विक्रिया-अणिमादिपरिणामशक्तिः,पराभियोगो यदाक्रम्य बलात् परः कारयितव्य इति / प्रतनुकर्मत्वादल्पाभिमाना अक्लिष्टा अक्लिष्टचित्ताश्चोपरितना इति / अनादिपारिणामिकशुभपुद्गलपरिणामात् क्षेत्रस्वभावजनितादुपर्युपरि सुखोदयेनानन्तगुणप्रकृष्टेनाधिकाः,द्युतिर्विग्रहमजा तयाप्युपरितनाः समभ्याधिकाः। शरीरवर्णो लेश्या तद्विशुद्धया चोपरिष्टादधिकाः, तं च लेश्यानियममेपामग्रे (मू० 23) वक्ष्यामः / इह तु वचने प्रयोजनं यत्रापि तुल्यभेदत्वमुपरितनानामाधस्त्येतेश्याभिस्तप्रापि विशुद्धित उपर्युपरि समधिका भवन्ति, प्रतनुकर्मत्वात् शुभबहुलत्वाच // भा०-इन्द्रियविषयतोऽधिकाः / यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत्प्रकृष्टतरगुणत्वादल्पतरसङक्लेशत्वाच्चाधिकमुपयुपरीति // अवधिविषयतोऽधिकाः सौधर्मेशानयोर्देवाः अवधिविइन्द्रियावधिविषयाधिकतोत्तरोत्त पः षयेणाधो रत्नप्रभा पश्यन्ति तिर्यगसङ्ख्येयानि योजनशरदेवानाम् तसहस्राणि ऊर्ध्वमास्वभवनात्। सनत्कुमारमाहेन्द्रयोः शर्करा प्रभां पश्यन्ति तिर्यगसङ्ख्येयानि योजनशतसहस्राणि ऊर्ध्वमाः स्वभवनात् इति, एवं शेषाः क्रमशः / अनुत्तरविमानवासिनस्तु कृत्लां लोकनाडी 1 'गुणाधिका' इति घ-पाठः / 2 'रिष्ठातूतना.' इति ग-पाठः। 3 'जनसहस्राणि' इति घ-पाठः / Page #327 -------------------------------------------------------------------------- ________________ सूत्रं 22] स्वोपज्ञभाष्य-टीकालङ्कृतम् पश्यन्ति / येषामपि क्षेत्रतस्तुल्योऽवधिविषयस्तेषामप्युपर्युपरि विशुद्धितोऽधिको भवतीति // 21 // ___टी-इन्द्रियाणि श्रोत्रादीनि तेषां विषयः-शब्दादिर्योग्यदेशव्यवस्थितस्तद्ब्रहणप्रवृ. तावुपर्युपर्याहितपाटवा भवन्ति, अवधिविषयेण चोपर्युपरि समधिकाः, अधस्ताद् रत्नप्रभां पृथिवीं पश्यन्ति सौधर्मेशानयोर्देवास्तिर्यगसङ्ख्येयान् द्वीपसागरान्, ऊर्ध्वमास्वभवनस्तूपिकाग्रात सर्व एवोपरि देवाः पश्यन्ति / सनत्कुमारमाहेन्द्रयोरवधिना श रामभामधस्तिर्यग् बहुतरकानसङ्ख्येयान् द्वीपसमुद्रान् / एवं सर्वत्र वक्तव्यमिति / ब्रह्मलान्तकयोर्वालुकाप्रभां पश्यन्ति, शुक्रसहस्रारयोः पङ्कप्रभां, आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभा, अधस्तात्तनमध्यमग्रैवेयकास्तमःप्रमा, उपरितनौवेयकास्तु महातमःप्रभामिति / अनुत्तरविमानपञ्चकनिवासिनस्तु समस्तां लोकनाडी पश्यन्ति लोकमध्यवर्तिनी, न पुनर्लोकमिति / येषामपि देवानां तुल्यविषयमवधिज्ञानमुपयुपरि तेषामप्युपरिष्टाद विशुद्धतरमवसेयमिति // 21 // एते चोपर्युपरि वैमानिकाः सूत्रम्--गतिशरीरपरिग्रहाभिमानतो हीनाः // 4-22 // भा०-गतिविषयेण शरीरमहत्त्वेन महापरिग्रहत्वेनाभिमानेन च उपयुपरि हीनाः / तद्यथा-द्विसागरोपमजयन्यस्थितीनां देवानामासप्तम्यां गतिविषयः गत्यानिमित्त तिर्यगसङ्ख्येयानि योजनकोटीकोटीसहस्राणि, ततः परतो त्तरदेवानां हीन- जघन्यस्थितीनामेकैकहीना भूमयो यावत् तृतीयामिति / गतपू. त्वम् वाश्च गमिष्यन्ति च तृतीयायां देवाः, परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति / महानुभावक्रियातः औदासीन्याचोपर्युपरि देवा न गतिरतयो भवन्ति // _____टी०-गतिशरीरपरिग्रहाभिमानतोहीनाः, द्वन्द्वात् तृतीयार्थे तसिः / गतिविषयेणेत्यादि भाष्यम् / गतिर्देशान्तरगमनम्, येषां द्वे सागरोपमे जघन्या स्थितिस्ते किल देवाः सप्तमधरां प्रयान्ति, ते च सनत्कुमारकल्पात् प्रभृति लभ्यन्ते, शक्तिमानं चैतद वर्ण्यते, न पुनः कदाचिदगमन् तिर्यगसङ्ख्येयानि योजनकोटीनां कोटीसहस्राणि, ततः परत इत्यादि सागरोपमद्वयादधो जघन्या स्थिति]पां न्यूनतरा न्यूनतमा चेति, ते त्वेकैकहीनां भुवमनुप्राप्नुवन्ति यावत् तृतीया पृथिवी, तां च तृतीयां पूर्वसङ्गतिकाद्यर्थे गता गमिष्यन्ति, परतस्तु सत्यामपि शक्तौ न गतपूर्वा नापि गमिष्यन्ति, औदासीन्यात्-माध्यस्थ्यादुपयुपरि न गतिरतयो देवा जिनाभिवन्दनादीन् मुक्त्वेति // 1 तृतीयेति' इति घ-पाठः। Page #328 -------------------------------------------------------------------------- ________________ प्रस्तारा: 302 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः भा०-सौधर्मेशानयोः कल्पयोर्देवानां शरीरोच्छायः सप्त रनयः / उपर्युपरि छयोयोरेकैका रनिहींना आ सहस्रारात् / आनतादिषु तिस्रः / अवेयकेषु / अनुत्तरे एका इति // ____टी-सौधर्मेशानयोः सप्तहस्तवपुषो देवाः, उपर्युपरि योयोरेकैका रनिहीना आ सहस्रारात् द्वयोः कल्पयोरेकैकः शयोऽपैति, सनत्कुमारमाहेन्द्रयोः षड् रत्नयः, ... ब्रह्मलोकलान्तकयोः पञ्च रत्नयः, महाशुक्रसहस्रारयोश्चतुर्हस्ताः,आनतप्रावैमानिकदेवानांश"रीरोउछाया णतारणाच्युतेषु हस्तत्रयोच्छिताः, ग्रैवेयकेषु हस्तद्वयम्, अनुत्तरविमान____ वासिनामेका रनिरिति॥ अधुना परिग्रहहानिरुपदिश्यते। तत्र सौधर्मेशानयोर्विमानप्रस्तारास्त्रयोदश, सनत्कुमारमाहेन्द्रयोदश, ब्रह्मलोके षट्, लान्तके पञ्च, महाशुक्रे चत्वारः, सहस्रारेऽपि चत्वारः, . आनतप्राणतयोश्चत्वारः, आरणाच्युतयोश्चत्वारः, अधस्तनौवेयकेषु प्रयः, सौधर्मादीनां " मध्यमवेयकेषु त्रयः, उपरितनौवेयकेषु त्रयः, उपरि पञ्चसु विमाने ____ष्वेकः, वृत्तास्तत्र द्विषष्टिविमानेन्द्रकास्तानङ्गीकृत्यैव दिक्ष्वावलिकाः प्रथ. त्ताः, न विदिक्षु, सौधर्मेशानयोश्च त्रयोदशानां प्रस्ताराणामधस्तनप्रस्तारे द्विषष्टिविमानप्रमाणेवावलिका, व्यस्रचतुरस्रक्रमेण चतुर्दिक्षु, ततः परमुपयुपरि प्रतिप्रस्तारं सर्वत्र विमानचतुष्कहान्या तावदारुह्यते यावत् पश्च विमानानि सर्वोपरीति, यावन्ति च लोके सम्भवन्तीष्टः नामानि वैमानिकानामेतेषु प्रस्तारेषु भवन्ति / तेषां परिसङ्ख्यानमिदम् भा०-सौधर्मे विमानानां द्वात्रिंशच्छतसहस्राणि / ऐशानेऽष्टाविंशतिः / सनत्कुमारे द्वादश / माहेन्द्रेऽष्टौ / ब्रह्मलोके चत्वारि शतसहस्राणि / लान्तके पञ्चाशत् सहस्राणि / महाशुक्र चत्वारिंशत् / सहस्रारे षट् / आनतप्राणतारणाच्युतेषु सप्त शतानि / अधो ग्रैवेयकाणां शतमेकादशोत्तरम् / मध्ये सप्तोत्तर शतम्, उपर्येकमेव शतम् / अनुत्तराः पश्चैवेति // ०-सौधर्मे त्वावलिकाप्रविष्टानां सप्तदश शतानि सप्तोत्तराणि, पुष्पावकीर्णानामेकत्रिंशल्लक्षाः सहस्राण्यष्टानवतिः द्वे शते त्रिनवत्यधिके, एकत्र द्वात्रिंशल्लक्षाः, ऐशाने द्वादश शतान्यष्टादशोत्तराण्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां सप्तविंशतिर्लक्षाः सहस्राण्यष्टानवतिः सप्त शतानि न्यशीत्यधिकानि, एकत्राष्टाविंशतिर्लक्षाः, सनत्कुमारे त्वावलिकाप्रविष्टानां द्वादश शतानि षड्विंशत्युत्तराणि, पुष्पावकीर्णानामेकादश लक्षाः सहस्राण्यष्टानवतिः सप्त शतानि चतुःसप्तत्यधिकानि, एकत्र द्वादश लक्षाः,माहेन्द्रेऽष्टौ शतानि चतुःसप्तत्यधिकान्याव 1 1707+3198293=3200000. 2 1218+2798782=2800000. 3 1226+1198774%3D12000.0. Page #329 -------------------------------------------------------------------------- ________________ सूत्रं 22] स्वोपज्ञभाष्य-टीकालङ्कृतम् 303 लिकाप्रविष्टानां, पुप्पावकीर्णानां सप्त लक्षा नवनवतिसहस्राणि शतं च सौधर्मादिष्वावलिकाप्रविष्टानांपु. 6. पड्विंशत्युत्तरम्, एकत्रोष्टी लक्षाः, ब्रह्मलोकेऽष्टौ शतानि चतुस्त्रिंशदुपावकीर्णानां च तराण्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां तिस्रो लक्षा नवनवतिसहस्राविमानाना सङ्ख्या णि चत्वारि शतानि पञ्चदशोत्तराणि(?), एकत्र चतस्रो लक्षाः, लान्तके पञ्च शतानि पञ्चाशीत्यधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानामेकोनपञ्चाशत्सहस्राणि चत्वारि शतानि पञ्चदशोत्तराणि,एकत्र पञ्चाशत् सहस्राणि, महाशुक्रे त्रीणि शतानि षण्णवत्यधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानामेकोनचत्वारिंशत्सहस्राणि षट्र च शतानि चतुरुत्तराणि, एकत्र चैत्वारिंशत् सहस्राणीति, सहस्रारे त्रीणि शतानि द्वात्रिंशदधिकान्यावलिकाप्रविष्टानां, पुष्पावकीर्णानां षट्पञ्चाशच्छतान्यष्टषष्ट्यधिकानि, एकत्र पेट् सहस्राणि, आनतप्राणतयोरावलिकाबद्धानां शतद्वयमष्टषष्ट्यधिकं, पुष्पावकीर्णानां द्वात्रिंशदुत्तरं शतम्, एकत्र चत्वारि शतानि, आरणाच्युतयोरावलिकाववद्धानां द्वे शते चतुरुत्तरे, पुष्पावकीर्णकानां षण्णवतिः, एकत्र त्रीणि शतानि, अधस्तनोवेयकेवावलिकाप्रविष्टानामेकादशोत्तरं शतं, पुप्पावकीणोनि तु न सन्त्येव, मध्यमवेयकेषु पञ्चसप्ततिरावलिकाप्रविष्टानि, पुष्पावकीर्णानि द्वात्रिंशद, एकत्र सप्तोत्तरं शतम्, उपरितनग्रैवेयकेग्वेकोनचत्वारिंशदावलिकाप्रविष्टानि, पुष्पावकीर्णकानामेकषष्टिः, एकत्र शेतं च, अनुत्तरविमानानि तु पश्चैव // इदानीं सकलवैमानिकविमानपरिसङ्ख्या भा०-एवमूर्ध्वलोके वैमानिकानां सर्वविमानपरिसङ्ख्या चतुरशीतिः शतसहस्राणि सप्तनवतिश्च सहस्राणि त्रयोविंशानीति (8497023) ॥स्थानपरिपारशक्तिविषयसम्पत्स्थितिष्वल्पाभिमानाः परमसुखभागिन उपयुपरीति॥२२॥ टी०-चतुरशीतिर्लक्षाः सप्तनवतिः सहस्राणि त्रयोविंशतिश्च विमानानीत्येवमुपयुपरि हीनतरपरिग्रहा भवन्ति // अधुनाऽभिमानतो हीना इति प्रतिपादयति-अहंकारपर्ययोऽभिमानः, स्थानं कल्पादि, परिवारो देवाः देव्यश्च, शक्तिः सामर्थ्यमचिन्त्यम्, विषयोऽवधेरिन्द्रियाणां वा, सम्पद-विभूतिः, स्थितिरायुष इयत्ता, अथवा विषयसम्पत्-शब्दा दिसमृद्धिः, इत्येतासु परिपेलवगर्वाः परमसुखभाजः उपर्युपरीति // 22 // सूत्रेणानुपात्तमुपर्युपरिहीनमुच्छासाग्रुपन्यस्यति भाष्यकारःभा०-उच्छ्वासाहारवेदनोपपातानुभावतश्च साध्याः / उच्छ्वासः सर्वजघ१ 874 +799126800000. 2 834+399166 ( टीका-पाठश्चिन्तनीयः )=4000... 3 585 +49415-50000. 4 396 +39604 =40000. 5. 332 +5668-6000. 6 268 +132-400. 7 204+96-300. 8 75+32%107. 9 3961-100. Page #330 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः / न्यस्थितीनां देवानां सप्तस्तोकः आहारश्चतुर्थकालः / पल्योपमस्थितीनामन्तर्दिवदेवानामुच्छ्वा- सस्योच्छामो दिवसपृथत्तवस्याहारः / यस्य यावन्ति सागरोप साहारी माणि स्थितिस्तस्य तावत्सु अर्धमासेषु उच्छवासः, तावेत्स्ववं वर्षसहस्रज्वाहारः॥ टी०-दश वर्षसहस्राणि येषां स्थितिस्तेषां स्तोकसप्तकातिक्रान्तावुच्छासः एकदिवसानास्तिथाहाराभिलाषः, पल्योपमस्थितीनां दिवसाभ्यन्तरे समुच्छासो दिवसपृथक्त्यरा१:, द्विप्रभृत्यानवभ्यः पृथक्त्वसंज्ञा पारिभाषिकी / यस्य यावन्तीत्यादि सुज्ञानम् // मा०-देवानां सवेदनाः प्रायेण भवन्ति, न कदाचिदसवेदनाः / यदि चास भवन्ति ततोऽन्तर्मुहूर्तमेव भवन्ति, न परतः, अनुबद्धसद्धेदनास्तूत्कृष्टेन 66 सान् भवन्ति / उपपातः। आरणाच्युतादूर्ध्वमन्यतीर्थानामुपपातो न भवति। बालानां भिन्नदर्शनानामा ग्रैवेयकेभ्य उपपातः / अन्यस्य सम्यग्दृष्टेः संयतस्य नाय आ सर्वार्थसिद्धात्। ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धाचतुर्दशपूर्वधराणामि _ति // अनुभावो विमानानां सिद्धक्षेत्रस्य चाकाशे निरालम्यस्थिकानां वेदनोपपा नापपा तो लोकस्थितिरेव हेतुः / लोकस्थितिर्लोकानुभावो लोकस्वभावो तानभावविचारः जगद्धर्मोऽनादिपरिणामसन्ततिरित्यर्थः / सर्वे च देवेन्द्रा अवेया. 16. देवा भगवतां परमर्षीणामहतां जन्माभिषेकनिष्क्रमणज्ञानोत्पत्तिमहास१२ निर्वाणकालेष्वासीनाः शयिताः स्थिता वा सहसवासनशयनस्थानाचलन्ति, शुभकर्मफलोदयाल्लोकानुभावत एव वा। ततो जनितोपयो. वनालनन्यसदृशीं तीर्थकरनामकर्मोद्भवां धर्मविभूतिमवधिनाऽलोक्य में गाः सद्धर्मबहुमानाः केचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहिवरात्मानुग्रहमवाप्नुवन्ति / केचिदपि तत्रस्था एव प्रत्युत्थानाञ्जलिप्रणि१९६९ अस्कारोपहारैः परमसंविनाः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्च काम अत्राह-प्रयाणां देवनिकायानां लेश्यानियमोऽभिहितः / अथ वैमानि काट्या इति? / अत्रांच्यते-- को देवाना सवेदना इत्यादि भाष्यम् / यदा नाम केनचिनिमित्तेनाशुभा पादरस्ति तदाऽन्तम॒हतमेव स्यात् , ततः परं नानुबध्नाति, सद्भेदनापि सन्तत इतिघ-पारः / र भजनायः ' इति क पाठः / ३०द्धि०' इति घ-पाठः / 4 '०च्य०' तसंवेगाः' इति घ-पाठः / 6' मानात् ' इति घ-पाठः / 7 'त्युपस्थापना ' इति घ-पाठः / " Page #331 -------------------------------------------------------------------------- ________________ लेश्याः सूत्रे 23-24] स्वोपज्ञभाष्य-टीकालङ्कृतम् पाण्मासिकी भवति, ततः परं विच्छिद्यन्तेऽन्तर्मुहूर्त, ततः पुनरनुवर्तते / उपपातोऽधुना, अच्युतात् परमन्यलिङ्गेन नोपपातोऽस्ति मिथ्यादृष्टेः, स्वलिङ्गिनामिति साधुवेषधारिणां भिन्नदशनानां मिथ्यादृशां यावदुपरितनग्रैवेयाणि तावदुपपातः, सम्यग्दृशस्तु साधोः सौधर्मादारभ्य यावत् सर्वार्थसिद्धविमानं तावदुपपातः / अयं चापरो नियमः-ब्रह्मलोकादधश्चतुर्दशपूर्वधरो नोपपद्यते, परतस्तु सर्वार्थसिद्धविमानावधिक उत्पादः / शेषं सुज्ञानम् // 22 // ___ अत्राह-त्रयाणामित्यादिसम्बन्धग्रन्थः / भवनवासिव्यन्तरज्योतिष्काणां द्रव्यले. श्यानियमोऽभिहितः, वैमानिकानां तु केषां का द्रव्यलेश्या ? तत आह सूत्रम्--पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु // 4-23 // भा०-उपर्युपरि वैमानिकाः सौधर्मादिषु द्वयोस्त्रिषु शेषेषु च पीतपद्मशुक्ललेल्या भवन्ति यथासङ्ग्यम् / द्वयोः पीतलेश्याः सौधर्मेशानयोः, त्रिषु पद्मलेझ्याः सनत्कुमारमाहेन्द्रब्रह्मलोकेषु / शेषेषु लान्तकादिषु आ सर्वार्थसिद्धाच्छु -- क्ललेश्याः / उपर्युपरि तु विशुद्धतरेत्युक्तम् // 23 // वैमानिकानां काना, ‘अत्राह-उक्तं भवता-द्विविधा वैमानिका देवाः-कल्पोपपन्नाः थ कल्पातीताश्च (सू०१८) इति / ततः के कल्पा इत्यत्रोच्यते टी-पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु / पूर्वत्र बहुव्रीहिरुत्तरत्र द्वन्द्वः, यथासङ्ख्यं चाभिसम्बन्धः कार्यः / उपर्युपरि वैमानिका इत्यादि भाष्यम् / समानत्वे सत्यप्युपर्युपरि विशुद्धिप्रकपः, सौधर्मेशानयोः कनकवच्छुचयः सुराः, सनत्कुमारमाहेन्द्रब्रह्मलोकेषु पद्मदलत्विषः / लान्तकादिषु धवलरुचयः सर्वार्थसिद्धपर्यवसानेषु, भावलेश्याः पुनरध्यवसायरूपत्वाद षडपि वैमानिकानां सन्तीत्यवगन्तव्यम् / अपरे वर्णयन्ति-भावलेश्यानियमोऽयम्, स तु न सुष्टु सङ्गच्छत इति नाद्रियते, एकप्रदेशे सर्वदेवानां लेश्याविधानं किमिति न कृतं चेत्, तन्त्र, सुखप्रबोधत्वाद् व्यतिकरनिवृत्त्यर्थत्वाञ्चेति // 23 // ___अत्राह-उक्तं भवतेत्यादिपातनिकाग्रन्थः / द्विविधा वैमानिका इति प्रागभिहितंकल्पवासिनः कल्पातीताच, तत् के पुनः कल्पा इति ? अत्रोच्यते-- सूत्रम्-पार अवेयकेभ्यः कल्पाः // 4-24 // भा०-प्राग ग्रैवेयकेभ्यः कल्पा भवन्ति, सौधर्मादय आरणाच्युतपर्यन्ता इत्यर्थः / अतोऽन्ये कल्पातीताः // 24 // टी-विविधविमानाश्रया व्याख्यातसङ्ख्याविशेषा अवेयकेभ्य आरात् कल्पा भवन्ति, शेषविषयसम्बन्धे दिग्लक्षणा पञ्चमी, कल्पशब्द उक्तार्थः / इन्द्रादिदशकल्पनात्मकत्वात् कल्पाः, सौधर्मादयोऽच्युतपर्यवसाना इति // शेषाः कल्पातीता इति // 24 // 1 रुचः' इति क-पाठः / Page #332 -------------------------------------------------------------------------- ________________ 306 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ___ भा०-अत्राह-किं देवाः सर्व एव सम्यग्दृष्टयो यद् भगवतां परमपीणमहतां जन्मादिषु प्रमुदिता भवन्तीति / अत्रोच्यते-न सर्वे सम्यग्दृष्टयः, किन्तु सम्यग्दृष्टयः सद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगदेवानां दृष्टिः न ना हीटर च्छन्ति च / मिथ्यादृष्टयोऽपि च लोकचित्तानुरोधादिन्द्राजुवृत्त्या परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्तेऽभिगच्छन्ति च। लौकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात् संसारदुःखातानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामहतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति / अभिनिष्क्रमणाय च कृतसङ्कल्पान् भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति // 24 // अत्राह-के पुनर्लोकान्तिकाः कतिविधा वेति? अन्रोच्यते-- टी०-अत्राह-किं देवाः सर्व एवेति भाष्यम् / कल्पवासिनस्तावत् सुखासक्ता अपि सन्तो भगवतां त्रिलोकबन्धूनामहतां जन्मनिष्क्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेष्वनुभावतो ज्ञानाच्चासीनाः शयिताः स्थिताः प्रस्थिता वा सहसैवासनचलनाद् दर्शनविशुद्धिमत्यनुवृत्त्यनुरागानन्यसदृशतीर्थकरनामकर्मोदयविभूतिजनितकुतूहलसद्धर्मबहुमानसंशयच्छेदापूर्वप्रश्नानुभावाद्यनेककारणनोदिताः प्रायस्तीर्थकरपादान्तिकमत्यन्तैकान्तहितमभ्येत्य स्तुतियन्दनपूजनोपासनधर्मश्रवणैः स्वपरश्रद्धासंवेगजननैरात्मानमपनीतकल्मषं कुर्वन्ति / अवेयकादयस्तु यथावस्थिता एव कायवाड्मनोभिरभ्युत्थानाञ्जलिप्रणिपाततथागुणवचनकायमावनामिभंगवतोऽहतो नमस्यन्ति / न च सर्वे देवाः सम्यग्दृष्टयः, किन्तु मिथ्यादृष्टयोऽपि वि(अभि)हितानेककारणाः पूजामहतां विदधत इति / लौकान्तिकास्तु सर्वे सम्यग्दृष्टयो ऽवश्यं चाहचरणमूलमायान्त्यहंदादिसंवेगप्रशसार्थमात्महितार्थ चेति // 24 // अत्राहेत्यादिपातनिकाग्रन्थः / कस्मिन् पुनः कल्पे विमाने वा लोकान्तिका देवाः प्रतिवसन्ति कतिविधा [ भेदा ] वा इति ? / अत्रोच्यते सूत्रम् ब्रह्मलोकालया लोकान्तिकाः // 4-25 // भा०-ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु, नापि परतः / ब्रह्मलोकं परिवृत्याष्टासु दिक्षु अष्टविकल्पा भवन्ति // 25 // तद्यथा टी-ब्रह्मलोकालया एव लोकान्तिका भवन्तीत्यादि भाष्यम् / सामर्थ्यलभ्यमेवकारं दर्शयति, अवधारणफलं च, नान्यकल्पेषु नापि परतो ग्रैवेयकादिष्विति / लोकान्ते भवाः लोकान्तिकाः, अत्र प्रस्तुतत्वात् ब्रह्मलोक एव परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः,सर्वब्रह्मलोकदेवानां लोकान्तिकत्वप्रसङ्ग इति चेत्, न, लोकान्तोपश्लेषात्, जराम 1 'लौका०' इति ग-पाठः। Page #333 -------------------------------------------------------------------------- ________________ सूत्रे 26-27 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 307 रणाग्निज्वालाकीर्णो वा लोकस्तदन्तवर्तित्वात् लोकान्तिकाः कर्मक्षयाभ्यासभावाच्च / ब्रह्मलोकं परिवृत्याष्टासु दिश्वष्टविकल्पा भवन्ति / अत्र दिग्ग्रहणं सामान्येन दिग्विदिक्प्रतिपत्त्यर्थम् / ब्रह्मलोकाऽधोव्यवस्थितरिष्ठविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता अतिवहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति, यासां मध्येन प्रयान् देवोऽप्येकः सङ्क्षोभमापद्यतेति / तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभाग एते भवन्ति / स्थापना // 25 // तद्यथासूत्रम्-सारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्याबाधमरुतो रिष्ठाश्च // 4-26 // भा०--एते सारस्वतादयोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासङख्यम् / तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्या इत्येवं शेषाः // 26 // टी--विमानसाहचर्याद देवानां सारस्वतादिसंज्ञाः / एते सारस्वतायोअष्टविधा देवा इत्यादि सुगमम् / पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, लोकान्तिकानां व्य ... पूर्वदक्षिणस्यां वह्नयः, दक्षिणस्यामरुणाः, दक्षिणापरस्यां गर्दतोयाः, अपघस्था * रस्यां तुषिताः, अपरोत्तरस्यामव्याबाधाः, उत्तरस्यां मरुतः, मध्येऽरिष्ठाः॥ नन्वेवमेते नव भेदा भवन्ति, भाष्यकृता चाष्टविधा इति मुद्रिताः / उच्यते-लोकान्तवर्तिन एतेऽष्टभेदाः मरिणोपात्ताः, रिष्ठविमानप्रस्तारवर्तिभिर्नवधा भवन्तीत्यदोषः। आगमे तु नवधैवाधीता इति // एवमयं कार्मणशरीरप्रणालिकयास्रवापेक्षयाऽऽपादितसुखदुःखानां भव्याभव्यभेदाहितद्वैविध्यानां प्राणिनां संसारोऽनादिरपर्यवसानः, अन्येषां मोहोपशमनक्षपणं प्रत्याहतानामप्रतिपतितसम्यग्दर्शनानां परीतविषयत्वात् सप्ताष्टानि भवग्रहणान्युत्कर्षणानुबन्धीनि, जघन्येन द्विवाण्यतिवाह्योच्छिद्यते, इत्यविशेष सत्यन्ये भाज्याः // 26 // अमी पुनरुत्कर्षण सूत्रम्-विजयादिषु द्विचरमाः // 4-27 // टी--द्वौ चरमावेषां द्विचरमाः / चरमशब्द उक्तार्थः, चरमद्विदेहा इतियावत् / चरमत्वमेकस्मिन्निति चेत्, न, औपचारिकत्वात् / भा०-विजयादिष्वनुत्तरेषु विमानेषु देवा विचरमा भवन्ति / विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिध्यन्तीति / सकृत् सर्वार्थसिद्धमहाविमानवासिनः, शेषास्तु भजनीयाः // 27 // 1 व्याबाधारिष्टामरुतः' इति क--पाठः / Page #334 -------------------------------------------------------------------------- ________________ 308 तत्त्वार्थाधिगमसूत्रम् [अध्यायः / अनुत्तरदेवानां टी०-विजयादिष्वित्यादि भाष्यम् / विजयादिषु चतुर्पु विमा. भवोच्छेदः नेषु, अन्यविजयादिव्यावृत्त्यर्थमनुत्तरग्रहणम्, अनुत्तरशब्दस्पशादियोगादनुत्तरविमानानि तेषु देवा विचरमा भवन्ति, द्विचरमत्वं स्पष्टयति-ततो विजयादिभ्यश्युताः परम्-उत्कर्षेण द्विर्जनित्वा मनुष्येषु सिद्धिमनुगच्छन्ति, विजयादिविमानाच्च्युतो मनुष्यः पुनरपि विजयादिषु देवस्ततच्युतो मनुष्यः सन् सिध्यतीति / अपरे वर्णयन्ति-विजयादिभ्यश्युताः परतो मनुष्याः सर्वार्थसिद्धजन्मलाभं लब्ध्वा तृतीये भवे सिध्यन्तीति द्विचरमाः / एतत्त्वयुक्तं व्याख्यानम् / सर्वार्थसिद्धविमानोत्पादे सति तत्प्रच्युतिसमनन्तरजन्मनि सिद्धिगतिश्रवणात् कोऽतिशयस्तत्र विजयादीनामिति? / सर्वार्थसिद्धविमानवासिनस्तु सकृजनित्वा मनुष्येषु सिद्धिमधिगच्छन्ति-मुक्तिमासादयन्ति, सर्वे चानुत्तरोपपातिनः किल देवाः प्रतनुकर्माणो भवन्तीति / यथाऽऽहागमे-"अणुत्तरोववादियाणं देवाणं ! भंते ! केवइएणं कम्मावसेसेणं अणुत्तरोववादियत्तेण उववन्ना ? गोयमा ! जावतिअन्नं छठभत्तीए समणे निग्गंथे कम्मं निजरेइ एवतिएणं कम्मावसेसेण अणुत्तरोववाइयत्ताए उववन्ना" / शेषा. स्तु भजनीयाः / वैमानिकप्रतिपत्त्यर्थ वा शेषग्रहणम् / अथवा समस्तदेवप्रतिपादनार्थमध्यवसातव्यम्, अतः शेषाः कदाचित् कचित् सकृद् द्वित्रिचतुःप्रभृति वा मनुष्येषु जन्मासाय सिद्धयन्तीति // 27 // भा०-अत्राह उक्तं भवता-जीवस्यौदायिकेषु भावेषु तिर्यतिर्यक्प्रस्तावः योनिगतिरिति, तथा स्थितौ 'तिर्यग्योनीनां च ' (अ० 3, सू० 18) इति, आस्रवेषु 'माया तैयग्योनस्य' (अ०६, सू०१७) इति। तत् के तिर्यग्योनय इति ? / अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः / द्वितीयेऽध्याये ( मू० 6) औदयिकभावव्याख्याप्रस्तावे तिर्यग्योनिगतिरुक्ता, तृतीयाध्यायपरिसमाप्तौ (सू० 18 ) तिर्य. ग्योनिजानां चेति स्थितिरायुषोऽभिहिता, षष्ठे चास्रवप्रस्तावे (सू० 17 ) माया तैर्यग्यो. नस्येति वक्ष्यते, तत् के तिर्यग्योनय इति ? / अत्रोच्यतेसूत्रम्-औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः॥ 4-28 // . भा०-औपपातिकेभ्यश्च नारकदेवेभ्यो मनुष्येभ्यश्च यथोक्तेतिरश्वां निदेशः भ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयो भवन्ति // 28 // टी.-औपपातिकेभ्यश्चेत्यादि भाष्यम् / औपैपातिका नारकदेवास्तेभ्यो मनुष्ये- 1 अनुत्तरोपपातिका देवा भदन्त ! कतिपयेन कर्मावशेषेण अनुत्तरोपपातिकत्वेन उपपन्नाः ? गौतम ! यावत् षष्ठभक्तिकः श्रमणः निर्ग्रन्थः कर्म निर्जरयति एतावता कर्मावशेषेण अनुत्तरोपपातिकतया उपपन्नाः (भग०)। 2 'उपपातिका' इति क-पाठः / Page #335 -------------------------------------------------------------------------- ________________ 309 सूत्राणि 29-31] स्वोपजभाष्य-टीकालङ्कृतम् भ्यश्च गर्भव्युत्क्रान्तिभ्यः सम्मूछेनजेभ्यश्च ये शेषाः एकद्वित्रिचतुष्पश्चेन्द्रियास्ते सर्वेऽपि तिम्रयोनिव्यपदेशभाजो भवन्ति / देवादिवत् तदाधार निर्देश इति चेत्, न, सर्वलोकव्यापिस्वात्, तिर्यग्लोके चैते भूयांस इति तिर्यग्योनिसंज्ञा प्रतिपत्तव्येति // 28 // भा०--अत्राह-तिर्यग्योनिमनुष्याणां स्थितिरुक्ता / अथ देवानां का स्थितिरिति / अत्रोच्यते टी०-अत्राह-तिर्यग्योनिमनुष्याणामित्यादिपातनिकाग्रन्थः / तृतीयाध्यायपरिसमाप्तौ नृतिरवां परापरस्थिती गदिते / अथ देवानां भवनवासिप्रभूतीनां का स्थितिरायुष इति 1 / अत्रोच्यते सूत्रम्-स्थितिः // 4-29 // भा०-स्थितिरित्यत ऊर्ध्व वक्ष्यते // 29 // टी-स्थितिरित्यत ऊर्ध्वं वक्ष्यत इति भाष्यम् / इतः प्रभृति स्थितिरित्यधिक्रियते, सा तु द्वयी जघन्योत्कृष्टभेदादिति, यद्येवमुभयसम्भवे भवनवासिनामेव तावदादिनिर्देशमाजामुच्यतां का परा स्थितिरिति, इमेऽभिदध्महे सत्यपि तेषां विकल्पबहुत्वे महामन्दरावधेदेक्षिणोत्तरार्धाधिपतिविभाग एवाद्रियते // 29 // सूत्रम्-भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् // 4-30 // भवनामिना भा०-भवनेष तावद् भवनवासिनां दक्षिणार्धाधिपतीनां स्थितिः पल्योपममध्यधं परा स्थितिः, द्वयोर्यथोक्तयोर्भवनवासीन्द्रयोः पूर्वो दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः // 30 // ...' टी-भवनेष दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम्, चमरं विहायासुरनिकायपरिघृढं शेषभवनवासिदक्षिणार्धाधिपतीनामर्धाधिकं पल्योपमं स्थितिरायुषो वेदितव्या, उक्तलक्षणं पल्योपमम्, अधिकमर्धमस्मिंस्तदिदमध्यर्धम् , बहुव्रीहिणा पल्योपमाभिसम्बन्धः, सन्देहापनोदनायेदमाख्यायते-पूर्वनिर्दिष्टयोदयोर्भवनवासीन्द्रयोः प्रथमनिर्दिष्टो यः स दक्षिणार्धाधिपतिरवसेयः, पश्चान्निर्दिष्ट उत्तरार्धाधिपतिरिति // 30 // अथोत्तरार्धाधिपतीनामायुषः का स्थितिरित्याह सूत्रम्-शेषाणां पादोने // 4-31 // भा०-शेषाणां भवनवासिष्वधिपतीनां (शेषाणां) द्वे पल्योपमे पादोने परा स्थितिः। के च शेषाः? उत्तरार्धाधिपतय इति // 31 // १'द्वयोः' इत्यधिको घ-पाठः / Page #336 -------------------------------------------------------------------------- ________________ 310 तत्त्वार्थाधिगममूत्रम् [ अध्यायः 1 टी०-दक्षिणार्धाधिपतीनां व्यतिरिक्ता उत्तरार्धाधिपतयः शेषा बलिव्यतिरिक्ताः तेषां पादोने द्वे पल्योपमे स्थितिरायुषः, पादश्चतुर्थभाग इति // 31 // अथ किमेषां भवनवास्यधिपतीनां सर्वेषामियं परा स्थितिः ? नेत्युच्यते, किन्त्वाधिपत्यसामान्ये विशेषेणानयोः प्रतिपत्तव्या // 31 // सूत्रम्-असुरेन्द्रयोः सागरोपममधिकं च // 4--32 // ____ भा०---असुरेन्द्रयोस्तु दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं च यथासङ्ख्यं परा स्थितिर्भवति // 32 // __टी०-पूर्वा (दक्षिणा ?)र्धाधिपतेश्चमरस्योत्तरार्धाधिपतेश्च बलिराजस्य यथासङ्ख्यमेव, सागरोपमं चमरस्य बलेस्तदेवाधिकं कियतापि विशेषेण सागरोपमस्थितिरायुषो भवतीति, / उक्तं च सागरोपमं लक्षणतः प्रागिति, असुरकुमारीणां चत्वारि पल्योपमानि सार्धानि परा स्थितिः, शेषाणां नागवधूप्रभृतीनां सर्वभवनवासिनीनां देशोनं पल्योपममुत्कृष्टा स्थितिरिति // 32 // ___ आद्यदेवनिकायस्थितिव्याख्यानानन्तरं व्यन्तरज्योतिष्कानवसरप्राप्तानतिलद्ध्योपरिष्टादेव तावल्लाधवार्थिना वैमानिकनिकायस्थितिराख्यायते-- वैमानिकस्थि- सूत्रम्-सौधमोदिषु यथाक्रमम् // 4--33 // तिप्रस्तावः भा०--सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्व परा स्थितिर्वक्ष्यते // 33 // ___टी-सौधर्ममादिं कृत्वा यावत् सर्वार्थसिद्धविमानं तावद् यथाक्रममिति ऊर्च स्थितिर्वक्ष्यते देवानामायुष इति // 33 // सूत्रम्-सागरोपमे // 4-34 // भा०---सौधर्मे कल्पे देवानां परा स्थिति सागरोपमे इति // 34 // टी. ---इन्द्रमामानिकानां सागरोपमद्वयं सौधर्मे स्थितिरुत्कृष्टा लभ्यत इति // 34 // सूत्रम्-अधिक च // 4--35 // भा०--ऐशाने द्वे सागरोपमे अधिक परा स्थितिर्भवति // 35 // टी०--- अधिके च यथाक्रमग्रहणादेशानोऽभिसम्बध्यते / द्वे सागरोपमे कियताऽपि विशेषेणाधिके ऐशाने कल्पे परा स्थितिरिन्द्रादीनामिति // 35 // सूत्रम्-सप्त सनत्कुमारे // 4--36 // भा० सनत्कुमारे कल्पे सप्त सागरोपमाणि परा स्थितिर्भवति // 36 // 1.' इत्यधिको ग-पाठः। Page #337 -------------------------------------------------------------------------- ________________ सूत्रे 37-38 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 311 टी०-सनत्कुमारे सप्त सागरोपमाणि परा स्थितिरिन्द्रादीनामिति // 36 // सूत्रम्-विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च // 4-37 // भा०-एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति / सप्तेति वर्तते / तद्यथा-माहेन्द्रे सप्त विशेषाधिकानि, ब्रह्मलोके त्रिभिरधिकानि माहेन्द्रादीनां परा सप्त, दशेत्यर्थः / लान्तके सप्तभिरधिकानि सप्त, चतुर्दशेत्यर्थः। _ स्थितिः महाशुक्रे दशभिरधिकानि सप्त, सप्तदशेत्यर्थः / सहस्रारे एकादशभिरधिकानि सप्त, अष्टादशेत्यर्थः / आनतप्राणतयोस्त्रयोदशभिरधिकानि सप्त, विंशतिरित्यर्थः / आरणाच्युतयोः पञ्चदशभिरधिकानि सप्त, द्वाविंश. तिरित्यर्थः // 37 // टी०-सप्त सागरोपमाणि विशेषेणाधिकानि माहेन्द्रे परा स्थितिः, ब्रह्मलोके सप्त त्रिभिरधिकानि परा स्थितिः,दश सागरोपमाणीत्यर्थः। लान्तके सप्त सागरोपमाणि सप्तभिरधिकानि परा स्थितिश्चतुर्दशसागरोपमेतियावत् / महाशुक्रे सप्त सागारोपमाणि दशभिरधिकानि परा स्थितिः, सप्तदश सागरोपमाणीत्यर्थः / सहस्रारे सप्त सागरोपमाण्येकादशभिरधिकानि परा स्थितिरष्टादशसागरोपमेतियावत् / आनतप्राणतयोः सप्त सागरोपमाणि त्रयोदशभिरधिकानि परा स्थितिविंशतिसागरोपमेत्यर्थः / एकेन्द्रोपभोग्यत्वान्न पृथकू कल्पद्वयेऽभिहिता। आरणाच्युतयोः सप्त सागरोपमाणि पश्चदशभिरधिकानि परा स्थितिविंशतिसागरोपमेत्यर्थः / अत्राप्येकेन्द्रोपभोग्यत्वादेव न विवेकेनाभिधानमिति // 37 // सूत्रम्-आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु ___सर्वार्थसिद्धे च // 4-38 // भा०-आरणाच्युतादूर्ध्वमेकैकेनाधिका स्थितिर्भवति नवसु अवेयकेषु विजयादिषु सर्वार्थसिद्धे च / आरणाच्युते द्वाविंशतिवेयकेषु पृथगेकैकेनाधिकास्त्रयोविंशति(प्रभृति)रित्यर्थः / एवमेकैकेनाधिकाः सर्वेषु नवसु यावत् सर्वेषामुपरि नवमे एकत्रिंशत् / सा विजयादिषु चतुर्ध्वप्येकेनाधिका द्वात्रिंशत् / साऽप्येकेनाधिका, सर्वार्थसिद्धे त्वजघन्योत्कृष्टा त्रयस्त्रिंशदिति // 38 // टी-आरणाच्युतादिति कृतैकवद्भावो निर्देशः, आरणोपलक्षितो वाऽच्युतः, ऊर्ध्वमेकैकेन सागरोपमेणाधिका नवस्वपि ग्रैवेयकेषु विजयादिषु च चतुषु सर्वार्थसिद्धे च परा स्थितिवेदितव्येति / शेष भाष्यं सुज्ञानमेव // 38 // भा०-अत्राह-मनुष्यतिर्यग्यानिजानां परापरे स्थितीव्याख्याते,अथौपपातिकानां किमेकैव स्थितिः परापरे न विद्यते इति ? / अत्रोच्यते Page #338 -------------------------------------------------------------------------- ________________ 312 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 टी--अत्राहेत्यादिसम्बन्धग्रन्थः / नृतिरश्यां परापरे स्थिती व्याख्याते, औपपातिकानां पुनर्नारकदेवानां किमेकैवोत्कृष्टा स्थितिरितरा नास्ति ? / अस्तीत्याह सूत्रम्-अपरा पल्योपममधिकच // 4-39 // भा०--सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च / अपरा जघन्या निकृष्टेत्यर्थः / परा प्रकृष्टा उत्कृष्टत्यनान्तरम् / तत्र सौधर्मेऽपरा स्थितिः पल्योपमम्, ऐशाने पल्योपममधिकं च // 39 // टी०-सौधादिपु यथाक्रममित्येतदनुवर्तते, अपरा जघन्या, सौधर्म कल्पे पल्योपममायुषः स्थितिर्भवति, ऐशाने तदेव पल्योपममधिकं कियतापि विशेषेण जघन्या स्थितिरिति / सूत्रम्-सागरोपमे // 4-40 // भा०-सनत्कुमारे अपरा स्थिति सागरोपमे // 40 // टी०-सनत्कुमारे द्वे सागरोपमे जघन्या स्थितिः // 40 // सूत्रम्-अधिके च // 4-41 // भा०-माहेन्द्रे जवन्या स्थितिरधिके द्वे सागरोपमे // 41 // टी०-द्वे सागरोपमे अधिके जघन्या स्थितिमाहेन्द्रे / / 41 // सूत्रम्-परतः परतः पूर्वा पूर्वाऽनन्तरा // 4-42 // भा०-माहेन्द्रात् परतः पूर्वा परा(पूर्वा)ऽनन्तरा जघन्या स्थितिर्भवति / तद्यथा-माहेन्द्रे परा स्थितिर्विशेषाधिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या स्थितिर्भवति / ब्रह्मलोके दश सागरोपमाणि परा स्थितिःसा लान्तके जघन्या / एवमा सर्वार्थसिद्धादिति / [विजयादिषु चतुर्पु परा स्थितिस्त्रयस्त्रिंशत् सागरोपमाणि, साऽजघन्योत्कृष्टा सर्वार्थसिद्ध इति ] // 42 // ___टी--परतः परतः पूर्वा पूर्वानन्तरा ब्रह्मलोकादिषु पूर्वकल्पस्थितिरुत्कृष्टा सोपरितनानन्तरकल्पे जघन्या वेदितव्या / तद्यथा-माहेन्द्रे सप्त सागरोपमाणि विशेषाधिकानि परा स्थितिः सा ब्रह्मलोके जघन्या ब्रह्मलोके दश सागरोपमाणि परा सा लान्तके जघन्येत्येवं शेषेष्वप्यायोजनीया यावत् सर्वार्थसिद्धविमानम्।तत्र विजयादिषु चतुर्थे जघन्येनैकत्रिंशदुत्कर्षेण द्वात्रिंशत्, सर्वार्थसिद्ध त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कृष्टा स्थितिः। भाध्यकारेण तु सर्वार्थसिद्धेऽपि जघन्या द्वात्रिंशत् सागरोपमाण्यधीता, तन्न विद्यः 1 यद्यपि वर्जनप्रसङ्गे प्राक् चतुर्थ्याः प्राक् ग्रेवेयकेभ्य इत्यादिवत् प्राक्शब्दः प्रयुज्यते, समादानप्रसङ्के आचतुर्य इत्यादिवत् आडा निर्देश इत्यत्र आङा निर्देशात् सर्वार्थसिद्धस्यापि ग्रहणमापनमिति वृत्त्यभिप्रायः, परं प्राग अजघन्योत्कृ. टतया त्रयस्त्रिंशतः सागरोपमाणां कथनात् न तत्र जघन्यस्थितिरन्या भाध्यकृतोऽभिप्रेता। एकपुत्रस्यं ज्येष्टकनिष्ठताबत् तु अत्राडोक्तिः / Page #339 -------------------------------------------------------------------------- ________________ सूत्राणि 43-46] स्वोपज्ञभाष्य टीकालङ्कृतम् 313 केनाप्यभिप्रायेण / आगमस्तावदयम्-"सव्वसिद्धदेवाणं भंते ! केवतियं कालं ठिई पण्णता ? गोयमा! अजहण्णुकोसेणं तित्तीसं सागरोवमाई ठिई पन्नत्ता" (प्रज्ञा०प० 4, मू०१०२)। सौधर्मे देवीनां परिगृहीतानां जघन्येन पल्योपममुत्कर्षेण सप्त पल्योपमानि, अपरिगृहीतानां जघन्येन पल्योपममुत्कर्षेण तु पश्चाशत् पल्योपमानि, ऐशाने तु परिगृहीतदेवीनां सातिरेकं पल्योपममुत्कर्षेण नव पल्योपमानि, अपरिगृहीतानां जघन्धन सातिरेकं पल्योपममुत्कर्षण पञ्चपञ्चाशत् पल्योपमानीति // परतः परतः पूर्वा पूर्वानन्तरेत्यभिसम्बन्धुकामोत्राप्रकृतानामपि लघ्वथं पुनर्वक्तव्यगौरवभीत्याऽवतारयति सूत्रम्-नारकाणां च द्वितीयादिषु // 4-43 // भा०–नारकाणां च द्वितीयादिषु भूमिषु पूर्वा पूर्वा परा स्थितिरनन्तरा परतः परतोऽपरा भवति / तद्यथा-रत्नप्रभायां नारकाणामेकं सागरोपमै परा स्थिीतः, सा जघन्या शर्करामभायाम् / त्रीणि सागरोपमाणि नारकाणां स्थितिः / पपरा स्थितिः शर्करामभायां, सा जघन्या वालुकामभायामित्येवं सासु / तमःप्रभायां द्वाविंशतिः सागरोपमाणि परा स्थितिः सा जघन्या महात. माप्रभायामिति // 43 // ___टी०-सुज्ञानमेव भाष्यं प्रायः, सप्तम्यां चतुर्षु नरकेषु जघन्या द्वाविंशतिसागरोपमा स्थितिरुत्कृष्टा त्रयस्त्रिंशत् सागरोपमाणि, अप्रतिष्ठाने तु त्रयस्त्रिंशत् सागरोपमाण्यजघन्योत्कटेति // 43 // अथ प्रथमायां कथं जघन्या प्रतिपत्तव्येत्याह... सूत्रम्-दश वर्षसहस्राणि प्रथमायाम् // 4-44 // भा०-प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्या स्थितिः // 44 // टी०-दश वर्षसहस्राणि प्रथमायां प्रथमवसुधानारकाणां स्थितिर्जघन्यैतावतीति 44 सूत्रम्-भवनेषु च // 4-45 // . भा०-भवनवासिनां दश वर्षसहस्राणि जघन्या स्थितिरिति // 45 // टी-भवनवासिनामप्येषेव जघन्येति // 45 // सूत्रम्-व्यन्तराणां च // 4-46 // भा०-व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः॥४६ / / टी-एषामपि जघन्या भवनवासिदेववद द्रष्टव्येति // 46 // सर्वार्थसिददेवानां भदन्त ! कियन्तं कालं स्थितिःप्राप्ता गौतम | अजधम्मोत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि स्पितिः प्राप्ता। Page #340 -------------------------------------------------------------------------- ________________ 314 सत्त्वार्थाधिगमसूत्रम् [ अध्यायः अथ व्यन्तराणां परा स्थितिः कीदृशीत्याह सूत्रम्-परा पल्योपमम् // 4-47 // भा०-व्यन्तराणां परा स्थितिः पल्योपमं भवति // 47 // टी-व्यन्तरदेवानां पल्योपममुत्कृष्टा, व्यन्तरीणामुत्कर्षेण पल्योपमामिति // 47 // अथ ज्योतिष्काणामुत्कृष्टस्थित्यभिधित्सया प्राह सूत्रम्-ज्योतिष्काणामधिकम् // 4-48 // भा०--ज्योतिष्काणां देवानामधिकं पल्योपमं स्थितिर्भवति // 48 // टी-पल्योपममित्यनुवर्तते, तदधिकं ज्योतिष्कदेवानामुत्कृष्टा स्थितिः सूर्यदेवस्य वर्षसहस्राधिकं पल्योपमम्, चन्द्रमसो वर्षलक्षाधिकं तदेव, ज्योतिष्कदेवीनामुत्कर्षेण पल्योपमा पश्चाशद्भिर्वर्षसहस्रैरभ्यधिकमिति // 48 // सूत्रम-ग्रहाणामेकम् // 4-49 // भा०-ग्रहाणामेकं पल्योपमं परा स्थितिर्भवति // 49 // टी०-पल्योपममभिसम्बन्ध्यते, अङ्गारकादीनामिति // 49 // सूत्रम्-नक्षत्राणामधेम् // 4-50 // भा०-नक्षत्राणां देवानामर्धपल्योपमं परा स्थितिर्भवति // 50 // टी०-अश्विन्यादीनां पल्योपमा स्थितिः परेति // 50 // सूत्रम्-तारकाणां चतुर्भागः॥ 4-51 // भा०-तारकाणां च पल्योपमचतुर्भागः परा स्थितिर्भवति // 51 // टी०--परा स्थितिः पल्योपमचतुभागस्तारकाणामिति // 51 // सूत्रम-जघन्या त्वष्टभागः॥४-५२॥ भा०-तारकाणां तु जघन्या स्थितिः, पल्योपमाष्टभागः॥५२॥ टी०-तारकाणां पल्योपमाष्टभागो जघन्येति // 52 // सूत्रम्--चतुर्भागः शेषाणाम् // 4-53 // भा०-तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिरिति // 53 // टी–तारकव्यतिरिक्तज्योतिष्काणां ग्रहनक्षत्राणां जघन्या स्थितिः पल्योपमचतुभीगो वेदितव्येति // 53 // // इति श्रीतत्त्वार्थसङ्ग्रहे अर्हत्प्रवचने भाष्यानुसारिण्यां टीकायां देवगतिप्रदर्शनो नाम चतुर्थोऽध्यायः // // इति चतुर्थोऽध्यायः // Page #341 -------------------------------------------------------------------------- ________________ सूचीपन पञ्चमोऽध्यायः 5 टी-निर्देशस्वामित्वादिभिरनुयोगद्वारैर्लक्षणविधानभाजो जीवानभिधायोद्देशसूत्रे तत्समनन्तरोपदिष्टानजीवान् विवक्षुः पञ्चमाध्यायसम्बन्धाभिप्रायेणाह भा०–उक्ता जीवाः, अजीवान् वक्ष्यामः // टी.-अभिहिता यथाशक्ति द्रव्यभावप्राणकलापवर्तिनो जन्तवः सुरतियअनुष्यनारक.. विधानतस्तथा साकारानाकारोपयोगद्वयलाञ्छनाविच्छिन्नचैतन्यशक्तितश्च / " अधुना तु लक्षणविधानाभ्यामजीवान् धर्मादींचतुरः सहकालानभिधास्याम इति प्रत्यज्ञायि वाचकमुख्येन, अतः प्रकृतप्रतिज्ञास्वतत्त्वप्रचिकाशयिषयेदमाह-- सूत्रम्-अजीवकाया धर्माधर्माकाशपुद्गलाः॥ 5-1 // टी०-उक्तलक्षणा जीवाः, ' उपयोगो लक्षणम् ' (अ० 2, सू०८) इति. न जीवा अजीवाः द्रव्यभावप्राणानभिसम्बन्धादनात्तचैतन्यशक्तयः, वैशेषिकं जीवलक्षणमनुसन्धाय प्रतिषेधः क्रियते, न सत्त्वज्ञेयत्वप्रमेयत्वादि, 'नयुक्तमिवयुक्त चेत्यादिन्यायात, अन्यया व्योमोत्पलादिकल्पाः स्युरजीवा इत्यतो जीवद्रव्यविपर्यया भवन्त्यजीवाः / न चात्र द्रव्यवस्तुतयोविपर्यास इष्टः, यस्माद् द्रव्यत्वमेवात्रानुशास्ति शास्त्रकारः, तथा वस्तुताविपर्यासे प्रतिषेधस्य गगनेन्दीवरसमानताऽनुषज्येत धर्मादीनाम्, अतः पारिशेष्याचैतन्य वैविध्यम् गुणविपर्ययः, स च विपर्यासरूपः प्रतिषेधो द्विधा-प्रसज्यपर्युदासभेदात्, तयोर्मूलल क्षणमिदम्- "प्रतिषेधोऽर्थनिर्दिष्ट, एकवाक्यं विधेः परः / वद्वानस्वपदोक्तश्च, पर्युदासोऽन्यथेतरः॥" जीवादन्योञ्जीव इति पर्युदासः सत एव वस्तुनोऽभिमतः, विधिप्रधानत्वात्, अतस्तुल्यास्तित्वेषु भावेषु चैतन्यनिषेधद्वारेण धर्मादिष्वजीवा इत्यनुशासनम् // अपरे वर्णयन्ति-जीवनीमकर्मणः प्रतिषेधोत्र विवक्षितः, तच जीवनाम जीवनात् किल भवति, अतोऽचेतनेष्वकर्मसु च वस्तुषु तुल्येऽस्तित्वे धर्मादिष्वजीवत्वमिति / अत्र द्वयं दुष्यति, प्राक् तावद् वाचोयुक्तिरेवानुपपना जीवनामकर्मेति, नहि किश्चिज्जीवनामकर्म प्रसिद्धमागमे, आयुर्हि जीवनमुच्यते, न पुनर्नामेति, तथा यद्यकर्मसु वस्तुष्वजीवत्वविधिः, सिद्धानामप्यजीवत्वप्रसङ्गः, ततश्चाजीव १.तिप्रतिज्ञास्य तत्त्व०' इति ग-पाठः / 2 अजीवन जीवन्ति जीविष्यन्ति चेति जीवा इतिव्युत्पत्तिव्यभावप्राणधारणमाश्रित्य न कर्मणः प्रतिषेधोऽजीवे. यदाच केवलद्रव्यप्राणापेक्षया जीवनं तदा गोशब्दवत् वाच्यनियमनं वाच्यं पारिणामिकं जीवत्वं, तच्च सिदेऽपि, ततो नासावजीवः ऋजुसत्रायपेक्षया तस्याजीवत्वेऽपि नैगमाद्यपेक्षया तथात्वात् नात्र तस्याजीवत्वविवक्षा। Page #342 -------------------------------------------------------------------------- ________________ 316 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः५ कायाः धर्माधर्माकाशसिद्धपुद्गला इति पडस्तिकायाः प्रसज्येरन् / अथ मतमचेतनेष्वकर्मस्वजीवत्वम्, एवं तर्हि चैतन्यप्रतिषेध एव ज्यायान्, किं जीवनप्रतिषेधेनेति ? / जीवो न भव. तीत्यजीव इति प्रसज्यप्रतिषेधः, स च प्रसक्तस्य भवति भूयसेति, अत्र च न कथञ्चित् प्रसक्तचैतन्यधर्म इत्यत उपेक्ष्यते / अजीवानां कायाः अजीवकायाः, शिलापुत्रकस्य शरीरमित्यमेदेऽपि षष्ठी दृष्टा, तथा सुवर्णस्याङ्गुलीयकम्, अन्यत्वाशङ्काव्यावृत्त्यर्थो वा कर्मधारय एवाभ्यु. पेयते, अजीवाश्च ते कायाश्चेत्यजीवकायाः। कायशब्दः उपसमाधानवचनः प्रदेशानामवयवानां च सामीप्येनान्योन्यानुवृत्त्या सम्यगमर्यादया धारणमवस्थानमुपसमाधानम् / अथवा काया इवैते कायाः, शरीराणि यथा प्रदेशाक्यवित्वात् कायशब्दवाच्यान्येवमेतेऽपीति / कृतद्वन्द्वाथैते .. धर्मादयो निर्दिष्टाः,तत्र धर्मो वक्ष्यमाणगत्युपग्रहकार्यानुमेयः,स्थित्युपग्रहकाधर्मादीनां विचार यानुमेयश्चाधर्मः।।अथादृष्टौ धर्माधौं शुभाशुभफलदायिनौ कस्मान्न गृह्यते।।। उच्यते-द्रव्यप्रस्तावापास्तत्वाद्, गुणत्वे सति तयोरप्रसङ्गः / अपि च-जैनानां धर्माधर्मों शुभाशुभफलप्रसवसमर्थौ मूर्तावेव पुद्गलात्मकत्वादतः पुद्गलग्रहणेनैव तयोर्ग्रहणमिति नास्ति तद्विपया मनागप्यारेका / अवगाहोपकारानुमेयमाकाशम् / अलोकाकाशं कथमिति चेत् अनवगाह्यत्वादिति, उच्यते-तद्धि व्याप्रियेतैवावकाशदानेन यदि गतिस्थितिहेतू धर्माधर्मी तत्र स्याताम्, न च तत्र स्तस्ती, तदभावाच्च विद्यमानोऽप्यवगाहनगुणो नाभिव्यज्यते किलालोकाकाशस्येति / पूरणाद् गलनाच्च पुद्गलाः, संहन्यमानत्वाद् विसंहतिमत्त्वाच्च / पुरुष वा गिलन्ति पुरुषेण वा गीर्यन्ते इति पुद्गलाः, मिथ्यादर्शनादिहेतुवर्तिनं पुमांसं बध्नन्ति वेष्टयन्तीति गिरणार्थः, इतरत्रादानार्थों गिरतिः, पुरुषेणादीयन्ते कषाययोगभाजा कर्मतयेति पुद्गलाः / सत्यजीवत्वे कालः कस्मान निर्दिष्ट इति चेत् उच्यते-स त्वेकीयमतेन द्रव्यमित्याख्यास्यते द्रव्यलक्षणप्रस्ताव एव, अमी पुनरस्तिकायाः व्याचिख्यासिताः, न च कालोऽस्तिकायः, एकसमयत्वादिति / भा०-धमास्तिकायोऽधमास्तिकाय आकाशास्तिकायः अजीवकायभेदाः पुद्गलास्तिकाय इत्यजीवकायाः / तान् लक्षणतः परस्ताद् वक्ष्यामः / कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थं च // 1 // टी-धर्मास्तिकाय इत्यादि भाष्यम् / सूत्रे धर्मादयः कायग्रहणं च साक्षात्कृतं तदप्यजीवपदसम्बद्धं भाष्यकारः सामानाधिकरण्यनिर्देशे सति धर्मादिभिः सह संघटयति प्रत्येकंधर्मास्तिकाय इति // ननु च धर्मकाय इति भाव्यम्, एवमस्तिशब्दोऽन्तरालवर्ती कुतोऽतर्कितः 1 स्वरूपविशेषणमेतत्, तेन नात्र गत्यादिना विशिष्टप्रतिषेधः, तत्त्वतः जीवपुद्गलानां गतिस्थितिहेतू धर्माधर्मों न तत्र, तथा च शेषचतुष्टयास्तित्वाभावस्तत्रेति मनस्याधायैव वक्ष्यति तदभावेत्यादि / 2 अजीवका या इति सुवचम् / यद्वा अस्तीत्यस्योभयत्रापि अव्ययीभूताख्यातता। यद्वा पदैकदेशे पदसमुदायोपचार इति मूले कायशब्देनास्तिकायग्रहणं, तथा च भाष्ये धर्मास्तीत्यादिव्याख्या न विरोधिनी / Page #343 -------------------------------------------------------------------------- ________________ सूत्र 1 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 317 पतित इति ? / उच्यते-ज्ञानशब्दयोर्निबन्धमुभयमर्थविदः प्रचक्षते स्वभावरूपमापत्तिरूपं च, तत्र प्रत्यस्तमितनिरवशेषविशेषणः स्वभावरूपः सर्वदाऽप्यविकार्यों येनांशेन ध्रौव्यपदव्यपदेशमश्नुतेऽसौ, यथा चैतन्यमात्मनोऽकृत्रिमम्, मूर्तत्वं वा पुद्गलद्रव्यस्य, धर्मादीनाममूर्तत्वं सकललोकव्यापिता गत्याद्युपग्रहादिलक्षणानि च ध्रुवाण्येतानि / आपादनमापत्तिः आविर्भावतिरोभावौ, वस्तुनः उत्पादविनाशावितियावत्, तत्र मृन्मूर्तिरूपादिस्वभावमजहद् वस्तु घटकपालशकलाकारमास्कन्दन्न)दु?)त्पद्यत इति व्यपदिश्यते, यथा हि महतः सरसस्तरङ्गमालाः बटुमारुतवेगायासिताः प्रादुष्प्यन्ति जलद्रव्यात्मिकाश्च ताः, एवं घटादयोऽपीति / तथा विनाशोऽपि घटाद्याकारप्रलयः कारणापेक्षः स्थूलतरङ्गसन्ततीनामिव स्तिमितवारितयाऽवस्थानमुज्झितसमीरणप्रबलवेगसम्पर्काणामित्येवपुत्पादप्रलयध्रौव्यलक्षणः प्रवचनेऽस्त्यर्थः प्रासिधत् / तत्रैतस्त्रितयदिदर्शयिपयाऽऽचार्येणास्तिशब्दोऽव्ययसंज्ञः सकलधर्मादिद्रव्यध्रौव्यप्रतिपादनायाकारि, कायशब्दस्तु सूत्रोपात्त आपत्त्यर्थः / एवं तर्हि सूत्र एवोपादानमस्तिशब्दस्य न्याय्यम्, विशिष्टार्थप्रतिपत्त्यर्थत्वात, कायशब्दवत, कायशब्दो वा नोपादेयस्तत एव हेतोरस्तिशब्दवदिति / उच्यते-अन्यतरोपादाने ह्यवान्यतरसम्प्रत्ययो भवतीत्यभिप्रायः सूरेः, संसर्गादीनि कारणानि शब्दस्यान्यस्य सन्निधाने भवन्ति व्यवच्छेदे च "संसर्गो विप्रयोगश्च, साहचर्य विरोधिता / अर्थः प्रकरण लिङ्गं, शब्दस्यान्यस्य सन्निधिः // सामर्थ्य मौचिती देशः, कालो व्यक्तिः स्वरादयः / शब्दस्यार्थव्यवच्छेदे, विशेषस्मृतिहेतवः // " ( श्रीहेमचन्द्रकृतकाव्यानुशासनवृत्तौ पृ० 39) __एषामनन्तरोक्तानां मध्ये संसर्गो गृह्यते, अत्र संसर्गमङ्गीकृत्य धौव्यार्थप्रतिपत्तयेऽस्तिशब्दप्रक्षेपः, उत्पादविनाशौ हि धौव्याविनाभूतौ संसृष्टौ धौव्येण, अन्यथा हि धौव्यात्मकताभावेऽन्वयिशन्यत्वादसन्निहितभवितृकत्यादुत्पादविनाशौ निर्वीजौ न स्याताम् / नापि ध्रुवता आविर्भावतिरोभावरहिता, ततस्त्र्यात्मकं वस्तु जैनेन्द्राणां बुद्धिव्यवस्थापितप्रविभागं प्रज्ञापनोपायत्वानरसिंहादिवत् , अतः कायशब्देनापत्तिरभिधित्सिताऽस्तिशब्देन ध्रौव्यमिति / कथं पुनः कायग्रहणादापत्तिरुद्भवप्रलयात्मिका प्रतीयत इति / उच्यते-प्रचीयमानाकारता हि कायः समुदायः, स च विभागे सति भवति, विभक्ताश्च धर्मादिद्रव्यप्रदेशाः, न 1 कायशव्दस्तावत् निरुपचारेण कायादेरुपचारेण चास्तिकायस्य वाचकः, अत्र धर्मादिना संसर्गादस्तिकायार्थस्य ग्रहः, यद्वा धर्मादिशब्दा एव धर्मास्तिकायाद्यर्थाः, पञ्चमांगे तदनेकार्थेषु धर्म इत्यादेनिर्देशात्, अजीवतायाः कायतायाश्च व्यक्तये अजीवकाया इति, आयेन जीवास्तिकायस्य परेण कालस्य च व्यवच्छेदः / २'तत्रोपात्त' इति क-पाठः / 3 'वा' इति क-पाठः / 4 पुदलपरमाणूनामप्यस्त्येव विभागः, पूरणगलनधर्मत्वात्, नेत्यादि तु विशिष्टविभागताख्यापनाय / Page #344 -------------------------------------------------------------------------- ________________ 318 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 यत्रैकः स्थितो धर्मप्रदेशः तत्रापरोऽपि तत्प्रदेशः प्रतिष्ठित इति, तेषां विभक्तप्रदेशानां योऽसौ परस्पराविच्छेदलक्षणः समुदायः सोऽवश्यंतया तथोत्पन्नः समुदायशब्दवाच्यत्वात् // नन्वेव. मादिमत्त्वं धर्मादीनां प्रसज्यते तन्त्वादिसमुदायवत् / उच्यते-तेऽपि हि नादिमन्तः पुद्गलद्रव्यस्यानेकशक्तित्वात्, सा च शक्तिः शक्तिमतो भेदाभेदाभ्यां त्रिसूत्र्यामेव वक्ष्यते, पत्र चोत्पादस्तत्रावश्यं विनाशेन भवितव्यम्, तत्सहचारित्वात्, स च विनाशः पूर्वावस्थाप्रच्युतिलक्षणः समुदायादेवोनीयत इति / अथवाऽधुना गतिपरिणतिभाजश्चैत्रस्य धर्मद्रव्यमुपग्रह कुरुते, तचोपग्रहकारितया प्रागजिगमिषति चैत्रे न व्यापारमगमत्, उत्तरकालं तु कोऽपतिशयः समुदपादि येन गतरुपग्रहकृद् भवति कयाऽपि विक्रियावस्थयेत्यतस्तेनाकारणोत्पादः समुपरतगतिव्यापारे च चैत्रे तया गत्युपग्रहव्यापारावस्थया तत्पुनरपैत्यतो विनाश एव / अधर्माकाशयोरपि स्थित्यवगाहनामुखेनोत्पादविनाशौ वाच्यावतः कायग्रहणात् सुगम आपत्तिशब्दार्थ इत्यतोऽस्ति चासौ कायश्चेत्यस्तिकायः, ध्रुवश्चासावुत्पादविनाशवांश्चैत्यर्थः, धर्मपासावस्तिकायश्च धर्मास्तिकायः, एवमधर्माकाशावपीति / पुद्गलास्तिकाये तूत्पादव्ययध्रुवताः प्रकाशा एव प्रायः // एवमेतांश्चतुरोऽप्यजीवान् सूत्रेण परिगणय्याह-तान् लक्षणतः पर. स्ताद वक्ष्यामः / तान् धर्मादीनेतावतः परस्ताद्-उपरि लक्षणतो गतिस्थित्युपग्रहावगाहशरीराद्युपकाररूपाद् वक्ष्यामः, इदं तूद्देशमात्रमारचितममुना सूत्रेण, अवश्यंतया च पदार्थभेदमभ्युपयता विविक्तमेव लक्षणमासञ्जनीयम्, अन्यथा भेद एव दुरुपपादः स्याद्, अतस्तान् प्रत्येकं लक्षणभेदेनाग्रे प्रतिपादयिष्याम इति // अथ कायग्रहणं किमर्थमित्यत आह-कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थ चेति // ननु च कायग्रहणस्य प्रयोजनं वर्णितमापत्तिः कायशब्दार्थ इति, सत्यमुक्तं भाष्याक्षरानपेक्षम्, अधुना तमेवार्थ भाष्याक्षरैर्दर्शयति, विनाऽपि कायग्रहणेन धर्मादीनामजीवता गम्यत एव, तस्मात् तस्योपादाने प्रयोजनमेषां धर्माधर्माकाशानां प्रदेशबहुत्वमिष्यते, प्रकृष्टो देशः प्रदेशो निर्विभागः खण्डमनपायि स्वस्थानाद् अनादिकालपरिणामापादिततथास्थितिः, तेषामेवंविधप्रदेशानां बहुत्वं धर्माधर्मयोरसङ्ख्येयप्रदेशता प्रत्येकम्; आकाशस्यानन्तप्रदेशता बहुत्वार्थः, एवंविधासङ्ख्येयप्रदेशसमुदायो धर्मास्तिकायस्तथैवाधर्मास्तिकायः, आकाशमपि लोकपरिमाणमेतावत्प्रदेशसङ्ख्यम, समस्ताकाशं त्वनन्तप्रदेशमित्येवं समुदितिरूपत्वाद् गत्याद्यपग्रहविक्रियापत्तिद्वारेण स्फुटैवापत्तिरिति / पुद्गलद्रव्यमङ्गीकृत्यावयवबहुत्वमुक्तम् , अवयूयन्त इत्यवयवाः परमाणुयणुकादयः, परमाणवो हि समुदायपरिणतिमनुभूय भेदमपि प्रतिपद्यन्ते, ततश्चैकका अपि भवन्ति, न त्वेवं धर्मादिप्रदेशाः, अत एव च नावयवास्तेऽभिधीयन्ते, तस्माद् भेदेनोपादानं प्रदेशावयवयोः, बहवयवं हि पुद्गलद्रव्यमवगन्तव्यम्, सङ्ख्येयप्रदेशः स्कन्धोऽसङ्ख्येयप्रदेशोऽनन्तप्रदेशोऽनन्तानन्तप्रदेशश्चेति // ननु चैकोऽपि परमाणुः पुद्गलद्रव्यमेव स कथं बहवयवो भवेत् ? किमत्र प्रतिपाद्यम् ? ननु प्रसिद्धमेवेदमेकरसगन्धवर्णो द्विस्पर्शश्वाणुर्भवति, मा. 1 अजीवप्रकरणायाजीवशब्द इत्यर्थः / Page #345 -------------------------------------------------------------------------- ________________ सूत्र 2] . स्वोपज्ञभाष्य टीकालङ्कृतम् 319 वावयवैः सावयवो द्रव्यावयवैर्निरवयव इति / आगमश्च–“केइविहे गं भंते ! भावपरमाणू पण्णते ? गोयमा ! चउबिहे भावपरमाणू पण्णत्ते, तंजहा-वण्णमंते रसमंते गंधमन्ते फासमन्ते इति"। (भग० मू० 670) मतुविह संसर्गे द्रव्यपरमाण्वपेक्षो वा तस्माद् वर्णाद्यवयवैर्बहुत्वं द्रव्याणोः। यश्च तत् तथा प्रयतते संयुज्यते वियुज्यते श्वेत इत्यादिकारणं तत् परमाणुद्रव्यम्, अत्राप्यापत्तिः स्पष्टा। तथा द्वितीय कायग्रहणे प्रयोजनमद्धासमयः कायो न भवति, अद्धा चासौ समयश्चाद्धासमयः, स चार्धतृतीयद्वीपान्तवर्ती समय एकः परमसूक्ष्मो निर्विभागस्तस्य न कायता, समुदायश्च कायशब्दवाच्य इति, वक्ष्यत्यस्य द्रव्यप्रस्तावे द्रव्यतामेकीयमतानुसारिणीम्, द्रव्यं च प्रदेशप्रचितमवयवप्रचितं वा स्याद् आशङ्कमानो न्यषेधीत् कायग्रहणात् कायतामद्धासमयस्य / एवं तर्हि कायप्रतिषेधादनुत्पादविनाशः स्यात् समयः, तदभावाच्च ध्रौव्यमप्यपेयात्, ततश्च मण्डूकजटाभारकृतकेशालङ्कारवन्ध्यापुत्रखपुष्पमुण्डमालाख्यानवत् सकलमिदमनालम्बनं समयव्यावर्णनं स्यादिति / उच्यते-नायं नियमो यत्कायशब्देनाक्षिप्यते तदेवोत्पाद विनाशवदितरन्न, कथं तर्हि प्रतिपत्तव्यमेवम् ? ननु यत्र कायशब्द उपात्तस्तत्रायमर्थोऽस्य यदुतोत्पादविनाशौ खरससिद्धावेव च कायशब्देन प्रकाश्येते, न पुनरभूतावपि शब्दसामर्थ्यात् सन्निधानं कल्पयतः, यत्र तु कायग्रहणं नास्ति तत्र स्वरससिद्धावेवोत्पादविनाशौ तत्सहचरितत्वाच्च धौव्यमपीत्येतत् समस्तमेव द्रव्यप्रस्तावे भावयिष्यामः / कारणसमुच्चयार्थश्चशब्दो भाष्ये प्रतिपत्तव्यः / प्रशस्ताभिधानाधर्मग्रहणमादौ लोकव्यवस्थाहेतुत्वाद् विपरीतत्वादेकद्रव्यत्वाद वाऽधर्मग्रणमनन्तरं, तत्परिच्छेद्यमाकाशं लोकत्वात् तदनन्तरममूर्तसाधर्म्याच्च, तदवगाढत्वात् तदनन्तरं पुद्रला इति विशिष्टक्रमसन्निवेशप्रयोजनमेतदेवमवसेयमिति // 1 // धर्मादीनां द्रव्यगुणपर्यायत्वेनानुपदेशे सति सन्देहः स्यात्, अतः सन्देहव्यावृत्यर्थमिदमुच्यते सूत्रम्-द्रव्याणि जीवाश्च // 5-2 // टी०-उपरिष्टाद् वक्ष्यते लक्षणं 'गुणपर्यायवद् द्रव्यम्' (अ० 5, सू० 37) इति / तत्र द्रव्याणीति सामान्यसंज्ञा, धर्मादिका च विशेषसंज्ञा, अतः सामान्यविशेषसंज्ञाभाजि धर्मादीनि, द्रव्यसंज्ञा च द्रव्यत्वनिमित्ता द्रव्यास्तिकनयाभिप्रायेण जातिश्च शब्दार्थः, तच द्रव्यत्वं . परमार्थविचारणायां व्यतिरिक्ताव्यतिरिक्तपक्षावलम्बि, नैकान्तेनान्यद्धर्माः व्यशब्दार्थः दिभ्यो नान्यदिति पुरो वक्ष्यते त्रिसूत्र्याम्, अत एतानि धर्मादीनि मयूराण्डकरसवत् संमूञ्छितसर्वभेदप्रभेदबीजानि देशकालक्रमव्यङ्ग्यभेदसमरसावस्थैकरूपाणि द्रव्याणि गुणपर्यायकलापपरिणामयोनित्वाद् भेदप्रत्यवमर्शनाभिन्नान्यपि भिन्नानीव भासन्ते, "द्रव्यं च भव्ये" (पा० अ०५, पा०३, सू० 104 ) इति वचनाद् भावे कर्तरि च निपात्यते / इह तु भावे, द्रव्यं भव्यं भवनमिति, गुणाः पर्यायाश्च भवनसमवस्थानमात्रका 1 कतिविधो भदन्त ! भावपरमाणुः प्रज्ञप्तः ? गौतम ! चतुर्विधः भावपरमाणुः प्रज्ञप्तः / तद्यथा-वर्णवान् , रसवान् , गम्धवान्, स्पर्शवान् इति। Page #346 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [अध्यायः 5 एवोत्थितासीनोत्कुटकशयितपुरुषवत्, तदेव च वृत्त्यन्तरव्यक्तिरूपेणापदिश्यते जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति, पिण्डातिरिक्तवृत्त्यन्तरावस्थाप्रकाशतायां तु जायत इत्युच्यते, सव्यापारे च भवनवृत्तिः, अस्तीत्यनेन निर्व्यापारात्मसत्ताख्यायते भवनत्तिरुदासीना, अस्तिशब्दस्य निपातत्वात् , विपरिणमत इत्यनेनापि तिरोभूतात्प्ररूपस्यानुच्छिन्नतयाऽनुवृत्तिकस्य रूपान्तरेण भवनम्, यथा क्षीरं दधिभावेन परिणमते विकारान्तरवृत्त्या भवनमवतिष्ठते, वृत्त्यन्तरव्यक्तिवृत्तिर्हेतुभाववृत्तिा विपरिणामः / वर्धत इत्यनेन तु स एव परिणामः उपचयरूपः प्रवर्तते, यथाऽङ्करो वर्धते, उपचयवत्परिणामरूपेण भवन त्तिय॑ज्यते, अपक्षीयत इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते दुर्बलीभवत्पुरुषवदपचयरूपभवनवृत्त्यन्तरव्यक्तिरुच्यते, विनश्यतीत्यनेनाविभूतभवनवृत्तितिरोभवनमुच्यते, यथा विनष्टो घटः प्रतिविशिष्टसमवस्थानात्मिका भवनवृत्तिस्तिरोभूता, न त्वस्वभावतैव जा. ता, कपालाद्युत्तरभवनवृत्त्यन्तरक्रमावच्छिन्नरूपत्वादित्येवमादिभिराकारेद्रव्याण्येव भवनलक्षणान्यपदिश्यन्ते / अपरे सूत्रद्वयमेतदधीयते-“द्रव्याणि, जीवाश्च", तदयुक्तम्, अस्तिकायता द्रव्यता च प्रतिपिपादयिपिता जीवानाम्, सा चैकयोगेऽपि सति प्राणिनामव्याहतैव चशब्दोपादानसामर्थ्यादतः क एष निर्विशेषो योगद्वयादरः? / सम्प्रति भाष्यमनुस्रियते भा०-एते धर्मादयश्चत्वारो जीवाश्च पञ्च द्रव्याणि च भवन्तीति / उक्त हि-'मतिश्रुतयोनिबन्धा द्रव्येष्वसर्वपायेषु, सर्वद्रव्यपर्यायेषु केवलस्य' (अ० 1, सू० 27, 30) इति // 2 // टी-एते धर्मादय इत्यादि / एत इति प्रथमसूत्रोपदिष्टाः धर्मादयश्चतुःसङ्ख्यावच्छिन्नाः प्राणिनश्वास्तिकायाः द्रव्याणि, चशब्दादुभयमभिसम्बध्यते प्राणिषु, द्रव्यता चैषां स्वपरनिमित्तद्वयोपलक्षिता, तत्र स्वनिमित्तं स्वधर्मव्याप्तिर्ययाऽसाववष्टब्धस्तथा गृह्यते स्वधर्मव्याप्त्यैव द्रव्यं, प्रतिषिध्यते प्रत्याय्यते च यथाभूतं वा ज्ञायते / स्वधर्मप्राप्तिश्च व्याप्तिलक्षणा तादात्म्येन व्यवस्थानम्, ततश्च स्वभावावस्थानमेव द्रव्यलक्षणम् / परनिमित्तं चक्षुाह्य रूपमित्यादि योज्यम् / द्रव्यमेव हि तत् तथा व्यपदिश्यते रूपादितया गत्याद्युपग्रहकृत्तया च विशेषणापेक्षम्, पितापुत्रभ्रातृभागिनेयमातुलादिसम्बन्धिदेवदत्तवत् परनिजनिमित्तोपलक्षणदर्शनाभिप्रायेण चाह-उक्तं हीत्यादि / प्रथममभिहितं मतिज्ञानश्रुतज्ञानयोहणता द्रव्येषु धर्मादिष्वसकलपर्यायेषु, चक्षुरादिभिरिन्द्रियैस्तान्युपलक्ष्यन्ते, श्रुतेन चेत्यविशुद्धग्रहणमेतद, विशुद्धं तु सर्वद्रव्यपर्यायेषु केवलस्येति, तेनापास्तसकलविशेषणेन केवलज्योतिषा द्रव्याणां याथात्म्य स्वनिमित्तलक्षितमागृह्यते, अतः स्वपरनिमित्तोपलक्षितानि धर्मादीनि द्रव्याणि द्रव्यास्तिकायाभिप्रायवशात् प्रतिपत्तव्यानीति // 2 // १'भवनरूप ' इति क-पाठः / 2 'प्राणिनथ ' इति घ-पाठः। Page #347 -------------------------------------------------------------------------- ________________ सूत्रं 3 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 321 अथैतानि पञ्चसङ्ख्यावच्छिन्नानि धर्मादीनि द्रव्याणि किं कदाचित् स्वभावात प्रच्यवन्ते ? पञ्चत्वसङ्ख्यां वा व्यभिचरन्ति ? मूर्तान्यमूर्तानि वेति प्रश्नत्रितयम् / अतः संशीतिव्यवच्छेदायेदमुच्यते सूत्रम्-नित्यावस्थितान्यरूपाणि च // 5-3 // टी.---यथासङ्ख्यमनेन सूत्रेण प्रश्नत्रितयं प्रत्युच्यते / नित्यग्रहणाद् धर्मादीनां खभावादप्रच्युतिराख्यायते, अवस्थितग्रहणादन्यूनानधिकत्वमाविर्भाव्यते, अनादिनिधनेयत्ताभ्यां न स्वतत्त्वं व्यभिचरन्ति // ननु च पृथिव्यादीनि नव द्रव्याणि, तत् कथं पञ्चत्वसङ्ख्यां न व्यभिचरन्तीति / उच्यते-पृथिव्यप्तेजोवायुमनांसि तावत् पुद्गलद्रव्यमेव मूर्तक्रियावत्त्वाद् आत्मपरिणमिता वा वसुधादयः पुद्गला जीवा एव मनुष्यादिवत्, कालश्चैकीयमतेन द्रव्यमिति वक्ष्यते, वाचकमुख्यस्य पश्चैवेति / दिशश्चाकाशान्न द्रव्यान्तरम्, आकाशप्रदेशा एव विशिष्टरचनाभाजो दिग्व्यपदेशमवरुन्धन्ति, न च तद्वयतिरेकेण तत्स्वरूपोपलब्धिर्दिशामस्तीति / अरूपिग्रहणाद् धर्माधर्माकाशजीवानाममूर्ततामाविष्करोति, रूपरसगन्धस्पर्शपरिणामबहिर्वर्तित्वादमृतोन्युच्यन्ते / अपरे द्विधा भिन्दन्ति मूत्रम्, 'नित्यावस्थितानि पञ्चापि धमोदीनि नित्यावस्थितानि भवन्ति, ततोऽरूपाणि', एतान्येव धर्मादीन्यविद्यमानरूपरसादीनि द्रष्टव्यानि, चत्वारीति पृथग्योगकरणात् किल पञ्चानामप्यवस्थितत्वमरूपत्वं चतुर्णामिति / एतच शक्यमेकयोगेऽपि हि, अरूपंग्रहणात् सम्भवतो धर्मादय एव सम्भत्स्यन्ते, न पुद्गलाः / अथवाऽप्यरूपग्रहात् सूत्रपाठविचारः . पञ्चानामपि प्रसङ्गे अपवदिष्यते 'रूपिणः पुद्गला ' ( अ० 5, सू० 4) का इति / न च पृथग्योगेऽप्येषोऽर्थः शक्यो लब्धुमतो वृथा वाञ्छति / अपरे वर्णयन्ति- एकयोग एव नित्यावस्थितान्यरूपाणि, अत्राद्ययोः समस्तपदयोः पाठः कृतः, अरूपग्रहणं तु न समस्तमाभ्यां सहातो विभक्तिद्वयश्रवणमेतस्मादुन्नीयते-नित्यावस्थितग्रहणं समस्तद्रव्यविशेषणमरूपग्रहणमेककं पुद्गलद्रव्यव्युदासेन धर्मादिचतुष्टयविशेषणम् // अत्रापरे ज्याचक्षते - यत्किश्चिदेतत् नित्यावस्थितारूपाणीत्येवमपि पाठे लभ्यत एवाभिलषितोर्थ उत्तरसूत्रोपादानात, तस्मात् समस्यैव त्रीण्यपि पदानि सूत्रमध्येयम् / अस्मिन् पक्षे सूरिविरचित विन्यासभङ्गापत्तिन तु प्रक्रिया दुष्यति / अपरे नित्यग्रहणमवस्थितविशेषणं कल्पयन्ति, नित्यमवस्थितानि नित्यावस्थितानि, " सह सुपा" (पा० अ० 2, पा०, 1 सू० 4) इति समासो नित्यप्रजल्पितवत, अस्मिन् विकल्पे भाष्यमगमितं स्यात्, भाष्यकारेण त्वेतानि त्रीग्यपि स्वतन्त्राण्येव व्याख्यातानि, तत् कथं नित्यग्रहणमवस्थितविशेषणं स्यात् ? भाष्यभेदे 1 नैतानि कदाचिदपि न सन्ति. न चान्ये तत्तया परिणमन्ति / २'अरूपीणि' इति क-पाठः। 3 'अरूपिग्रहणात्' इति क-पाठः। 4 'अतो भक्तिद्वय ' इति ग-पाठः। ५विधाय अपवादनापेक्षया विभौरवतामपेक्ष्य सरिविन्यासः, एवमेवासर्वपर्यायः। Page #348 -------------------------------------------------------------------------- ________________ 322 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सतीति // अपरे त्वाहुः-किलाचार्येण सूत्रमेवमधीतम्-नित्यावस्थितान्यरूपीणीति, अत्र च बहुव्रीहिणोक्तवान्मत्वर्थीयानुपपत्तिरिति / अत्रोच्यते-कचिद् बहुव्रीहिं बाधित्वा तत्पुरुषवृत्ती मत्वर्थीयो भवति, तद्यथा-"इधार्योः शत्रकृच्छ्रिणि" ( पा० अ० 3, पा० 2, स० 130), तथा अनरवन्ति चक्राणि, सर्वधनादित्वाद् वा // अपरे ब्रुवते-भवतु मत्वर्थीयोऽत्राहः, सच मतुरेव रसादिपाठान्नत्विनिरिति, उक्तं तत्रान्यतरस्यांग्रहणं समुच्चयार्थमित्यदोपः॥ भाष्यमधुनाऽऽश्रियते भा०-एतानि द्रव्याणि नित्यानि भवन्ति / तद्भावाव्ययं नित्यम्' (अ०५, सू. 30) इति च वक्ष्यते / अवस्थितानि च, न हि कदाचित् पञ्चत्वं भूतार्थत्वं च व्यभिचरन्ति // अरूपाणि च, नैषां रूपमस्तीति / रूपं मूर्तिः, मूल्याच स्पोदय इति // 3 // टी-एतानि द्रव्याणि नित्यानीत्यादि भाष्यम् / एतानि-अनन्तराविष्कृतानि पञ्चापि धर्मादीनि, द्रव्याणीति द्रव्यास्तिकनयाभिप्रायेण, न तु पर्यायसमाश्रयणात्, द्रव्यास्तिको हि धौव्यमेवेच्छति,नोत्पादविनाशौ,अतः तदभिप्रायेणैषामाचार्यः शास्ति नित्यताम् अन्यथा द्रव्या स्तिकनयनिरपेक्षनिरूपणायामकान्तवादः स्यात्, स च बहुविधदोषाघ्रातत्वात् सामीक्षिकाभिप्रा. यवदसमञ्जसः स्यात् // ननु चैवमेकनयनिरूपणा न जैनेन्द्रदर्शनप्रतिपूरणायालम, सत्यमेतत, किन्तु द्रव्यास्तिकपयोयास्तिकयोः प्रधानगुणभावविवक्षावशाद् वस्तुतत्त्वमुपनीयते झातपुत्रीयैः, अन्यथा हीत्थं वस्तुप्रज्ञापनाऽतिदुष्करा स्यात्, अतः प्रज्ञापनेयमभिन्नांशस्य वस्तुनो नरसिंहस्येव नरकेसरिशब्दभेदेन / तत्र हि द्रव्यास्तिकस्य प्राधान्यमाश्रित्येतरस्य च गुणभावं नित्यता प्रज्ञाप्यते, यथा चैतानि नयद्वयोपसंगृहीतानि तथा प्रथमसूत्रेऽभिहितमभिधास्यते च त्रिसूत्र्यामिति / तमेव च ध्रौव्यांशं द्रव्यास्तिकनयप्रज्ञाप्यमादशयितुमाह-नित्यानि भवन्ति 'नर्धवे त्य' (सिद्ध० अ० 6, पा० 3, सू० 17 ) इति नित्यानि ध्रुवाणि, नोत्पादविनाशवन्तीतियावत, भवन्तीत्यनेन सकलकालाविकारिणी सत्ताऽऽख्यायते धर्मादीनाम, तच्च नित्यलक्षणं वक्ष्यमाणमुट्टयति-तद्भावाव्ययं नित्यमिति / यत् सतो भावात न व्येति न व्येष्यति तन्नित्यमिति भवतीति भावः / योऽसौ भवति स कर्ता द्रव्यम्, सच तस्मात स्वरूपान्न विगमेन युज्यते योक्ष्यते वाप्तो नित्य उच्यते, न कदाचित् सदूपतां परि. त्यक्ष्यतीत्यर्थः॥अधुनाऽवस्थितशब्दार्थ निरूपयति नित्यावस्थितयोरभेदभ्रान्तिमपनयन्-मा भूत् सङ्करोऽनयोः, अन्यन्नित्यलक्षणमन्यच्चावस्थितलक्षणमिति, अवस्थितानि च, नहि कदाचित् पश्चत्वं भूतार्थत्वं च व्यभिचरन्ति / नित्यत्वानुज्ञापेक्षया चशब्दोपादानम्, अवस्थितानि भवन्ति धमोदीनि द्रव्याणि, तचावस्थानमेषां वाक्यान्तरेण निरूप्यते-न कदाचित् पञ्चत्वं व्यभिचरन्ति, तद्भावाव्ययतायां सत्यामियत्तैषां निर्धार्यतेऽवस्थितशब्दोपादानात, १'इन्द्रार्योः शक्रकृच्छ्रीणि इति ग-पाठः। २'अरूपाणि इतिघ-पाठः, 'अरूपीणि' इति तुस-पाठः / Page #349 -------------------------------------------------------------------------- ________________ सूत्र 3] स्वोपज्ञभाष्य-टीकालङ्कृतम् 323 पञ्चैव भवन्त्येतानि न न्युनान्यधिकानि वेति सङ्ख्यानियमोऽभिप्रेतः, सर्वदा पञ्चास्तिकायात्मकत्वाज्जगतः, कालस्य चैतत्पर्यायत्वादिति / नापि भूतार्थत्वं व्यभिचरन्त्येतानि, अतोऽवस्थितान्युच्यन्ते / अन्योन्याववन्धितायां सत्यामपि धर्मादीनि न स्वतत्वं भूतार्थत्वं वैशेषिकं लक्षणमतिवर्तन्ते, तच्च धर्माधर्मयोर्गतिस्थित्युपग्रहकारिता, नभसोऽवगाहदानव्यापारः, स्वपरप्रकाशिचतन्यपरिणामो जीवानाम्, अचैतन्यशरीरवाङ्मनःप्राणापानसुखदुःखजीवितमरणोपग्रहमूतत्वादयः पुद्गलानाम् / अथवाऽसङ्ख्येयादिप्रदेशानादिपरिणामस्वभावता वा भूतार्थता मूर्तताऽमूर्तता चेति, तां न जातुचिदनादिकालप्रसिद्धिवशोपनीता मर्यादामतिकामन्ति, स्वलक्षणव्यतिकरो हि निर्भेदताहेतुः पदार्थानाम्, अतः स्वगुणमपहाय नान्यदीयगुगसम्परिग्रहमेतान्यातिष्ठन्ते, तस्मादवस्थितानीति / अरूपाणि च, नैषां रूपमस्तीति / न समुदायविशेषणमेतदरूपाणीत्यसम्भवाद् धर्माधर्माकाशजीवेषु चतुर्वेव सम्भवत्यमूर्तत्वं, न पुनः पुद्गलेषु, अत एव प्रसक्तो सत्यामुत्तरसूत्रेण निषेधः करिष्यते, चक्षुग्रहणलक्षगं रूपं तदविद्यमानं येषां तान्यरूपाणीत्यरूपत्वाचक्षुषा नैतानि गृह्यन्ते, न तु चक्षुषेषामगृय नाणत्वमरूपत्वे कारणमुच्यते, परमाण्वादिभिरनेकान्तात्, तस्मादरूपिग्रहणं द्रव्यस्वतत्वनिपिनार्थ मूर्तिमत्त्व निवृत्तिप्रकाशनाय, प्रात्ययिकोत्पादवत्त्वे तु भाज्यममुल्याकाशादिवत्, स्वतस्तु नै रूपमस्तीति / किं पुना रूपं नामेत्यत आह-रूपं.मूर्तिः, मूर्तिर्हि रूपादिशब्दाभिधेया, सा च रूपादिसंस्थानपरिणामा, नासर्वगतद्रव्यपरिमाणलक्षणा, व्यभिचारदर्शनात्, सर्वतः परिमितत्वे लोकस्य आत्मनोऽपि मूर्तिमत्त्वप्रसङ्गः, काणभुजानां (2) परिमितत्वं चावश्यमभ्युपेयं विशिष्टसंस्थानत्वादिभिलॊकस्य, अतो रूपमेवाव्यभिचारित्वान्मूर्तिरुच्यते / अपरेऽभिदधति-रूपशब्दो नीलादिवर्णाभिधायी समस्ति, अस्ति च दीर्घादिसंस्थानप्रतिपादनपरः,तद् यः संस्थानप्रतिपत्तिमाविष्करोति रूपशब्दस्तमुररीकृत्यावोचदाचार्यों रूपं मूर्तिरिति, एवं विधमूर्त्याश्रिताश्च स्पोदयः किल सर्वदा न कदाचिदसंस्थाना भवितुमर्हन्ति, अन्यथा वान्ध्येयव्योमकुसुममण्डूकशिखण्डकल्पाः स्युरिति / अत्र पक्षे धर्माधर्मसिद्धसंस्थानैरनेकान्तः ।तस्माद् रूपमेव मूर्तिरस्तु / एवं तर्हि गुणमा मूर्तिशब्दस्य विषयः प्रसक्तः, न च रूपमेव मृर्तिरिति,उच्यते-द्रव्यास्तिकनयावष्टम्भात् सकलमिदं निरूप्यते, तत्र किमाश्वेव विस्मृतं भवतः, न खलु रूपादयस्तस्य केचिन्मूत्यो विविक्ताः न सन्ति, सैव हि मूर्तिद्रव्यस्वभावा चक्षुर्ग्रहणमासाद्य रूपमिति व्यपदिश्यते, अत एव पुनराह सहचराव्यभिचारप्रदिदर्शयिषया-मृाश्रयाश्च स्पर्शादय इति / न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति,सहचरितत्वात्,यत्र रूपपरिणामः तत्रावश्यन्तया स्पर्शरसगन्धैरपि भाव्यम्, अतः सहचरमेतच्चतुष्टयम्, अतः परमाणावपि विद्यते, न च परमाणवश्चतुर्गुणादिजातिभेदभाजः, सर्वेषामेकरूपत्वात्, इयांस्तु विशेषः-किश्चिद् द्रव्यमुत्कटं गुणप. रिणाममासाद्य तमेव त्यजति, यथा लवणहिगुनी संहतिपरिणामसामर्थ्यवती लोचनस्पर्शनग्रहणगोचरतामुपेत्य जले विलीने सति रसनघ्राणग्रहणयोग्यतामागच्छतः, न च वर्णस्पर्शी तत्र Page #350 -------------------------------------------------------------------------- ________________ 324 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सम्भवन्तावपि पुनर्ग्रहीतुं शक्यौ, परिणामविशेषवत्त्वात्, एवं पार्थिवाप्यतैजसवायवीयाणवोऽप्येकजातीयाः कदाचित् काञ्चित् परिणतिं विभ्रतो न सर्वेन्द्रियग्राह्या भवन्ति, अतो रूपरसगन्धस्पर्शी एव विशिष्टपरिणामानुगृहीताः सन्तो मूर्तिव्यपदेशभाजो भवन्ति // अपरेऽन्यथा वर्णयन्ति भाष्यम्-मूर्तिशब्देन रूपमेवाभिधीयते, ये च रूपमाश्रित्य वर्तन्ते स्पर्शादयस्तेऽपि मूर्तिशब्दवाच्याः, तदेतदयुक्तम्, 'द्रव्याश्रया निर्गुणा गुणाः ' (अ० 5, सू० 40 ) इति वक्ष्यते, द्रव्यमाश्रयो भवति स्पर्शादीनां, न पुना रूपमुपनतयेष्यत इति / अथापि पर्यायनयसमाश्रयणादुच्यते न द्रव्यमस्ति रूपादिग्रहे द्रव्यबुद्धयभावादतो रूपादय एव परस्परसमाश्रयेण वर्तमानाः सेनावनादिवन्मूर्तिशब्दवाच्या इति, तथापि भाष्यं न सङ्गच्छते, रूपं मूर्तियांश्रयाश्च स्पर्शादय इति, न ोकः पदातिः करी वा सेना, किन्तु परस्परसमाश्रयेण वर्तमानास्तुरगकरिरथपदातयः सेनेत्येवं न रूपमेव मूर्तिः किन्तु समुदाय इत्यतो यथावर्णितमेवास्तां भाष्यमिति // 3 // नित्यावस्थितान्यरूपाणीत्यविशेषविधाने केषांचिदपवादार्थ लक्षणमारभ्यते सूत्रम्-रूपिणः पुद्गलाः // 5-4 // टी–विशेषश्रुतेः सामान्यश्रुतिनिषेधमुखेनात्मलाभादागृहीतविशेषत्वादपवादस्य नित्यत्वावस्थितत्वाभ्यनुज्ञानद्वारेणारूपत्वमात्रप्रतिषेधोत्र विवक्षितः, अरूपाः पुद्गला न भवन्ति, किं तर्हि ? रूपिणः, तत्स्वभावाव्ययत्वाच्च नित्यता सदा समस्त्येव, रूपादिमत्तया चाव्यतिकीर्यमाणस्वभावतयाऽवस्थितत्वं पुद्गलानाम् // ननु चोत्पादविनाशवत्वादनित्यतैवातिस्पष्टैषां, तत् कथं तद्विरोधिनी नित्यतानुबु(व?)ध्यत इति ? / अत्रोच्यते-द्विविधा हि नित्यता प्रवचनविद्भिराख्यायते-अनाद्यपर्यवसाननित्यता सावधिनित्यता च, तत्राद्या लोकसन्निवेशवदनासादितपूर्वापरावधिविभागा सन्तत्यव्यवच्छेदेन स्वभावमजहती तिरोहितानेकपरिणतिप्रसवशक्तिगर्मा ___ भवनमात्रकृतास्पदा प्रतीतैव, अपरा श्रुतोपदेशनित्यतावदुत्पत्तिप्रलयवनित्यताया द्वविध्यम्, त्वेऽप्यवस्थानात पर्वतोदधिवलयाद्यवस्थानवच सावधिका / अनित्यताअनित्यतायाश्च - ऽपि द्विविधा-परिणामानित्यता उपरमानित्यता च, तत्र परिणामानित्यता नाम मृत्पिण्डो हि विस्रसाप्रयोगाभ्यामनुसमयमवस्थान्तरं प्रागवस्थाप्रच्युत्या समश्नुते, उपरमानित्यता तु भवोच्छेदवदपास्तगतिचतुष्टयपरिभ्रमक्रियाक्रमपर्यन्तवर्तिनी परिप्राप्तावस्थानविशेषरूपा, नात्यन्ताभावभाविनीति, तत्र परिणामानित्यतया पुद्गलद्रव्यमनित्यमित्याच क्ष्यते, तद्भावाव्ययतया च नित्यम्, उभयथा हि दर्शनात् / न च विरोधोऽस्ति कश्चिदित्येतत् प्रपञ्चतः प्रतिपादयिष्यते परस्तात्, उभयीमेव वाऽवस्थामास्थाय वस्तु सकलां वास्तवीं धियमा धिनोति, अन्यथाऽङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवन्न प्रधानाराधनसाधीयसी बुद्धिमा १'नुभव ' इति क-पाठः। Page #351 -------------------------------------------------------------------------- ________________ सूत्रं 4 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 325 दध्यादतिविकलत्वात्, प्रधानोपसर्जनतया तु कदाचित् किश्चिद् विवक्ष्यते शिविकावाहकयाने. श्वरयानवत्, अतः प्रत्यक्षप्रमाणप्रसिद्धपदार्थस्वरूपे नातीवायासयति बुद्धिमात्मवन्तः, तस्मानित्यानित्ययोरास्पदमेकममी पुद्गला इति न किञ्चित् कस्यचिद् बाध्यते, ते च रूपवन्त इति // अधुना भाष्यमनुश्रियतेभा०-पुद्गला एव रूपिणो भवन्ति / रूपमेषामस्त्येषु वाऽस्तीति रूपिणः // 4 // टी-पूरणाद् गलनाच पुद्गलाः-परमाणुप्रभृतयोऽनन्तानन्तप्रदेशस्कन्धपर्यवसानास्त एव _ रूपवत्तामनन्यसाधारणीमनेकरूपपरिणति सामर्थ्यापादितसूक्ष्मस्थूलविशेपुललक्षणम् पाविशेषप्रकर्षाप्रकर्षवर्तिनी विभ्रति, न धर्मादिद्रव्यविशेषा इति रूपवत्त्व, मत्रावधार्यते, तद्धि न जातुचिदतिचिरपरिचितपरमाणुयणुकादिक्रमवृद्धद्रव्यकलापमुज्झति सामर्थ्याच्च पुद्गला अपि न तां विहाय वर्तन्ते, अतः पुद्गला एव रूपिण इति सुष्ठच्यते / रूपं मूर्तिरिति च प्राक (सू० 3) प्रतिपादितम्, अतस्तदनुसन्धानाभिप्रायेणाह-रूपमेषामस्त्येषु वाऽस्तीति रूपिण इति / एषामिति पुद्गलानां परमाणुयणुकादिक्रममाजाम्, उक्तलक्षणं रूपं मूर्तिः सा विद्यत इति रूपिणः, षष्ठीप्रदर्शनात् तु भेदविवक्षावशपरिप्रापितं द्रव्यगुणयोर्नानात्वमध्यवसातव्यम्, अभेदविवक्षोपनीतं च द्रव्यपर्याययोरैक्यम्, अतस्तत्प्रदर्शनाय व्यापकाधिकरणलक्षणा सप्तमी विगृह्णता आचार्येणोपात्ता। अथवा तुल्य एव मत्वर्थोऽयमुभयत्राभेदो भेदश्च पर्यायनयापेक्षो द्रव्यास्तिकनयापेक्षश्च योजनीयः। न मूर्तिव्यतिरेकेण पुद्गलाः सन्ति, भिन्नदेशसम्बन्धित्वेनानुपलब्धः, व्यतिरेकिणोऽपि गमकत्वादसन्निहितविपक्षकस्येत्यभेदः, तथा यदिदं चन्दनमुपलभ्यते तस्य श्वेतं रूपं, तिक्तो रसः, पटुर्गन्धः, शीतलः स्पर्श इति; यश्चैष प्रत्यक्षेण प्रत्यक्षस्य व्यपदेशः सोऽर्थान्तरे दृष्टः, तद्यथा-अस्य ब्राह्मणस्यायं कमण्डलुरिति // ननु चोपन्यस्तनिदर्शनबलेन द्रव्यमेव द्रव्यादर्थान्तरमिति न गुणेभ्यो द्रव्यमिति, उच्यते-योऽयमुपलभ्यस्य समस्तैरुपलब्धैर्व्यपदेशः सोऽर्थान्तरं गमयति, तच्च द्रव्यं गुणः क्रिया वा स्यादिति कोऽपरितोषः / सेनावनादिवदनेकान्त इति चेत्, दृष्टो ह्यनर्थान्तरेऽपि व्यपदेशः सेनायाः कुञ्जरः सहकारः काननस्येति / अत्रोच्यते-न खलु प्रसिद्धमनथोन्तरत्वं सेनाकाननयोयेस्मादनियतदिग्देशसम्बन्धिषु करिपुरुषतुरगस्प(स्य?)न्दनेषु परस्परप्रत्यासत्तिजनितोपकारेष्ववधारितानवधारितेयत्तेषु बहुत्वसङ्ख्यैव सेना, तथा काननमपि, एतच्च द्वयमप्यर्थान्तरमेव, यूषपङ्क्त्यादयोऽपि द्यर्थान्तरतयैवं वक्तव्याः, यूपो ह्युत्पन्नपाकजानां द्रव्याणां कालविशेषानुग्रहे सति द्रव्यान्तरसम्पृक्तानांपाकजोत्पत्ती यः संयोगः स प इत्याख्यायतेऽर्थान्तरभूतश्च, पक्ति रप्येकदिग्देशसम्बन्धिषु परस्परप्रत्यासत्त्युपकृतेष्ववधारितानवधारितेयत्ताकेषु भिन्नाभिन्न नातीयेष्वाधारेषु वर्तमाना बहुत्वसङ्ख्यैवाभिधीयत इति / तस्मात् सापेक्षभिदं नयद्वयं वस्तुनः सद्भावमापादयति नैकान्त इत्यस्यार्थस्योद्भासनार्थमकरोद् भाष्यकारो विभक्तिद्वयेन विग्रहम्, अतोऽयं वाक्यार्थः-पुद्गलेषु मूर्तिर्भेदाभेदवर्तिनी, विवक्षावशादिति // 4 // Page #352 -------------------------------------------------------------------------- ________________ 326 तत्त्वाधिगमसूत्रम् [ अभ्यार्पः 5 पुनरेषां विशेषाभिधित्सया सूत्रमाह सूत्रम्-आकाशादेकद्रव्याणि // 5-5 // टी०-अथवा पुद्गलद्रव्यं परमाणुभेदेनानेकधा जीवद्रव्यं च नारकादिविशेषेण, तत् कि मेवं धर्मादिद्रव्याण्यपीत्यारेकानिराकरणायेदमुच्यते मा०-आ आकाशाद् धर्मादीन्येकद्रव्याण्येव भवन्ति / धर्मादीनां सक्क्या पुद्गलजीवास्त्वनेकद्रव्याणीति // 5 // टी०-आ आकाशादित्यादि भाष्यम् / अभिविधिचित्वादातो द्वित्वं ततध संहितया सूत्रपाठस्तं विवृणोति. भाष्येण-आ आकाशात अध्यायादिसूत्रोपातक्रममुद्दिश्याकाशामिव्याप्तिप्रचिकाशयिषया आ आकाशादित्युवाच / धर्मादीनीति प्रथितप्रतिविशिष्टानुपूर्वीप्रदर्शनं धर्माधर्माकाशानि एकद्रव्याण्येवेति, नैषां समानजातीयानि द्रव्यान्तराणि सन्तीति, अविलक्षणोपकारात्, धर्माधर्माकाशानां हि गतिस्थित्यवगाहोत्पत्या प्रभावित उपकारः, स्थित्यादित्रययुक्तं हि वस्त्वर्थक्रियासमर्थमभ्युपेयतेऽनेकान्तवादिभिः, धर्मादिव्यागां च गत्यादय उपकाराः स्वस्थाने युक्त्या प्रतिपादयिष्यन्ते, एकशब्दोऽसहायार्थमभिवत्ते, यथा परमाणुः पामाण्वन्तरेण सद्वितीयः, आत्मा आत्मान्तरेण ज्ञानसुखदुःख जीवनादिभेदभाजा, न धर्मद्रव्यं धर्मद्रव्यान्तरेण ससहायम्, अधर्मव्योमनी चैवमाविष्कार्ये, द्रव्यं गुणपर्यायवद (सू० 37) वक्ष्यते, तदनेन स्वंगतधर्मपरिणामप्राप्तिरापाद्यते मुक्त स्येव, अन्यथा गुणपर्यायशून्यं द्रव्यमेव न स्याद् व्योमोत्पलादिवत्, एवशब्देन नियम्यते एकद्रव्याण्येवैतानि, तुल्यजातीयद्रव्याभावात्, नियमेन चेष्टार्थसिद्धि प्रदर्शयति-पुद्गलजीवास्त्वनेकद्रव्याणीति, सम्भाव्यानेकतया पुद्गलात्मानो विशेष्यन्ते तुशब्देन, इतिकरण यस्मादर्थे, यस्मात् तुल्यजातीयभ्यस्त्वमेषां तस्मादनेकद्रव्याणि परमाणुप्रभृतीन्यनन्ताणुकस्कन्धावसानानि क्षितिजलज्जलनानिलतरुद्वित्रिचतुष्पश्चेन्द्रियात्मानश्चेति भावनीयम् // 5 // अयमपरो विशेषस्तेषामेवाभिधीयते सूत्रम्-निष्क्रियाणि च // 5-6 // री.-अथवा एवं तावदरूपित्वैकद्रव्यत्वे विभज्याख्याते इदमपि विभज्याख्यायत इत्याहचार्थमाचष्टे भाष्यकारः भा०-आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति / धर्मादिषु क्रियावि चार पुद्गलजीवास्तु क्रियावन्तः / क्रियेति गतिकर्माह // 6 // टी०-आ आकाशादेव धर्मादीनीत्येतावता भाष्येण कथं भाव्यते / अनन्तरसुत्रे सामर्थ्यपरिप्रापितानि धर्मादीन्यनुष्यन्ते, धर्मादीन्याकाशान्तानि निष्क्रियाणि भवन्ति, Page #353 -------------------------------------------------------------------------- ________________ सूत्र) स्वोपज्ञभाष्य टीकालङ्कृतम् 327 अपेतक्रियाणि निष्क्रियाणि, करणं क्रिया-द्रव्यस्य भावस्तेनाकारेण, स चैषां न समस्ति, यस्माद् धर्माधर्माकाशान्यनासादितातिशयान्येव सर्वदा पूर्वापरावस्थाभेदमनाजिहानानि किल लक्ष्यन्ते, तदेतदपव्याख्यानमवधीरितसमयसद्भावैरकारि, यतः सर्वमेव सदुत्पादव्ययध्रौव्यधर्मात्मव्यवस्था नातिकामति, तदेतेऽपि धर्मादयो यदि सत्तां नातिलङ्घयन्ति भवितव्यं तदा ताहि क्रिययैषामुत्पादविगमलक्षणया जीवानामिव / अथ सत्तातिक्रमेणाभ्युपेयन्ते तदानीं द्रव्यतैवावहीयते गगनेन्दीवरादिवत्, भगवानपि व्याजहार प्रश्नत्रयमात्रेण द्वादशाङ्ग प्रवचनार्थ सकलवस्तुसङ्ग्राहित्वात् प्रथमतः किल गणधरेभ्यः-"उप्पण्णेति वा विगमेति वा धुवेति चा" / तदेतदशेषं विशीर्यते / तस्माद् द्रव्यत्वान्मुक्तात्मवदुत्पादव्ययस्थितिमत्त्वमनुमिमते हैतुकाः / तथा चावधृतसिद्धान्तहृदयेन विशेषावश्यककारेण नमस्कारनियुक्तौ शब्दानित्यत्वप्रतिपादनेच्छयाऽवाचि "अवगाहणादओ नणु गुणत्तओ चेव पत्तधम्मन्च / उप्पादादिसभावा तह जीवगुणावि को दोसो॥ अवगाढारं च विणा कत्तोऽवगाहोत्ति तेण संजोगो। उत्पत्ती सोऽवस्सं गचुवकारादओ चे // ण य पञ्जयतो भिष्णं दवमिहेगं ततो जतो तेण / सण्णासंमि कहं वा नभादओ सव्वहा णिचा ? // " (गा० 2821-2823) अयमासामर्थोऽवधार्यः-गुणत्वात् पत्रनीलतावनभोऽवगाहोऽप्यनित्यः, नभसोऽवगाहः स्खलक्षणमुपकारः, स चावगाढारमन्तरेण जीवादिकं नाभिव्यज्यत इति अवगाढजीवादिसंयोगमात्रमवगाह इति, संयोगधोत्पादी संयुज्यमानवस्तुजन्यत्वाद द्वयङ्गुलसंयोगवत,यथा चावगाह आकाशस्यैवं गतिस्थित्युपकारावपि धर्माधर्मयोर्गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावा इति / कथं तर्हि निष्क्रियत्वमेषामत आह-पुद्गलजीवास्तु क्रियावन्तः, क्रियेति गतिकर्माह सूत्रकारः, पुद्गलजीववर्तिनी या विशेषक्रिया देशान्तरप्राप्तिलक्षणा तस्याः प्रतिषधोऽयम्, नोत्पादादिसामान्यक्रियायाः, पुद्गलास्त्वितो देशान्तरमास्कन्दन्तः समुपलभ्यन्ते जीवाश्चेत्यतस्ते क्रियावन्तः, असुमेवार्थ धात्वन्तरेण प्रसिद्धदेशान्तरप्राप्त्यर्थेन प्रकाशयति-गतिः क्रियाशब्दे१ उत्पन्न इति वा विगत इति वा ध्रव इति वा। 2 अवगाहनादयो ननु गुणत्वतश्चैव पत्रधर्म इव / उत्पादादिस्वभाषास्तथा जीवगुणा अपि को दोषः // . . अवगाढार च विना कुतोऽवगाह इति तेन संयोगः। उत्पादी सोऽवश्यं गत्युपकारादयश्चैवम् // 2 // मच पर्ययतो मित्रं द्रव्यमिहकान्ततो यतस्तेन / सभा व्यं वा नमादयः सर्वथा वित्याः // 3 // Page #354 -------------------------------------------------------------------------- ________________ 328 तत्त्वार्थाधिगममूत्रम् [अध्यायः 5 नाभिधित्सिता विशिष्टैव, न क्रियासामान्यम्, धर्मादयः पूर्वावष्टब्धप्रदेशात् प्रदेशान्तरमपि विचलितुमनुत्सहमानाः कथमेवैवंविधक्रियाधारतां प्रतिपत्स्यन्ते ? तस्मानिष्क्रियाणीति निरवद्यं दर्शनम् // 6 // अधुनाऽधिकृतधर्मादिद्रव्याणां सर्वेषामेव प्रदेशावयवेयत्ताविष्करणार्थमिदमुच्यते भा०-अत्राह-उक्तं भवता-प्रदेशावयववहुत्वं कायसंज्ञामिति / तेत् क एष धर्मादीनां प्रदेशावयवनियम इति ? / अत्रोच्यते टी०-अत्राह-उक्तमित्यादिना सम्बन्धयति, अध्यायादिसूत्रे यस्मादजीवकाया इत्यत्र कायग्रहणं प्रदेशावयवबहुत्वार्थमिति व्याहृतम्, तस्मात् क एषां धर्मादीनां जीवान्तानां प्रदेशावयव नियम इति, अत्रेति प्रदेशावयवनियमप्रश्ने यथागममभिधीयते मया, एषोऽभिप्रायः प्रश्नयितुः-अमूर्तेषु धर्मादिष्ववयवव्यवहारो नास्ति, मूर्तेषु चान्त्यभेदावस्थेषु परमाणुषु, अवयवव्यवहारो हि मूर्तेष्वेव प्रतीयत इत्यतो नियमोऽभिधेयः के एपामवयवा इति / भा०–सर्वेषां प्रदेशाः सन्ति, अन्यत्र परमाणोः। अवयवास्तु स्कन्धानामेव / वक्ष्यते हि-'अणवः स्कन्धाश्च, सङ्घातभेदेभ्य उत्पद्यन्ते' (अ० 5, सू० 25-26) // टी.-सर्वेषामित्यादि भाष्यम् / मूर्तानाममूर्तानां च प्रदेशाः सन्ति-विद्यन्ते, संव्यवहारार्थे प्रदिश्यन्त इति प्रदेशाः, तत्र धमाधमोकाशजीवानां द्रव्यपरमाणुमूर्तिव्यवच्छिन्नाः प्रदेशाः, यथाऽऽह-"निरवयवः खलु देशः, खस्य क्षेत्रप्रदेश इति दृष्टः" / पुद्गलद्रव्यस्य तु निरंशो द्रव्यात्मना भागः प्रदेश इत्युच्यते, न तु तस्यान्यः प्रदेशोऽस्ति, अतः परमाणोरन्यत्रेत्युक्तम्, इदं च द्रव्यांशं प्रदेशध्वनिवाच्यमाधाय चेतसि भाष्यकारेणोक्तमन्यत्र परमाणोः प्रदेशाः सन्ति, न पर्यायांशं रूपादिलक्षणम् / यतः प्रशमरतौ (श्लो०२०८) अनेनैवोक्तं-"परमाणुरप्रदेशो, वर्णादिगुणेषु भजनीयः" / अत एव च भेदः प्रदेशानामवयवानां च, ये न जातुचिद् वस्तुव्यतिरेकेणोपलभ्यन्ते ते प्रदेशाः, ये तु विशकलिताः परिकलितमूर्तयः प्रज्ञापथमवतरन्ति तेऽवयवा इत्यत आह–अवयवा इत्यादि / विशेषार्थस्तुशब्दः / विस्रसारयोगाभ्यामवयूयन्त इत्यवयवाः पृथक् क्रियन्त इतियावत्, ते च स्कन्धानामेव द्यणुकादिकमवतामनतिक्रान्तरूपादिभेदानाम्, एवशब्दो नियामकः / धमोधमोकाशजीवाणूनां न सन्त्यवयवाः, स्कन्धानामेव भवन्ति / कुत एतदेवमित्याह-वक्ष्यत इत्यादि / यस्माद् वक्ष्यते सूत्रकारः-संघातभेदजाः स्कन्धाः (मू० 26 ) / वियुतानामवयवानां संहतिपरिणतौ स्कन्धा जायन्ते, संहतानां च भेदपरिणतौ घणुकादयः सम्भवन्ति, परमाणवस्तु भेदादेवावयूयमाना अवयवास्तस्मादवयवव्यवहारः पुद्गलद्रव्यविषय एवाध्यवसेयः॥ १'तस्मात् क एषां धर्मा' इति घ-पाठः। 2 एवं च सति स्कन्धादिरूपभेदचतुष्टयं पुदलास्तिकाये न स्यात् तत्त्वतः स्पष्टोपलभ्याः नेहादिकृतसंयोगवि. योगभावः अंशा अवयवास्ते यैः द्रव्यमन्यत् क्रियते भवन्ति वा ते स्कन्धेष्वेव, परेष्वप्रसिद्धत्वादवयवाहो न / Page #355 -------------------------------------------------------------------------- ________________ 329 सूत्रे७-८ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् अधुनाऽवसितप्रदेशावयवनियमो धर्मादिद्रव्यप्रदेशानामियत्तामाविष्करोति, तत्रधर्माधर्मयोः प्रदेशसङ्ख्या सूत्रम्-असङ्ख्येयाः प्रदेशा धर्माधर्मयोः // 5-7 // टी.-सत्रेत्यादि / तेषु धर्मादिषु द्रव्येषु पञ्चसङ्ख्यावच्छिन्नेषु धर्माधर्मयोर. सङ्ख्येयाः प्रदेशा धर्माधर्मयोः प्रत्येकमसङ्ख्येयाः प्रदेशा भवन्ति, ते च लोकाकाशप्रदेशमानाः सङ्ख्येयानन्तसङ्ख्याद्वयव्युदासेनासङ्ख्येयाः कथ्यन्ते / प्रदेशस्वरूपनिर्दिधारयिषुराहभा०-प्रदेशो नामापेक्षिकः सर्वसूक्ष्मस्तु परमाणोरवगाह इति // 7 // टी०-प्रदेशो नामेत्यादि। प्रकृष्टो देशः प्रदेशः परमनिरुद्धो निरवयव इतियावत्, नामशब्दः किलार्थे, परोक्षत्वात् तस्य, एवं हि सर्वज्ञाः प्रत्यक्षेणोपलभ्य कथयन्ति, अपेक्षाप्रयोजनः अपेक्षानिवृत्तो वा आपेक्षिकः, स च स्वसिद्ध एवार्वाग्रदर्शनैरस्मदादिभिरनेनाभ्युपायेन प्रज्ञाप्यमान, आपेक्षिक उच्यते, सर्वेषां धमाधमोकाशजीवानामापेक्षिकत्वे सत्यपि सूक्ष्म एव, न स्थूलः / तुशब्दोऽवधारकः / आपेक्षिकत्वं निरूपयति-परमाणोरवगाह ति / द्रव्यपरमाणुपरिग्रहेण प्रदेशपरिमाणोरवगतिः क्रियते, तदेतदुक्तं भवति-तन्मूर्तिमावाक्रान्तो देशः प्रदेश उच्यते, अवगाहो व्यवस्थानमाक्रान्तिरध्यासनमिति पर्यायाः, न पुनरिहावगाहो गतिः / नन्वेवमाकाशस्यैव प्रदेशो निरूपितः स्यात्, नो धर्मादीनाम्, यतोवगाह आकाशस्य लक्षणम् / अस्तु, को दोषः? प्रदेशलक्षणं तावनिज्ञातम्, लोकाकाशे च यत्राकाशप्रदेशः स च यावांस्तत्रैव धर्मास्तिकायप्रदेशोऽवगाढः स च तावानेवेति, एवमधर्मप्रदेशोऽपि तत्र वाच्योऽतस्तुल्यप्रमाणत्वादेकेनैव प्रघट्टेन प्रदेशनिरूपणम्, तत्राकाशमवकाशदाने व्याप्रियते, गतिपरिणतो धर्म उपकारकः, स्थितिपरिणामे चाधर्मद्रव्यमुपकरोति, तसाद सर्वप्रदेशानामिदमेवापेक्षणीयमव्याहतं लक्षणम् / इतिशब्देनोपसंहरन्ति-धर्माधर्मयोरियती प्रदेशसङ्ख्येति // 7 // अधुना त्वसङ्ख्येयप्रदेशे प्रस्तावमुपजीवन् जीवस्य तत्तुल्यप्रदेशनियतत्वात् प्रदेशनियमं विधत्तेजीवस्य प्रदेश- सूत्रम्-जीवस्य च // 5-8 // ___भा०–एकजीवस्य चासङ्ख्येयाः प्रदेशा भवन्तीति // 8 // सङ्ख्या 1 यथा हि स्कन्धेषु संबद्धः प्रदेशः कदाचिदपि आगत्य संलग्नो नैषमयमिति भावः / निश्चयपरमाणुज्ञापनाय सर्वेत्यादि, अन्यथा तु एकस्मिन्नपि परमाणुसमूहस्य तन्मयस्य च स्कन्धस्य चावगाहात्, तथापि नैकः परमाणु। प्रदेशाद्वयावगाहीति सुक्तमिदं, सूक्ष्मावगाहस्य तस्यैव भावात् / Page #356 -------------------------------------------------------------------------- ________________ 330 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः टी-एकजीवस्य चेत्यादि भाष्यम् / जीवो ज्ञानदर्शनोपयोगस्वभावः स कदाचित् सामान्येन निर्दिश्यते जीव इत्याक्षिप्तसकलनारकादिभेदो गोशब्दवत् समस्तस्त्रभेदाक्षेपी, कदाचि प्रतिविशिष्टोपाधिव्यवच्छिन्नो व्यक्तिपदार्थाश्रयणेन, तत्रैकशब्देन सर्वजीवराशिव्यवच्छेदमादर्शयति, एकजीवस्य एकस्या व्यक्तेरिति, चशब्देनासङ्ख्येयप्रदेशतामात्मन्यनुसन्धत्ते, प्रसिद्ध धर्मादिक्रमोल्लङ्घनाभिधानं तुल्यप्रदेशाख्यानलाघवार्थम् / एकयोगाकरणाचोनीयते सूत्रकाराभिप्रायः सङ्कोचविकासस्वभावास्तुल्येऽप्यसङ्ख्येयप्रदेशत्वे जीवप्रदेशाश्चर्मादिवत्, धर्मावर्ययोस्तु सततमेव विततावस्थिताः, ते च सङ्कोचविकासस्वाभाव्याजातुचिनिकृष्टकुन्थुविग्रहशाहिणः कदाचित् तामेव सङ्ख्यामजहन्तः स्थूलं करिणः शरीरमाददते विकाशित्वादिति // 8 // आकाशस्यापि यथोक्तद्रव्यवत् प्रदेशनियममभिधित्सुराह सूत्रम्-आकाशस्यानन्ताः // 5-9 // टी०-अगवाहदानादाकाशमित्येवं न गृह्यते लोकाकाशमात्रसिद्धेः, नह्यलोकेऽवगाढमस्ति किश्चिज्जीवपुद्गलादि, तदभावादनाकाशमेव तत् स्यात्, इष्यते च, अतः संज्ञैवेयमनादिकालीना द्रव्यान्तरस्य धर्मादिसंज्ञावत् // अन्ये मन्यन्ते-तस्याप्यवगाहदानशक्तिरस्ति, सा त्ववगाहकाभावान व्यज्यते, यदि स्यादवगाहकं तत्र व्यापारं यायात् तदवगाहपरिणत्या, न त्वस्ति, तस्मात् तदप्यवगाहदानशक्तियुक्तत्वादाकाशम् // अपरे पुनरुपचारमाचरन्ति-आका ___ शवदाकाशं शुषिरदर्शनादिति, एतदप्यसत्, सिद्धान्तापेतत्वात् / अथ ये अलोकेऽवगाहदातृतायां विचार .व्याचक्षते-व्ययोत्पादौ न स्वतो व्योम्नः, किन्तु परप्रत्ययाजायेते, अवगाहक सन्निधानासन्निधानायत्तावुत्पादव्ययाविति, तेषां कथमलोकाकोशे? अवगाहकाभावाद् , अर्धवैशसं च सतो लक्षणं स्याद् , व्यापि चेष्यते स्थित्युत्पादव्ययत्रयमिति / अत्रोच्यते य एवं महात्मानस्तर्कयन्ति स्वबुद्धिबलेन पदार्थस्वरूपं तेऽत्र निपुणतरमनुयोक्तव्याःकथमेतत् ? वयं तु विनसापरिणामेन सर्ववस्तूनामुत्पादादित्रयमिच्छामः प्रयोगपरिणत्या च जीवपुद्गलानाम् , इत्थं तावदस्मदर्शनमविरुद्धसिद्धान्तसद्भावम् , अस्मदुक्तार्थानुगुणमेव च भाष्यकारेणाप्युच्यते // भा०--लोकालोकाकाशस्यानन्ताः प्रदेशाः / लोकाकाशस्य आकाशस्य प्रदेश- - सङ्ख्या तु धमाधमकजीवस्तुल्याः॥९॥ टी०-लोकेत्यादि / यद्याकाशशब्देनाकाशमविशिष्टमभिधिसितं ततोऽनन्तप्रदेशता समीचीना भवेद, विभागव्याख्यानं च जीवाजीवाधारक्षेत्रं लोकस्ततः पर 1 एकयोगकरणे हि जीवास्तिकायस्य जीवसमूहमयस्यासंख्येयप्रदेशत्वं स्यात्, न तु प्रतिजीवं सांकर्यात्, एकजीवेति प्राकसत्रे न प्रवेशितम् , यथा दश वर्षसहस्राणि प्रथमायां भवनेषु व्यन्तराणां चेत्यत्र, अन्यथा तत्रापि दश वर्षसहस्राणि रत्नप्रभाव्यन्तरेष्वित्येवं वक्तुं शक्यत्वात्, यथा वा रूपिजीवयोगोपयोगेष्वादिमानित्यपि नोक्कमिति / 2 आकाशस्यावगाह इति सिद्धस्याकाशस्योपकाराख्यानं; न तु तेनैव सिद्धिः, तस्य साधनत्वेऽपि च व्याप्यत्वात् म तदभावे आकाशाभावः। Page #357 -------------------------------------------------------------------------- ________________ सूत्रे 10-11] स्वोपज्ञभाष्य-टीकालङ्कृतम् 331 मलोकः, अतः सर्वाकाशस्यानन्ताः अपर्यवसाना इत्यर्थः / अथ योऽयं जीवाजीवाधारावधिना कतो लोकाकाशविभागस्तत्र कियन्तः प्रदेशा इत्याह-लोकाकाशस्येत्यादि / अन्यूनानधिकातिपत्त्यर्थस्तुशब्दः / धर्माधर्मकजीवैस्तुल्या एव नोनाधिकभावभाज इति // 9 // अथ पुद्गलानां का प्रदेशस_ख्येत्युच्यते सूत्रम्-सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् // 5-10 // टी-सङ्ख्येया इत्यादि मूत्रम् / पूरणगलनपरिणतिलब्धसंज्ञकाः पुद्गलाः परमाशूपक्रमा अचित्तमहास्कन्धपर्यवसाना विचित्ररूपादिपरिणतयस्तेषां प्रदेशाः सम्भवतः सङ्ख्येया असङ्ख्येया अनन्ताश्च भवन्ति, सङ्ख्येयपरमाणूपचितः स्कन्धः सङ्ख्येयप्रदेशः, एवमितरावपि स्वसङ्ख्यावच्छिन्नाणुघटितावसङ्ख्येयानन्तप्रदेशौ वाच्यौ, अनुपात्तानन्तप्रदेशता सूत्रे न लभ्यते, तल्लाभाय यत्नश्वशब्दोपादानं, तदर्थदर्शनार्थमिदमाहपदालानां प्रदेश- भा०-सङ्ख्येया असङ्ख्येया अनन्ताश्च पुद्गलानां प्रदेशा संख्या भवन्ति-अनन्ता इति वर्तते // 10 // टी०-अनन्ता इति वर्तते, तदेतदुक्तं भवति-अनुवर्तन्ते च नाम वि(ध)घेयो न चानुवर्तनादेव भवन्ति, किं तर्हि ? यत्नादिति / नन्वणुरपि पुद्गलशब्देनाक्षिप्तः पूरयति गलति च यतः तस्य चानन्तरसूत्रेण सङ्ख्येयासङ्ख्येयानन्तप्रदेशविकल्पानामन्यतमेन विकल्पेन भवितव्यम्, पुद्गलवाभावो वा परमाणोः, यदि च सङ्ख्येयादिप्रदेशभागिष्यते ततोऽगुरेव न स्याद घटादिवत्, अथाप्रदेशस्ततोऽसन्नती गगनोत्पलादिवदिति, अत्रोच्यते-द्वये प्रदेशाः द्रव्यरूपाः पर्यायरूपाः, पर्यायस्वभावाश्च रूपादयस्तदङ्गीकरणेन सप्रदेशः परमाणुः // 10 // अथ यथा :द्रव्यात्मकैरणुप्रदेशैः सप्रदेशो घटस्तथाऽणुरित्येवमसिद्धार्थताप्रचिकाशयिपया आह सूत्रम्-नाणोः // 5-11 // भा०-अणोः प्रदेशा न भवन्ति // टी-अणोरापूरकाः परिणामिकारणभावभाजो द्रन्यरूपाः प्रदेशा न भवन्ति / अथ सप्रदेशत्वेन परमाणुत्वाभावः साध्यते, ततः स तादृशोऽन्त्यः प्रदेशः परमाणुन भवतीति प्रतीतिविरोधः, सप्रदेशत्वं चाव्यापकासिद्धदोषाघातं वनस्पतिचैतन्ये स्वापवत् / नहि पक्षीकृतेऽणौ सर्वत्र सप्रदेशत्वमस्ति, क्षेत्रकालभावाख्ये द्रव्यपरमाणावेव तत् / येऽपि प्रमाणयन्ति मध्यविभागादिरहितत्वायोमोत्पलादिवदसन्नसौ तद्वत्त्वाद् वा नाणुर्घटादिवदित्यत्रापि पूर्वके प्रमाणे विज्ञानक्षणेनानेकान्तः, दिग्विभागकल्पनाऽप्यनेन प्रत्युक्ता, पाश्चात्यप्रयोगे हेत्वसिद्धतोद्विभावयिषया भाष्यकार आह 1 परमाणुरपि संयुज्य पूरयति वियुज्य गालयतीति, कश्चिदपि नानादिपरमाणुः / Page #358 -------------------------------------------------------------------------- ________________ 332 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः / भा०-अनादिरमध्योऽप्रदेशो हि परमाणुः // 11 // परमाणोः स्वरूपम् यस्मादादिमध्यान्त्यप्रदेशैः परिहीण एव परमाणुरिष्यते, अप्रदेशग्रहणादन्तपरिग्रहः, अथवाऽऽदिमध्यग्रहणादथेप्राप्तमेवान्त्यग्रहणम्, अस्मिन् पक्षे अप्रदेश इति प्रतिविशिष्टप्रदेशनिराकरणमेव कृतं भवति, आदिमध्यान्तप्रदेशैरप्रदेशोन रूपादिभिरिति न चादिमध्यान्तावयव निवन्धनं वस्तुत्वं प्रतीतम्, विनाऽपि तैर्विज्ञानाद्युपलब्धेः, अविभागत्वादेव च व्योमानुप्रवेशोऽपि प्रत्याख्यातः, न च सर्वगतत्वव्याघातो व्योम्नः, सकलवस्तुसमन्धित्वेनाभ्युपगम्यमानत्वात् प्रसिद्धविज्ञानक्षणवत्, अतः स्वयमेव प्रदेशोऽसौ,न तस्यापरे प्रदेशाः सन्ति द्रव्यस्वभावाः, सर्व च साधनं तनिराकरणेऽभिधीयमानमनुपासितयथार्थगुरुवचसा परेणैवमधिगतद्रव्यपर्यायनयद्वयसद्भावेन स्याद्वादिना विघटनीयमागमयुक्त्यनुसारिणेति॥११॥ ___ अथैतानि धर्माधर्मपुद्गलजीवद्रव्याणि किं व्योमवत् स्वात्मप्रतिष्ठान्याहोस्विजलादिवंदाधा रान्तरप्रतिष्ठानीति ? / उच्यते-निश्चयनयाभिप्रायात सर्वमेव वस्तु स्वात्मप्रतिष्ठं व्योमवत्, व्यहाराभिप्रायाद् धर्माधर्मपुद्गलजीवानाम् सूत्रम्-लोकाकाशेऽवगाहः॥ 5-12 // अवगाहविचारः भा०-अवगाहिनामवगाहो लोकाकाशे भवति // 12 // टी०-अवगाहिनाम्-अनुप्रवेशवतामवगाहः-प्रवेशः प्रतिष्ठा पुद्गलादीनां धर्माधर्मद्रव्ययावगाढे व्योग्नि भवति, धर्माधर्मयोश्वाकाशेवगाहोऽनादिकालीनः, परस्पराश्लेषपरिणत्या तथासन्निवेशात्, इतरत्राकाशेऽवगाहो नास्ति जीवादीनाम्, धर्माधर्माभावात्, गतिस्थित्युपरहकारित्वात् धर्माधर्मयोः, तावेव तत्र कमान स्तः ? न हि स्वभावे पर्यनुयोगोऽस्तीत्युपेक्ष्य लोकाकाशेऽवगाहो धर्मादीनामेतावदुक्तम्॥१२॥ ___ इदं त्वधुना वाच्यं किं सर्वात्मनाऽवगाहः सर्वलोकाकाशप्रदेशव्याप्त्या क्षीरोदकविषरुधिरादिवदुत पुरुषहदवदिति ? / एतद् विभज्योच्यते सूत्रम्--धर्माधर्मयोः कृत्स्ने // 5-13 // भा०-धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति / / 13 // टी.-सर्वत्र लोकाकाशे धर्माधर्मयोरयुतसिद्धावपि चन्द्रमण्डलाधेयचन्द्रिकावदवगाहो न परतः, चेतनावच्छरीर एवोपकारदर्शनाद् बहिरदर्शनाच्च तन्मात्रवर्तित्वमध्यवसीयते, अतः क्षीरोदकवदन्योन्यावगाहपरिणत्या व्यवस्थानं, न पुरुषहदवदिति व्यवच्छिनत्ति कृत्स्नशब्दोपादानादिति // 13 // १“धर्मादीनां' इति क-पाठः। Page #359 -------------------------------------------------------------------------- ________________ सूत्र 15 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 333 ___ अथ पुद्गलानां कथमवगाहो लोकाकाश इत्युच्यते सूत्रम्-एकप्रदेशादिषु भाज्यः पुद्गलानाम् // 5-14 // टी--एकप्रदेशादिष्वित्यादि सूत्रम् / एकप्रदेशादिष्विति समानाधिकरणगर्भो बहुव्रीहिः, एकश्चासौ प्रदेशश्चेति, प्रदेश उक्तलक्षणः, एकप्रदेश आदिर्येषां तेष्वेकप्रदेशादिषु प्रदेशेषु पुद्गलानामणुप्रभृतीनामवगाहो व्याख्येयः। भा०-अप्रदेशसङ्ख्येयासङ्ख्येयानन्तप्रदेशानां पुद्गलानामेकादिष्वाका . शप्रदेशेषु भाज्योऽवगाहः / भाज्यो विभाष्यो विकल्प्य इत्यनपुद्गलाना थान्तरम् / तद्यथा-परमाणोरेकस्मिन्नेव प्रदशे, घणुकस्यैकस्मिन् - द्वयोश्च, व्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च, एवं चतुरणुकादीनां सङ्ख्येयासङख्येयप्रदेशस्यैकादिषु सङ्ख्येयेषु असङ्ख्येयेषु च, अनन्तप्रदेशस्य च॥१४॥ __टी०-अप्रदेशेत्यादि भाष्यम् / अविद्यमानद्रव्यान्तरप्रदेशः परमाणुरप्रदेशः, स्वयं च प्रदेशः,प्रचयविशेषात् सङ्ख्येयपरमाणुघटितः सङ्ख्येयप्रदेशः पुद्गलः, एवमसङ्ख्येयानन्तप्रदेशावपि स्कन्धौ पुद्गलाविति वाच्यौ, एकादिष्वाकाशप्रदेशेष्विति सूत्रावयवं स्पष्टतरेण वृत्तिवाक्येन व्याचष्टे-एक आदिर्येषामाकाशप्रदेशानां तेषु भाज्योऽवगाहः अप्रदेशादीनाम्, अनेकार्थत्वाद् धातूनां विभाष्यो विकल्प्य इत्याह, विशेषेणातिशयेन परमाणपक्रमेण भाषणीयो व्याख्येयः, विकल्पस्तु भेदसम्भवे, यथा घणुकस्यैकस्मिन् प्रदेशे द्वयोश्चेत्यादि भाष्य सुज्ञानमेव, परमाणोस्तु भेदाभावादेकस्मिन्नेव प्रदेशेऽवगाह इति विकल्पाभावः, कयं पुनरेकाकाशप्रदेशेऽत्यन्तसूक्ष्मेऽसङ्ख्येयादिप्रदेशाः स्कन्धाः प्रतिष्ठां प्रतिपद्यन्ते ? न हि घटे चतुरुदधिजलावस्थानमस्ति,अतिबहुत्वादल्पावकाशत्वाच्च घटस्येति / अत्रोच्यते-ननुप्रचयविशेपाद् दन्तिदन्तशकलमल्पप्रदेशावगाहि दृष्टम्,भेण्डखण्डं तु तावत्परिमाणमेव बहुतराकाशप्रदेशव्यापि दृष्टम्, अथ च बहुतरावयवता कुञ्जरदन्तशकले, तस्माद् परिणतिविशेष एवासौ तादृशः परमसुक्ष्मो येनानन्ता अपि परमाणवः स्कन्धीभूताः प्रदेशमेकमाश्रित्य विहायसो वर्तन्ते, यथा वाऽतिनिबिडेनायस्पिण्डेन व्याप्ते नभोदेशे निरन्तरे भस्त्रासमीरणसमीरिताः पुनर्विभावसोरवयवास्तत्रानुमज्जन्ति, विध्याप्यमाने च विगतरन्ध्रेष्यसि प्रतप्ते वारिलेशाः सूक्ष्मपरिणामवर्तिनो निर्लाहति प्रविशन्त्येवेत्येवमागोपालाङ्गनादिजनप्रतीतमाकाशस्य दुर्भरत्वमिति मा मुहः, सिकताकणनिकरेण वा परिपूरिते प्रस्थके प्रस्थ एवापरोपों विशन् दृष्टः, एकप्रदीपप्रभावितानकावभासिते च गर्भगृहकादौ प्रदीपसहस्रप्रभाजालाकारपरिणतपुद्गलानुप्रवेशः प्रत्यक्षप्रमाणसमधिगतस्तद्वदेवैकाकाशदेशे धनपरिणतिविशेषाभ्युपगमादनन्तपरमाणुघटनाविनिर्मितस्कन्धावस्थानमवसेयमिति // 14 // 1 'नन्तानां' इति क-ख-पाठः। 2 एकः संख्येयशब्दोऽधिकः ग-पाठः / 3 विकल्प्यस्तु' इति ग-पाठः / 4. रेकाकाश' इति ग-पाठः। 5' एवापरः पयसां प्राविशन्' इति ग-पाठः / Page #360 -------------------------------------------------------------------------- ________________ [ अध्यायः 5 334 तत्त्वार्थाधिगमसूत्रम् अथ जीवानां कियति क्षेत्रेऽवगाह इति उच्यते सूत्रम्-असख्येयभागादिषु जीवानाम् // 5-15 // टी०-असख्येयभागादिष्वित्यादि मूत्रम् / असङ्ख्येयभागादिष्विति समानाधिकरणगर्भो वहुव्रीहिः, लोकाझाश इत्यनुवर्तते सप्तम्यन्तम्, अर्थवशाच विभक्तेः परिणाम इति लोकाकाशस्यासङ्ख्येयभागादिष्वित्यभिसम्बन्धनीयम्, असङ्ख्येयश्चासौ भागश्च स _ आदिर्येषां तेऽसङ्ख्येयभागादयस्ते सङ्ख्येया एव भागाः, तत्र कदाजावानामवगाह चिदेकस्मिन् लोकाकाशप्रदेशासङ्ख्येयभागे कदाचिद् द्वयोरसख्येयभागयोः कदाचित् त्रिष्वित्यादि जीवानामवगाहो भवति // भा०-लोकाकाशप्रदेशानामसङ्ख्येयभागादिषु जीवानामवगाहो भवति, आ सर्वलोकादिति // 15 // ____ अत्राह-को हेतुरसङ्ख्येयभागादिषु जीवानामवगाहो भवतीति ? / अत्रोच्यते____टी०-लोकाकाशेत्यादि भाष्यम् / अमुना भाष्येणाधिकारानुवृत्तिं दर्शयति विभक्तिपरिणतिं च / लोकाकाशप्रदेशाः सर्व एवासङ्ख्येयास्ते पुनरसङ्ख्येयैर्भागैर्धिया विभज्यन्तेऽङ्गुलासङ्ख्येयभागप्रमाणैः, तत्रैकस्मिन्नसङ्ख्येयप्रदेशे वियत्खण्डे जघन्यत एकजीवस्यावगाहो भवति कार्मणशरीरानुविधायित्वात्, कश्चित् पुनस्तादृशं खण्डद्वयमाक्रम्य वर्तते, कश्चित् त्रीणि तादृशं, परश्चत्वारीत्यादि यावत् सकललोकाकाशमन्यो व्याप्यावतिष्टते,समुद्धातकाले केवल्येव, नापरः, लोकमर्यादया, न पुनरलोकाकाशस्यैकमपि देशमाक्रामतीति दर्शयति // 15 // अत्राहेत्यादि सम्बन्धग्रन्थः / एवं मन्यतेऽवतासङ्ख्येयप्रदेशपरिमाणस्य कार्मणशरीरापादितौदारिकादिशरीरसम्बन्धादल्पबहुप्रदेशव्यापितायां को हेतुरसङ्ख्येयभागादिष्वित्यादि। नहि तुल्यपरिमाणानां पटादीनामवगाहे वैषम्यं दृष्टम्, अस्यापि तुल्यप्रदेशत्वात् किमिति तथा नाभ्युपेयत इत्याक्षिप्ते, अत्रोच्यत इत्याह / अत्र प्रश्ने प्रतिविधीयते सूत्रम्--प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् // 5-16 // टी०-प्रदेशलक्षणमुक्तम्, एकस्यात्मनः प्रदेशा लोकाकाशप्रदेशराशिमानाः तेषां संहारः-सोचः विसर्गो-विकासस्ताभ्यां संहारविसर्गहेतुभ्यामेतदेवं वैषम्यं प्रदीपवत, यथा प्रदीपास्तेजोऽवयवा यथावकाशानुविधायिनः स्वल्पेऽवकाशे सङ्कोचमास्थायासते, महति . चोपने विकाशं भजन्ते, तथात्मनोऽपि प्रकर्षप्राप्तसङ्कोचस्यैकस्मिन्नसङ्ख्येय. आत्मप्रदेशानां , सङ्कोचविकासौ ना भागे लोकस्यावस्थानमुत्कृष्टविकाशप्राप्तस्य च केवलिनः सर्वलोकेऽवगाहो न्या मध्यमावस्थानेकभेदेति / एतदेव विस्तरेण दर्शयति भाष्यकार:भा०-जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव / Page #361 -------------------------------------------------------------------------- ________________ सूत्रं 16 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 335 टी-जीवस्थ हीत्यादि / यस्माज्जीवस्य प्रदेशानां सङ्कोचविकासाविष्येते, पटस्येव पिण्डितविततावस्थायिता, प्रदीपप्रकाशस्येव सङ्कुचनप्रसारणे, चर्ममण्डलस्येव संहारविसाविति // ननु च तद्वदेवानित्यः स्यात्, असाम्प्रतमिदम्, नहि स्याद्वादिभिः प्रदीपादीनामनित्यत्वसेकान्ततोऽभ्युपगम्यते, द्रव्यपर्यायनयद्वयाविष्टत्वात् सर्वस्य वस्तुन इत्यतो नित्यानित्यादिविकल्पभाजः सर्वे पदार्था इति सगरो जैनानाम् / आत्माऽप्येवंधर्मक एवेति चेत्, सिद्धसाध्यता / एतेनैतदपि प्रत्युक्तम् ___ "वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् / - चर्मोपमश्चेत सोऽनित्यः खतुल्यश्चेदसत्केलः // " नव्योमैकान्तेन नित्यं नापि चर्मानित्यमुत्पादादित्रययुक्तत्वाद् विश्वस्य वस्तुनः, तच्चोक्तं वक्ष्यते च, एकान्तनित्यानित्ययोश्च कर्मफलसम्बन्धाभावः // दीपस्य सङ्कोचविकासप्रदिदर्शयिषया आह भा०-तद्यथा-तैलवय॑ग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशाला प्रकाशयति, अण्वीमपि, माणिकावृतो माषिकां, द्रोणावृतो द्रोणं, आढकाकृतबाढकं, प्रस्थावृतः प्रस्थं, पाण्यावृतः पाणिमिति // टी-तद्यथा-तैलवर्तीत्यादि। भास्वत्किरणनिकरः प्रदीपो माणिकाढकप्रस्थावधिकरणसम्बन्धी निरावरणव्योमसमन्धकारावधृतप्रमाणः तेजोऽवयवसंहारादल्पोऽल्पतरोऽल्पतमो वाऽन्यतमश्च लक्ष्यते, स एव चापनीतसकलस्थगनको विद्योतमानमूलमूर्तिरदभ्रं व्योमदेशमवभासयति, तैलवत्येन्युपादानप्रवृद्ध इत्यनेनाविकलां कारणसामग्रीमाचष्टे, कूटागारशालादिभिरनेकामवस्थामादर्शयति, अपरित्यक्तस्वात्मावयवोऽप्यनेकमाकारमादत्ते प्रदीपः // भा०-एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविध शरीरस्कन्धं धर्माधर्माकाशपुगलजीवप्रदेशसमुदायं व्यामोतीति, अवगाहत इत्यर्थः // टी०–एवमेव प्रदेशानामित्यादि भाष्यम् / दार्टान्तिके दृष्टान्तार्थमुपसंहरति-पञ्चविधमौदारिकादिशरीरसङ्घातं धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायम्, अवश्यमेव हि लोकाकाशे धमाधमोकाशपुद्गलाः सन्ति, जीवप्रदेशाश्च भजनीयाः, यत्रैकोऽवगाढो जीवस्तत्रान्यस्याप्यवगाहो न विरुद्धयत इति, एवं धर्मादिसमूहं व्यानोति, अवगाहत इत्यर्थः / भा०-धर्माधर्माकाशजीवानां परस्परेण पुद्गलेषु च वृत्तिर्न विरुद्धयते, अमूर्तत्वात्। 'असत्फलं' इति क-ख-पाठः / २०शयति अथो (2) मणिका' इति क-ख-पाठः, तत्र अण्वीमपीति नास्ति / 3 अनावृतस्तु स्वावयवमानमाकाशं व्याप्नोति, न तु सर्व जगत्, आत्मा तु समुद्घातकाले लोकव्यापी, सिद्धिकाले तु त्रिभागोनावशिष्टः, अशुषिरसंभूतशरीरानुकार्यवगाहादनन्तरं निष्प्रयोजनत्वेन अवगाहसंकोचाभावः / एकस्मिन्नाकाशदेशे अनेकजीवानेकप्रदेशावगाहात् / Page #362 -------------------------------------------------------------------------- ________________ 336 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 टी--धर्माधर्माकाशेत्यादि / धर्मादीनाममूर्तत्वात् परस्परेण वर्तनं न विरोधकारि, नापि पुद्गलविपया वृत्तिधर्मादीनां विरुद्धयते, तद्भलेन गतिस्थित्यवगाहदर्शनादात्मनश्च कर्मपुद्गलव्याप्तेः, सिद्धमिदं जीवो महान्तमणुं वा संहारविसर्गाभ्यां विग्रहं गृह्णाति // भा०-अत्राह-सति प्रदेशसंहारविसर्गसम्भवे कस्मादसङ्ख्ययभागादिषु जीवानामवगाहो भवति नैकप्रदेशादिष्विति ? / अत्रोच्यते टी-अबाहेत्यादि / इदभिदानी चोदयति-प्रदेशसंहरणसामर्थ्यमस्त्यात्मनः, तत् किमित्यविकलकारणकलापः सर्वान् प्रदेशानुपसंहृत्य एकस्मिन्नाकाशदेशे नावस्थानं कल्पयति प्रतिबन्धकवस्त्वभावात् ? कस्मादसङ्ख्येयभागादिष्ववगाह इष्यते, नैकप्रदेशादिष्विति निरुपपत्तिकमित्याशङ्कयते, अत्रोच्यत इत्याह, न वयमनुपपत्तिकमर्थं प्रतिजानीमहे, किन्तु / भा०-सयोगत्वात् संसारिणां, चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति // 16 // __टी-सयोगत्वात् संसारिणामित्यादि / योगाः प्रथिता एव औदारिकविग्रहाः, सत्यपि च सामान्योपादाने व्यापित्वात् कर्मिणयोग एव परिगृह्यते, सह योगेन सयोगःकार्मणशरीरीतियावत्, सर्वस्य संसारिणो भवितव्यमवश्यं कार्मणेन वपुषा, ततश्चानन्तानन्तपु. द्गलप्रचितसर्वसंसारिकार्मणशरीरोपश्लेषादसङ्ख्येयप्रदेशावगाहितैव नैकादिप्रदेशावेगाहितेति / चरमशरीर इत्यादि / चरमशरीरं त्रिभागहीनमवगाहन्ते सिद्धा इति च, अनेनैतद दर्शयति-देहे त्रैभागः शुषिरस्तत्पूरणात् त्रिभागहीनावगाहः, स च योगनिरोधकाल एव भवति,अतः सिद्धोऽपि तदवस्थप्रमाण एवेति सामर्थ्याभावान्नातः परमस्ति संहरणमनावरणवीर्यस्यापि भगवतः, किं पुनः शेषसंसारिणः ? स्वभावश्चायमेतावानेवोपसंहारः, न चास्ति स्वभावे पर्यनुयोगः / अपि च-सकर्मासौ, ततश्च नास्त्युपसंहृतिरल्पतरा / कर्मवियुक्तः कस्मानोपसंहरतीति चेत्, प्रयत्नाभावात्, प्रयत्नाभावश्च करणाभावात्, अनवद्यं दर्शनम् / इदमुक्तं भवति-सक्षिपतो विकसनसकोचनधमत्वादात्मप्रदेशसन्तानः पद्मनालतन्तुसन्तानवदविच्छेदेन विकासमासादयति,अविच्छेदश्च प्रदेशानाममूर्तत्वाद् विकासधर्मत्वादेकत्वपरिणतेः जीवाभिवृद्धेर्विकासश्च सिद्धः, छेददर्शनात् सक्रियत्वाचारविन्दनालतन्तुसन्तानवदेव च जीवप्रदेशाः सकलमितरद् विशन्त्यल्पमपहाय, छिन्ने तर्हि मूर्धन्यपविध्य शिरः किमिति स प्रदेशसन्तानस्तनुं नाविशतीति चेत्, असदेतत्, वेदनायुषोर्भेदात्, बहवो हि जीवदेशाः समुदायीभूयासते यत्र तदाचक्षते मर्म, बहुमर्मकश्य मूर्धा, महती च वेदना भवति मर्मदेशेषु, आयुर्भेदश्चाध्यवसानादिनिमित्तः सप्तधा प्रसिद्धः, १'प्रदेशेष्विति' इति क-ख-पाठः / 2 शरीरमात्रे व्यापनात् कार्मणावव्याप्तेः औदारिकादिविग्रहा इति योगव्याख्यायो शरीरमात्राख्यानम् / 3 औदारिकादिस्थूलशरीराणां कार्मणावगाहानुसारित्वात् कार्मणस्यैव प्रहः / 4 असंख्याकाशप्रदेशावगाढस्यैव कार्मणादेग्रहात् आरात् अयोगत्वाद् अग्रहः एकाकाशप्रदेशावबोधस्तु न केवलमन्तरम्। Page #363 -------------------------------------------------------------------------- ________________ सूत्रं 17] स्वोपज्ञभाष्य-टीकालङ्कृतम् 337 तस्मात् संहारविसर्गावात्मनः कर्मानुभावजनिती, न च नाशः सत्यपि संहारे विकासे वाऽमूतत्वात्, न च स्वतत्त्वनाशोऽस्ति वस्तुनः कस्यचित् सर्वथा स्याद्वादिनं प्रति, प्रदेशसङ्ख्यायाधात्मनः सङ्कोचविकासयोः सतोरपि हासो वृद्धिर्वा न समस्ति, क्षेत्रतस्तु तावात्मनः स्यातामिति प्रतिपद्यध्वम् // 16 // भा०-अत्राह-उक्तं भवता ( अ०५, सू०१)-धर्मादीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्याम इति / तत् किमेषां लक्षणमिति ? / अत्रोच्यते ही-अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः / अस्यैवाध्यायस्य प्रथमसूत्रे ताँल्लक्षणतः परस्ताद् वक्ष्याम इत्युक्तं तदिदानीमवकाशप्राप्तमभिधीयते- . सूत्रम्-गतिस्थित्युपग्रही धर्माधर्मयोरुपकारः // 5-17 // _____टी-गतीत्यादि मूत्रम् / अथवा तुल्येऽसङ्ख्येयप्रदेशत्वे सति कृत्स्नलोकव्यापित्वमेव धर्माधर्मयोर्न पुनरसङ्ख्येयभागादिषु वृत्तिरित्येतत् कथमनपदिष्टहेतुकमवसातुं शक्यमित्यत्र नमो वयमवसीयतामसंशयम्, यस्मात् प्रयोगविस्रसापरिणामजनितामनेकप्रकारां सार्वलौकिकीमन्यद्रव्येष्वसम्भवन्तीमात्मपुद्गलानां क्रियामारभमाणानां चक्षुषो दर्शनशक्तरुपग्राहकादित्यादिरश्मिवद् गतिस्थित्योरुपग्राहको धमाधमोविति कायेतो निश्चीयते सकलजगद्व्यापिनाविति, तच्चासाधारणं कार्य सूत्रेण दर्शयति // भा०-गतिमतां गतेः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो पथासङ्ख्यम् / उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनान्तरम् / उपकारः प्रयोजनं गुणोऽथे इत्यनान्तरम् // 17 // ... टी०-गतियतामित्यादि भाष्यम् / देशान्तरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीतः परिणामः स्थितिः, तद्वन्तस्तादृशा परिणामेनाविष्टा इति, अत एवंविधक्रियापरिणतद्रव्यमेव गतिस्थितिशब्दाभ्यामुच्यते, तव्यतिरेकेण गतिस्थितिक्रियानुपलब्धेः, एकस्यैवोपग्रहद्वयनिवृ. स्यर्थ यथासङ्ख्यकमुपन्यस्यति गतिमतामित्यादिना भाष्येण / जीवपुद्गलाः क्रियावन्तो पत्र च गतिः तत्रावश्यंतया स्थित्याऽपि भवितव्यम् / अथवा धर्मद्रव्यस्य सनिहितत्वात् किमित्यव्याहता गतिरेव सततं न भवत्यविकलकारणकलापसनिधाववश्यंभाविनी कार्योत्पत्तिरेवं स्थितिरपि वाच्येत्याक्षिप्ते गतिमतामित्याह / स्वत एव गतिपरिणतिर्येषां द्रव्याणां स्थितिपरिणतिश्च तेषामुपग्राहको धर्माधर्मावपेक्षाकारणमाकाशकालादिवन्न निर्वर्तकं कारणम्, निर्वर्तक हि तदेव जीवद्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविष्टम्, धर्माधर्मों पुनरुपग्राहकावनुपघातकावनुग्राहकावित्यर्थः / स्वभावत एव हि गतिस्थितिपरिणतानि द्रव्याणि तावुपगृहीतः, 1 'वृद्धिर्न रामस्ति' इति क-ख-पाठः / 2 ०पग्रहो धर्माः' इति घ-पाठः / 3 निवर्तकं ' इति क-न-पाठः / 43 Page #364 -------------------------------------------------------------------------- ________________ 338 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 यथा च सरित्तडाग हदसमुद्रेष्ववगाहित्वे सति मत्स्यस्य स्वयमेव सञ्जातजिगमिषस्योपग्राहक जलं निमित्ततयोपकरोति, दण्डादिवन्मृदः परिणामिन्याः, नभोवद् वा, अपेक्षाकारणं हेतुरिति कारणसामान्यप्रतिपत्तिकारि, एते हि शब्दा नाथान्तराभिधायितया प्रवर्तन्ते / तथा चोक्तम् ___ “निर्वतको निमित्तं, परिणामी च त्रिधेष्यते हेतुः। कुम्भस्य कुम्भकारो, वर्ता मृच्चेति समसङ्ख्यम् ॥"-आर्या न पुनस्तजलद्रव्यं गतेः कारणभावं विभ्राणमगच्छन्तमपि झपं बलात् प्रेर्य गमयति, क्षितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनीपद्यते, न पुनरतिष्ठद् द्रव्यं बलादवनिरवस्थापयति, व्योम वाऽवगाहमानस्य स्वत एव द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति, न पुनरनवगाहमानमवगाहयति स्वावष्टम्भात्; स्वयमेव च कृषीवलानां कृष्यारम्भमनुतिष्ठता वर्षमपेक्षाकारणं दृष्टं, न च नृनकुर्वतस्तांस्तदर्थमारम्भयद्वर्षवारि प्रमितम्, प्रावृषि वा नवाम्भो. धरध्वनिश्रवणनिमित्तोपाधीयमानगर्भा प्रसूते स्वत एव बलाका, न चाप्रमूयमानां तामभिनवजलधरनिनादः प्रसभं प्रसावयति, प्रतिबुध्य वा पुरुषः प्रतिबोधनिमित्तां विरतिमातिष्ठमानोऽवद्याद् दृष्टः, न च पुमांसमविरमन्तं विरमयति बलात् प्रतिबोधः / यदि तहिं निमित्तकारणं धर्माधर्मों दण्डादिवदेवं सत्यपेक्षाकारणतैव हीयते, यतो निर्व्यापारमपेक्षाकारणमुच्यते, नैतदेवम्, अपेतयुक्तित्वात्, नहि निर्व्यापारं कारणं, किं तर्हि ? कुर्वत कारणम् , अपेक्षाकारणं चैतावतोच्यते, धर्मादिद्रव्यगतक्रियापरिणाममपेक्षमाणं जीवादिगत्यादिक्रियापरिणतिं पुष्णाति, एवं तर्हि निमित्तापेक्षाकारणयोर्न कश्चिद् विशेषः, अस्ति विशेषः, दण्डादिषु प्रायोगिकी वैस्रसिकी च क्रिया, धर्मादिषु वैससिक्येवेति, भाष्यकारेण कारणसामान्यप्रतिपिपादयिषयोपन्यस्तो निमित्तशब्दः, यावता चांशेन स्वतो व्यापारपरिणतिर्दण्डादीनां तदंशप्रदर्शनपरतया निमित्तशब्दोपादानमिति, न च गत्युपकारोऽवगाहलक्षणाकाशस्योपपद्यते, किं तर्हि ? धर्मस्यैवोपकारः स दृष्टः, स्थित्युपकारश्चाधर्मस्य, नावगाहलक्षणस्य व्योम्नः, अवश्यमेव हि द्रव्यस्य द्रव्यान्तरादसाधारणः कश्चिद् गुणोऽभ्युपेयः, द्रव्यान्तरत्वं च युक्तेरागमाद् वा निश्चयं, युक्तिर्वक्ष्यते / आगमस्तु सर्वज्ञदत्तस्वहस्तः प्रकाशत एवाव्यातः"कई णं भत्ते! दव्वा पण्णत्ता ? गोयमा! छ दव्वा पण्णत्ता, तंजहा-धम्मत्थिकाए, अधम्मथिकाए, आगासस्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमये" // ननु धर्मद्रव्योपकारनिरपेक्षमेव शकुनेरुत्पतनमूर्ध्वज्वलनमग्नेर्मरुतश्च तिर्यग्गमनं स्वभावादेवानादिकालीनादिति, उच्यते-प्रतिज्ञामात्रमिदं, नार्हतं प्रति हेतु दृष्टान्तावनवद्यौ स्तः, स्वाभाविक्यां गतौ धर्मद्रव्योपकारनिरपेक्षायां, यतः सर्वेषामेव जीवपुद्गलानामासादितगतिपरिणतीनामुपग्राहक 1' म्वेवगवाहित्' इति ग-पाठः / 2 'प्रतीतं ' इति क-ख-पाठः / 3 कति भदन्त | द्रव्याणि प्रज्ञप्तानि ? गौतम! षडू द्रव्याणि प्रज्ञप्तानि, तद्यथा-धर्मास्तिकायः; अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायः, जीवास्तिकायः, अदासमयः। ४'तिर्यग्वलनं ' इति क-ख-पाठः / Page #365 -------------------------------------------------------------------------- ________________ सूत्रं 18] स्वोपज्ञभाष्य टीकालङ्कृतम् . - 339 धर्ममनुरुध्यन्तेऽनेकान्तवादिनः, स्थितिपरिणामभाजां चाधर्मम्, आभ्यां च न गतिस्थिती क्रियेते, केवलं साचिव्यमात्रेणोपकारकत्वं यथा भिक्षा वासयति, कारीषोऽग्निरध्यापयतीति // ननु तवापि लोकव्यापिधर्मद्रव्यास्तित्ववादिनः सन्धामात्रमेव तदुपकारो गत्युपग्रह इति स्थित्युपग्रहश्चाधर्मद्रव्योपकारस्तन्मात्रत्वादिति, अत्र जागद्यते युक्तिरस्माभिरवधत्तां भवान्गतिस्थिती ये जीवानां पुद्गलानां च ते स्वतः परिणामाविर्भावात् परिणामिकतेनिमित्तकारणप्रयव्यतिरिक्तोदासीनकारणान्तरसापेक्षात्मलाभे, अस्वाभाविकपर्यायत्वे सति कदाचिद भावात्, उदासीनकारणपानीयापेक्षात्मलाभझपगतिवत, तद् यद्येतयोरमूर्तयोरपि सतोर्गमकमेकैकस्याभावे न भवति, न चान्येनोपक्रियते, तल्लक्षणमुपकारः प्रयोजनं सामर्थ्य गुणोऽर्थ इत्यनर्थान्तरमित्यत्यन्तप्रसिद्धा एवोपकारादयः समानार्थाभिधायित्वेन, उपकारो-गतिस्थितिपरिणतद्रव्यसामीप्येन व्याप्रियमाणता, तदुपग्राहितयाऽनुष्ठानमिति प्रयोजनमतिशयेनोपकारि गुणः सामर्थ्यमात्मीयशक्तिप्रभावः, अर्थस्तु द्रव्यान्तरासम्भवि प्रयोजनमेवेति // 17 // यद्यतीन्द्रिययोर्धर्माधर्मयोरुपकारसम्बन्धेनास्तित्वमवधृतम्, अनन्तरोदिष्टस्य नमसो. ऽतीन्द्रियस्याधिामे क उपकार इति? / उच्यतेआकाशस्योपकारः सूत्रम्-आकाशस्यावगाहः॥५-१८॥ टी०-ननु च लोकाकाशेऽवगाह इति प्राग निरूपितमेव लक्षणमाकाशस्य, पुनः किमयमारम्भो लक्षणाभिधित्सया ? / सत्यमुक्तं, प्रागवगाहिनां जीवपुद्गलानां प्राधान्यप्रचिकाशयिषया, इह तु तत्स्वरूपमेव निर्धार्यते, इहैव स्वरूपसिद्धिं बुद्धौ सनिवेश्य नभसस्तदुक्तं प्राक्, अतोऽवश्यं स्वरूपव्यावर्णनं पदार्थस्य कार्यमिति // भा०-अवगाहिनां धमपुद्गलजीवानामवगाह आकाशस्योपकारः॥ टी-अवगाहिनामित्यादि भाष्यम् / विहितनिर्वचनं प्रागाकाशं तस्य लक्षणमवगाहः-अनुप्रवेशनिष्क्रमणस्वभावः,अवगाहस्य सम्बन्धिशब्दत्वात् सम्बन्धिनामुपादानमवगाहिनां धमादीनाम्,आकाशस्यावगाह उपकारो लिङ्गं स्वतत्त्वमेव,एषामवकाशदायित्वेनोपकरोति, स चोपकार आत्मभूतोऽस्य लक्षणमुच्यते / एतदुक्तं भवति-अवगाहमानद्रव्याणामवगाहदायि भवति, न पुनरनवगाहमानं पुद्गलादि बलादवगाहयति,अतो निमित्तकारणमाकाशमम्बुवन्मकरादीनामित्युक्तं प्राग्, अनेकमुदाहरणमिहावर्तनीयम् // नन्वयमवगाहः पुद्गलादिद्रव्यसम्बन्धी व्योमसम्बन्धी चेति उभयोधर्मः, स कथमाकाशस्यैव स्वतत्त्वमुभयजन्यत्वात् धगुलसंयो - गवत् , न खलु द्रव्यद्वयजनितसंयोगो द्रव्येणैकेन व्यपदेष्टुं पार्यते लक्षणं - वैकस्येति वक्तुम्, सत्यमेतत्, तथापि लक्ष्यमाकाशमवगाह्यं प्रधानम्, अवगाहनमनुप्रवेशो यत्र तदाकाशमवगाहलक्षणं विवक्षितम्, इतरत् त्ववगाहकं पुद्गलादि १'चाधर्मः' इति क-पाठः। 2 'शक्तिः प्रभावः' इति क-पाठः / अवगाहगु Page #366 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सत्यपि संयोगजन्यत्वे न विवक्ष्यते, अत एव च तल्लक्षणमाकाशस्य, यस्माद व्योमैवासाधारणकारणतया तथोपकरोति,अतो द्रव्यान्तरसम्भविनोपकारेणातीन्द्रियमप्यनु मेयमात्मवद् धर्माः दिवद् वा, यथा पुरुषहस्तदण्डसंयोगभेर्यादिकारणः शब्दो भेरीशब्द इति व्यपदिश्यते यवा कुरश्वासाधारणकारणत्वादेवमवगाहोऽप्यम्बरस्य प्रतिपत्तव्यः / यदप्याहुः-अवगाहतेऽणुरवगाहते जीव इति सामानाधिकरण्यदर्शनादवगाहकद्रव्यविषय एवावगाह इति आस्ते देवदत्त इत्यासनवत, एतदप्ये तेनैव प्रत्युक्तं वेदितव्यम् // ननु प्रागिदमुक्तमलक्षणमवगाहः खस्याव्याप्तरिति, उच्यते-नवेदमशेषाकाशलक्ष्म प्रतिजानते समयवेदिनः, किं तर्हि ? लोकाकाशस्य, अत एवोक्तं-लोकाकाशेऽवगाह इति, आकाशं शुषिरलक्षणमेकरूपं तस्य धर्मादिद्रव्यग्वगाहिभिर्विभागः कृत इत्यतो लोकाकाशमुच्यते, अन्यथा तुल्ये शौषिर्ये निर्लक्षणमेव लोकाकाशं स्यादितरद् वा / कथं केषामुपफरोतीति व्याख्यायतेभा०-धर्माधर्मयोरन्तःप्रवेशसम्भवन पुद्गलजीवानां संयोगविभागैश्चेति॥१८ टी०- धर्माधर्मयोरित्यादि / धर्माधर्मप्रदेशा ह्यालोकान्ताल्लोकाकाशप्रदेशनिर्विभागवर्तित्वेनावस्थितास्तस्मादन्तरवकाशदानेन धर्माधर्मयोरुपकरोति, आकाशप्रदेशाभ्यन्तरवर्तित्वात् धर्माधर्मप्रदेशानाम्, अलोके तदसम्भवादिति, स्वल्पतरासख्येयप्रदेशव्यापित्वात् क्रियावत्वाच पुद्गलजीवानां संयोगैर्विभागैश्वोपकरोति, अन्यत्रावगाहाः सन्तो मृन्मनुष्यलोष्ठशकलादयः पुनान्यत्रोपलभ्यन्ते,सर्वत्र चाभ्यन्तरेऽवकाशदानादेकोऽप्यवगाहोऽवगायोपाधिभेदान्नानैव लक्ष्यने, चशदादन्तःप्रवेशसम्भवेनोपकारः संयोगविभागेश्चेति योजनीयम्, न चाभाव उपकारको दृष्टः शशविपाणादिवदित्यनावरणमात्रताव्युदासोऽवगायत्याज्जलादिवल्लो संव्यवहारप्रतीतेः / अथा विद्यमाना आवृतियस्य यत्रेति वा बहुव्रीहावन्यपदार्थप्रधानत्वाद् भावरूपतव, आवरणादन्यदनावरणं चेत आवरणं न भवतीति वा पर्युदासप्रसज्यप्रतिषेधान्यतराभ्युपगमे च सदोषतैवानिच्छतोऽपि बलात् पदार्थान्तरत्वप्राप्तेः // अपरे शब्दलिङ्गमाकाशं सङ्गिरन्ते, गुणगुणिभावेन व्यवस्थानात्, तदयुक्तं, रूपादिमत्त्वाच्छब्दस्य, प्रतिघाताभिभवाभ्यां च रूपादिमत्ता विनिश्चया / अन्ये प्रधान विकारमा चक्षते, तदप्यसमीचीनम्, असिद्धत्वात् प्रधानस्य, कथं वा प्रधानं नित्यआकाशालङ्ग सम्बनिरवयवनिष्क्रियत्वादिस्वभावं सद् अनित्यादिभिराकारैः परिणस्यत धिमन्तातरम् - इति ? / अथैवं मन्येथाः-प्रधानविकारो विज्ञानं दृष्टं सक्रियं, न चापहवः प्रत्यक्षसमधिगते समस्तीति, सत्यमिदं दृष्ट, न तु प्रधानविकारतया, न च सत्त्वं प्राधान्येन 1 आकाशस्य द्रव्यत्वेऽपि शुषिरतया प्रतिपादनं परप्रसिद्धेः अवगाहकतागुणप्राधान्यता / 2 नहि तेषां कुतोऽपि प्रवेशः किन्तु सदा अरूपितया तदनतिरिक्तवृत्तितयावस्थानं, जीवादीनां विभुत्वाभावात् संयोगादिभावः, चकारो जीवपुद्गललक्षणोपकार्य संग्रहाथ, अन्वयश्चोपकारेण, अन्तःप्रवेशस्यान्यूनानतिरिक्तवृत्त्यर्थत्वात्, जीवादीनां प्रतिप्रदेशसमानावगाहाभावात् न स तेषाम् / Page #367 -------------------------------------------------------------------------- ________________ सूत्रं 19] - स्वोपज्ञभाष्य-टीकालङ्कृतम् 341 ज्ञानाधि( नवि ? )कारेण परिणमते गुणत्वात् तमोवत्, अभेद एव वा चैतन्यविज्ञानयोश्चेतयते जानीते बुध्यते इति च प्रयोगदर्शनात्, तच चैतन्य विज्ञानरूपमात्मनः स्वभावः, न च मृतादिधर्मरहितत्वान्मुक्तात्मन इव परपरिकल्पितात्मान्तः करणयोः प्रतिबिम्बोदयहेतुतेत्यलं प्रसङ्गेन // 18 // परपरिकल्पितप्रधानादिपरिणामप्रतिषेधार्थमुपकारप्रकरणाभिसम्बन्धेनेदमुच्यते-- पुद्गलानामु- सूत्रम्-शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् // 5-19 // पुद्गलानामु- सूत्रम् का टी-शरीरे सत्युत्तरेषां प्रवृत्तिदर्शनादादौ तद् वचनं, तदनन्तरं वागभिधानं, __ द्वीन्द्रियादिषु दर्शनान सर्वशरीरिषु / अन्येन्द्रियग्रहणमपि तर्हि कर्तव्यं चेत्, न आत्मप्रदेशत्वात् तेषाम्, अयं तु पुद्गलजनितोपकारप्रख्यापनायारम्भः, तदनन्तरं मनः पञ्चेन्द्रियविषयत्वात्, अन्ते प्रोणापानाभिधानं सकलसंसारिप्राणिकार्यत्वात्, शरीरादीनामितरेतरयोर्द्वन्द्वः, प्राण्यङ्गत्वान्नपुंसकलिङ्गैकवद्भावप्रसङ्ग इति चेत्, न, अङ्गशब्दस्यावयवाभिधायित्वे सति अङ्गाङ्गिद्वन्द्वे तस्यासम्भवात्, पुद्गलानामित्युपग्रहप्रकरणात कर्तरि षष्ठी, पौद्गलिकत्वाच्छरीरादिचतुष्टयं गमनादानव्याहरणचिन्तनप्राणनादिभावेन परिणामविशेषाहितमनुग्राहकं शरीरादिभाजाम् // भा०-पञ्चविधानि शरीराण्यौदारिकादीनि वामनः प्राणापानाविति पुद्गलानामुपकारः॥ टी-पञ्चविधानीत्यादि भाष्यम् / पञ्चप्रकाराणि शरीराणि विशरारूण्यौदारिकवैक्रियाहारकतैजसकार्मणाख्यानि पुद्गलानामुपकाराः, तथा वाड्मनः प्राणापानौ च, इतिकरणश्चार्थे गदितः, उच्यत इति वाक्, असावपि पौद्गलिकी, सा च भाषापर्याप्तिभाजां वीर्यान्तरायज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामनिमित्ता रणनस्वभावा, भाषायोग्यान् स्कन्धान् कायव्यापारेणादाय वीर्यवानात्मा भाषात्वेन परिणमय्य वाक्पर्याप्तिकरणेन निसृजति स्वपरात्मोपका .. राय, सत्यपि च मूर्तत्वे न चक्षुर्लाह्या, जलमध्यप्रकीर्णलवणशकलवत , चाइमन्दआदीनां ना न चावश्यं रूपादिमत् समस्तमेव चक्षुरादिग्राह्य, परमाण्वादिविचित्रपरि णामावेशात् पुद्गलानाम्, तस्मानामूर्ता वाक् पौरस्त्यसमीरणवेगाभ्याहता परदिग्भागावस्थितश्रवणपरिणतोपलभ्यत्वात् प्रतिघाताभिभवसद्भावाच्च, मनश्चानन्तपुद्गलस्कन्धमनोद्रव्यप्रायोग्योपचितमूर्तित्वात् पौद्गलिकं, तच्च मनः पर्याप्तिभाजां पश्चेन्द्रियाणामेव, 1 काणे औदारिकादौ वा / 2 कपिलमतेनाशङ्का, तन्मते तस्या इन्द्रियत्वात् , पञ्चेन्द्रियाणीति सूत्रे च तत्प्रत्युक्तमेवेति नात्रायासः। 3 स्पर्शनघ्राणादीनामिति / 4 स्पर्शादयः सर्व एव विषया अस्य / 5 कर्मबन्धनिर्जरादिहेतुतया शरीरादीनभिधाय तदितरकाययोगविशेषाभिधानं प्राणापानेत्यादि, प्राणापाना इति प्रथमान्ततयाऽभिधानं तु पुद्गलानामेव एतत्तया परिणमनात्, नैते धर्मादिवत् औदासीन्येनोपकारका इति भावः / 6 'वेशाः' इति क-पाठः / पौगलिकत्वम् Page #368 -------------------------------------------------------------------------- ________________ 342 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 छद्मस्थानां श्रुतज्ञानावरणक्षयोपशम(जन)नाय करणं तदवष्टम्भजनितं च गुणदोषविचारणात्मकं सम्प्रधारणं संज्ञाज्ञानं धारणाज्ञानं तद्भावमनः // तथा चाह "चित्तं चेतो योगोऽध्यवसानं चेतना परीणामः / भावो मन इति चैते छुपयोगार्था जगति शब्दाः // " अत्र त्येवंविधभावमनोनिमित्तेन पौद्गलिफेन सर्वात्मप्रदेशवर्तिना मनसाऽधिकारः, कोष्टयो वायुरुच्यासलक्षणः प्राणस्तद्विधपरिणामापत्तेः, तथा बाह्यो वायुरभ्यन्तरीक्रियमाणोऽपानसंज्ञितः, एतावप्यात्मनोऽनुग्राहको, रूपिद्रव्यपरिणामात् प्रतिघातदर्शनाद् द्वारानुविधायित्वाञ्च मूर्तिमत्ताऽवसेया // भा०-तत्र शरीराणि यथोक्तानि (अ० 2, सू० 37 ) / प्राणापानौ च नामकर्मणि व्याख्याती (अ०८, सू० 12) // टी-द्वितीयाध्याये शरीराण्यौदारिकादीनि यथा व्याख्यातानि तथैवेह प्रतिपत्तव्यानि, प्राणापानावष्टमेऽध्याये नामकमणि गतिजात्यादिमूत्रे पञ्चप्रकारपर्याप्तिकर्मणि प्रा. णापानक्रियायोग्यद्रव्यग्रहणशक्तिः निर्वर्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिरित्यत्र भाष्ये व्याख्यास्यते, कथं तर्हि व्याख्याता आशंसायामर्थे भूतवद् वर्तमानवच्च प्रत्यया भवन्ति, उपाध्यायवेद आगमिष्यति तद्याकरणमधीतमेवमिहापि नामकर्माशंसितमित्यदोषः // ___ भा०-दीन्द्रियादयो जिद्वेन्द्रियसंयोगाद् भाषात्वेन गृह्णन्ति नान्ये, संज्ञिनश्च मनस्त्वेन गृह्णन्ति, नान्य इति / टी-द्वीन्द्रियादि भाष्यम् / द्वित्रिचतुःपञ्चेन्द्रियाः पर्याप्तरसनेन्द्रियसम्बन्धतो भा. षात्वेनेति भापापरिणामयोग्याननन्तप्रदेशान् स्कन्धानाददते काययोगेन, भाषापर्याप्तिकरणेन निसृजति, अनेनैतद् दर्शयति-यत्रैव जिद्धेन्द्रिययोगस्तत्रैव भाषापर्याप्तिः जिह्वाश्रयत्वाद,अतोऽन्ये व्यवच्छिद्यन्ते पृथिव्यादयो वायुपर्यन्ता एकेन्द्रियाः, तेषां रसनेन्द्रिययोगाभावादजिहत्वाभापाभावः. दीन्द्रियादयश्च तद्युक्ताः सन्तः स्वभाषात्वेन तान् पुद्गलान् परिणमय्यायम्लेच्छवत् प्रतिनियता एव भाषाः प्रयुञ्जते, संज्ञिनश्चेत्यादि गुणदोषविचारणात्मिका सम्प्रधारणा संज्ञा तद्योगात् संज्ञिनः, चशब्द एवार्थे, त एव मनःपरिणामेन मनोवर्गणायोग्यान् स्कन्धाननन्तान मन्तुकामाः सर्वाङ्गीणानाददते, ततस्तद्वलेन पुनर्गुणदोषविचारणाभावेन परिणमन्ते, ये त्वेवंविधसंज्ञा भाजो न भवन्त्ये केन्द्रियादयोऽसंज्ञिपञ्चेन्द्रियान्तास्ते नैव मन्यन्ते,मनःपर्याप्तिकरणाभावात, 1 'धारणसंज्ञानं' इति क-ख-पाठः। 2 प्राणापानरोधेन मरणादिभावात्, अत एव च कायोत्सर्गेऽपि नोच्छ्वासादिरोधानुज्ञा, आकारता च तत्र तेषाम् / 3 सूत्रावतरणेष्वने के षु वक्ष्यते इत्यादिकथनं मूलसूत्रविषयतयोक्तं, अत्र तु व्याख्यातावितिकथनं तयोरसिद्धर्ता कथयति, नहि क्वापि कर्मण्येते श्रूयेते, ततः पारमार्षसिद्धं विषयं मनसिकृत्याहैतत् / 4 नापर्याप्ते वाग्योग इति पर्याप्तेति, तथा च पर्याप्तस्य यद् रसनेन्द्रियं तस्य संबन्धत इत्यर्थः / Page #369 -------------------------------------------------------------------------- ________________ सूत्र 20 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 343 अतो व्यवच्छिनत्ति नान्य इति / यत् तु तेषां स्वनीडाभिसर्पणं कृमिपिपीलिकादीनां तण्डुलकणश्यामाकबीजादिसंग्रहणवन्मनोव्यापारमन्तरेणैव तदवग्रहपाटवात्, तादृशी लब्धिरेव सा, न पुनरीहादिज्ञानभेदविचारयोग्यो द्वीन्द्रियादिः।। कथं पुनरात्मा शरीरादियोग्यान पुद्गलानादत्ते कथं वा परस्परेण ते संहतास्तिष्ठन्ति न विशीर्यन्ते इत्याक्षिप्ते आह भा०-वक्ष्यते हि-सकषायत्वाजीवः कर्मणो योग्यान पुद्गलानादत्त इति (अ०८, सू०२) // 19 // किश्चान्यत् टी०--वक्ष्यते हीत्यादि। यस्मादभिधास्यतेऽष्टमेऽध्याये बन्धलक्षणं सकषायत्वाजीव: कर्मणो योग्यान पुद्गलानादत्त इति, कषायाः क्रोधादयः सह तैः सकषायस्तस्मात् प्रत्ययात् कषायाख्यादात्मा ज्ञानावरणादिकर्मयोग्यान् सर्वात्मप्रदेशै!कर्मयोग्यांश्च पुद्गलानादत्ते, आह च " ऊष्मगुणः सन्दीपः, स्नेहं वा यथा समादत्ते / "आदाय शरीरतया, परिणमयति चापि ते स्नेहम् / / तद्वद् रागादिगुणः, स्वयोगवात्मदीप आदत्ते / स्कन्धानादाय तथा, परिणमयति ताँश्च कमेतया // " तस्मात् शरीराधाकारेणोपकारिणः प्राणिनां पुद्गला एव, न प्रधान विज्ञानस्वभावेश्वरनियतिहठपुरुषकालादयः शरीराद्याकारपरिणतिभाजो, नियुक्तिकत्वादिति // 19 // . एष तावत् पुद्गलकृत उपकारो जीवानां शरीरादि, अधुना निमित्तमात्रताप्रदर्शनार्थ सम्बनाति-किश्चान्यदिति, पूर्वोपकारापेक्षमुच्यते / आकारान्तरेणापि पुद्गलानामुपकारकत्वं निमित्तमात्रतयेत्याह सूत्रम्-सुखदुःखजीवितमरणोपग्रहाश्च // 5-20 // टी-चशब्देन पुद्गलानामुपकार इत्यनुकृष्यते / शरीरादिसूत्रविन्यासं कृत्वा प्राक् किमर्थमिदं विभागेनाधुना भण्यते / उच्यते-सुखादीनामुर्देयापेक्षत्वात् प्राच्यानां ग्रेहर्णमात्रविषयत्वाद् विभक्तिरिति, द्वन्द्वपूर्वः समानाधिकरणस्तत्पुरुषः, सुखग्रहणं प्राक तदर्थ चेष्टादर्शनात्, तदनन्तरं दुःखवचनं तत्प्रतिपक्षत्वात्, जीवतस्तदुभयदर्शनात् तदन्ते जीवितग्रहणं, कर्मोपभोग१'संग्रहं तन्मनो' इति क-पाठः। 2 विशिष्टमनोव्यापारमपेक्ष्यैतत्, हेतुवादसंज्ञा तु तेषामस्त्येव तत्प्रयोनिका / ईहादि चात्र संप्रधारणरूपं दीर्घकालीनस्मरणादिरूपं वा, प्राप्तेन्द्रियोहादेस्तु तेषां सद्भावोऽविरुद्धः / 3 सिद्धालयेऽपि पुद्गलसद्भावात् किं न सिद्धानां शरीरादितया पुद्गलोपकार इत्याह४ सातवेदनीयोदयादौ अपेक्षाकारणत्वात् इति भावः / शरीरादौ तु परिणामिकारणं पुरला इति प्रणेत्यादि / 6 "ग्रहणविषयत्वाद् इति क-ख-पाठः। Page #370 -------------------------------------------------------------------------- ________________ 344 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 परिसमाप्तौ तदसम्भवान्मरणवचनम्, ग्रंकृतमुपग्रहवचनमनादृत्य यत् पुनरुपग्रहग्रहणं तद् विशिष्टार्थप्रतिपत्त्यर्थ, शरीराद्याकारेण साक्षात् कुर्वन्त्युपकारमात्मनः पुद्गलाः, अत्र पुनरात्मनः सुखाद्याकारेण परिणममानस्योपग्रहे वर्तन्ते पुद्गला इति / __ भा०-सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहश्च मरणोपग्रहश्चेति पुद्गलानामुपकारः॥ टी०-सुखोपग्रह इत्यादि भाष्यम् / बाह्यद्रव्यसम्बन्धापेक्षसद्वेद्योदयात् संसार्यात्मनः प्रसादपरिणामः सुखम्, इष्टदारापत्यस्रगनुलेपनान्नपानादिद्रव्योपजनितमिति विस्तरः, तदेव च सुखमुपग्रहोऽनुग्रहः पुद्गलानां निमित्ततया परिणतावात्मनः, एवं दुःखादिप्वपि योजनीयम्, असद्वद्योदयादात्मपरिणामो बाह्यद्रव्यापेक्षः सङ्क्लेशप्रायो दुःखं, भवस्थितिनिमित्तायुर्द्रव्यसम्बन्धमाजः पुरुषस्य प्राणापानलक्षणक्रियाविशेषाव्युपरमो जीवितं, तदशेषोपरतिमरणम्। कथं मरणमात्मोपग्रह इति चेत्, निर्विष्णस्य पुरुषस्य तत्प्रियत्वाद् विषादिद्रव्यसम्बन्धे सत्यायुपो यौगपद्येनोपभोगोदयात् कण्टकवेदनावत् // भा०-तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकाराः / अनिष्टा दुःखस्य / स्थानाच्छादनानुलेपनभोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तन चायुष्कम्य / विषशस्त्राग्यादीनि मरणस्य, अपवर्तनं चायुष्कस्य // टी०-तद्यथेत्यादिना प्रत्येकमुदाहरणं सुखादीनां दर्शयति-स्पर्शादयः केचित कदाचिदाशयवशाज्जन्तूनां वल्लभाः सन्तः सुखमात्मपरिणामस्वभावमुपकुर्वन्ति / कर्मणि षष्ठी द्रष्टव्या / त एव चानिष्टा द्वेष्याः सन्तः स्वाशयोत्प्रेक्षया दुःखस्योपकुर्वन्ति / तथा चाह "तानेवार्थान द्विषतस्तानेवार्थान् प्रलीयमानस्य / निश्चयतोऽस्यानिष्टं न विद्यते किञ्चिदिष्टं वा ।।"-प्रशम० श्लो० 52 ___ अतः स्वचेतीविकल्पापेक्षमिष्टत्वमनिष्टत्वं वा स्पर्शादीनाम्, तथा स्नानादयो विधिप्रयोगाज्जीवितस्य प्राणधारणलक्षणस्योपकारकाः, विधिप्रयोगो देशकालमात्रासात्म्यद्रव्यगुरुलाघवस्ववलापेक्षः, जन्मान्तरप्रतिवद्धस्य चायुषोऽनपवर्तनम्, अपवर्तनं तु दीर्घस्यायुषोऽध्यवसा. यादिविशेषसाचिव्यादल्पतापादनं जीवितसंवर्तनमित्यर्थः / अनुग्राहकहेतुसन्निधानात् तु तावन्मात्रतैव, सुबद्धत्वात्, पर्वनश्लेषवत्, अनपवर्तनमिति, बद्धस्पृष्टनिहितनिकाचितचतुष्करण 1 'मरगं' इति क-पाठः। 2 विप्रियस्य दुःखमरणकारितया पुद्गलानामुपयोजनमध्यक्षसिद्धमेव, स्वरूपख्यापनमेतत्, तेन नैतत्कार्यता। 3 गतिस्थित्युपग्रहावित्यत्र समस्तत्वादुपग्रहस्य न तस्यानुवृत्तिः सन्नियोगेतिन्यायात्, उपकार शब्दस्त्वत्रापि पुदला. मामुपकार इति अनुवर्त्यत एव, तत आवश्यक उपग्रग्रहण, अन्यच्च सुखादीनि न पुद्गलरूपाणि किन्तु तजन्यानीति युक्तमुपग्रह इति, भावि भाष्यमपि तथैव / 4 तस्यापि पौलिकत्वात् तद्धारणावधिकलादेव जीषितस्येति / 5 पवनेन-वायुना शुष्यमाणः श्लेषः पवनश्लेषः, स हि गाढतमो न च शक्यते उद्वेष्टयितुम् / Page #371 -------------------------------------------------------------------------- ________________ 345 सूत्र 20] स्वोपज्ञभाष्य-टीकालङ्कृतम् सगृहीतकर्मणामुपक्रमाभावाज्जीवितसंवर्तनाभाव इत्यर्थः / विषशस्त्राग्निमन्त्रप्रहरणादयो मरगस्य-जीवितोच्छेदलक्षणस्योपकारकाः पूर्वोपात्तायुषश्चापवर्तनकारिणः, कर्म हि पौद्गलिकमिष्टं भेत्तुं बहिः पौद्गलं (पुद्गलैः 1 ) शक्यम् / आह च “सोपक्रममायुष्कं, वेदनयाऽऽर्तस्य मूर्च्छतो जन्तोः।। वन्धप्रायोग्याभ्यां, विगच्छति स्नेहरौक्ष्याभ्याम् // १॥–आर्या निरुपक्रमं तु न तथा-ऽऽयुष्कं दृढसंहितं यदिष्टं तत् / नन्वग्न्याद्यैरनुप-क्रम्यं कंकटुकमपरान्नम् // 2 // आयुष्कस्यावयवा, बन्धनमुक्ता जटन्ति ते तसात् / आर्द्राद् वस्त्राद् यद्वत् , प्रशोष्यमाणाजलावयवाः // 3 // प्राणाहारनिरोधा-ध्यवसाननिमित्तवेदनाघाताः / स्पशाश्वायुभेदे, सप्तते हेतवः प्रोक्ताः // 4 // " भा०-अत्राह-उपपन्नं तावदेतत् सोपक्रमाणामपवर्तनीयोयुषाम् / अथानपवायुषां कथमिति ? / अत्रोच्यते टी-अत्राहेत्यादिना ग्रन्थेनाशङ्कते, सोपक्रमायुषामनशनरोगादिवाधाभिरुपक्षीणायुषामपवर्तनीयायुषां च भृगुपतनोद्वन्धनादिभिरपवर्तमानायुषामुपकुर्वन्तु नाम पुद्गलाः, ये पुनरनपवर्तनीयायुषो भवन्त्यौपपातिकचरमदेहोत्तमपुरुषासङ्ख्येयवर्षायुषस्तेषां कथं जीवितमरणोपग्रह इत्याक्षिप्त अत्रोच्यत इत्याह भा०–तेषामपि जीवितमरणोपग्रहः पुद्गलानामुपकारः / कथमिति चेत्, तदुच्यते॥ टी–तेषामपीत्यादि / तेषामप्यनपवर्तनीयायुषां जीवितोपग्रहो मरणोपग्रहश्च पुद्गलजालायत्त एव, पुद्गलकृत एवोपकार इतियावत, कथमिति चेत्, आशङ्कते, केन प्रकारेगानपवायुषामुपकुर्वन्ति पुद्गलाः, एवं मन्यते-न तेषामायुर्वर्धयितुं शक्यम्, न हासयितुम् , अतः कमुपकारं पुद्गलाः कुर्युरिति तदुच्यते इत्याह. भा०-कर्मणः स्थितिक्षयाभ्याम् / कर्म हि पौद्गलमिति / आहारश्च त्रिविधः सर्वेषामेवोपकुरुते / किं कारणम् / शरीरस्थित्युपचयबलवृद्धिप्रीत्यर्थ त्याहार इति // 20 // 1 अपवर्तनीयायुषां निरुपक्रमत्वाभावात् सोपक्रमेत्यादि / 2 आयुषः परानुपग्राह्यत्वात् स्वभावतस्तेषां मरणं, म जातु तेषां पुद्गलोपग्रहो नामेति शङ्कते / 3 शीघ्रमायुःक्षयप्रतिपादनाय मेद इत्याशयः। 4 कर्मशब्देनायुःकमेव प्राद्यं, प्रकरणात् जीवितमरणयोः, अनपवर्तनीयायुषामपि नायुरन्तरेण जीवितं तत्क्षयमन्तरा च मरणमिति युतमुकं तेषामपीत्यादि। Page #372 -------------------------------------------------------------------------- ________________ 346 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 टी-कर्मण इत्यादि / यस्मात् सकलमेव ज्ञानावरणादि कर्म पुद्गलात्मकम्-अनन्तप्रदेशात्मकस्कन्धविकारः, कर्मनिमित्ता च तेषां स्थितिस्तद्वारेण जीवितोपग्राहिणः, त एव च कर्मपुद्गलाः क्षीयमाणा मरणोपग्राहिणः सम्पद्यन्त इति, तस्मात् सुष्टुच्यते-तेषामपि .. जीवितमरणोपग्रहः पुद्गलानामुपकारः / आहारश्च विविध पुद्गलेषु सर्वोपकारिता इत्यादि / समुच्चयार्थश्वशब्दः, ओजोलोमप्रक्षेपलक्षणस्त्रिप्रकार आहारो __ऽभ्यवहरणम् , तत्रीजआहारः सर्वप्रदेशैरात्मनः सर्वस्यापयोप्तकावस्थायां जन्मकाले घृतमध्यप्रक्षिप्तापूपवत्, पर्याप्तकोवस्थायां तु लोमाहारस्त्वगिन्द्रियग्रहणलक्षणः, प्रक्षेपाहारस्तु कावलिकः, सोऽपि पर्याप्तकानामेव पृथिवीकायायेकेन्द्रियनारकदेववर्जानामसुमताम्, सर्वेषामित्यनेन संसारिणः परिगृह्यन्ते // ननु संसारिणोऽपि केचिदन्तर्गतावनाहारकाः, केवलिनस्तु समुद्घातकाले शैलेश्यवस्थायां चेति, अतः कथं सर्वेषामुपकुरुत इत्युच्यते ? बाहुल्यमङ्गीकृत्येदमुक्तमल्पकालत्वाच नापेक्षितं भाष्यकारेण / किं कारणमेतदेवमिति प्रश्नयति, शरीरेत्यादिनोपपादयति / यस्मादाहाराधीनाः शरीरस्य स्थित्यादयोऽनपवायुषाम् , आहारश्च पुद्गलविकारः, ततः पौगलिकत्वादुपकुरुते, तत्र स्थितिः सन्धारणमन्यथा नातिछेत, उपचयः परिपोषो मांसमजादीनाम्, बलं शक्तिः, प्राणः सामर्थ्यम्, वृद्धिराशेहपरि णाहलक्षणा, प्रीतिश्चित्तधर्मः परितोषरूपः, एवमनेकप्रयोजननिवर्तनसामर्थ्यादाहार उपकारक इति // 20 // भा०-अत्राह-गृह्णीमस्तावद् धर्माधर्माकाशपुद्गलजीवद्रव्याणामुपकुर्वन्तीति / अथ जीवानां क उपकार इति ? / अत्रोच्यते टी०-अत्राहेत्यादिसम्बन्धग्रन्थः / सर्वैर्धर्मादिभिरुपकृतं निमित्तव्यापारविशेषेण जीवानाम्, अथात्मानः किमन्येषामात्मनामेवोपकुर्वन्तीत्युपकारं जीवसम्बन्धिनं पृच्छति / अथवा धर्माधर्माकाशपुद्गलानां परानुग्रहः सान्ततिक उक्तः, किमेवमात्मनामप्युतान्यो विधिरिति प्रश्नयति / तत्र जीवद्रव्याणामिति / जीवानां सर्वे धर्मादय उपकुर्वन्ति, धर्माधर्माकाशाः पुद्गलद्रव्याणामुपकारकाः, आकाशं धर्माधर्मपुद्गलानामुपकारकम्, इत्थमेतेऽनुग्रहकारिणः प्रसिद्धा धर्मादय इति बुद्धयामहे / अथ जीवानामुपकारः क इत्यनवबोधात् प्रनिते अत्रोच्यते इत्याह / सूत्रम्-परस्परोपग्रहो जीवानाम् // 5-21 // जीवोपकारः भा०-परस्परस्य हिताहितोपदेशाभ्यामुपग्रहो जीवाना मिति // 21 // १जन्मशब्देन नात्र प्रसवः, किन्तु गर्भावतारः। 2 शरीरपर्यायैव पर्याप्तका ग्राह्याः, अन्यथा अपर्याप्तानी लोमाहारस्याप्यभावसंभवात् / 3 अपवर्तनीयेतरायुष्मतामित्यर्थः, अत एव शरीरेत्यादिहेतुः संगतः / 'ननु च संसा० ' इति ग-पाठः। 5 ' नावतिष्ठते ' इति क-ख-पाठः / Page #373 -------------------------------------------------------------------------- ________________ स्त्रं 21] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 347 . टी०-परस्परशब्दः कर्मव्यतिहारविषयः / अन्योन्योपग्रहो जीवानामुपकारः। नन्वपरस्परेति भवितव्यमित्यत्र परस्परा क्रिया सातत्येनेत्यत्रैके व्याचक्षते, वर्णलोपं कृत्वा निरदिक्षदाचार्यः परम्परोपग्रह इति कात्यायनवचनाद् वा 'इतरेतरान्योन्योपपदाच ( पा० अ० 1, पा० 3, मू० 16 ) इत्यत्रोक्तं 'परस्परोपपदाचेति ( वक्तव्यं ) ( वार्तिके 900) परस्परस्य व्यतिलुनन्ति / हिताहितोपदेशाभ्यामिति / हितमायत्यां वर्तमाने च यत् क्षम युक्तं न्याय्यं वा, तद्विपरीतमहितम्, हितप्रतिपादनेनाहितप्रतिषेधेन चोपग्रहं कुर्वन्ति, पुनरुपग्रहवचनमाभिप्रायिकं दर्शयति, जीवाः परस्परहिताहितोपदेशदायित्वेनानुगृह्णन्ति न त्वेवं पुद्गलाः / अथवा सुखादीनामेकैकोऽप्यनुग्राहको जन्तोर्भवति समुपजातः, इह तु पुनरुपग्रहमाणोपग्राहकयोः परस्परेण स्त्रीपुंसवदनुग्रहे योगपद्यार्थ पुनरुपग्रहवचनं प्रतिपत्तव्यम्, सर्वदैव द्विप्रभृतीनामुपकारो मैककानाम्, उपसर्जनं चोपग्रहः पूर्वसूत्रे, इह तु स्वतन्त्रः, जीवानामुपदेशस्य भूयस्त्वेनोपकारकत्वाद ग्रहणम्, न तथा प्राणिनो वित्तादिभिरुपकुर्वन्ति यथोपदेशेनेति, अहितोपदेशोऽहितानुष्ठानं वा कथमुपकारः, न, उपकारवचनस्य निमित्तार्थत्वात्, अन्यथा हीष्टोपग्रह एवोपकारः स्यात्, नानिष्टोपग्रह इत्यव्यापिता भवेत् // ननु जीवानामुक्तं लक्षणमुपयोग इति किं पुनरारम्भेण ? नैतत्, तदस्त्यन्तरङ्ग लक्षणमिदं तु बहिरङ्गम्, एवं वर्हि धर्मादित्रयस्य लक्षणं नास्ति / अत्रोच्यते-गतिस्थित्यवगाहानां स्वाभाव्याद, यो हि यत्रासाधारणो धर्मः स एव तस्य लक्षणम्, इतिशब्दोऽधिकारपरिसमाप्त्यर्थ इति // 21 // भा०-अत्राह-अथ कालस्योपकारः क इति ? / अत्रोच्यते टी०–अत्राहेत्यादिना सम्बध्नाति-अत्रेति पश्चास्तिकायपरिसमाप्तिप्रस्तावे पर आहअथ कालस्योपकारः क इति // ननु च पूर्वोपन्यस्तेषु धर्मादिषु द्रव्येषूपकारविषयः प्रश्नो घटमानः कालद्रव्यं तु नैवोपन्यस्तम,अतः कथं तत्कृतोपकारविषयः प्रश्नः सङ्गच्छेत ? / सत्यम्, नोक्तं कालद्रव्यं, किन्तु कालश्चेत्येके (अ० 5, सू० 38 ) इति वक्ष्यत्येकीयमतेन स कदाचिद् धर्मास्तिकायादिद्रव्यपञ्चकान्तर्भूतस्तत्परिणामत्वात्, कदाचित् पदार्थान्तरं धर्मादिवत् , सर्वथा लक्षणं वक्तव्यमेतच्चेतसि संनिवेश्य प्रश्नयति-अथ कालस्योपकारः क इति / असाधारणलक्षणविषयः प्रश्नः / कथं पुनधेमोदिपरिणाममात्रं काल इति चेत्. यतस्तद्धर्मविशेषा एवातीतानागतवर्तमाना आख्यातशब्दवाच्याः, ते च बुद्धयर्थशब्दास्त्रयः, सर्व च वस्त्वर्थाभिधानप्रत्ययसगृहीतं. तुल्यव्यपदेशत्वात् शब्दार्थबुद्धीनाम्, तत्रार्थलक्षणः कालोऽर्थवृत्तिभिरेवावधियते इत्यत्रोच्यत इत्याह // 1. अन्यस्योपग्रहः' इति ग-पाठः / 2 एकेन जीवेन द्वितीयस्य तेन तृतीयस्येत्येवं परम्परार्थे परस्परशब्दः, यथा च धर्मादीनां स्वभावेनैवोपकर्तृता नैवमेषां, किन्तु अनुग्रहधियैव, यद्वा इन्द्रियादिकार्याण्याश्रित्य परस्परेषामुपग्राहकता, तच्छक्तीनां कार्यद्वारावस्थितेः। ३'धर्मादिद्रव्येषु' इति क-पाठः। Page #374 -------------------------------------------------------------------------- ________________ 348 तत्त्वार्थाधिगमसूत्रम् [ अभ्यायः 5 सूत्रम्-वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य // 5-22 // टी०-यदा तु पृथक कालद्रव्यं धर्मादिभ्यस्तदाऽप्यवश्यं सतोपकालस्योपकारः कारिणा भवितव्यम् / संश्च कालोऽभिमतः स किमुपकार इति तस्य खलु वक्ष्यमाणस्वतत्वमूर्तेः वर्तना परिणाम इत्यादिनाऽविनाभूत लिङ्गमुपदर्श्यते / यच्च प्राङ् नोपोन्यासि सूत्रकारेण कालस्तदस्तिकायत्वप्रतिषेधाय / आह च "तमान्मानुषलोक-व्यापी कालोऽस्ति समय एक इह / एकत्वाच्च स कायो, न भवति कायो हि समुदायः // " स चैकः समयो द्रव्यपर्यायावत्रवृत्तिरेव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्माऽपि स्वरूपानन्त्यभूतक्रमाक्रमभाव्यनाद्यपर्यवसानोऽनन्तसङ्ख्यापरिणामः, अत एव पर्यायप्रवाहव्यापिनमेकमात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात्, सामान्यः परमार्थत्वात सन्नेव न कदाचिदप्यसत्वं भजत इति यद्यर्धत्तीयद्वीपसमुद्रद्वयाक्रान्तक्षेत्रपरिणामस्तिर्यग्मानेन पञ्च चत्वारिंशद्योजनलक्षप्रमाणः (ऊर्ध्वमधश्चाष्टादशयोजनप्रमाणः ) कालो नाम द्रव्य मिति निरूप्यते वर्तनादिलिङ्गसद्भावात्, _ ततः किमिति मनुष्यलोकादपि परतो नाभ्युपेयते, तलिङ्गोपपत्तेः, . इह वर्तनालक्षणः कालः उच्यते, सा चास्ति तत्र वृत्तिः, तथा प्राणानलोकवृत्तिता पाननिमेपोन्मेषायुःप्रमाणादि परत्वापरत्वादिलिङ्गं चेति। अत्रोच्यतेसत्यामपि भावानां वृत्तौ तस्यास्त्वविशेषेण काललिङ्गत्वं नेष्यते, सन्तो हि भावाः स्वयमेवोत्पद्यन्ते व्ययन्त्यवतिष्ठन्ते च, अस्तित्वं च भावानां वस्त्वन्तरापेक्षम्, न च तत्रत्याः प्राणादिवृत्तयः कालापेक्षास्तुल्यजातीयानां सर्वेषां युगपदभवनात्, कालापेक्षा द्यर्थास्तुल्यजातीयानामेकस्मिन् काले भवन्ति, न विजातीयानाम्, ताश्च प्राणादिवृत्तयस्तद्वतां नैकस्मिन काले भवन्त्युपरमन्ति चेति, तस्मान्न कालापेक्षास्ताः, न च परत्वापरत्वे तत्र कालापेक्षे, स्थितिविशेषापेक्षे हि परत्वापरत्वे, पष्टिवर्षा वर्षशतिकः परोऽपरः षष्टिवर्ष इति षष्टिवर्षागां शतं वर्षाणामिति स्थितिरेषा, सा च सत्त्वापेक्षास्तित्वादेव, भावानामस्तित्वं चानपेक्षमित्युक्तम् // नन्वेवमेव मनुष्यलोकेऽपि कालनिरपेक्षा वर्तनादयो भविष्यन्ति, किं कालकल्पनयेति चेत् , उच्यते-यदि निर्वत कारणं परिणामकारणं वा कालोऽकलयिष्यताऽभविष्यदेतदेवम् अपेक्षाकारणं हि सः / न ह्यसावधिष्ठाय स्वातन्येण कुलालवत् करोति। न च मृत्तिकावत् परिणामिकारणं, किन्तु सम्भवतां स्वयमेवार्थानामस्मिन् काले भवितव्यम्, नान्यदेति अपेक्षाकारणं धर्मद्रव्यमिव गता कालस्य चिह्नान्तर्गतो भागो नास्तिक-ख. 1 नोपन्यासि' इति क-ख-पाठः। २'पर्यवसाने' इति ग-पाठः। योः / 4' वियत्यव.' इति ग-पाठः / Page #375 -------------------------------------------------------------------------- ________________ सूत्र 22 ]. स्वोपनमाष्य-टीकालङ्कृतम् 349 विति न दोषः, सुखादिदृष्टान्ताश्च पूर्ववद् वाच्याः // अत्र च केचिदाचक्षते-विरोधासम्भवाद् वर्तनादिपदत्रयसमासः, अपरे पुनरसमस्तान्येवाधीयते, परत्वापरत्वयोः पुनः समास एव, अन्योन्यापेक्षत्वात्, वर्तनाग्रहणमादौ पूर्वापरनिरपेक्षप्रत्ययाभिधानहेतुत्वान्निदर्शनार्थत्वात् / तदनु परिणामग्रहणं, क्रियाग्रहणं वर्तनादनिां तज्जातीयत्वात् / तदनु परत्वापरत्वे विशिष्टलिङ्गत्वात् प्रशंसाक्षेत्रकृतव्युदासार्थम् / उपकारानुकर्षणार्थश्वशब्दः // भा०-तद्यथा-सर्वभावानां वर्तना कालाश्रया वृत्तिः / वर्तना उत्पत्तिः, स्थितिरथ गतिः प्रथमसमयाश्रयेत्यर्थः // ०-तद्यथा-सर्वभावानामित्यादि भाष्यम् / तद्यथेत्यनेन वर्तनास्वरूपम् वर्तनादीनां सकलभावव्यापितां दर्शयति / तत्र वर्तनैव तावद् भाव्यते 'वर्तना कालाश्रया वृत्तिरिति, यतेन्ते स्वयमेव पदाथोस्तेषां वतेमानानां प्रयोजिका कालाश्रया वृत्तिः, वय॑न्ते यया सा वर्तना / ‘ण्यासश्रन्थो युच्' (पा० अ० 3, पा० 3, सू० 107) / अथवा सैव कालाश्रया वृत्तिर्वर्तनशीलेति, 'अनुदात्तेतश्च हलादेः' (पा० अ० 3, पा०.२, मू० 149 ) इति युन् / वृत्तिर्वर्तनं तथाशीलतेति, सा च वर्तना प्रतिद्रव्यपर्यायमन्तीतैकसमयस्वसत्तानुभूतिलक्षणा उत्पाद्यस्येतरस्य वा भावस्य प्रथमसमयसंव्यवहारोऽनुमानगम्यस्तण्डुलादिविकारवदग्न्युदकसंयोगनिमित्ता विक्रिया प्राथमिक्यतीता. नागतविशेषविनिर्मुक्ता, वर्तते पाकः अस्य वा भावाऽनुसमयस्थितेतना प्रतीता, सा चातिनिपुणपुरुषबुद्धिगम्या / यथाऽऽह "बिसस्य बाला इव दह्यमाना, न लक्ष्यते विकृतिरिहानिपाते / तां वेदयन्ते मितसर्वभावाः, सूक्ष्मो हि कालोऽनुमितेन गम्यः // " . . ननु च सवितुरुदयेन वर्तमानेनोपलक्षिता भावानां प्रतिविशिष्टा क्रियैव वर्तते इत्यावेद्यते कोऽन्यस्तव्यतिरिक्तः काल इति, तथा ह्यः श्व इत्यतीतानागतोदयलक्षणा बध्नमण्डलभ्रमणानुमेया वस्तुक्रियैवोच्यतेऽवृतद् वर्तिष्यत इति / यथा चोक्तम्-नृलोके, तत्कृतः कालो विभागः (अ० 4, सू० 14, 15) इति, अत्रोच्यते, प्रागुत्पतद्भिरेवास्माभिरिदमुक्तम्-धर्मादिद्रष्यपरिणतिमात्रं कालस्तदन्यो वा, तत्र प्रथमपक्षे सिद्धसाध्यता, तदन्यपक्षेऽपि न दोपः, आ. दित्यगत्युपलक्षिता नैपा वस्तुक्रिया वर्तत इति, तद्गतावपि सद्भावाद्, वर्तते व्रज्या सवितुर्यथा आकाशप्रदेशनिमित्तेति चेत् , तदप्यसमञ्जसम्, तां प्रत्यधिकरणभावात् स्थालीवत्, कथं पुन 1 यदि च तिर्यग्लोकवृत्तिपदार्थानां चन्द्रसूर्यादिगतिक्रिययोपकृतिः तदा स्पष्ट एवोपकारस्तस्य तिर्य लोके, सुरलोकादौ न सूर्यादेगेतिक्रिया न च तया तस्योपकार इति स्पष्ट एवान्यत्र तदनुपकारः, प्रागुक्तमपि च यदुतात्रत्येनैव कालेनान्यत्र व्यवहारः, परमनिरुद्धः समयोऽपि सूर्यादिकियाव्यङ्ग्यदिनादेः परमो लव एव, सूर्यादिगतावपि प्राचीना तद्वतिहेतुरेव, एवंच तिर्यग्लोक एव तस्य वृत्तियुक्ता, कथमन्यथा लोकालोकयोर्वर्तनादिसद्भावात् न स सर्वत्र, एवं च पर्शयताऽपि तस्य युज्यत एव / 2 प्रथमसमाश्रयेत्यर्थः' इति क-ख-पाठः / 3 ‘ण्याश्रयो युच्' इति ग-पाठः। 4 'वेद्यन्ते ' इति ग-पाठः / Page #376 -------------------------------------------------------------------------- ________________ 350 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 रिदमभिधातुं पार्यते-कालाश्रया वृत्तिरिति ? अवधृते हि काले तदाश्रया वृत्तियुज्येत // ननु चात्मादयोऽप्यनवतस्वरूपा एव साक्षाद बुद्धिसुखदुःखादिभिः कार्यैरुभय निश्चितैरधिगम्यन्ते, दृश्याश्थामी, न चान्यथोपपद्यन्ते, तद्वदेव वर्तना सकलवस्तुव्युपाश्रया, अतोऽस्ति कार्यानुमेयः कालः पदार्थपरिणतिहेतुः, लोकप्रसिद्धाश्च कालद्रव्याभिधायिनः शब्दाः सन्ति, न वस्तुक्रियामात्राभिधायिनः / यथाऽऽह-"युगपदयुगपत् क्षिप्रं चिरं चिरेण परमिदमपरमिदमिति च, वर्त्यति नैतद् वय॑ति वर्तते तद् वृत्तमपि वर्तत इदमन्तर्वर्तत" इति, कालापेक्षमेव आप्ता यत् सर्वे ब्रुवन्ति, तस्मान्ननु सर्वेषां मतः कालः, ह्यः श्वोऽद्य सम्प्रति परुत् परारि नक्तं दिवैषमः प्रातः सायमिति कालवचनानि कथं युक्तान्यसति काले ? / तस्याश्च वृत्तेः कालापेक्षायाः कालस्वरूपाया वा भाष्यकारः शब्दानेकार्थान् कथयति-वर्तनेत्यादि / वर्तनोक्तलक्षणा, उत्पत्तिरात्मलाभः, स्थितिरप्रच्युतिरिति किञ्चिद्भेदा वर्तनवोच्यते, निर्विभागः कालः समयः स च प्रथम इति वस्तूत्पत्त्या व्यवच्छिन्नस्तदाश्रया समयपरिणतिस्वभावेत्यर्थः // भा०–परिणामो द्विविधः-अनादिरादिमांश्च / तं परस्ताद (अ० 5, सू० 42 ) वक्ष्यामः // टी-परिणामो विविध इत्यादि / द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामः, तद्यथा-अङ्कुरावस्थस्य वनस्पतेर्मूल-काण्ड-त्वक पत्र स्कन्ध शाखा-विटप-पुष्प-फलसद्भावलक्षणः परिणामः, आसीदङ्कुरः सम्प्रति परिणामस्वरूपम् स्कन्धवानैपमः पुष्पिष्यतीति, पुरुषद्रव्यस्य वा बाल कुमार-युव-मध्यमा द्यवस्थापरिणामसद्भावलक्षणः, स द्विविधः, अविद्यमानादिरनादिरमुर्तेषु धर्मादिषु, मूर्तेषु पुनरादिमानभ्रेन्द्रधनुरादिपु स्तम्भकुम्भादिषु च / चशब्दोऽवधारणार्थः / परिणामो द्विविध एव, तं चाध्यायपरिसमाप्तौ ( सू० 41 ) वक्ष्यामः-तद्भावः परिणाम इति, स च वस्तूनामृतुविभागवेलानियमकृतः, तत्रर्तवो हेमन्त 1 शिशिर 2 वसन्त 3 ग्रीष्म 4 वर्षा 5 शरत्संज्ञाः 6 कालस्यैकस्य शक्तिभेदाः प्रतिविशिष्टकार्यप्रसवानुमेयाः / तद्यथाहेमन्ते हिमानीनिपातप्रम्लानानि वृन्ताककापासीवनानि / पथिकाः सङ्कोचितपाणयः कणदन्तवीणिकाः कम्पमानगात्रयष्टयः प्रत्यग्निशलभा इवापतन्तो लक्ष्यन्ते / वायवश्व तुपारलेशसेङ्गतोऽतिशयशिशिराः शरीराण्यायासयन्तः प्राणभाजामावान्ति / प्रियतमापरिष्वङ्गदुर्लालितेषु युवसु प्रसरमलभमानाः कुकुमारुणाः प्रियतामुपनमन्त्यंशवः सहस्ररहेमन्तवर्णनम् श्मेर्जीवलोकस्य / अनवरतशीतपातजनितव्यथाः काष्ठशकलानि डिंम्भाः समाहत्येकतो हुतभुजमादीप्य तापमासेवन्ते प्रसारितपाणयः सहःसहस्यसंज्ञयोर्मासयोः॥ १'युज्यते' इति क-ख-पाठः। 2' सर्वेषामभिमतः' इति ग-पाठः। 3 ' कांसी' इति क-ख-पाठः / 4 'कणद्दवदन्त 'इति ग-पाठः / 5 ' सङ्गिनोऽतिशय ' इति क-ख-पाठः। 6 ‘ण्यावासयंतः' इति ग्व-ग-पाठः / 'भामिः समा' इति क-पाठः। Page #377 -------------------------------------------------------------------------- ________________ सूत्र 22] स्वोपज्ञभाष्य-टीकालङ्कृतम् 351 तथा शिशिरे-अतिदुर्भगशशाङ्ककिरणे परिपाकसुरभिफलसम्पद्विनम्यमानशाखाभराः फलार्थिभिः शिशुकदम्बकैरनुगततला बदरीतरवः, तुहिनशिलाशकलविशदकुन्दमालतीकुसुम वासवाहिनो मारुताः, प्रियङ्गरोध्रप्रसवसनाथानि दिङ्मुखानि, प्रलीनाः शिशिरवर्णनम् पङ्कजाकराः सायामा यामिन्यः, कश्मीरजागुरुगन्धाढ्यगर्भगेहशायिनः सुखिनस्तपस्तपस्यनाम्नोमासयोः॥ तथा वसन्ते-समन्ततः किश्चिद्विभाव्यमानकुसुमाः कुन्दयष्टयः केसरतिलककुरबकशिरीषकोल्लप्रसूनजृम्भमाणपरागभाजः समीरणाः तरुणजनहृदयहारिणः, सहकारमञ्जरीरजःपुञ्जपिञ्जरितविग्रहाः कुसुमासवपानवशगताः सहचरीपक्षपातैराच्छुरन्तः कलगिरो बद्धमण्डलाः कातरजनान् रागपरिवृतः कुसुमधनुषो गोचरीकुर्वन्तः परिपतन्ति वनाघसन्तवर्णनम् नि मधुपाः, परभृतकुलकलनिनादकोलाहलप्रतिवध्यमानगमनाः पदे पदे प्रस्खलन्तः पलाशवनानि कुसुमभरभाजि ज्वलदनलकूटानीव पुरः प्रेक्ष्यमाणा मलयवायुवेगावधूतचम्पकरजःपटलैरवकीर्यमाणलोचनपुटाः प्रत्यावर्तन्त एव पथिकसार्थाः, परिणतविम्बफलच्छविभिरशोकपुष्पप्रकरैरुपशोभिताश्च सर्वतो दिशां भागा मासयोमेधुमाधवाभिधानयोः // तथा निदाघसमये-दहनमिव किरणनिकरैः किरन् किरणमाली भुवस्तलमास्तीर्णाङ्गारप्रकरमिव करोति, चीरीविरावद्राधीयांसो दिवसाः कथञ्चिदपवाह्यन्ते पथिकजनैः, आवाहोपकण्ठप्ररूढद्रुमच्छायाधिश्रयितश्रान्तकार्पटिकधोरणध्वानपरिपूरिता दिगाभोगाः, चन्दनपङ्का गरागपरिपाण्डुराः किङ्करकरोत्क्षिप्ततालवृन्तश्वसनशीतलितशरीराः शिग्रीष्मवर्णनम् शिरेषूपवनेषु सरित्सरसीतीरेषु च विविधधारागृहान्तर्गता भोगिनो . निरस्तधर्मग्रसरमभिरमन्ते, करिदशनशकलधवलमल्लिकाकोरकबहलपरिमलहारिणः परिमलितपाटलप्रसवाः सायं प्रातश्च पवना विलासिनां मदनमादीपयन्तः सुरभयो विचरन्ति, अरण्यान्यः कठोरकठिनकन्धरवराहदंष्ट्राकोटिविलेखोत्खातमुस्तादलसुगन्धयः करिमहिषयथावगाढपल्वलाः कलभचीत्कारपूरितदशदिशो मृगतृष्णाभिरारचितसरस्तरङ्गमालाभिरिव विप्रलब्धमुग्धहरिणवजाः शुचिशुक्राभिख्ययोर्मासयोः॥ तथा वर्षासु-सौदामिनीवलयविद्योतितोदराभिनवजलधरपटलस्थगितमम्बरमारचितपाकशासनचापलेखमासारधाराप्रपातशमितधूलिजालं च विश्वम्भरामण्डलम् , अङ्गसुखाः समीरा: कदम्बकेतकरजःपरिमलसुरभयः, स्फुरदिन्द्रगोपकप्रकरशोभिता शाद्वलवती भूमिः, कूलङ्कष जलाः सरितः, विकासिकुटजप्रसूनकन्दलीशिलीन्ध्रभूषिताः पर्वतोपवर्षावर्णनम् त्यकाः, पयोदनादाकर्णनोपजाततीवोत्कण्ठाः परिमुषितमनीषा इव प्रवा सिनः, चातकशिखण्डिमण्डलमण्डूकध्वनिविषमविषवेगमोहिताः पथिक१ 'कश्मीरगुरु' इति क-ख-पाठः। 2 'केलगिरौ' इति क-ख-पाठः। 3 ' परिधृतः ' इति ग-पाठः / ४'अरणान्यः ' इति ग-पाठः / 5 'चितस्तरङ्ग' इति क-ख-पाठः / Page #378 -------------------------------------------------------------------------- ________________ 352 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 जायाः, क्षणं क्षणद्युतिदीपिकाप्रकाशिताशामुखासु क्षणदासु परिभ्रमत्खद्योतकीटकासु सनरन्ति मसृणमभिसारिकाः, पङ्कबहुलाः पन्थानः कचिजलाकुलाः कचिदविरलवारिधाराधीतहारिसकताः नभोनभस्ययोमासयोः / / तथा शरदि-दिनकृतो मयूखाः पङ्कमाश्यानयन्तः प्रतापमुगतरमातन्वते, विनिद्राम्भोजकुमुदवनानि सरांसि सहंससारसानि स्फटिकमणिभित्तिविमलवारिपूर्णानि, कल्हारकुवलयमोदवाहिनो गन्धवाहाः सप्तच्छदकुमुशरजोधूलिधूसरितवपुपः कलगुजिनो मधुलेहिनः काष्ठाः कृतबन्धुजीवकावतंसाः, सञ्जातदस्तिथोक्षाणो मत्तवानगम्भीरमुन्नदन्तः श्लिष्टमृत्तिका खण्डमण्डितशृङ्गकोटयः परिष्वकन्ते, कृपीवलहदयहारीणि हरिणकशरद्वर्णनम् दम्बकदशनालूनतटस्तम्बाग्राणि कैदार्याणि समधिगतपाककलमानि कलमगोपिकाच्छूकारवित्रासितशुकमण्डलानि नितरां चकासति, तुषा रदीधितेर्धवलयन्तो मुखानि हरितामभीशवः कामिनां प्रमोदमन्तःकरणेषु शनकैः समेधयन्ति प्रसभमिषोर्जयोर्मासयोः // तथा वेलानियमसमधिगतपाटवानि प्रातः कुशेशयकोराजालानि भास्वत्करसम्पर्काद विकासमाददते, कुमुद्वतीनाथकिरणकलापपरामृष्टानि च कुमुदकुवलयवेलानियमः कुङ्मलानि निष्ठातसुरभिएरिमलं दलन्ति, कोशातकीपुप्पपटप्राव रणाः सन्ध्यासु ग्रामवृत्तयः सुरभिगन्धोद्गारिणः कामिजनजनितसम्मदास्तरुण्य इव बहलाङ्गरागा विराजन्ते, जलधिरपि वेलानियममनुवतमानः शिशिरकिरणोदये वलिततुङ्गवीचित्राहुभिरम्भोधरध्वानगैम्भीरव्याहारमेलाफलपरिमलपिशुनामालम्बते वेलावधूम्, कोशिकशकुन्तयश्च रजनीषु द्राधीयसा भयानकध्वनिना स्थायं स्थायमारटन्ति, प्रतानितग्रीवाः कृकवाकवोऽपि वेणुपर्यन्तन्यस्तच्छित्वरकृताधिवसतयो दीर्धेः कलगम्भीरध्वनिभिरावेदयन्ते यामच्छेदान्, वनस्पतयश्च केचिदाबद्धपत्रसङ्कोचाश्चिराय नियतवेलासु निद्रा भजन्ते // सोऽयमृतुविभागो वेलानियमश्च चित्रपरिणामः कारणं नियामकमन्तरेणानुपपन्नः सकलकारणकलापसन्निधोने सत्यप्यनासादितोपजनत्वात, अनेकशक्तियुक्तकालद्रव्यापेक्षस्तु प्रादरस्ति, तस्मात् प्रतिांवशिष्टकार्यानुमेयः कालोऽणुवत्, अन्यथा नियामकहेत्वभावे युगपदेते भावा भवेयुरपरायत्तत्वात्, अतः प्रतिनियतकालभावित्वादमीषां परिणामानामस्त्येकमनेकशक्तिकलापान्वितं कारणम्, ताश्च शक्तयः कदाचिदेव स्वकार्यनिष्पादनाय प्रवर्तन्ते समासादितपरिपाका न सर्वदेति / अथ कदाचिदेवमधिगच्छेत् कश्चित् खरविपाणशक्तिरसौ तारशीति, तदयुक्तम्, अवस्तुत्वापत्तेः, प्रतिवाद्यप्रसिद्धेश्चेति / / भा०-क्रिया गतिः / सा त्रिविधा-प्रयोगगतिः विस्रसागतिः मिश्रिकेति॥ 3. दारिण्य' इति क-पाठः / १.धारधौत' इति क-ख-पाठः। २'मभीषवः' इति ग-पाठः। 4 ‘गभीर' इति क-ख-पाठः / ५'धानेन ' इति क-ख-पाठः / Page #379 -------------------------------------------------------------------------- ________________ सूत्र 22 ]. स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 353 ... टी.-क्रिया गतिरित्यादिभाष्यम् / करणं क्रिया-द्रव्यपरिणामस्तस्यानुग्राहकः कालः, तद्यथा-आकाशदेशावल्यामगुली वर्तते अतीताऽनागतेति च, अन्यथाऽतीत एव वर्तमानोऽनागतश्च स्यात्, एवमनागतो वर्तमानश्च सङ्कीर्येत, अनिष्टं गति-विचारः चैतत, तस्मादस्ति कालो यदपेक्षयाऽतीतादिव्यपदेशाः परस्परासङ्की णोः संव्यवहारानुगुणाः प्रथन्ते, तत्रातीतो द्विविधः भाव-विषयभेदात्, विनष्टो घट इति भावातीतः, विषयातीतश्चक्षुरादिग्रहणानन्तरमद्राक्षं घटम्, तथानागतदिव. क्षाभ्यो घटो विषयानागतः, अलब्धात्मभावो भावानागत इति / तत्र प्रयोगगतिः जीवपरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया, विस्रसागतिः प्रयोगमन्त रेण केवलाजीवद्रव्यस्वपरिणामरूपा, परमाण्वभ्रेन्द्रधनुःपरिवेषादिरूपा प्रयोगगत्यादिविचारः विचित्रसंस्थाना, मिश्रिका प्रयोगविस्रसाभ्यामुभयपरिणामरूप वाज्जीवप्रयोगसहचरिताचेतनद्रव्यपरिणामात् कुम्भस्तम्भादिविषया, कुम्भादयो हि तेन तादृशा परिणामेनोत्पत्तुं स्वत एव शक्ताः कुम्भकारसाचिव्यादुपजायन्ते, वर्तनापरिणामयोः क्रियाजातीयत्वादेव पर्यन्ते क्रियोपादानम्, परिणामश्चात्र प्रधानमित्यतो वर्तनाक्रिययोः स मध्येऽधीतः सूत्रकारेण, परिणतिविशेषा एव वर्तनाक्रियाभेदा इति // भा०-परत्वापरत्वे त्रिविधे-प्रशंसाकृते क्षेत्र कृते कालकृते इति / तत्र प्रशंसाकृते परो धर्मः परं ज्ञानमपरोऽधर्मः अपरमज्ञानमिति / क्षेत्रकृते एक दिकालावस्थितयोर्विप्रकृष्टः परो भवति, सन्निकृष्टोऽपरः / परत्वापरत्वविचारः कालकृते दिरष्टवर्षाद् वर्षशतिकः परो भवति, वर्षशतिकाद् द्विरष्टवर्षोऽपरो भवति / तदेवं प्रशंसाक्षेत्रकृते परत्वापरत्वे वर्जयित्वा वर्तनादीनि कालकृतानि कालस्योपकार इति // 22 // टी-परत्वापरत्वे इत्यादि / प्रशंसाक्षेत्रकालभेदात त्रैविध्यम्, तत्र प्रशंसायाम्, परो धर्मः सर्वोत्तमत्वात् प्रशस्तः सकलमङ्गलनिलयत्वात् प्रकर्षकाष्ठागत इति. अपरोऽधर्मो जघन्यः स्वल्पगुणत्वात् निकोवस्थाप्राप्तः, तथा परं ज्ञानं यथावस्थितवस्तुवेदित्वात, अपरमन्यथा, तच्चाज्ञानमेवाप्रशस्तत्वात् कुत्सितमसम्यग्दृष्टेरिति / क्षेत्रकृते इत्यादि, एकस्यां दिश्येकदाविप्रकृष्टो दूरवर्ती परः प्रत्यासनोऽपरः मनिकृष्ट इत्यर्थः, दिशः प्राधान्यमविनाभावित्वात् कालोऽप्यत्राक्षिप्यते, कालैकत्वेऽप्यपदेशो भवत्येकदिग्व्यवस्थितयोः परोऽपर इति / कालकृते इत्यादि, व्यतिकरेणापरस्मिन् परं परस्मिँश्चापरमिति यन्निमित्ते प्रत्ययाभिधाने स कालः। तद्यथा-षोडशवषोत् परो वर्षशतायुः वर्षशतायुषोऽपरो द्विरष्टवायुः, प्रशंसाक्षेत्रकतपरत्वापरत्वे चैते न भवतः, लुब्धकादावपि दर्शनात्, यस्माल्लुब्धकेऽपि देशकुलजातिविद्या १'सङ्कीर्णतोऽनिष्टं ' इति क-ख-पाठः / 2 'जातीयकत्वादेव' इति ग-पाठः। 3 'धर्मः अपर ज्ञानमिति' इति क-ख-पाठः / Page #380 -------------------------------------------------------------------------- ________________ 354 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 परिहीणे परत्वापरत्वप्रत्ययाभिधानसम्भवात्, न च बन्धुजनापेक्षे, एकाकिन्यपि भावात्, न तपश्चरणालम्बने, अतपस्केऽपि दर्शनाद, न कर्मसंस्कारापेक्षे, तयोरनधिकारात्, न चादित्यनिमित्ते, तत्रापि दृष्टत्वात् , परोऽभियोग्यः अपर आदित्यः परः सविताऽपरोऽभियोग्य इति, अतः सामर्थ्यात् कालकृते, तयोविशेषणार्थमिदमुच्यते-प्रशंसाक्षेत्रकृतेऽपि पर त्वापरत्वे वर्जयित्वेति, वर्तनादयः सर्वे कालकृताः कालस्यापेक्षाकारणस्यानुग्रह उपकार इति सूत्रार्थः // एवं चायं यत्परत्वापरत्वे सूत्रभेदेन समस्य निर्दिष्टे मूरिणा तदवगमकं न प्रशंसाक्षेत्रकृतयोरत्र परिग्रहः, वर्तना परिणामः क्रियाश्च द्रव्यस्वभावः कालापक्षो निरदेशि, परत्वापरत्वे चावधित्वेन काललिङ्गमिति // 22 // भा०-अत्रीह-उक्तं भवता ( अ० 5, सू० 19 भाष्ये )-शरीरादीनि पुद्गलानामुपकार इति / पुद्गला इति च तन्त्रान्तरीया जीवान् परिभाषन्ते / स्पर्शादिरहिताश्चान्ये / तत् कथमेतदिति ? / अत्रोच्यते // टी-अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः / अत्र प्रस्तावे परोऽभिधत्ते-प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इति / तन्त्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्यनेन शब्देन जीवान् परिभाषन्ते-पुद्गलशब्दं जीवेषु सङ्केतयन्ति व्यवहारसिद्वयर्थमिति / / ननु च तेषां जीव एव नास्ति, कथं तद्विपयं पुद्गलध्वनि परिभाषेरन्निति ? / उच्यते--अस्त्यार्यसम्मितीयानामात्मा, सौत्रान्तिकानां तु चित्तताक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः, चित्तसन्ततौ वेदनासंज्ञा चेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चिंत्तेनान्योन्या ...... नुविधानात्, इत्येपा चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारवस्तुत्वादापुद्गलसवाय त्मेत्युपचर्यते, तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपर्यते, योगाचारणां तु विज्ञानपरिणामः पुद्गलः // यथाऽऽह "आत्मधर्मोपचारो हि, विविधो यः प्रवर्तते / विज्ञानपरिणामोऽसौ, परिणामः स च त्रिधा // " एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यते तदेतत् कथं विप्रतिषिद्धत्वादिति प्रश्नयति // नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव-रूपिणः पुद्गलाः ( अ० 5, मू० 4) इति, न च रूप्यात्मा प्रतीत इति, उच्यते-रूपशब्देन तत्र मूर्तिरुक्ता, सा च मूर्तिरन्यैरसर्वगतद्रव्यपरिमाणमिप्यते, यथा मनः, तच्च स्पशोदिरहितम्, एतन्निरासार्थमिदमवश्यं वक्तव्यं भवति मूत्रं-स्पादियुक्ता मूर्तिः, तथा चतुखिये. 1 धर्मादयस्तावदरूपिणो लक्ष्याश्च गत्यादिद्वारेण जीवानां च लक्षणमुपयोग इति प्रागेवोक्तमिति पुदललक्षणानि वक्त कामः परविप्रतिपत्तिनिरासाय शङ्कते, यद्वा संघातभेदो वक्तुकाम आरभते हेतूनाख्यातुं तत्राह / 2' चित्तेऽन्योन्या' इति क-ख-पाठः / Page #381 -------------------------------------------------------------------------- ________________ पुद्गललक्षणम् सूत्र 23 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 355 कगुणानि पृथिव्यादीनि कणभुजोक्तानि, तत्प्रतिषेधार्थ चावश्यतया विधेयं सर्वाण्येतानि चतुर्गुणानीति, एता विप्रतिपत्तीः साश्वेतस्याधायात्रोच्यत इत्याह // भा०-एतदादिविप्रतिपत्तिप्रतिषेधार्थ विशेषवचनविवक्षया चेदमुच्यते टी-एतदादीत्यादि / एषा आदिर्यासां ता एतदादयः, पुद्गलशब्देनात्मोच्यत इत्येषा विप्रतिपत्तिराद्या, कुत्सिता प्रतिपत्तिर्विप्रतिपत्तिः, तथा सर्वगतं द्रव्यं स्पर्शादिरहितं चेति द्वितीया विप्रतिपत्तिः, तनिषेधाय मूत्रारम्भः, तथा च पृथिव्यादिद्रव्याणि विशेषवचनैवक्तुमिष्टानि पृथक् पृथक् चतुर्गुणानीत्येतदभिधीयते सूत्रम्-स्पर्शरसगन्धवर्णवन्तः पुद्गलाः // 5-23 // . टी०—प्रानिर्दिष्टेन्द्रियक्रमापेक्षः स्पर्शादिविन्यासः, विषयबलवत्त्वात् स्पर्शग्रहणमादौ, सति. च तस्मिन् रसादिसद्भावात् / एतदुक्तं भवति-स्पर्शित्वादबादीनि चतुर्गुणानि पृथिवीवत्, तया मनः स्पशोदिमदसवेगतद्रव्यत्वात् पार्थिवाणुवत्, कृतद्वन्द्वानां मत्वर्थीयः, स च सम्बन्धापेक्षः, सम्बन्धश्च स्पर्शनादिप्राप्ताः पुद्गलाः स्पर्शायाकारेणोपपद्यन्त इति, अथवा सर्वदैव स्पर्शादियुक्ताः पुद्गला इति नित्ययोगे मतुप विहितः, यस्मादिन्द्रियसम्बन्धात् प्रागपि स्पर्शाद्याकारभाजस्त इति // ___ भा०-स्पर्शः रसः गन्धः वर्ण इत्येवलक्षणाः पुद्गला भवन्ति / ... टी.-स्पर्श इत्यादि भाष्यम् / कर्मसाधनाः सर्वे स्पर्शादयः / इतिशब्दो यस्मादर्थे / यसादित्थंलक्षणाः पुद्गला भवन्ति तस्मान्न जीवाः पुद्गलशब्दवाच्या इति, यथा चैते परमाग्वादिगताः स्पर्शादयो गुणाः परमाण्वादिभ्यो भिन्नाश्चाभिन्नाश्च तथा 'गुणपर्यायवद् द्रव्यम्' इत्यत्र (37) सूत्रे प्रतिपादयिष्यामः // ननु च नैव केचन विज्ञानाद् बहिः स्पर्शादिनन्तः पुद्गला विद्यन्ते, विज्ञानमेव तथा प्रत्यवभासते, बाह्यार्थनिरपेक्षस्वप्नादाविवेति / अयुक्तमेतत्, अनुभवविरोधात्, यस्माद् देशविच्छेदेन स्वान्तर्वर्तिनोऽनुभवाद् बहिरवभासमानो दृश्यते नीलपीतादिरर्थः / स्वसंवेद्यो हि बुद्धि मनिवेशी बायोथाकारानुकारो द्योतते स निहोतुमशक्यः, यदा चार्थस्य ज्ञानग्राह्यं स्वरूपं तद् द्योतते कथं सोऽर्थो नास्तीत्युच्यते, स्वप्ने च विपर्ययदर्शनादविपर्ययदर्शनाच्च जाग्रदवस्थायामित्यसमञ्जसमुदाहरणम्, प्रमाणप्रमाणाभासाविशेषाच्च / बाह्यार्थशून्यतायां हि वस्तुस्वलक्षणग्राहि ज्ञानं प्रमाणं प्रत्यक्षमर्थान्तरविकल्पमुखेन प्रवर्तमान प्रत्यक्षाभासमित्येष विशेषो न स्यात्, तस्माद विज्ञानं बहिर्थस्वरूपानुकारितया साकारम्, अनाकारत्वे प्रत्यासत्तिविप्रकषोभावात् सवोर्थग्रहणमग्रहणं वा स्यात्, अतो ग्राहकविशेषादेव ग्राह्यदृष्टिनिवन्धनम्, अन्यथाऽर्थज्ञानमित्येतदपि न स्यात्, व्यपदे रास्यापकारप्रभावितत्वात्, उपकारस्य च जन्यजनकभावनान्तरीयकत्वात्, अलमतिप्रसङ्गेन, प्रकृतमुच्यते 1' पृथग्गुणानी.' इति क-ख-पाठः / 2 " बाह्याकारो' इति ग-पाठः / 3 'भावाना०' इति ग-पाठः / Page #382 -------------------------------------------------------------------------- ________________ 356 तत्त्वार्थाधिगममूत्रम् [ अध्यायः 5 __ भा०-तत्र स्पर्शोऽष्टविधः-कठिनो मृदुर्गुरुर्लघुः शीत उष्ण स्पोदीनां प्रकाराः स्निग्धो रुक्ष इति / रसः पञ्चविधः-तिक्तः कटुः कषायोऽम्लो मधुर इति / गन्धो द्विविधः-सुरभिरसुरभिश्च / वर्णः पञ्चविधः-कृष्णो नीलो लोहितः पीतः शुक्ल इति // 23 // किश्चान्यत् टी-तत्रेत्यादि / स्पर्शादीनामनन्तपर्यायत्वेऽपि मौलभेदप्रसिद्धयर्थः कठिनप्रमुखस्पोमिदं प्रक्रियते, कठिनादयो विद्वदङ्गनापालादिप्रतीतास्तथापि सुप्रयुक्तका दीनां लक्षणान रिभिरमूनि लक्षणानि प्रत्येकं प्रकाश्यन्ते, अनमनात्मकः कठिनः, सोन्नतिलक्षणो मृदुः, अधोगमनहेतुर्गुरुः, प्रायस्तियमूर्ध्वगमनहेतुलेघुः, वैशद्यकृत् स्तम्भनस्वभावः शीतः, मार्दवपाककृष्णः , संयोगे सति संयोगिनां बन्धकारणं स्निग्धः, तथैवावन्धकारणं च रूक्षः, इतिशब्दः परिस्थूरस्पर्शभेदेयत्ताप्रतिपादनार्थः / अत्र च स्निग्धरूक्षशीतोष्णाथत्वार एवाणुषु सम्भवन्ति, स्कन्धेश्वष्टावपि यथासम्भवमभिधानीयाः / श्लेष्मशमनकृत् तिक्तः, श्लेष्मभेदपाटवकृत् कटुः, अन्नरुचिस्तम्भनकमो कषायः, आश्रवणक्लेदनकदम्लः, ह्रादनबृहणकन्मधुरः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे / सुरभिश्चन्दनोशीरकश्मीरजादीनाम्, असुरभिर्लसुनविष्ठादीनाम्, सौमुख्यवैमुख्य कारित्वात् साधारण इत्येके, तन्न, उभयो. रन्तीतविषयत्वात् / कृष्णादयो वर्णाः क्रमेणाञ्जनकपत्ररुधिरकाञ्चनशङ्खादिषु विभावनीयाः, संसर्गजाः सारङ्गादयः / एवमेतद् द्रव्यमेव स्पर्शादिभेदेन भिद्यते त्वगादीन्द्रियप्राप्तमनेकशक्तियुक्तत्वाद् द्रव्यनयाभिप्रायः, पर्यायस्य तु स्पर्शादय एव, न द्रव्यं, तदग्रहे तबुद्धधभावादिति // 23 // किश्चान्यदित्यनेन सम्बन्धयति / असकलरूपद्रव्यधर्मनिर्देशादनेनेदमुच्यते-किश्चान्यदिति / पुद्गलानां न केवलं स्पर्शादयो धर्माः, शब्दादयश्चेति दर्शयतिपगलानां सूत्रम्-शब्द-बन्ध-सौम्य-स्थौल्य-संस्थान-भेद-तमश्छायाशब्दादिधर्माः तपोद्योतवन्तश्च // 5-24 // टी-शब्दादयः कृतद्वन्द्वा मतुपा निर्दिश्यन्ते पुद्गलपरिणामप्रदर्शनाय / चशब्दः पुद्गलानुकर्षगार्थः॥ भा०-तत्र शब्दः षड्विधः-ततो विततो धनः शुबिरः संघर्षो भाषा इति॥ टी-तत्र शब्द इत्यादि भाष्यम् / तत्रेति तेषु शब्दादिषु पुद्गलपरिणामेषु शब्दस्तावदेवस्वरूपः, विवक्षावशादन्वयव्यतिरेकाभ्यां प्रधानगुणभावतया सामान्यविशेषवतोऽर्थस्याभि 1 'सुरभिश्चामुरभिश्च' इति क-ख-पाठः। 2 . ०रो घर्षो भाष इति ' इति घ-पाठः / Page #383 -------------------------------------------------------------------------- ________________ सूत्र 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 357 धायकः प्रत्यर्थनियतसङ्गतवर्णादिविभागवान् धनिरेव शब्दः, न स्फोटः, अनादिवृद्धपरम्परासङ्केतप्रसिद्धिवशात् प्रत्यर्थनियतत्वम्, परस्परापेक्षातः स्वाभिधयैकार्थकारितया शिविकोद्वाहकवत् सङ्गतत्वम्, वर्णपदवाक्यानि विभागः, तद्वान् ध्वनिरेव च शब्द:-श्रोत्रग्रहणः, न ___स्फोटः शालातुरीयमतानुसारिवैयाकरणनिकायपरिकल्पितः, तेषां हि शब्दस्य ध्वनिरुचरितः स्फोट किलाभिव्यनक्ति, तस्मादभिव्यक्तादर्थप्रतीतिरिति, स्फोटाद भिन्नत्यम् असम्बन्धमेतत, अनित्यत्वापत्तेः, स्फोटस्य अभिव्यज्यमानत्वान्मूलकी लोदकादिवत्, अर्थप्रतीतिहेतुत्वात्, प्रदीपादिवत्, प्रदीपादिनित्यत्वे वा दृष्टान्ताभावः, न च स्फोटमभिव्यञ्जन्ति ध्वनयः, अचाक्षुषप्रत्यक्षत्वात् गन्धवदित्यतो ध्वनिरूपः शब्दः स्मृतेः कारणम्, सर्वस्य शब्दस्य प्राग्व्युत्पन्नसङ्केतवशादर्थप्रत्यायनम्, ततश्च पूर्वो. पलब्धार्थानुस्मरणात् स्मात शब्दविज्ञानम्, न चान्यापोहमात्रं शब्दार्थः, विधिनिरपेक्षस्य व्यतिरेकस्यात्राप्रसिद्धरन्वयस्य च व्यतिरेकशून्यस्यानुपलब्धेः, परस्परापेक्षाभ्यामन्वयव्यतिरेकाभ्यां सर्वत्रार्थाधिगतेः व्यतिरेकस्यैव प्राधान्यमित्ययुक्तम्, तथाचाह दत्तकभिक्षुरेष- "अर्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इच्युच्यते" / हिशब्दो यस्मादर्थे / यथा वृक्षशब्दोऽवृक्षशब्दनिवृत्ति स्वार्थे कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययतीत्युच्यते, एवं च निवृत्ति विशिष्टं वस्तु शब्दार्थः, न निवृत्तिमात्रम्, अलक्षणीयमेव च स्यानिवृत्तिमात्रमवस्तुत्वात खरविषाणकुण्ठतीक्ष्णतादिवर्णनावत्, अत्र च न प्राग् विधिना घटं गृहीत्वा पश्चादन्यापोह करोति, नाप्यन्यापोहं कृत्वा पश्चाद् घटं कालभेदेन गृह्णाति, क्रमेण हि ग्रहणे हसिष्ठत्वात् पणिकत्वाच सर्वभावानां ध्वनेानस्य च न युक्तं व्यापारद्वयानुष्ठानम्, सन्तानाचेन तदयुतमवस्तुत्वात्, एवं तर्हि घटग्रहणमन्यापोहश्च युगपदुभयं सिद्धम्, यथा सवितुरुदये सन्तमसघिदलनं स्वरूपप्रकाशनं च स्वभावात्, एवं सत्युभयमभिधेयं सामान्य विशेषश्चेत्यवशेनापि प्रतिपत्तव्यमन्यापोहशब्दार्थवादिना, अन्वयव्यतिरेकयोस्तुल्य क्षत्वाद् विधेयमपि प्रधानमेवास्तु, नहि द्वयोरर्थयोर्धवखदिरवद् युगपदुपात्तयोरेकस्य गुणभावकल्पना श्रेयसी // ननु चान्वयस्य प्राधान्येऽभ्युपेयमाने प्रयत्नानन्तरीयकत्वमव्याप्तसपक्षं सन्नैवानित्यत्वं गमयेत्, केन वेदमुक्तं-व्याप्तसपक्षं गमयति अव्याप्तसपक्षं न गमयतीति, एतावत् तु उच्यते-अन्वयनिरपेक्षो न गमयति व्यतिरेकः, नापि व्यतिरेकनिरपेक्षोऽन्धयःप्रतिपादकोऽर्थस्य, परस्परापेक्षतायां च शिषिकोद्वाहकादिवत् सर्वत्र प्राधान्यं, कचिद् विवक्षावशात् वाऽन्यतरस्य गुणप्रधानकल्पनेति / यथाऽऽह-द्वादशशतिकायाम् “यदप्युक्तमप्रसक्तस्स किमर्थ प्रतिषेध इति, नैपैतत्, प्रतिषेधमात्रमुच्यते, किन्तु तस्य वस्तुनः कश्चिद् भोगार्थान्तरनिवृत्त्या लोके गम्यते यथा विषाणित्वादनश्व इति, न चाक्षिप्तो विशेषः, साक्षादभिधीयमानत्वात्", यथैव सामान्यमुच्यते तथा विशेषोऽपीत्युभयमत्र मुख्यं वाच्यमित्यतः सामान्यविशेषात्मकमेवाभिधेयम् / शब्दश्च - 1 'वृक्षशब्दः' क-ख-योर्नास्ति। 2 'वर्णनवत्' इति क-पाठः / Page #384 -------------------------------------------------------------------------- ________________ 358 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 पुद्गलद्रव्यपरिणामः,तत्परिणामता चास्य मूर्नत्वात् ,मूर्तता च द्रव्यान्तरविक्रियापादनसामध्यात् पिप्पलादिवत्, ताड्यमानपटहतलस्थकलिंचादिप्रकम्पनात्, तथा शङ्खादिशब्दानामतिमात्र . प्रवृद्धानां श्रवणबधिरीकरणमामयम्, तच नाकाशादावमर्तेऽस्ति, तथा शब्दस्य पुद्गलत्वे व प्रतीपयायित्वात् पर्वतप्रतिहताश्मवत, द्वारानुविधायित्वादातपवत्, संहाहेतवः रसामर्थ्यांदगुरुभूपवन, वायुना प्रेर्यमाणत्वात् तृणपर्णादिवत्, सर्वदिग्ग्राह्यत्वात् प्रदीपवन, अभिभवनीयत्वात् नारायगृहादिवन, अभिभावुकत्वात् मवितृमण्डलप्रकाशवत, महता हि शब्देनाल्पोभिभूयते शब्द इति प्रतीतम्, तस्मान् पुद्गलपरिणामः शब्दः / / ननु चाकाशस्य गुणाः-शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागाः, आकाशस्य गुणः शब्द इति कणभुइमतम्, एकद्रव्यवत्वाद, एकेनाश्रयद्रव्येण द्रव्यववमेकद्रव्यवत्वम्, अथवा एकच तत् द्रव्यं चेत्येकद्रव्यं तदस्याश्रयोऽस्तीत्येकद्रव्यमांस्तद्भाव एकद्रव्यवत्वं तसादेकद्रव्यवत्वान द्रव्यम्, न च कर्माचाक्षुषप्रत्यक्षत्वात्, अतः परिशेषाद् गुणः, स च क्षणिकः प्रागूच चोचारणात् सत्त्वे लिङ्गाभावात्, कारणसामग्र्याः नागभूतात्मलाभत्वात् , शब्दाभिव्यञ्ज कवस्त्वमावात् , सति चाभिव्यञ्जके कारणजो विकारो न स्यात् , नहि घटस्य प्रदीपादिदिव्यमणि . व्यञ्जकसन्निधाने परिमाणानुविधानं दृष्टम् , तावानेव हि घटकोऽभिस्य गुणत्व व्यञ्जकभेदे सत्यपि, अयं त्वल्पमध्यादिभेद उपलभ्यते, तथा-भेयादिवैशेषिकविचारः संयोगानिष्पत्तेर्वेणुपर्व विभागाच्छब्दाच शब्दनिप्पत्तेः बीचिसन्तानन्, न चायं विशेषगुणः स्पर्शवतां द्रव्याणां भूजलानलानिलानामकारणगुणपूर्वत्वात् , स्था शुचौ शङ्के कारणगुणपूर्व धवलं रूपमालक्ष्यते, विनष्टेऽपि तस्मिन् जलजे तथालक्षण मेव रूपं शकलेषु गृह्यते , न त्येवं भेर्यादिशब्दाः प्रध्वस्तेषु भयोदिषु तदवयवेधूपलभ्यन्ते, शरीरे वा सामश्लोकादिशब्दाः शरीरावयवेषु चोपलक्ष्यन्ते, तस्मान्न कारणगुणपूर्वः शब्दः, तथा यदि स्पर्शवतो गुणः स्यात् शब्दस्ततो यावत् तानि स्पर्शवद् द्रव्याणि तावद् भवेद् रूपादिवन, न चैवमुपपद्यते, तस्मादयाबद्र्व्यभावित्वान पृथिव्यादिगुणः शब्दः, इतश्च न स्पशेवद्रव्यगुणः शब्दः, आश्रयादन्यत्रोपलब्धेः, अन्यत्र हि शसमुखसंयोगोऽन्यत्र दिगन्तरेऽवस्थितैः श्रोतभिरुपलभ्यते शब्दः, स्पर्शवद्गुणास्तु रूपादयोऽन्यत्राश्रयान्न गृह्यन्ते, तस्मान्न शब्दः स्पर्शवतां गुणः, बाह्येन्द्रियप्रत्यक्षत्वाच नात्ममनोदिकालानाम्, पारिशेष्यादाकाशगुणः, लिङ्गमाका शस्यानुपलभ्यमानस्येति / तदेतदघटमानकमेव वैशेषिकैर्वा चालत्या शब्दस्य . स्वमतिविकल्पशिल्परचनामात्रमाविक्रियते गगनमहाशिंखरवर्णनयत्, गुणत्वनिरासः मृतत्वं हि प्रत्यपादि प्रागस्यास्माभियुक्तितः, तत् कथं मृतस्य व्योल - णत्वोपपत्तयः सङ्गस्यन्ते ? नहि रूपादयो व्योमगुगा इति व्याहारः शोभो, पुद्गलानामेव हि २'द्रव्यमान' इति क-ख-पाठः। 3 'कारणतो' इति ग-पाठः / १'कलिम्बादीप्र' इति -पाठः / 4 "शिखरवत्' इति क-ख-पाठः / Page #385 -------------------------------------------------------------------------- ________________ 359 सूत्र 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् तथाविधः परिणामः शब्दव्यपदेशभागित्येकद्रव्यवत्त्वाभावः, ततश्च स्याद् द्रव्यं स्याद् गुणः, परिणामस्य परिणामिनोऽर्थान्तरानान्तरत्वेनाभ्युपेतत्वात , एतेनानित्यत्वैकान्तः प्रत्युक्तः, सर्ववस्तूनां द्रव्यपर्यायात्मकत्वात् , एवं ताकाशस्यापि केनचिदाकारेण गुण एवेति चेत् , नामाकाशादिविवक्षावशाददोषोऽयमनेकान्तवादिनः, द्रव्यपरिणाममात्रत्वाच्च कर्मणोऽचाक्षुपप्रत्यक्षताऽप्यसिद्धा, यदि कथञ्चित् क्षणिकत्वम् , सिद्धमाध्यता, सर्वात्मना चेत् , दृष्टान्ताभावः, सत्त्वमपि केनचित् पुद्गलरूपाद्याकारणेत्यतः सत्त्वे लिङ्गाभावादित्यसम्बद्धम् , कारणसामग्रया चाकारान्तरावस्थानमापद्यत इत्युत्थितासीनशयितपुरुषवदित्यभूतात्मलाभत्वमसिद्धम् , शब्दपर्यायेणाभूत इति चेत् , उक्तमसकृन्न वस्तु पर्यायमात्रं, किं तार्ह ? द्रव्यं पर्यायश्चेत्युभयम् , अभिव्यक्तिदूषणान्यप्येकान्तावस्थितवस्तुपक्षेऽवतरीतुमुत्सहन्ते, न तु परिणामा यस्य कथञ्चिदनित्यं कथश्चिन्नित्यमिति, दण्डादिताडनोत्थितभेर्यादिपुद्गलाश्च समासादितशब्दरूपादिमन्तः सन्तोऽपि सूक्ष्मत्वात् कारणगुणपूर्वका अपि नोपलक्ष्यन्ते, विध्यातदीपशिखारूपादिवद् गन्धपरमाणुव्यवस्थितरूपादिवद वा, न च सर्वदास पर्यायः शब्दाख्यः प्रादुरस्ति, द्रव्यक्षेत्रकालभावापेक्षत्वात् पित्तादि कोपवत, भेोद्याश्रयाश्च निश्च(स्स)रन्तः स्कन्धाः शब्दपर्यायमजहतो दिगन्तरस्थितैरपि गृह्यन्त इति नाश्चर्यम्, नैव चोपलभ्यते स्वोपनादन्यत्र शब्दपरिणामः, ताग्विधाकारेषु, परमाणुष्वेवावतिष्ठते, आध्यात्मिकश्च शब्दः काययोगात्तशब्दवर्गगायोग्यस्कन्धपरिणतिर्वाग्योगः, प्रयोगविक्षिप्तो रूपादिमत्पुद्गलसङात एवेति, बाधस्त्वनेकाकारः सङ्कर्षजादिः / अपि च-शब्दत्वं नित्यमभ्युपयन् कणादः पर्यनुयुज्यते श्रावणत्वान्नित्यः शब्दत्ववच्छब्दः, कृतकत्वस्यानित्यत्वेन व्याप्तेविरुद्धाव्यभिचारित्वमिति नित्यानित्यत्वयो . चेत्, नित्यानित्यस्वभावसर्वपदार्थवादिनस्तन्न बाधायालम् , अनेकाविरोधाभावः " न्तवादिना च न नित्यत्वानित्यत्वयोर्विरोधोऽभ्युपगम्यते, विरोधलक्ष' णासम्भवात्, एकस्तावद विरोधोहिनकुलामिजलादीनामेकस्मिन् काले सति संयोगे द्वित्ववदनेकाश्रयत्वाद् वध्यघातकलक्षणः, नह्यसंयुक्तमुदकमग्निं विध्यापयति, त्रैलोक्येऽप्यन्यभावप्रसङ्गात्, संयोगेन तु क्षणमात्रावस्थितत्वात् पश्चादेकस्याऽवलता द्वितीयस्य बलीयस्त्वम् , न वं नित्यानित्यत्वयोः क्षणमात्रमप्येकस्मिन् वृत्तिरेकान्तवादिनाऽभ्युपेयते, अतो न वध्यघातकलक्षणो विरोधः समस्ति, नाप्यसहावस्थानलक्षणः, तत्र हि शीतोप्णयोः फले वृन्तसंयोगविभागयोराम्रफले च श्यामतापीततयो कस्मिन् वस्तुनि एककाला धृत्तिरस्ति, किन्त्वेकस्य प्राग्विद्यमानता द्वितीयस्य चोत्पद्यमानतास्वभाव इत्यसावुत्पद्यमानः पूर्व विरुणद्धि, यथा सहकारफले पीतता श्यामताम्, न चैवमवस्थितं प्रानित्यत्वमनित्यत्वेनोपजायमानेन नाश्यते, तद्धि नित्यमेव न स्यादध्रवत्वादिति, न च प्रतिबध्यप्रतिबन्धकलक्षणो विरोधः स्याद्वादिनं प्रति घटते, यत एकस्मिन्नात्मद्रव्ये युगपद् धर्माधर्मावुभौ सम्भवतः, तत्र 1 'लभ्यन्ते ' इति क-पाठः / Page #386 -------------------------------------------------------------------------- ________________ 360 तत्त्वार्थाधिगमस्त्रम् [ अध्यायः 5 त्वेकस्य गुणभूतत्वमन्यस्य प्रधानत्वमेवं चेत, इष्यते एव द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, त्वयाऽप्येकस्मिन् काले द्रव्ये च धर्माधर्माववश्यमभ्युपगन्तव्यौ, अन्यथा प्रतिवन्ध्यप्रतिबन्धकभाव एव न स्यात्, अतो वामात्रमेव विरोध इति / न च सामान्यादत्यन्तभिन्ना व्यक्तिरिति जैनसिद्धान्तः / एतेन नादवृद्धिः परेति प्रत्युक्तम्, नादो महान् मध्योऽल्पश्च, न शब्द इति शबरेणोक्तम्, तदसत्, शब्दस्यैव ताथाविध्यात्, तीवमन्दमध्यप्रयत्नभेदान्महान्छ ब्दोऽल्पो मध्यश्चेति सामानाधिकरण्येन शब्द एव व्यपदिश्यते, न च अन्यमतपूर्व शब्दव्यतिरिक्तं श्रोत्रस्य ग्राह्यमस्ति, शब्दधर्म एव नाद इति चेत, स शब्दस्वा - ततोऽन्योऽनन्य इति वाच्यम्, उभयथा च दोष इति / येऽपि प्रधानपरिणाममुशन्ति शब्दं तैरपि सामान्य विशेषवान् मृतश्चाभ्युपेयः, अन्यथा तत्कृतव्यवहारो विच्छियेत, येऽपि सङ्गिरन्ते श्रोत्रेन्द्रियविषयमुपात्तानुपात्तोभयमहाभूतहेतुकं शब्दम्, तैरपि न विशेषमात्रमुखातसामान्यमूलमवलम्बनीयम्, अयोनयो हि विशेषाः खपुष्पसौरभवदनासादितात्मलामा एव स्युः, एकान्तक्षणिकता च दृष्टान्ताभावादेवातिदुर्लभेति ! तस्मादवस्थितमेतत्-पुद्गलद्रव्यमेव प्रतिविशिष्टपरिणामानुगृहीतं शब्द इति / स द्विधा विस्रसाप्रयोगभेदात्, तर वससिको जलधरध्वानादिः, प्रयोगजो जीवव्यापारनिष्पन्नः पोढा अमदा ततादिः, ततो मृदङ्गपटहादिसमुद्भवः, विततो वीणात्रिसरिकादितम्त्रीप्रभवः, कांस्यभाजनकाष्ठशलाकादिजनितो धनः, वेणुकम्बुवंशविवरायुद्भवः शुषिरः, क्रकचकाष्ठादिसङ्घर्षप्रसूतः सङ्घर्षः, व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यत इति भाषा, प्रतिनियतसंस्थानान्यक्षराणि वर्णाः, वर्णसमुदायः पदम्, पदसमुदायो वाक्यमर्थविशेषप्रतिपत्तिहेतुः, इतिशब्दः शब्दभेदेयत्तापरिसमाप्तिप्रदर्शनपरः // भा०-बन्धस्त्रिविधः-प्रयोगबन्धो विस्त्रसाबन्धोमिश्रबन्ध बन्धस्य त्रैविध्यम् इति / स्निग्धरूक्षत्वाद् भवतीति वक्ष्यते ( अ०५, सू० 32 ) // टी--बन्धस्त्रिविध इत्यादि / बन्धनं बन्धः-परस्पराश्लेषलक्षणः, प्रयोगो-जीवच्यापारस्तेन घटितो बन्धः प्रायोगिकः-औदारिकादिशरीरजतुकाष्ठादिविषयः, विस्रसा-स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः, स द्विधा आदिमदनादिमझेदात, तत्रादिमान विद्युदल्काजलधरामीन्द्रधनुःप्रभृतिविषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः, अनादिरपि धर्माधर्माकाशविषयः, प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तम्भकुम्भादिमिश्रः, अत्र चोभयमपि प्राधान्येन विवक्षितम्, सामान्यलक्षणं च बन्धस्य स्निग्धरूक्षस्वादित्युपरि व्याख्यास्यते, एतच्च बन्धलक्षणमनादों वैससिके न सम्भवत्यन्यत्र तु सङ्ग- . च्छते, 'सामान्योक्तो विधिर्विशेषेऽवस्थानं लभत ' इति वचनात् / / १पोदलिकबन्धस्यैव लक्ष्यत्वात् नोपयोगोऽस्य, बन्धसामान्याधिकारे एव विनसाबन्धस्यानादितया यामः / Page #387 -------------------------------------------------------------------------- ________________ सूत्र 24 ].. स्वोपज्ञभाष्य-टीकालङ्कृतम् 361 . भा०-सौक्ष्म्यं विविधम्-अन्त्यमापेक्षिकं च / अन्त्यं परमाणुष्वेव, आपे क्षिकं च व्यणुकादिषु सङ्घातपरिणामापेक्षं भवति / तद्यथासौम्यस्य द्वैविध्यम् आमलकाद बदरमिति // टी०-सौक्षम्यं द्विविधमित्यादि / सूक्ष्मता सौक्ष्म्यं-पुद्गलपरिणामः, तद् द्विधा, अन्ता-विभागाः परमाणवस्तद्भवमन्त्यमन्यत्रासम्भवात् परमाणुष्वेवेत्युच्यते, अपेक्षा-प्रतीत्यबुद्धिस्तत्प्रयोजनमापेक्षिकम्, व्यणुकस्कन्धस्त्र्यणुकाद्यपेक्षया सूक्ष्मः चतुरणुकादीन् प्रतीत्य व्यणुकस्कन्धः सूक्ष्म इत्यादि बहुभेदम्, सङ्घातपरिणामः-स्कन्धपरिणामस्तदपेक्षं भवति / तद्यथेत्यनेन निदर्शनोपन्यासं सूचयति, आमलकं प्रतीत्य बदरं सूक्ष्मम्, आदिशब्दार्थ इतिशब्दः॥ भा०-स्थौल्यमपि द्विविधम्-अन्त्यमापेक्षिकं च / सङ्घातपरिणामापे क्षमेव भवति / तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवस्थौल्यस्य यस्य ति / आपेक्षिकं बददिभ्य आमलकादिष्विति // द्वैविध्यम् ___टी-स्थौल्यमपीत्यादि / स्थूलभावः स्थौल्यं-परमाणुप्रचयपरिणामः, तत्रान्त्यमशेषलोकव्यापिन्यचित्तमहास्कन्धे, इह चावयव विकासः स्थौल्यं विवक्षितम्, प्रवचने त्वयं सूक्ष्मपरिणाम एवाधीतः, यदि च बादरः स्थूलपरिणामः स्यात् ततो महामहीध्रवत् समस्तं लोकमुत्सादयेदतः स्थौल्यं विकासितावयवानामचक्षुर्गम्यम्, आपेक्षिकं तु बदरादामलकं स्थूलमामलकाद् दाडिमम्, इह तु विकासे सत्यप्यवयवाना बादरः परिणामः, ततश्चामलकादिनेयनोपलभ्यम् // भा०-संस्थानमनेकविधम् / दीर्घहस्वाद्यनित्थन्त्वपर्यन्तम् // टी०-संस्थानमित्यादि / आकृतिः संस्थानं रचना सन्निवेशः, तद् द्विविधमात्मानास्मपरिग्रहात, तत्रात्मानः पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्च, क्रमेणैषां मसूरस्तिबुकसूचीकलापपताकानित्थन्त्वसंस्थानानि, पुद्गलकृतानि शरीराणीतियावत, विकलेन्द्रियाणां हुण्डकं त्रयाणामपि वपुः, पञ्चेन्द्रियाणां षोढा शरीरसन्निवेशो यथासम्भवं नामकर्मोदयनिवृत्तः समचतुरस्र न्यग्रोधपरिमण्डल-सादि-कुञ्ज-वामन-हुण्डलक्षणोऽनया गाथया विभावनीयः "तुल्लं वित्थडबहुलं, उस्सेहबहुं च मडहकोई च। , हिडिल्लकायमडह, सव्वत्थासंठियं हुडं ॥"-आर्या अथाजीवपरिगृहीतं वृत्त-व्यस्र-चतुरस्त्रायत-परिमण्डलभेदात् पञ्चधा, तत्र वृत्तं द्विविधं युग्मायुग्मभेदात्, युग्ममपि द्विविधं प्रतरघनभेदात्, तत्र प्रतरयुग्ममिदं जघन्येन द्वादशप्रदेशम्, इदमेव च युग्मं धनवृत्तं भवति द्वादशभिरन्यैः प्रक्षिप्तमध्यमेषु च चतुर्यु घरकेपर्य 1 अचित्तमहास्कन्धः स्थूलताऽभावात् अपर उस्कृष्टप्रदेशिको ग्राह्यः, यतस्तस्याष्टस्पर्शवत्ता, न स्वचित्तमहास्कन्धस्य / 2 प्रत्यविशेषेण स्थूलरूपेण धूमादिवत् व्यापकत्वेऽपि नोत्सादनम् / ३.०कादि नियतोपलभ्यम् ' इति क-ख-पाठः। 4 तुल्यं विस्तृतबहुलं, उत्सेधबहुलं च मडभकोष्ठं च / अधस्तनकायमडभं, सर्वत्रासंस्थितं हुण्डम् // Page #388 -------------------------------------------------------------------------- ________________ 362 तत्त्वार्थाधिगमसूत्रम् [अगायः 5 धश्चतुर्भिः प्रक्षिप्तत्रिंशत्प्रदेशमिदम्, विषमप्रतरवृत्तं तु जघन्येन पञ्चप्रदेशमिदम्, एतदेव मध्यगेहे प्रदेशद्वयक्षेपादुपैर्यधश्च विषमघनवृत्तं सप्तप्रदेशमिति, उत्कर्षणानन्तप्रदेशमसङ्ख्येयप्रदेशावगाढम्, अधुना व्यत्रं द्विधा युग्मायुग्मभेदात्, युग्मं द्विधा प्रतरघनभेदात्, युग्मप्रतरत्र्यसं जघन्येन षट्प्रदेशमिदम्, उत्कर्षणानन्तप्रदेशम् , युग्मघनत्र्यसं जघन्येन चतुःप्रदेशम् , उत्कर्षेणानन्तप्रदेशम् / अयुग्ममपि द्विधा प्रतरघनभेदात, ओजप्रतरत्र्यसं जघन्येन त्रिप्रदेश, उत्कर्पणानन्तप्रदेशम्, धनत्र्यसं जघन्येन पञ्चत्रिंशत्प्रदेशम्, अत्रैव चान्त्यान्त्यप्रदेशानुज्झित्वा दश षट् त्रय एकश्च क्षेप्यः, उत्कर्षणानन्तप्रदेशम्, एतदेव प्रदेशचतुरसमपि द्विधा युग्मायुग्मभेदात्, युग्मं द्विधा प्रतरघनभेदात्, युग्मप्रतरचतुर सं जघन्येन चतुःप्रदेशम्, उत्कर्षणानन्तप्रदेशम्, एतदेव प्रदेशचतुष्टयक्षेपाद् युग्मधनचतुरस्रं भवत्यष्टप्रदेशम् , उत्कर्षणानन्तप्रदेशम्, ओजचतुरस्रमपि द्विधा प्रतरघनभेदाद, ओजप्रत वृत्तादिसंस्थानानां रचतुरस्रं जघन्येन नवेप्रदेशम्, इदमुत्कर्षणानन्तप्रदेशम्, एतदेवौजघनसद्भेदपूर्विका व्याख्या चतुरस्रं भवत्युपर्यधश्च नवभिनेवभिः प्रक्षिप्तैः सप्तविंशतिप्रदेशम, उत्क पेणानन्तप्रदेशम्, आयतमपि द्विधा युग्मायुग्मभेदात, युग्मं द्विधा श्रेणिप्रतरभेदात्, तत्र युग्मश्रेण्यायतं जघन्येन द्विप्रदेशमें , उत्कर्षेणानन्तप्रदेशम्, युग्मं प्रतरायतं जघन्येन षट्प्रदेश, उत्कर्पणानन्तप्रदेशम्, एतदेव च युग्मघनायतं भवति यथान्यासमुपरिषट्प्रदेशक्षेपाजघन्येन द्वादशप्रदेशम्, उत्कर्षणानन्तप्रदेशम्, अयुग्मायतमपि द्विधा श्रेणिप्रतरभेदात्, तत्रौजश्रेण्यायतं जघन्येन त्रिप्रदेश, उत्कर्षेणानन्तप्रदेशम्, ओजप्रतरायतं जघन्येन पैञ्चदशप्रदेशम्, उत्कर्षेणानन्तप्रदेशमिदम्, एतदेवौजघनायतं भवत्युपर्यधश्च पञ्चदशभिः क्षिप्तैः जघन्येन पञ्चचत्वारिंशत्प्रदेशम्, उत्कर्षेणानन्तप्रदेशम्, परिमण्डलं द्विधा प्रतरघनभेदात, तत्र प्रतरपरिमण्डलं जघन्येन विंशतिप्रदेशमिदम्, एतदेव धनपरिमण्डलं भवत्यन्यविशतिसंख्यः प्रदेशैर्निहितैर्जघन्येन चत्वारिंशत्प्रदेशम्, उत्कर्षणानन्तप्रदेशम् // अत्र च भाष्ये दीर्वहस्वग्रहणादायतमेव परिगृहीतमादिशब्दाच्छेपाणि, उक्तेन प्रकारेण वृत्तादिना निरूपयितुं यन्न शक्यं तदनित्थं तद्भावोऽनित्थन्त्वं तत्पर्यन्तमनेकधा संस्थानमिति // __ भा०-भेदः पञ्चविधः-औत्कारिकः चौर्णिकः खण्डः प्रतरः अनुतट इति // टी-भेदः पञ्चविध इत्यादि / एकत्वद्रव्यपरिणतिविश्लेषो भेदः, स च पुद्गलपरि 1080 / 2 मध्याणोऽपर्यधश्च एकैकाणुन्यासात् / 3 चतुर्वपि वृत्तभेदेषु समन्वाय्येतत् / 4 400 / 5 40 अत्र यस्य कस्यचिदुपरि म्यस्योऽन्योऽणुः। 6 / . 8888deg / - 881 8331 00000 00 00000 1000 / 12 000 / 1300000 / 14 व्यवहारानुसामुपदेशात् न कतिपयपरमाणुजन्यसंस्थानोपदेशः, अनित्थं तु संस्थानं दीर्घादिना व्यपदेष्टुं यमाई नाधिकारच जीवसंस्थानेरपि / Page #389 -------------------------------------------------------------------------- ________________ सूत्र 24 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 363 णामो भिद्यमानवस्तुविषयत्वात् , तद्यतिरेकेणानुपलब्धेर्भिन्नद्वयमेव भेदः, तत्रौत्कारिकः ____ समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः, अवयवशश्चूर्णनं चौर्णिमदाना पञ्चविधत्वम् कः क्षिप्तपिष्टमुष्टिवत् , खण्डशो विशरणं खण्डभेदः क्षिप्तमृत्पिण्डवत् , प्रतरभेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः, अनुतटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटनम् , इतिशब्देन भेदेयत्तामवधारयति // ___ भा०--तमश्छायातपोद्योताश्च परिणामजाः // सर्व एवैते स्पर्शायः पुद्गलेष्वेव भवन्तीत्यतः पुद्गलास्तद्वन्तः // ____टी-तमश्छायेत्यादि भाष्यम् / समानविचारत्वादेकप्रघट्टेन निर्देशः, एते च तम श्छायादयः पुद्गलद्रव्यपरिणामजा इति प्रतिपादयति / तमस्तावत् पुद्गलपरिणामो दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवद् आवारकत्वात् पटादिवत्, छायाऽपि शिशिरत्वादाप्यायकत्वाज्जलवाता दिवत्, आतपोऽपि तापकत्वात् स्वेदहेतुत्वादुष्णत्वादग्निवत्, उद्योतश्च तमश्छायादीनां मूर्त- चन्द्रिकादिराह्लादकत्वाज्जलवत् प्रकाशकत्वादग्निवत्, तथाऽनुष्णाशीतद्रग्यविकारता त्वात् उद्योतः पद्मरागोपलादीनाम् ,अतो मूर्तद्रव्यविकारस्तमश्छायादिः॥ ननु च द्रव्यगुणकर्मनिष्पत्तिवैधाद् भौवाभावस्तमः, यदि चेदं द्रव्यं भवेदनित्यत्वाद् घटादिद्रव्यवत् निष्पोत, न च द्रव्यवन्निष्पद्यते, अमूर्तत्वादस्पर्शत्वाव प्रकाशविरोधादणुभिरकृतत्वाच्च, नापि गुणः, तदाधारानुपलब्धेः प्रकाशविरोधाच्च, कर्मापि न भवति, तदाश्रयानुपलब्धेः संयोगविभागसंस्काराहेतुत्वात्, अतस्तेजसो यत्राभावस्तत्र तमः, तथा तेजसो द्रव्यान्तरावरणाच्च तमो भवतीति / अत्रोच्यते-व्यवधानक्रियासामर्थ्यात् कुड्यादिवत् तमः पौद्गलम् , अमूर्तत्वास्पर्शत्वपरमाण्वकृतत्वान्यसिद्धानि मूर्तत्वादियोगात् तमसः, सत्यपि च मूतत्वादिमत्त्वे न स्पशोदयोऽस्मदादिभिलेक्ष्यन्ते, तमसस्तथाविधपरिणतिभावाद् वातायनदृश्यरेणुस्पर्शादिवत् / यत् तूक्तं-'प्रकाशविरोधात्' इति, न किल किश्चित् कार्यद्रव्यं तैजसेन प्रकाशेन विरुध्यते, तमस्तु प्रकाशविरोधि, तमसः पुद्गलत्वम् तस्मान्न पृथिव्यादिकार्य तम इति, एतदयुक्तम् , तेजःप्रकाशयोरेकत्वा भ्युपगमात् , जलद्रव्यं च विरोधकमित्यसिद्धार्थतैव, स्यादारेकानिरन्तरधारं वर्षति बलाहके प्रदीपोऽलिन्दकादिव्यवस्थापितः प्रद्योतत एव बहिः, यदि च विरोधः स्यान्न बहिः प्रकाशो विभाव्येत, जलपातेनापनीतत्वादिति / अत्रोच्यतेप्रादीपाः पुद्गलास्ताथात्म्यमपरित्यजन्तो निःसृताः तथाविधतामुदबिन्दुसम्पर्काद् विजहति, तत्समकालं चापरे प्रदीपशिखया विकीर्णाः कृशानुपुद्गलास्तमाकाशमश्नुवते, न च ते जलपातेन विध्यापयितुं शक्याः, परिणामवैचित्र्याद् वडवानलावयवा इवेति, स्याद्वादिनां च 1 'कभदीबुन्दाघ' इति क-ख-पाठः। २'भावस्तमः' इति क-ख-पाठः। ३प्रदीपरश्मीनां पुष्करावर्तधारामिरप्यनुपघातातू, न सर्वथा जलानलयोर्विरोध एव, उत्पत्तिस्थान एव विरोधः / Page #390 -------------------------------------------------------------------------- ________________ 364 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 किश्चिद द्रव्यं केनचित् सह विरुध्यते दध्यादि तैलादिना न तु गुडादिना, न च किश्चिन्न विरुध्यते तैलं दध्यादिना, न च तस्य द्रव्यता हातुं पार्यते, अतः परिणतिक्रमविशेषात् तथाविधं परिणाममपहाय पुद्गलाः परिणामान्तरेण वर्तन्ते पृथिव्यादिपरमाणुजातिनियमश्वासिद्धः, सर्वेषां स्पर्शत्वे सति रूपादिमत्त्वात् , गुणक्रिययोश्च द्रव्यपरिणाममात्रत्वात् तदाधारानुपलब्ध्याद्यप्यसिद्धम् , एतेन छायादयो व्याख्याताः / कथं पुनर्पणतलादिषु प्रतिविम्ब मुखादीनां सम्मुखमेव छायाकारेण परिणमते न पराङ्मुखम् ? कथं वा कठिनमादर्शमण्डलं प्रतिभिद्य मुखतो विनिर्गताः पुद्गलाः प्रतिविम्बमाजिहत इति ? / यत् तावदुच्यते सम्मुखमेव प्रतिविम्वमुदेति नान्यतोमुखमिति तत्र परिणामः स तादृशः पुद्गलानाम् , नहि तद्विषयः पर्यनुयोगः कर्तुं शक्यः, को हि नामाभिध्यात् प्रेक्षापूर्वकारी पयः किमिति दध्या _दित्वेन परिणमते तृणगोभक्ष्यादयो वा क्षीरादित्वेनेति, किमत्र युक्त्या ? प्रतिबिम्बस्य पर्याप्लोचना स्य तथा हि तं पश्यामः, न च दृष्टे किश्चिदनुपपन्नम् , उपहास्यश्चैवमाचक्षाणो - भवति, केन हेतुना वा चक्षु रूपं गृह्णाति ? तस्मान परिणामः पर्यनुयोगार्हः, येषामपि न परिणामस्तेषामपि मुखाद्याश्रित्याने कारणं प्रतिविम्बोत्पादः सप्रतिघस्तेनाकारेण भवति नान्येनेति तुल्यः पर्यनुयोगो विधेयः, प्रतिभेदः पुनः कठिनशिलातलपरिश्रुतजलेनायस्पिण्डेऽग्निपुद्गलप्रवेशेन शरीरात् प्रस्वेदवारिलेशनिर्गमनेन च व्याख्येयः प्रतिविम्बोदयः शुचौ दपेणेऽन्यत्र वा, तमश्छायादयः पुद्गलपरिणतिविशेषाः // सम्प्रति निगमयति सूत्रद्वयोपात्तमर्थ सर्व एवैत इत्यादिभाष्येण / स्पर्शरसगन्धवर्णशब्दादयः पुद्गलेष्वेव भवन्त्यतः पुद्गलाः स्पादिमन्त इति नित्ययोगार्थ विहितस्तत्परिणाम विशेषाविष्कारी मतुष्प्रत्ययः, स्पर्शादिशब्दादिपरिणामो येषामात्मभूतो येषु वा ते तद्वन्द इत्यनन्यत्वं प्राक्तनपरिणामापेक्षया चान्यत्वमिति / भा०--अन्नाह-किमर्थ स्पर्शादीनां शब्दादीनां च पृथक्सूत्रकरणमिति // अत्रोच्यते-स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्ति / शब्दादयश्च स्कन्धेष्वेवं भवन्त्यनेकनिमित्ताश्चेत्यतः पृथक्करणम् // 24 // टी०-अत्राहेत्यादि भाष्यम् / गरीयस्त्वात् पृथग्योगस्य एकयोगप्रतिबन्धाच्चाभिलपितप्रसिद्धः प्रश्नयति, आचार्यस्तु विवक्षितार्थप्रतिपत्तेरभावादेकयोगसङ्ग्रहव्युदासायाहस्पादय इत्यादि / प्राक्तनसूत्रोपन्यस्ताः स्पशादयः परमाणुषु स्कन्धेषु च घणुकादिषु नानाविधपरिणामोत्पत्तेः प्रादुर्भवन्ति, शब्दादयः पुनः स्कन्धविषया एव, नाणुविषयाः, धणुकादिस्कन्धविषयत्वप्राप्तौ नियमेन विकल्पयति, चशब्देनानेकनिमित्ताश्चेति, शब्दो न घणुकादिविषयोऽनन्ताणुकस्कन्धविषयत्वात्, एवमन्यदप्यायोज्यं सम्भवात्, अतः पृथग्योगकरणं विवक्षितमर्थ पुष्णाति नैकयोग इति // 24 // 1. भवन्तीति' इति घ-पाठः। 2 अन्ययोगव्यवच्छेदफलोऽयं तेन न सर्वस्कन्धविषयाः शब्दादय इति / Page #391 -------------------------------------------------------------------------- ________________ 365 सूत्र 25] . स्वोपनभाष्य-टीकालङ्कृतम् .. भा०-त एते पुद्गलाः समासतो द्विविधा भवन्ति // तद्यथा टी०–त एते पुद्गला इत्यादिसम्बन्धग्रन्थः / सत्यपि पुद्गलजातीयत्वे निरवयवसावयवभेदात् परिप्राप्तानन्त्या अपि आहितद्वैविध्या वेदितव्या इत्यभिप्रायः, य एते स्पर्शादिशब्दादिपरिणतिभाजः पुद्गलास्ते संक्षेपाद् द्विविधा भवन्ति, द्वैविध्योपन्यासाय तद्यथेत्याहपुद्गलानां सूत्रम्-अणवः स्कन्धाश्च // 5-25 // द्वविध्यम टी०-अण्यन्त इत्यणवोऽस्मदादीन्द्रियव्यापारातीतत्वात् केवलसं. शब्दनसमधिगम्याः सौक्ष्म्यात्, स्थौल्याद ग्रहणादानादिव्यापारसमथों: प्रायः स्कन्धाः सङ्घाताः इति, चशब्दः समुच्चेता, समस्तपुद्गला एव विविधाः-परमाणवः स्कन्धाश्चेति, तत्र परमाणोर्लक्षणमाचार्यैः पूर्वकैरेवावाचि तदुपन्यासाय उक्तं चेत्याहभा०-उक्तं च "कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः / ___ एकरसगन्धवर्णो, द्विस्पर्शः कार्यलिङ्गश्च ॥"-आयो इति। ____टी०-कारणमेव तदन्त्यमित्यादि / करोतीति कारणं सकलभेदपर्यन्तवर्तित्वादन्त्य, व्यणुकस्कन्धप्रभृति स्थूलसूक्ष्मभेदं कार्य यावदचित्तमहास्कन्धः, स एप कारणकार्यविभागः कारिकया निरूप्यते - मूर्तस्य वस्तुनः कारणं परमाणवो घणुकादेः, अमूर्तस्य ज्ञानादेरात्मादयः, तच्चोभयमपि कारणं न सर्वथा नष्टम् , असत्त्वापत्तेः, न च तादृगवस्थं किञ्चिजनयति व्योमपुप्पादिवत्, नानष्टमेकान्तेनैवाविकृतत्वात् प्रागवस्थावत्, न चान्यावस्थाऽस्त्येकान्तवादिनः कार्यकारणाभ्युपगतौ // ननु चावक्तव्यपक्षः प्रज्वलति पक्षान्तरत्वात्, इत्ययुक्तम्, अवक्तव्यतायाः सुदुःस्थितत्वात्, वक्तुमशक्यत्वात् तावदवक्तव्यं न भवति, लोके तथा प्रतीतत्वात, नाज्ञानात्, आप्तस्य तदनुपपत्तेः, नाभावाद् वस्तुनः, तथादृष्टत्वात्, एवं तह्ययमन्यः पक्षः कारणकार्ययोनाशोत्पादसमकालत्वात्, एषाऽपि हि व्यवस्था नातिक्रामति पूर्वे विकल्पद्धयम्, यतः कारणं नष्टं कार्य चोत्पन्नम् / अनष्टे तावत् कारणे न कार्योत्पादः / अथैवं मन्येतकारणं च विनश्यति कार्य चोत्पद्यते, तदपि विचाराक्षमम्, तत्र विनश्यतीत्यनेन विनाशक्रियाविष्टमेकं वस्तूच्यते स्वरसभङ्गुरं वर्तमानकालावधिकमनासादितसमस्तनाशमधुनष्टमतोऽयं बाह्यार्थः किंचिन्नष्टं किश्चिच्चानष्टमुभयधर्माघातं विनश्यतीत्यनेन प्राप्तक्रियापवर्गमार्गमभिधीयते वस्तु, न चैवमसम्बद्धबुद्धव्याहारोपहतचेतसः सौगताः सङ्गच्छन्ते, अभिन्नैकतुलादण्डकद्रव्यप्रतिवद्धान्तद्वयस्य वा युक्ते नतोन्नती समकमत्र तु विनश्यति वस्तुनि नैक किश्चिदभिन्नमस्त्यन्वयि प्रदीर्घतुलादण्डकाकृति कारणं यत्प्रतिबद्धौ नाशोत्पादौ युगपद भवेताम् , पूर्वोत्तरक्षणयोश्चात्यन्तभेदे सभागसन्ततिरियं विसभागसन्ततिरेषेति व्यपदेशा भावात् वसन्ततौ फलाधानमसाम्प्रतम् , नहि बुद्धसन्तानोऽस्मत्सन्ताने फलमाधातुमुत्सहते, तस्माद् यत् किश्चिदेतत् // प्रकृतमनुश्रियते तत्र परमाण्वात्मादि परिणामिकारणम् , तस्मिन् 1' विनश्यतीत्यप्राप्तः' इति क-ख-पाठः / Page #392 -------------------------------------------------------------------------- ________________ 366 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सति भवत्येव कार्य ड्यणुकादि ज्ञानादि वा, अन्यथा तु न भवत्येव, यतो यस्मिन् सति भवत्येव यस्य सद्भावस्तदभावे च न भवत्येव यत् तत् कारणमितरत् कार्यम् , एवं च यह च्छया प्राप्तानां व्योमाराममहीध्रादीनां कारणभावोऽन्यत्र निराकृतोऽवसेयः। एवमप्यनुपप __नमवधारणं यस्मिन् सति भवत्येव कार्य न भवत्येव चान्यथेति, यतः कायकारणलक्षणम् करवीरजन्मारुशोत्पलफलात् स्वकाण्डात् स्वबीजाच दृष्टम्, दूर्वा च गोली. माविलोमादिभ्यः, सरस्तु शृङ्गादिति, अत्रोच्यते-परमाणुषु सत्सु भवत्येवेदमात्मनि चेत्यदोषः, सङ्क्षपात् परिणामिकारणापेक्षाः परिणामाः प्रतिस्वमासादयन्त्युपजननं कारणवैकल्ये तु न प्रादुष्यन्ति मन्त्रप्रतिबद्धविषमारणशक्तिवत् / इत्थं निरवधं कार्यकारणलक्षणम् / यान्यपि कर्तृनिमित्तापेक्षाख्यानि कुम्भकारदण्डाकाशादीनि तान्यप्यनयैव दिशा योजनीयानीति न कश्चिद् विरोध इति सूचनीयः सूक्ष्म आगमसमधिगम्योऽस्मदादिभिः, नित्यश्चेति द्रव्यास्तिकनयापेक्षयाऽनुज्झितमूर्तिः, पर्यायापेक्षया तु नीलादिभिराकारैरनित्य एवेति, न ततः परमणीयोऽस्ति द्रव्यमिति परमाणुः, पञ्चानां रसानां द्वयोर्गन्धयोः पञ्चविधस्य वर्णस्यान्यतमेलेकेन रसादिना युक्तः, चतुर्णा स्पर्शानां मध्ये स्पर्शद्वयेनाविरुद्धेन युक्तः कार्येणास्मदादिप्रत्यक्षदृश्येन बादरपरिणामभाजाऽनेकविधेन लिङ्ग्यते-समधिगम्यत इति / अणुस्कन्धभेदप्रतिपादनायेदमाह--- भा०-तत्राणवोऽबद्धाः, स्कन्धास्तु बद्धा एवेति // 25 // टी-तत्राणव इत्यादि / अबद्धाः-परस्परेणासंयुक्ताः परमाणवः, स्कन्धाः पुनबोदरपरिणामपरिणता अष्टस्पर्शा बद्धा एवाणुसङ्घाताः, सूक्ष्मपरिणामभाजस्तु चतुःस्पर्शा एव भवन्ति बद्धाश्चे(एवे)ति परस्परसंहत्या व्यवस्थिता इति // 25 // भा०----कथं पुनरेतद् द्वविध्यं भवतीति ? / अत्रोच्यते-स्कन्धास्तावत् / / अत्राह टी.----अत्राहेत्यादिसम्बन्धग्रन्थः / अज्ञः प्रश्नयति-परमाणवः स्कन्धाश्चेति किंकृ. तोऽयं विशेषस्तुल्ये पुद्गलद्रव्यत्वे ? मूरिराह-स्कन्धास्तावदित्यादि / क्रमप्राप्तेषु परमाणुषु वक्तव्येषु स्कन्धास्तावद् बहुवक्तव्यत्वात् प्रथममुच्यन्ते, तावच्छब्दः क्रमभेदावद्योतनार्थः, यथा च ते स्कन्धाः समुद्भवन्ति तथा मूत्रऽत्र दर्शयति सूत्रम्-सङ्घातभेदेभ्य उत्पद्यन्ते // 5-26 // भा०-सङ्घाताद भेदात् सङ्घातभेदादित्येभ्यस्त्रिभ्यः सङ्घातोद्भवे कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः। त्रिकारणता टी०-सङ्घातादित्यादि भाष्यम् / एतदुक्तं भवति-संहतत्वाद् भिन्नत्वात् सङ्घातभेदाच स्कन्धानामुद्भवः / इतिशब्दः कारणेयत्ताप्रकाशनार्थः, विप्रदेशादय इति सकलस्कन्धराशेरायस्कन्धोपन्यासभावनयाऽशेषस्कन्धविषयः सङ्घातः सुज्ञान इत्यादिग्रहणमुदचीचरत् // १'ततो यस्मिन्' इति क-पाठः। २'गोलोमानुलोमा' इति क-पाठः। 3.' यथा.वा' इति क-ख-पाठः। Page #393 -------------------------------------------------------------------------- ________________ सूत्र 26 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 367 _ भा०-तद्यथा-द्वयोः परमाण्वोः सङ्घातात् द्विप्रदेशः, विप्रदेशस्याणोश्च सङ्घातात् त्रिप्रदेशः, एवं सख्येयानामसङ्ख्येयानां च प्रदेशानां सङ्घातात् तावत्पदेशाः॥ टी.-तद्यथेत्यादिना सङ्घातादित्रितयं भावयति, स्कन्धोत्पादकारणं त्रिविधम्, प्रकारान्तराभावप्रदर्शनपरमिदं वचनं मुनेः, द्वयोरित्यादि द्वयोरणुकयोः सङ्घाताद् अन्योन्याश्लेषपरिणामात् घणुकस्कन्धो निष्पद्यते,वक्ष्यत्युपरिष्टात्(अ०५,सू०३२)-'स्निग्धरूक्षत्वाद् बन्धः' इति, कथं पुनर्निरवयवयोर्द्वयोरणुकयोः संहतौ घणुकः स्कन्धो निष्पद्यते, एवं मन्यते-तयोहि संश्लेषः परस्परेण सर्वात्मनैकदेशेन वा भवेत् ? यदि च सर्वात्मना ततः सकलमपि जगदेकपरमाणुमात्रं स्यात्, एकदेशेन चेत् सावयवोऽणुः प्रसज्यते, सैपोभयतःपाशा रज्जुरिति दुर्घटः सङ्घातः, तस्मात् परमाणवः परस्परेणानाश्लिष्टा एव प्रत्यासत्तिभाजः केशा इवाकाशे समुदिता एवोपलभ्यन्ते न विदूरवर्तिन इति प्रतीतं तथा दर्शनमाविद्वदङ्गनाबालम्, परस्परसङ्घट्टस्त्वसम्बध्यमानकत्वादुपेक्षणीय इति / अयुक्तमेतदुच्यते परेणाप्रेक्षितवस्तुयाथात्म्येनेति यथा तथा विभाव्यते, परमाणवो हि रूपरसगन्धस्पशात्मकत्वात् सप्रतिघाः संयोगकाले सव्यवधयोन परस्परव्याप्त्या वर्तन्ते रूपाद्यवयवत्वात्, स्तम्भकुम्भादिवत, प्रतिपादितश्चायमर्थः प्राक्-स्यानिरवयवः स्यात् सावयवः परमाणुर्द्रव्यभावभेदात्, अपि च द्रव्यात्मनाऽणुरेकः प्रत्यस्त मितस कलभेदस्तत्र कथं सर्वशब्दः प्रयुज्यमानोऽनेकवस्तुविपयो निरवशेषाभिधायितया लोकेशविगानेन रूढो नासम्बन्धार्थो भवेत् ? कथं वा नानाध्यवसितस्य वस्तुनः कस्यचिदेवाभिधाय्येकदेशशब्दो निर्भेदपरमाणुविषये प्रसज्यमानः साध्यमानं प्रतिपत्स्यते ? सोऽयमेवंविकल्पद्वयानुसारी वचनप्रयोगः शब्दार्थानभिज्ञानानामत्यन्तप्रसिद्धलोकव्यवहारपराङ्मुखानां जडिमानमातनोति क्षुद्रसत्त्वानाम् / आशङ्कते चैवंप्रकारान् कातरपुरुष एवैकान्तवादी, न पुनः सकलवादपरमेश्वरस्याद्वादसमाश्रयोपपन्नातुलसामर्थ्यः स्याद्वादीति / न च परमाण्वन्तरेण सह घेटमानोऽसौ केनचिद् देशेन युज्यते निरवयवत्वात्, किन्तु स्वयमेवावयवो द्रव्यान्तरावयवद्रव्यरहितः परमागुना सह भेदेन योगमायाति, न चाण्वन्तरमाविशति, स हि सक्रियः परमाणुस्थमाकाशमेवाविशति, अणुस्तिष्ठत्यस्मिन्नित्यणुस्थं करणाधिकरणयोर्घअर्थे कविधानम् / स्थानापाव्यधिहतिबुध्यर्थमणौ वा तिष्ठतीति विवक्षावशादणुसम्बद्धमुच्यते / यद्यावेशो नास्ति देशे न तर्हि योगः प्रसक्तः, परस्परमनाश्लिष्टत्वाद् धगुलवदिति, अयमनपदेशः, न वयमावेशतो योगं सगिरामहे, किन्तु निरवयवत्वात, तस्य द्रव्यप्रदेशान्तरं व्यङ्गुलस्येव संयुक्तं नास्ति, स्वयमेवासौ युक्तं इत्येतावदभिदध्महे, हेतोश्चानैकान्तिकता, सूक्ष्मक्षेत्रच्छेदप्रविभक्तब्यङ्गुलपर्यन्तवर्तिनी प्रदेशौ निरन्तरावस्थितावनाविशन्तावेव संयुक्तौ, न च देशेन, सूक्ष्मत्वादन्यस्य देशान्तरस्यासम्भवात्, न च नाङ्गुल्यौ युक्ते, निरन्तरत्वात् , न चान्योन्यावेशः प्रदेशानाम् , बङ्गुलाभावप्रसङ्गादिति / / ननु च संस्थानित्वात् सावयव एवाणुः किमिति निरवयवता अभ्युपेयत इति ? उच्यते-द्रव्यावयवकृतं संस्थानम् , तच्चावयविनो घटादेरवयवेषु सत्सु भवति, ते 1 . अनन्तानामनन्तानन्तानां ' इत्यधिको घ-पाठः / 2 स्तम्भादिवत्' इति क-ख-पाठः। 3 . संघटमानो' इति क-पाठः। Page #394 -------------------------------------------------------------------------- ________________ 368 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 चाणोर्न सन्त्यतो निरवयवत्वात् संस्थानित्वासिद्धिः, एवं तहसंस्थानित्वाइसत्परमाणुरिति, उच्यते-व्योमासंस्थानमपि सदेवेत्यनेकान्तः, न च कन्दुकादिवद् दृष्टपरिधित्वेनाभ्युपगम्यते विहायः, सर्वलोकशास्त्रानुमानविरोधादिति / योऽप्याशङ्केत अभूतान्तर्वहिर्भावान्यदेशत्वेन युष्माभिरभ्युपगतत्वान्नास्ति परमाणुः, तस्यापि हेतोर्निरशैकक्षणवृत्तिविज्ञाने वर्तमानत्वादनैकान्तता / अपि च -योगः सम्प्राप्तिलक्षणः न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तिरस्त्येवेति / एतेन नास्तित्वं प्रतिषिद्धमप्यवसातव्यम्, अवयवैरकृतत्वात् तस्येति, पिष्टपेपणं चैतत् कार्या( रया )महे वयम्, उक्तं प्राक्-सर्वमेवं हि स्थूलं प्रविभज्यमानमवश्यन्तया निरवणवनिष्टमुपजायते द्रव्यं, सूक्ष्मपूर्वकत्वात् स्थूलस्येति / आह च-“ सर्व सविभागमविभागप्रविष्टम्," यत् पुनस्तेपामेकस्मिन्नेवाकाशप्रदेशेऽनन्तानामप्यवगाढत्वं तदप्रतिघातपरिणामपरिणतत्वात् व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रभाणाम, शीततमःशब्दत्वपरिणतपुद्गलानां चाप्रतिघातित्वदर्शनात, तद्वत् परमाणुरेकस्मिन् व्योमप्रदेशे व्यवस्थितोऽन्येपामपि परमाणनां भूयसामवगाहमानानां विघातं प्रति न निवर्तितमुत्सहते, कथं तर्हि असति प्रतिघाने महतो द्रव्यस्य निष्पत्तिः ! सङ्घातस्तु सति संयोगे सम्भवति, संयोग श्चाप्राप्तयोः प्राप्तिमात्रं, नान्योन्यावेश इति, उच्यते-महतो द्रव्यस्यारम्भकाले परमाणूनामप्रतिघातित्वमस्मान् प्रत्यसिद्धम्, यतस्त्रिविधं प्रतिघातमामनन्ति भगवन्तः परमाणूनां-बन्धपरिणामोपकाराभाववेगाख्यम्, तत्र बन्धपरिणामप्रतिघातः स्निग्धरूक्षत्वाद वन्ध इत्यत्र (सू०३२) वक्ष्यमाणः, उपकाराभावलक्षणप्रतिघातो गतिस्थित्युपग्रहो धमोधर्मयोरुपकार इत्यत्र (अ० 5, मू० 17) सूत्रेाक्षिप्तः प्रेक्षणीयः, लोकादन्यत्र जीवानामजीवानां परमाणूनां प्रतिघातस्य त्रैविध्यम् च गतेः प्रतिघातो गत्युपग्रहहेतुरहितत्वाज्झपमकरादेरिवाम्भसोऽन्यत्र, अन्वयः सामान्येन सुशक्यः कर्तुम् , अतः परमाणुलोकान्ते प्रतिहन्यत इति उपकाराभावात् प्रतिघातितेति, तथाऽणोरण्वन्तरेणापतता विनसासमुद्भुतगतिरंहसा प्रतिघातो दृष्टः, प्राप्तवेगगतिर्हि परमाणुरापतन् जविनमेव परमाणु प्रतिहन्ति, वेगवे सति स्पर्शवत्वान्मृतिमत्त्वाच्च प्रबलवेगः प्रभञ्जनो वाद्यान्तरमिवेति प्रतिघातित्वं वेगादत्यवतीयत इति, एवमनकयोपपत्या प्रतिघातित्वाप्रतिधातित्वे परमाणुविषये प्रसाधिते, सम्प्रति तेपामेकव्योमप्रदेशास्कन्दिनामणूनामनन्तानामपि कदाचित् संयोगवृत्त्यावस्थानमनारब्धस्कन्धकार्याणामेव जातुचि बन्धाकारेण घटितकार्याणाम् / कः पुनरनयोः संयोगवन्धयोविशेष इति ? / ____ उच्यते-नैरन्तर्येणावयवप्राप्तिमात्रं संयोगः, बन्धः पुनरन्योन्याङ्गाङ्गिमासंयोगबन्ध वपरिणाम इति, विरोधोद्विभावयिपया कश्चिदाचक्षीताविचक्षणः-कथमेयोर्विशेषता " कस्यैवाणोः प्रतिघातित्वाप्रतिघातित्वे परस्परविरुद्ध स्त इति ? उच्यतेविरोधाभावः प्रागुक्तः, अपि च-परिणामविशेपादुभयमपि सम्भाव्यते पुद्गलेषु, शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपेति, स एव कदाचिदुह्यमानत्वाद् वा युना प्रतिहन्यते, प्रतिवातस्थितेनानुपलभ्यमानत्वादनुवातस्थितेन चोपलभ्यमानत्वाद् गन्धवत्, उगते च वायुना शब्दो मा स्म संशयिष्ठाः, तस्मात् सुधूच्यते सङ्घातादुत्पत्तिः स्कन्धानाम्, १व्योमो ' इति क-ख-पाठः / 2 'वाद्यन्तरमिवेति' इति ग-पाठः। Page #395 -------------------------------------------------------------------------- ________________ 369 सुत्रं 26] स्वोपज्ञभाष्य-टीकालङ्कृतम् एकदेशयोगस्तु दूरादुत्सारितः,कृत्स्नसंयोगस्तु कदाचिदुपचारवशादिप्येताप्यनवयवत्वात् कृत्स्नो योगो नावेशतो ह्येषामिति // अथ गदुक्तमनाश्लिष्टा एवाणवः प्रत्यासत्तिभाजः समुदिता विभा. व्यन्ते, तदतितरामसमञ्जसम् , अणुसमवस्थानानामसंहतत्वाच्च दर्शनं न स्यात् , कस्तेपामतिशयोऽतीन्द्रियाणामुपाजनि प्रत्यासत्तावसंहतानां येन ते लोचनादीन्द्रियगोचरतामापद्यन्ते, नहि पूर्वावस्थायामेककाः सन्तोऽदृष्टास्तद्वदुत्तरावस्थायामपि न दृश्येरन् , नहि शक्या विच्छिन्ना अणवोऽनन्ता अपि द्रष्टुम् / केशनिदर्शनादेवं प्रतीयत इति चेत्, तदयुक्तम्, केशा ह्येकका अपि कदाचिद् दृश्या भवन्ति, न कदाचिद् अणवः प्रत्येकं चक्षुरादिग्राह्याः, परस्परमनाश्लिष्टेषु चाणुषु भूयांसो दोषाः सम्भवन्त्यमी, देशे च धार्यमाणे घटस्य कृत्स्नस्य धारणं न स्यात्, उत्क्षेपावक्षेपाकर्षाश्च तथैव न भवेयुः, तस्मादङ्गाङ्गिभावरूपेणाणूनां बन्धपरिणामाभ्युपगमात् सकलस्य संहतस्य महतो द्रवस्याकर्षणादीन्येकदेशेऽपि वर्तमानानि सिद्धान्यतोऽन्यथा न स्युः / संयोगमात्रत्वे बालिकापुरुषादिवदिति बहुलोकसिद्धं विघटेत / तच्च महद् द्रव्यं कणभुपरिकल्पितावयवीव नास्ति मौनीन्द्रदर्शने, द्रव्यास्तिकनयाभिप्रायान्मुञ्जेपिकावद् भेदेनाग्रहणात् , अतो नावयवी स्वदेशेभ्योऽन्यो भिन्नोऽञ्जसा प्रत्यक्षेणानुमानेन वा ग्रहीतुं शक्यतेत्यर्थान्तरभूतावयविनो निषेधः, नान्यो देहादिरवयवी स्वावयवकलापादबद्धत्वे सक्रियत्वे च सति विभागेनागृह्यमाणत्वादवयवस्वरूपवत् स्थानासनशयनादिक्रियावान् देहस्तदवयवाथादानविह रणादिक्रियया सचेष्टाः / परस्परप्रतिबद्धपुरुषद्वयव्यभिचारनिरासार्थमबद्धग्रहणम्। तथा धर्माधर्मा काशानां नानात्वेऽपि विभागेनागृह्यमाणत्वमस्तीत्यनैकान्तिकारेकाव्युदासाय सक्रियत्वविशेपणम् , तस्मादवयवव्यतिरेकेणासन्परिकल्पितोऽवयवी कन्दलीदलव्यतिरिक्तकदलीदलसारवत् / यदपि लोके तस्य दर्शनं तदपि देशेष्वेव, तदेकदेशदृष्टौ सर्वो दृष्ट इति व्यवहारात, अत्यन्तव्यतिरेकपक्षे चावयविनः प्रत्यवयववृत्तित्वादयोऽप्युद्धाहणीया दोषाः, सर्वथा चानुपपद्यमानवृत्तित्वात् खपुष्पवत् असन्नवयवी, उपलब्धिकारणसन्निधाने सत्यवयवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात् , हस्त्याद्यवयवव्यतिरेकेण सेनावत् , व्यतिरेके घटबदरादयः, पर्यायनयाभिप्रायेण तु नानात्वमवय विनोऽवयवेभ्यः, अवयवगुणेभ्योऽन्योऽययविगुणो व्यस्तेषु तेष्ववयवेषु तत्प्रमाणवर्णाकृतिरूपेणादृश्यमानत्वात् , अनेकरत्नसंघातनिष्पन्नरत्नावलीवत् रत्नेभ्यः, येन तेषु देशेषु व्यस्तेषु न चतुर्हस्तः पटश्चित्रः पटः समचतुरस्रः पट इत्यादिविशेषोपलब्धिः , एवं द्रव्यपर्यायनयकान्ते बहवो दोषाः, स्याद्वादिनस्तु यथापरिणाममर्पणानर्पणविशेषोपनिपातिस्याच्छब्दोपपदप्रतिपिपादयिषितधर्मस्वरूपाभिनिवेशादशेषधर्मकलापोपसङ्ग्रहणात् सवैकान्तधर्मविनिवृत्या सर्वैकान्तवाक्यसमवतारणात् स्यादन्यः स्यादनन्यः स्यादन्यानन्यः स्यादवक्तव्य इत्यादिसप्तभङ्गीप्रतिज्ञानाद् दोषाणामनवकाश एव, यस्मादर्पितानातिनयद्वयविवक्षाऽविवक्षाभ्यामन्यत्वानन्यन्वे भाज्ये, पर्यायनयोऽर्पितस्तन्मतेन त्ववयवावयविनोर्भेदः, अनर्पितो द्रव्या 'मानत्वावृत्तित्वात् ' इति क-पाठः। 2' हस्ताद्यवयव ' इति क-ख-पाठः / Page #396 -------------------------------------------------------------------------- ________________ 370 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः५ स्तिकः तदभिप्रायादैक्यम् , एवं विश्वपरिणामप्रपञ्चस्थितिभाजि द्रव्याणि स्वात्मन्यविद्यमानेरेव पर्यायतः कैश्चिद् धर्मैरुत्पद्यन्ते कैश्चिद् विद्यमानैरपि धमैर्विनश्यन्ति, कैश्चित्पुनरन्वयिमिः पर्यायैर्नित्यानि ध्रुवाण्येव सर्वद्रव्याणीति मौनीन्द्रदर्शनमनवद्यम् // सम्प्रति प्रस्तुतमनुश्रियते / द्विप्रदेशस्य स्कन्धस्य परमाण्वन्तरेण योगे त्रिप्रदेशस्कन्योत्पादः,चशब्दात् त्रयाणां च परमाणूनां सङ्घातपरिणामे त्र्यणुकस्कन्धस्योपजननम् / एवमित्या दिनाऽतिदेशं करोति // शीर्षप्रहेलिकास्थानपर्यन्तवर्ति द्विसङ्ख्योपक्रमं गणितम् , तत्राप्युक्तेन न्यायेन भावना कार्या, ततः परं गणितविषयातिक्रमादसख्येयो राशिः, तत्रापि संघातपरिणामभावना तुल्यैव, ततोऽप्यसङ्ख्येयादुपरि बहुबहुतरबहुतमपरमाणुप्रचयोऽनन्तकराशिः, तस्मिन्नपि संहतिपरिणतिभावना सदृश्येव, अनन्तानन्तानां चेत्यनेनानन्तकराशेरनन्तानि स्थानानि भवन्तीति प्रदर्शयति / एवं तावत् संघातात् परस्य प्रदेशाः स्कन्धतयोपजायन्त इति // अधुना द्वितीयं प्रकारं वक्तुकाम आहभा०-एषामेव भेदाद् द्विप्रदेशपर्यन्ताः॥ टी०-घणुकादिक्रमेणानन्तानन्तपरमाणुकपर्यवसानाः स्कन्धाः संघाताद ये समुत्रनास्तेषां पर्यन्तवर्तिनः स्कन्धादेकोऽणुर्यदा भिन्नः पृथग्भवति तदैकाणुभेदात् तन्न्युनः स्कन्धः समुत्पद्यते, एवं द्विव्यादिपरमाणुभेदक्रमेणाधोऽधो यावत् द्विप्रदेशस्कन्धोत्पाद इति भावनीयम् / भा०-एत एव च संघातभेदाभ्यामेकसामयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते / अन्यसंघातेनान्यतो भेदेनेति // 26 // __ अत्राह-अथ परमाणुः कथमुत्पद्यते इति ? / अत्रोच्यते टी-एत एव चेत्यादिना तृतीयविकल्पभावना, बहुवचन निर्देशात् कृतैकशेषो निर्देशः, संघातश्च भेदश्च संघातभेदी संघातभेदौ च संघातभेदौ च संघातभेदाः, एत एवं ह्यनन्तरोत्ता यणुकादयः स्कन्धाः सङ्घातभेदाभ्यामेकसामयिकाभ्यां उद्भवन्ति, अवि. भागीयः कालः परमनिरुद्धश्च समयः स तत्रैकस्मिन् समये अभिन्नकाले घणुकस्कन्धादेकोऽणुर्भिद्यते परः संहन्यते समकमेवेत्यतः सयातभेदाभ्यामुत्पद्यन्ते, समये भवः सामयिकः, एकशब्दः समानाथोभिधायी, एकशब्दः समानार्थे, तद्यथा--'तेनैकदिक्' (पा० अ० 4, पा० 3, मू० 112 ) सुदाम्ना पर्वतेनैकदिगित्यण् / सौदामिनीति विद्युदेकदिक समानदिगित्यर्थः / समानः समयो ययोः सङ्घातभेदयोस्ताभ्यामेककालाभ्यामिति यावदिति, पाठान्तरं वा एकसामयिकाभ्यामिति, एवं घणुकादयोऽपि भाव्याः, अन्यस्य परमाणोः सङ्घातेनान्यतः स्कन्धाद् भेदेनेत्येवं स्कन्धात् कारणादुत्पद्यत इति प्रतिपादितम् / / 26 // एतदेव च ' इति क-ख-योर्भाध्ये टीकायां च पाठः। 2 सामायिकाभ्यां ' इति क-ख-पाठः / ३.अन्यस्य संघा.' इति घ-पाठः। Page #397 -------------------------------------------------------------------------- ________________ सूत्रं 27.] स्वोपज्ञभाष्य-टीकालङ्कृतम् 371 ___एवं स्कन्धानामुत्पत्तौ व्याख्यातायामजानानः संशयानो वाऽत्रावसरे परमाणत्पादविषयेण प्रश्नेनोपक्रममाण आह-कथं परमाणुरित्यादि // एवं मन्यते स्कन्धानामविशेषेण सङ्घाताद् भेदाद् सङ्घातभेदाच्चोत्पत्तिरवधृता, तत्र कि परमाणनामप्येवमाहोस्विदन्यथेति / / अत्रोच्यते-उत्पत्तिकारणत्रैविध्याविशेषे सति / सूत्रम्-भेदादणुः // 5-27 // भा०-भेदादेव परमाणुरुत्पद्यते, न सङ्घातादिति // 27 // टी०-सामर्थ्यादवधारणप्रतीतिमादर्शयति, यदि भेदादणुरित्युक्तेऽपि सङ्घातादेरप्युत्पद्यतेऽणुस्ततः सूत्रारम्भो निष्फलः स्यात्, अतो भेदादेव द्रव्याणुरुत्पद्यते न सङ्घातादिति, इतिशब्दः समुचितौ वर्तते, नापि सङ्घातभेदात्, प्रस्तुते विकल्पत्रये भेदादेवोत्पद्यतेऽणुरिति विकल्पद्वयपरित्यागः फलम् // ननु च स्नेहरौक्ष्यविगमात् स्थितिक्षयाद् द्रव्यान्तरेण भेदात् स्वभावगत्या च घणुकादिस्कन्धभेदादुपजायमानोऽणुः कार्यमपि, न्यणुकादिस्कन्धेषु सङ्घातपरिणतौ सत्यां नाणोरणुभावेनावस्थानमस्ति, स्थूलद्रव्यत्वेन, शेषपर्यायैश्च विद्यत एव "तद्भावः परिणामः" (अ०५, सू०४१) इति वचनात् , तस्य भावः सम्भवतीति कषष्ठयां पूर्वपरिणामोपमर्देन उत्तरपरिणामभवनम्, तसिंथोचरपरिणामे पूर्वपरिणामस्यासम्भव एव, भावान्तरापत्तिफलत्वात् परिणामस्येत्यतः सूक्ष्मपरिणामाद बादरपरिणामस्यार्थान्तरत्वात् तत्राणुपरिणामाभाव इति, यथा गुडोदकधातकीद्रव्यसंयोगविशेषात् सरकद्रव्यपरिणामः सम्भवति, तदेव हि तत्तद्रव्यत्रयसंयोगविशेषात् कालान्तरापेक्षं भावान्तरमन्यदेव प्रतिपत्तव्यं यत्र तेषां विवेको दुःशकः कर्तुम्, अथ च तानि द्रव्याण्यन्तरेण स परिणामो नास्ति, न च तदानीं तानि प्राक्तनरूपेण सन्ति, यदि च स्युस्ततस्तत्परिणामासम्भव एव पूर्वकाल इव / प्रयोगश्च-बादरपरिणामपरिणतमहाद्रव्ये परमाणवः स्वेन रूपेण न सन्ति, परिणामान्तरापन्नत्वात्, यथा सीधुपरिगतौ गुडादय इति, ततश्च कारणमेव तदन्त्यं घणुकादीनामिति अवधारणविरोधः, न विरोधः यतः सर्वमेव मूर्तद्रव्यं स्थूलं विदार्यमाणमशक्यभेदपरमाणुपर्यवसानं जायते, न पुनरत्यन्ताभावरूपं निरुपाख्यमिति, द्रव्यनयापेक्षया वा कारणमेवेत्यवधारणं सर्वेषां घणुकादिद्रव्याणां तदेव कारणमिति, पर्यायनयाभिप्रायेण तूत्पद्यत इति उक्तमुपजायमानत्वाच कार्य भवत्येवेत्यविरोधः / स चाणुः स्वतो द्रव्यावयवद्वारेणाभेद्यः, रूपादिभिस्तु स्याद भेदवान् न चासावप्रदेशत्वाद् गगनकुसुमाद्विदसन्नित्याशङ्कनीयः, सावयवद्रव्याभावात्, सावयवप्रतिपक्षेण चावश्यमनवयवेन सता वस्तुनैव भवितव्यम्, स चादिमप्रदेशोऽणुरिति युक्त्याऽऽगमेन च द्रव्यपरमाणुप्रसिद्धिः तत्सिद्धौ च क्षेत्रकालभावपरमाणुसिद्धिरवश्यंभाविनीति विस्तरो द्रष्टव्य इति // १'स्कन्धसङ्घात' इति क-ख-पाठः। 2 दुःशक्यः' इति क-ख-पाठः / Page #398 -------------------------------------------------------------------------- ________________ 372 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 प्रागुपदिष्टमणुवर्जानां बिहेतुकोत्पत्तिःसङ्घातभेदेभ्य उत्पधन्त इत्यत्र सूत्रे, स एष व्यणुकादिप्वचाक्षुषेषु क्रमस्तद्विपर्ययभाजस्त्वेकान्तेनैव स्कन्धाः समुपजायन्ते // 27 // सूत्रम्-भेदसङ्घाताभ्यां चाक्षुषाः॥ 5-28 // भा०-भेदसङ्घाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते / अचाक्षुषास्तु यथो. क्तात सङ्घाताद भेदात् सङ्घातभेदाचति // 28 // टी०-चक्षुष इमे गोचरीभूता इति तस्येदं' ( पा० अ० ४,पा० 3, मू० 120) इत्यण। चक्षुग्राह्याश्चाक्षुपाःप्रयोगविस्रसाजनितात साङ्गत्यादायत्या स्कन्दनात् स्कन्धाः ते वीदृश्या उत्पद्यन्ते, ये च चक्षुषा गृह्यन्त इति, न त्वयं नियमो भेदसङ्घाताभ्यामुत्पन्नाः सर्वे चाक्षुषा भवन्ति, यतो भेदसङ्घाताभ्यामचाक्षुपाणामप्युत्पत्तिः, अत एवं व्याख्येयम्-स्वत एव परिणतिविशेषाचाक्षुपत्वपरिणामभाजो बादराः स्कन्धाः सवातभेदाभ्यामुत्पद्यन्ते इत्येतनियम्यते॥ अपरे वर्णयन्ति-सङ्घातादेव स्कन्धानामात्मलाभसिद्धे दसङ्घातग्रहणमनर्थकम् , नैतदेवम् , तद्विशेषज्ञापनार्थत्वात, न सर्व एव सधातश्चक्षुषा ग्राह्यः, यतोऽनन्तानन्ताणुसंहतिनिष्पाद्योऽपि स्कन्धो बाद परिणतिमानेव नयनादिगोचरतां प्रतिपद्यते, न शेष इति / एवं च व्याचक्षाणानां भेदग्रहणमनर्थकमेव स्यात् तच्चायुक्तम्, यतः सूक्ष्मपरिणामोपरतौ स्थौल्यपरिणामः, तत्र च यथा संहन्यन्ते परमाणवस्तथा भिद्यन्तेऽपि च केचनेत्यतःसङ्घातभेदाभ्यामेव चाक्षुषा निष्पद्यन्ते, न सङ्घातादेवेति / / ननु चाचाक्षुषाणामणूनां समुदायस्तन्मात्रः, स कथमनाहितातिशयश्चाक्षुपः स्यात् ? / उच्यते-सर्वस्य वस्तुनः सतः परिणामात् परिणामान्तरं कथञ्चिद् भिद्यत एवेत्यणुत्वपरिणामाच्चक्षुर्विषयपरिणामो भिन्नः, परमाणवो हि अणुत्वपरिणामपरिणतत्वमपहाय बादरपरिणाममागृह्णते रोक्ष्यस्नेहविशेषात्, अष्टविधः स्पर्शो भगवद्भिरुक्तः स्कन्धेषु यथासम्भवम्, परमाणुषु पुनश्चतुर्विधः स्पर्शो नान्यः, स च शीतोष्णस्निग्धरूमाख्यः, तत्राप्येकपरमाणौ परस्पराविरोधिद्वयं समस्ति, अत्र च बन्धपरिणामे स्पर्शद्वयमुपयुज्यते स्निग्धरूक्षलक्षणम्, केचित् स्निग्धपरिणामपरिणताः केचिद् रूक्षपरिणतिभाज इति, उभयस्य तु विरुद्धत्वादेकस्मिन् परमाणावसम्भवः, तत्राप्येकगुणस्निग्धत्वपरिणता इत्यादि यावदनन्तगुणस्निग्धत्वपरिणतास्तथा रूक्षत्वेऽपि / परमाणवश्व सर्वेऽपि सजातीया एव, न केचित् विजातीयाः, रूपादिचतुर्गुणत्वं सर्वेषां स्पर्शवत्वादिति द्रष्टव्यम्, एवं च तेषां रौक्ष्यस्नेहविशेषाद् भवति द्रव्यान्तरेण बन्धपरिणामस्तादृशो येन प्रचय विशेषान्महत् स्थूलं घटाघभिनिवर्त्यते श्लेपमृद्रजः सम्बन्धित णादिवदित्यतस्तन्मात्रत्वमनाहितातिशयत्वं न सङ्गच्छते, एवं चोपवर्णितस्वगतभेदाभ्युपगमा: निरतिशयत्वं सर्वथा सर्वप्रकारं न केपांचिदुपपद्यते पदार्थानाम्, न चात्यन्तिक एव भेदः, किन्तु किंचित सामान्यमप्यस्त्येव, न च केवलः परिणाम एवैन्द्रियकत्वे कारणं भवति, किन्तु प्रतिविशिष्टानन्तसङ्ख्यासङ्घातापेक्षः परिणामः स्थूलः प्रतीन्द्रियनियतविषयतामास्कन्दति, Page #399 -------------------------------------------------------------------------- ________________ सूत्रै 28 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 373 तस्मान्नैन्द्रियकत्वे सङ्घातः केवलो हेतुर्भवति, नापि परिणामः, किं तर्हि 1 उभाभ्यां भेदसङ्घाताभ्यामेककालाभ्यां चाक्षुषा भवन्ति, चक्षुर्ग्रहणाच समस्तेन्द्रियपरिग्रहः,पश्यति-उपलभते इति चक्षुः, स्पर्शरसगन्धशब्दा अप्येवंविधपरिणाममाज एव निजोपलम्भनरुपलभ्यन्त इति // अचाक्षुषास्त्वित्यादि / ये पुनरतीन्द्रिया द्यणुकादयोऽनन्ताणुकपर्यवसानाः स्कन्धाः सूक्ष्मास्ते यथाभिहितात् त्रिविधात् कारणात् सङ्घातादेरुत्पद्यन्ते। न चेदमाशङ्कनीयम्-स एव पादरासत एव च पुनः सूक्ष्मा इति, यतो विचित्रपरिणामाः पुद्गलाः कदाचिद् बादरपरिणाममनुभूय जलधरशतक्रतुचापसौदामिनीलवणसकलादिकमथ पश्चादलक्षणीयपरिणाममात्मस्वरूपावस्थानस्वभावमतिसूक्ष्ममाददते करणान्तरग्रहणलक्षणतां वा भजन्ते लवणहिङ्गुप्रभृतयः, सूचनीयपरिणामश्च जनित्वा पुनरपि वियति परितः सकल दिगन्तरावरोधिवारिधरत्वादिना स्थूलेनाकारेण परिणमन्ते / तुशब्दः पुनःशब्दार्थे, चशब्दः समुच्चये, इतिशब्दः प्रकृतपुद्गलप्रकरणपरिसमापनार्थः // 28 // भा०-अत्राह-धर्मादीनि सन्तीति कथं गृह्यत इति ? / अत्रोच्यते-लक्ष. णतः / किञ्च सतो लक्षणमिति ? / अत्रोच्यते-- . टी--अत्राहेत्यादिसम्बन्धग्रन्थः। धर्मादीनां द्रव्याणां यथासम्भवं गतिस्थित्युपग्रहादिलक्षणमुक्तं वैशेषिकम् , अधुनाऽन्तरङ्गव्यापिलक्षणजिज्ञासया सन्दिहानः प्रश्नयति-धर्मादीनि सन्तीति कथं गृह्यत इति / अस्ति चात्र सन्देहबीजम् कि विकारग्रन्थिरहितं सत्तामात्रमेते धर्मादयः आहोस्विद् विकारमात्रमुत्पादविनाशलक्षणमयोभयम् ? इत्येवमनेकप्रकारसम्भवे सन्देहः, कथं-केन प्रकारेण, धर्मादीनि सन्ति-विद्यन्त इति / इतिशब्दो हेतौ / येन हेतुना सत्त्वमेषां निश्चीयते तद्विपयत्वमितिकरणस्य, वाक्यपर्यन्तवर्तीतिशब्दः प्रष्टव्यार्थयत्ताख्यापनार्थः गृह्यत इति ग्राह्य, निश्चयमित्यर्थः। किं तदस्तित्वमेपामिति / अथवा धर्मादीनि सन्तीत्यस्तित्वमेव सन्दिग्धे परः // ननु च येषां गत्याधुपकारेणानुमितमस्तित्वं प्राक ते प्रसिद्धसत्ताका एव, कुतः सन्देहः ? अयमभिप्रायः प्रष्टुः-गत्याद्युपग्रहकारिणः किल धर्मादयः केऽपीत्यप्र सिद्धसत्ताकेनैव प्रपत्त्राभ्युपेतम्।इदानीं तु प्रश्नयति-कथं पुनरेषां धर्मादीनां सल्लक्षणसूत्राव- विद्यमानत्वं निश्चेयमिति ? / आचार्य आह-अत्रोच्यते-लक्षणतः // तरणम् __आचार्यस्यायमभिप्रायः, सङ्ग्रहादेकीभावादुत्पादादयः सल्लक्षणमस्तिशग्दविषयः, एवंविधाश्चैत उपलभ्यन्त इत्यतः सामान्येन तावदुपन्यस्यति-लक्षणत इति / पुनरपि सामान्याभिधाने सन्दिहान आह-किञ्च सतो लक्षणमिति ? किं पुनः सतो लक्षणं, लक्ष्यते येन लक्षणेन प्रमाणानि तद्विषयश्च, लक्ष्यते येन सदेतदिति / अत्रोच्यते-इत्याचार्यः प्रतिजानोते, सत्वलक्षणम् , तेषां धर्मादीनामस्तित्वाव्यभिचारिलिङ्गमिदमुच्यते // एतदुक्तं भवति-धर्माधर्माकाशपुद्गलजीवाः पञ्चास्तिकाया जगतः स्वतत्त्वम् , तत्र जीवद्रव्यं धर्मादीनां ग्राहक स्वरूपस्य चेति, सक्षेपतः शब्दार्थज्ञानानि सत्त्वलक्षणलक्ष्याणीति, अतः सकलाधि Page #400 -------------------------------------------------------------------------- ________________ 374 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 गम्याभिगमोपायविषयेण प्रश्नेनोपक्रान्तं चोदयित्वाऽतः प्रतिवचनमपि तथैवाचार्येणोच्यते, येन लक्षणेन प्रमाणानि तद्विषयश्च लक्ष्यते तयापि लक्षणमभिधीयत इति / तच्चेदं सूत्रम् सूत्रम्-उत्पादव्ययध्रौव्ययुक्तं सत् // 5-29 // भा०-उत्पाद्व्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम् ; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत् / अतोऽन्यदसदिति // 29 // टी.--उत्पाव्ययाभ्यामित्यादि / समासतश्चायं सूत्रार्थः-स्थित्युत्पत्तिविनाशस्वभाव सद् , अवश्यन्तयैव स्थित्युत्पादविनाशाः समुदिता एव सत्त्वं गमयन्ति / स्थित्यादयो हि सत एव भवन्ति, न जातुचिन्निरुपाख्यस्य, केनचिदप्याकारणानुपाख्यायमानत्वादिति / यत् कथंचिन्न ध्रुवं न चोत्पद्यते न च व्येति तन्न सदिति / इदं च सूत्रं द्रव्यपर्यायनयद्वयगर्भम् यतो द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादस्वभावौ मूलं सङ्ग्रहादिप्रपञ्चस्य, तनिरूप्यं च सर्व वस्तु, ते च सङ्ग्रहादयः प्रथमाध्याये विध्यपवादस्वरूपतया, निरूपिताः, विशेषविवक्षया तु किश्चिदुच्यते-उत्सर्गो विधिर्व्यापित्वमप्रतिषेधः, न ह्यसौ द्रव्यनयो विशेषमिच्छति, विशेषो अन्यप्रतिषेधेनात्मानं प्रतिपादयति भावान्तरत्वात् , न चाभावः प्रतिषेधमात्रम् / प्रागभावो हि घटस्य मृत्पिण्डः प्राग्घटोत्पादाद घटस्याभावः पिण्ड एवानाविभूतघटाकारः 1, प्रध्वंसाभावोऽपि कपालाद्यवस्थाप्रध्वंसो विनाशः, स चावस्थान्तररूपत्वाद् वस्तुस्वभावं न जहाति, वर्णकविरचनामात्रप्रापितनटान्यत्ववदुत्फणविफणादिसंस्थानमात्रत्यागिसर्पवद् वा 2; इतरेतराभावोऽपि स्तम्भकुम्भादीनां परस्परव्यतिरेकरूपत्वान्नावस्तु, घटो हि घटसंस्थानादिव्यतिरेकापेक्षस्वरूप एवाभावशब्दवाच्यः, समस्तवस्तुनश्च तथाविधत्वाभ्युपगमाद् वस्त्वेव भवतीतरेतराभावः 3; अभावस्या- न चात्यन्ताभावः कश्चिदनुपाख्योऽस्ति, सर्वप्रकारमनुपाख्यायमानप्रतिषेधात्मकता स्वरूपानधिगमात्, शशविषाणादेर्वस्त्ववस्थान्तरत्वादुपलब्धिविषयत्वम् , शशविषाणाभावो हि मौण्डथं समतलमस्तकस्वरूपोपलब्धि त्यन्ताभावः, विषाणसद्भावादन्यत्र शशकमस्तकसद्भावाचेतरेतराभाव एव, समवायसम्बन्धप्रतिपेधमात्रत्वाद्, वा अन्यत्र च तस्य सत्त्वान्नात्यन्ताभावः, नामकर्मपरिणामवशाचापत्यवत्वे वन्ध्यायाः केन तद्वत्ता निवार्यते, नहि पूर्वोपात्तकर्मविपरिणामव्यतिरेकेण तज्जीवतथाविधपरिणत्यभावे वा उत्तरजन्मप्रतिपत्तिरमूलत्वात् 4; अतः सर्व एव पदार्था द्रव्यक्षेत्रकालभावभेदापेक्षाः कदाचिदुपलभ्यन्ते प्रत्यक्षादिना, प्रमाणेनावधार्यन्ते, कदाचिदुपलब्धाः सन्तोऽपि भूयो नोपलभ्यन्ते, द्रव्यादिविप्रकर्षात, सत्यपि मतिज्ञानावरणीयकर्मक्षयोपशमकारणसाकल्ये 1' उत्पादव्ययौ ध्रौव्यं च युक्तं ' इति घ-पाठः। 2 सामान्यविशेषोभयाग्राहित्वान्नैगमस्य संग्रहव्यवहारयोरन्तवाद। 3 पूर्वः पूर्वो विधिः परःपरोऽपवाद इति। 4. प्रतित' इति क-ख पाठः / Page #401 -------------------------------------------------------------------------- ________________ सूत्रं 29] स्वोपज्ञभाष्य-टीकालङ्कृतम् 375 उपयोगे च किश्चिद् द्रव्यमन्यात्मपरमाणुव्यणुकादि वैक्रियशरीरादि च सदपि नोपलभ्यते, __ तस्य च द्रव्यस्य तथाविधपरिगामात्, अदिशब्दाद दिवा तारकादयो केषांचिद् द्रव्याणा-माषश्च माषराशावुपक्षिप्तः, किश्चित क्षेत्रविप्रकर्षाद्धि दरात्यासनसव्यवधा. नवर्ति विद्यमानमेव नोपलम्भविषयभूयमास्कन्दति, तथाऽपरं कालविप्रकपोदनाविर्भूतं तिरोभूतमुपलब्धेरगोचरः, तथाऽन्यद्भावविप्रकर्षात् परकीयात्मवर्तिमतिज्ञानविकल्पजालमण्वादिपरिवर्ति च संस्थानरूपादिपर्यायकलापजातं सदप्यनुपलभ्यम् , विवक्षितोपलब्धेधान्या उपलब्धिरनुपलब्धिः , पयुदासवृत्तेरभ्युपगमात्, न पुनरुपलब्ध्यभावोऽनुपलब्धिः , अनुपाख्यस्याभावस्य प्रत्याख्यानात् , भावस्यैव चाभावशब्देन कथञ्चिदभिधेयत्वात् , तस्मादुपलम्भकारणभाज एवानुपलब्धिर्नान्यथा, व्यवस्थितमिदं नाभावः प्रतिषेधमात्रमिति / एवं च ध्रौव्यं द्रव्यास्तिका, अस्तीति मतिरस्येत्यास्तिकः द्रव्य एवास्तिको द्रव्यास्तिकः, सकलभेदनिरासादकृतलक्षणस्य च तत्पुरुषस्य मयूरव्यंसकादिप्रक्षेपात् समसनम् , तच्च द्रव्यं भवनलक्षणं मयराण्डकरसवदुपारूढसर्वभेदबीजं निर्भेदं देशकालक्रमव्यङ्ग्यभेदं समरसावस्थमेकरूपं भेदनत्यवमर्शनाभिन्नमपि भिन्नवदाभासते, तदाश्रयाच भवितरि विशेषे भवति भावता, अन्यथा तु ___ भाव एव न स्यात् भविता विशेषो, भवनव्यतिरेकित्वात्, तदव्यतिद्रव्यपर्यायास्तिको रिक्तरूपत्वाच्च भवितुर्विशेषस्य तत्स्वरूपवद्भावता, तदव्यतिरिक्तरूपता च। एवं सति भवनमात्रमेवेदं कृत्स्नं भेदाभिपतास्त्वेता वृत्तयस्तस्यैव न जात्यन्तराणीति // पर्यायः पुनरपवादस्वभावाऽन्यपरिवर्जनमपवदनमपवादः स ह्यन्यपरिवजैनेनान्यं प्रतिपादयति, प्रतिषेधरूपत्वाद् , अघटो न भवतीति घटः, पर्याया एव सन्ति न पुनद्रव्यं नाम किश्चिदेकं पर्यायार्थान्तरभूतमस्ति, द्रव्यास्तिकावधारितध्रौव्यवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेन प्रतिज्ञायन्तेऽतः पर्याय आस्तिकः पर्यायास्तिकः, समुपलभ्यमानायःशलाका कल्पभेदकलापव्यतिरेकेण द्रव्यस्यानुपलम्भात् // ननु च रूपादिव्यतिरेकेण मृद्रव्यमित्येकवस्त्वालम्बनश्चाक्षुपः प्रत्ययः प्रत्याख्यातुमशक्यः सन्तमसपटलावच्छादितप्रदेशवर्तिनि वा मृद्रव्ये स्पर्शनज्ञानमभिन्नमृद्रव्यमात्रालम्बनमसत्यमिति वा भापितुं न द्रव्यस्यापलापः पार्यत इत्यस्त्यभिन्नमेकं द्रव्यमभेदज्ञानविषयत्वात् , न चायमभेदप्रत्ययो भ्रान्तः, पुनः पुनः प्रेक्षापूर्वकारिभिस्तथैवोपलभ्यमानत्वात् , नैतदेवम् , अन्यविषयत्वाद् रूपस्पर्शविषयाचक्षुःस्पर्शनज्ञानाद् भिन्न विषयोपलम्भिनोऽन्यदेव रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमुत्पद्यते स एवायं घटो यमहमद्राक्षमहनि रात्रौ वा यं चास्पाक्षम् , अतो रूपायग्रहे तस्या अभेदबुद्धेरनुत्पादात् // एतदुक्तं भवति-दृष्ट्वा स्पष्वा वा स एवायं घट इति पदभेदज्ञानं तद् रूपादिसमुदयविषयं स्मार्तम् , तदग्रहे सत्यनुत्पत्तेः, यथा विज्ञानं धवाद्यग्रहे सत्यनुत्पद्यमानं धवादिविषयमिति / / नन्वालोकाग्रहणे शुक्लबुद्धिने भवति, न चालोकविषया शुक्लबुद्धिरित्येवमन्यत्वेऽपि साध्ये, न चालोकाद् रूपं नान्यदित्यनेकान्तः, नैतदेवम्, हेत्वर्थापरिज्ञानात्, रूपाद्यग्रहे तदुद्धधभावादित्यनेन तदभावाभावमुखेन रूपादिग्रहे सत्येव भावादि Page #402 -------------------------------------------------------------------------- ________________ 376 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 त्याख्यायते, न चालोकग्रहणे सति रूपबुद्धिर्भवति चित्ररूपवत् सालोकस्य रूपस्य ग्रहणात, आलोके तु सति स्याद् रूपबुद्धिः // पुनराशङ्कते-प्रत्यक्षानुमानाभ्यामननुभूते समुदाये कथं स्मृतिरुत्पद्यत इति, न, अनेकान्तात् , विकल्पितेऽपि ह्यर्थे स्मृतिर्दृष्टा बन्धुमत्याख्यायिकादौ / अस्ति च घटादिसङ्केतप्रभवः समुदाये विकल्पो वनादिविकल्पवत् , अन्यथा वनसेनास्मरणमपि न स्यात् , एवं च न रूपादिव्यतिरिक्तं द्रव्यं समस्तीति व्यवस्थितम् // पुनरप्याह-अस्त्येवान्यद् द्रव्यम् , बुद्धिभेदात्, अन्यैव हि रूपाधीरन्या च घटबुद्धिः / अर्थ च बुद्धिभेदोऽन्यत्वे सति भवति, नान्यथा, तस्माद् रूपादिद्रव्ययोरन्यत्वं बुद्धिभेदाद् गवादिवदिति, अयुक्तमेतदपि, यदि तावदुभयोरन्यत्वं साध्यते, द्रव्याभाबादेकदेशाश्रयासिद्धः, नहि सतोऽसतश्चैकमेव विशेषणं न्याय्यम् / अथ रूपादिभ्यो द्रव्यस्यान्यत्वं साध्यते, तदसमञ्जसम् , नहि द्रव्यं नाम किञ्चदस्ति स्वरूपेण यस्यान्यत्वं साध्येत, सिद्धे धर्मिणि धर्मविप्रतिपत्तौ साधनसद्भावात् , अनेकान्तिकश्च पानकादिभिवुद्धिभेदादिति, विनाऽद्रव्यस्याः प्यर्थान्तरभूतद्रव्यकल्पनया मनीपाभेदस्य सद्भावात् , रूपाद्यवयवानां सनिवेशविशेषाद् बुद्धिभेदः, यथा गुडोदकाभ्यां पानकं नार्थान्तरमथ च बुद्धिभेदः, एवं विपइत्यादिप्वरि द्रष्टव्यम् / तस्मानोत्पादव्ययव्यतिरिक्तः कश्चिदस्ति ध्रौव्यांशो यमाश्रित्य प्रज्ञाप्येत द्रव्यमेकमभेदप्रत्ययहेतुरिति / स्वात्मव्यतिरिक्तावयव्यारम्भकास्तन्तव इति चेत् , अयुक्ततरमिदं तुलानतिविशेपाभावात् , यस्य ह्यवयवगुणा गुणान्तराण्यारभन्तेऽवयविनि " द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् " इति वचनात तस्य दशपलपरिमाणभाजस्तन्तवः पटे गौरवान्तरमारभेरन् , अतस्तुलानतिविशेपाग्रहणान्ना न्योऽवयव्यवयवेभ्य इति धर्माविशेषनिराकरणात् पक्षापवादो वाक्यार्थः, पटश्च तन्तुपु समवयन् प्रतितन्तु वर्तेत कात्स्येन देशेन वा ? न तावदेकत्र तन्तौ कृत्स्नः समवेतः, सन्निकृष्टेऽपि तन्तावग्रहणात् , स्तम्भादिसन्निकर्षे मेवोद्यग्रहणवत् , यश्च यस्मिन् समवेतः स तत्सन्निकर्षे गृह्यते, यथा रूपादिः, अवयविवहुत्वप्रसङ्गश्च, अथ तन्तौ पटस्य प्रदेशो वर्तते, न तर्हि कचिदेकः पटो वर्तत इति प्राप्तम् , न च तन्तुव्यतिरेकेणान्यः परस्य देशोऽस्ति येन देशेनासौ तन्तौ वर्तेत. तन्तुरेव च तस्य देश इष्यते वैशेषकैः, न च तस्यैव तस्मिन् वृत्तियुज्यते, सावयवश्वावयवी स्यादिति / एवमवस्थितैकद्रव्याभावात् सर्वमुत्सादविनाशलक्षितमर्थक्रियासमर्थ वस्तु, उत्पादविनाशशून्याश्च शशविपणादयो न वस्तुव्यपदेशभाज इति प्रतीतम् / न च परमार्थतः कारणप्रकतिरस्ति द्रव्यसत्ता यत्रावगम्यते भव्यत्वात् , कारणं कार्यमिति कल्पनामात्रमेतत् , प्रती. त्यप्रत्ययमात्रवृत्तित्वाद् दीर्घत्व-हस्वतावत्, तन्तुष्टयोमृद्धटयोवा न किश्चित् स्वसिद्धं रूपमस्ति, तन्तुषु मृदि वा यः कारणप्रत्ययः स पटकुम्भायशेपार्थान्तगपेक्षया न स्वसिद्धः, तस्मात तन्तुपटयोर्यस्तन्तुपटप्रत्ययः स इतरेतराश्रयत्वादसदर्थविषयः, तथा मृघटयोरतकारणकार्ययोगभाव एव स्वरूपस्यासिद्धत्वाद् व्योमोत्पलादिवदिति / अत्रोच्यते-प्रागुत्पतद्भिरेवास्माभिरभ्यधायि स्थित्युत्पत्तिविनाशस्वभावं सकलमेव सद, एतौ च द्रव्यपर्यायौ THEHESHTHHTHHTHHI Page #403 -------------------------------------------------------------------------- ________________ 377 सूत्र 29 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् परस्परनिरापेक्षौ न सतो लक्षणम् , द्रव्यास्तिकस्य ध्रौव्यमात्रवृत्तित्वात् , पर्यायस्योत्पत्तिव्यय ___मात्रवृत्तित्वात् परस्परापेक्षौ तु वस्तुस्वतत्वम् , न च द्रव्यांशः पर्यायांशो वव्यपर्यायवाद' वा परमार्थतः कश्चिदस्ति परिकल्पितत्वात् / / यथाऽऽह - "नान्वयो भेदरूपत्वा न भेदोऽन्वयरूपतः / मृद्भेदद्वयसंसर्ग-वृत्तिर्जात्यन्तरं घटः // " अत एकान्तवादपरिकल्पिताद् वस्तुनोऽनेकान्तवादिनः संमतं वस्तु जात्यन्तरमेवाविभक्तरूपद्वयसंसर्गात्मकत्वात् नरसिंहादिवत्, यथा "न नरः सिंहरूपत्वा-न सिंहो नररूपतः / शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि तत् // " तदेवं घटाद्यपि कल्पिताद् द्रव्यार्थरूपात् पर्यायार्थरूपाच्च जात्यन्तरमित्येवंविधप्रक्रियाभ्युपगमेन च सर्वमेकनयमतानुसारि दूषणमुपन्यस्यमानमसम्बद्धमेवापनीपद्यते, यतश्चैवमतो भेदाभेदस्वभावेऽपि वस्तुनि कदाचिदभेदप्रत्ययः खवासनावेशात् केवलमन्वयिनमंशमुपगृहमानः प्रवर्तते, कदाचिद भेदमांत्रवादिनो भेदावलम्बनः प्रत्ययः प्रादुरस्ति, स्याद्वादिनस्तु जिज्ञासितविवक्षितार्थाय नज्ञानाभिधानस्य द्रव्यपर्याययोः प्रधानोपसर्जनभावापेक्षया समस्तवस्तुविषयम्यवहारप्रवृत्तिर्वस्तुत्वमनेकाकारमेव // यथाऽऽह "सर्वमात्रासमूहस्य, विश्वस्यानेकधर्मणः / सर्वथा सर्वदाभावात्, कचित् किश्चिद् विवक्ष्यते // " इति / भवतु नाम विवक्षावशा वचनव्यवहारः, चक्षुरादिज्ञानं पुनः प्रवर्तमानं न सहते कालान्तरम्, प्रथमसम्पात एव स्वविषयग्रहणात्, तद् यदि भेदाभेदस्वभावं वस्तु किमिति प्रथमत एव तदुल्लेखमिन्द्रियज्ञानं नोत्पद्यते, अतो मनोविज्ञान विकल्पमात्रं द्रव्यपर्यायाविति / अत्रोच्यते-चक्षुरादिविज्ञानान्यवग्रहादिक्रमेणोत्पद्यन्ते, अर्थावग्रहश्चैकसामायिकः प्राक्, ततो मुहतोभ्यन्तरवर्तीहाज्ञानं, ततोऽपायज्ञानमनन्तरं प्रमाणमिन्द्रियमेव व्यापारयतो निश्चिताकारमुपजायते, तद्भावे भावात् तदभावे चाभावात, निश्चयश्चक्षुरादि विषयोऽप्यस्ति मनोविषयश्चाष्टाविंशतिविधत्वान्मतेहादिभेदेन वा बहुतरविकल्पत्वाद् अस्त्येवेदं निश्चिताकारमिन्द्रियस्य ग्रहणं __ द्रव्यपर्यायाविति, मानसमपि यदि भवति, भवतु नाम को दोषः ? सर्वथा प्रश्यव्यतिरिक्तता मनोविज्ञानमेवेदं तचाभूतं विकल्पमात्रमित्येतदसत्, अतो यदवाचि-ननु रूपादिव्यतिरेकेण मृद्रव्यमित्येकवस्त्वालम्बनश्चाक्षुषः प्रत्ययः प्रत्याख्यातुमशक्य इति तत्स्वमविजृम्भितसमुत्थापितविकल्पमात्रम्, स्याद्वादिप्रक्रियानवबोधात्, यतो न रूपादिभ्योऽत्यन्त पादि' इति क-पाठः। 2 -- समयिक ' इति ग-पाठः / 48 Page #404 -------------------------------------------------------------------------- ________________ 378 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 व्यतिरिक्तं किश्चिद् द्रव्यमस्ति, कथश्चिद् भेदे वा परस्याभ्युपेतबाधा स्यात्कारलाञ्छनार्थज्ञानवचसो वा वादिनः सिद्धसाध्यतासमास्कन्दनात् सर्वमसमीचीनम् / न चान्धतमसादौ केवलमृगव्यग्रहणमस्त्यभिहितन्यायात्, अपि च " द्रव्यं पर्यायवियुक्तं (तं 1 ), पर्याया द्रव्यवर्जिताः / क कदा केन किंरूपा, दृष्टा मानेन केन वा ? // " नहि विशेषनिरपेक्षो ध्रौव्यांशः सामान्यलक्षणः कश्चिद् विद्यते यो गृह्येत केवलः, न च सामान्यनिरपेक्षः कश्चिद् विशेषो नाम विद्यते य इन्द्रियाणां गोचरतामापद्यते // अथैवमाशङ्केथाःन ब्रूमो नास्ति सामान्यांशः, स हि विद्यमानोऽपि ग्रहणकाले ग्रहीतुमशक्य इति विशेषमात्रग्रहणमेवेति, एवं तर्हि सामान्यांशः स्वशरीरविग्हाद विभावत्वाद् व्योमोत्पलादिवत् कुतो विशेष ग्रहणम् ? / सामान्योपलम्भानुभवविरोधश्व सामान्यशून्यविशेपमात्रग्रहणवादिनः / नापीन्द्रियविषयसङ्करः, चक्षुरादिज्ञानावरणकमेक्षयोपशमविशेषात तादृश एवासो क्षयोपशमो येन समस्तान्येवेन्द्रियाण्येकसामान्यग्रहणे व्याप्रियन्ते, न पुनर्विशिष्टान्यान्यार्थग्रहणे, तथादृश्यमानसामान्यसिद्धिः त्वात् / न चास्ति काचिद् युक्तियेद् विवक्षितं वस्तु सर्वथा वस्त्वन्तरेणासदृर्श स्वरूपेऽवस्थास्यते, सर्वप्रकारमतुल्यत्वाद् बन्ध्यासुतादिवत् , अतो भवान्तरेण तुल्यताऽवश्यमभ्युपेया विवक्षितस्य वस्तुनः सत्त्वमिच्छता / तच्च सामान्यं ध्रौव्यलक्षणम् / न चैतद् बुद्धिपरिकल्पनामात्रे सामान्ये घटते, परिकल्पस्य वस्त्वसंस्पर्शात् तादवस्थ्यं दोषाणाम्, परिकल्पश्चाभूतोऽपि तत्त्वतो वस्तुष्वेव तादृशीं धियमुत्पादयति,नावस्तुषु वाजिविषाणादिष्विति। किमत्र कारणमुपादाय वस्तुविकल्पः प्रवर्तत इति चेत्, तदसत्, तस्य वस्तुनो वस्तुत्वेनानिर्धारितत्वान्नोपादानकारणता, न च सर्वथा वस्तुनः तुल्यतैव, यदि स्यात् ततो वैरूप्यशून्यत्वाद् विवक्षितं वस्तु वस्त्वन्तरादन्यदित्येष प्रत्ययो न स्यात्, केनचिदप्याकारेण भेदाभावात्, अतो भेदमभिलषता प्रेक्षापूर्वकारिणा वैरूप्यमपि केनचिदाकारेणाभ्युपेयम्, एवं चेत् सामान्यविशेषस्वभावं सर्वदा सर्वमेव वस्त्विति प्रतिपत्तव्यम् / न च सामान्यविशेषयोः स्वलक्षणभेदेऽप्यत्यन्तभेदः, शबलरूपत्वात् वस्तुनश्च वस्तुतयाऽपि वस्त्वन्तरातुल्यत्वेऽन्यतरस्यावस्तुत्वप्रसङ्गात् तदविनाभावाच्च द्वितीयस्याप्यभाव इति सर्व शून्यं स्यात्, इष्यत एवेति चेत्, तदयुक्तम्, प्रमाणप्रमेयप्रतिपाद्यप्रतिपादकसद्भावात् / सांवृत एष व्यवहार इति चेत् , तदप्यसत्, संवृतिः प्रमाणमप्रमाणं वा स्यात् ? यदि प्रमाणं ततो बाधकप्रमाणाभावात् परमार्थसत्त्वं प्रत्यक्षादिवत्, अथा . प्रमाणं संवृतिः ततो देवानांप्रियस्य व्यर्थः प्रयासः, प्रमाणप्रतीतिनिबसामान्यविशेष प. न्धत्वात् प्रेक्षापूर्वकारिव्यवहाराणाम् / अथ सकलशून्यताप्रसङ्गभीत्या सा मान्यविशेषयोस्तुल्यत्वमेव वस्तुतयाऽभ्युपेयते ततः सामान्यविषयस्वभाव सर्वमिति व्यपेतशङ्क प्रतिपद्यस्व, परस्परं वा स्वभावविरहाभावात् सामान्यविशेषयोः सङ्कीर्णतायां रूपता Page #405 -------------------------------------------------------------------------- ________________ सूत्र 291 स्वोपज्ञमाप्य टीकालङ्कृतम् 379 सत्यामपि धर्मभेदप्रसिद्धेः समस्तव्यवहारसम्प्रसिद्धिः, कारकशक्तिवत् / कारकशक्तयो शेकद्रव्यातिरिक्तत्वात् सङ्कीर्णा अपि कार्यभेदाद् भेदमनुपतन्त्य एवोपलभ्यन्ते विशिष्टव्यवहारहेतवः तद्वदत्रापि द्रष्टव्यम् / न च सामान्यविशेषव्यतिरिक्तः कश्चिदनयोः सामान्यविशेषयोराधारभूतो द्रव्यांशोऽपरः समस्ति परपरिकल्पितः, तुल्यातुल्यांशव्यतिरेकेणानुपलभ्यमानन्वाद् द्रव्यांशस्य, यदि तावदसावन्यस्माद् व्यावृत्ततयाऽवगम्यते ततो विशेष एव, अथानुवृत्तिद्वारेण परिच्छिद्यते सामान्यांशः स्यात्, न चान्यथा प्रत्ययप्रवृत्तियों द्रव्यमालम्बेत, अतो वस्त्वेकमनेकाकारम, आकारावानुवृत्तिप्रत्ययावसेयाः केचिंदपरे तु व्यावृत्याकारबुद्धयाऽध्यवसातव्या इति // न चावश्यं सतो भवितव्यमाधारण, परिकलय तावत् तस्यैव त्वत्परिकल्पितद्रव्यांशस्य क आधारः ? को वा व्योमादेरित्यलं प्रसङ्गेन / व्यवस्थितमिदमुभयस्वभावं सकलम् / तसान केवलस्य कचिदस्ति मृद्रव्यस्य ग्रहणम्, उपपद्यते चायमभेदप्रत्ययः, न च भ्रान्तः, सामान्यांशालम्बनत्वाद् , अतः सर्व साधु स्याद्वादप्रक्रियायाम् / एतेन रूपादिसमुदयविषयं स्मार्तमभेदज्ञानमिति प्रत्युक्तम् , उभयस्वभावत्वाद् वस्तु सत् सामान्यांशालम्बनभेदज्ञानम् , न पुनःसामान्यशून्यरूपादिभेदसमुदयमात्रालम्बनम्, समुदायस्य तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वेनानिर्धार्यमाणस्वभावस्यापारमार्थिकत्वात् / यदप्युक्तं-"तेष्वेव हि तन्त्वादिषु तथासनिविष्टेषु पट इत्यादिबुद्धिः प्रवर्तते, यथा भक्तसिक्थोदकेषु तथासनिविष्टेषु काञ्जिकबुद्धिः" इति, कथं पुनः सनिविष्टेष्विति निरूप्यम् // ननु च पटाद्याकारेणेति किमत्र निरूप्यते ? कपुनरसावन्यत्र पटः प्रसिद्धो यस्याकारेण तन्तवः सन्निविशन्ते, यथा पार्थीकारोभिमन्युरिति, कश्चायं सन्निवेशः ? यदि संस्थानमेव वृत्त-व्यस्र-चतुरस्रा-यत-परिमण्डलभेदमिष्यते युग्मा-युग्म-प्रतर घनविकल्पकम्, एवं सति प्रागस्माभिः प्रत्यपादि प्रपञ्चतः सघातभेदेभ्य उत्पद्यन्ते स्कन्धास्तद्भावलक्षणपरिणामवशात, स च तादृशः परमार्थतोऽस्त्येव समुदायः, अथान्यः कोऽपि समुदायः, स निरूपणीयः, काञ्जिकाद्यपि परिणामान्तरापत्त्यैव सिद्धमार्हतानाम्, न भक्तसिक्थादिमात्रतया। यच्चोक्तम्-"रूपाद्यग्रहे घटादिबुद्धेरभावात्" इति, एतदपि जैनान् प्रति न किञ्चित् , उभयस्वभावत्वाद् वस्तुनो विभागाभावात्, रूपादिस्वरूपोल्लेखेनैव सामान्यांशः प्रतीयते, वह्निरूपस्पशेपरिणतायोगोलकवत् , तथा वनविपङ्क्त्यादयोऽपि सन्निवेशविशेषाः पुद्गलानां सामान्यविशेषस्वभावाः समासादितक्रमपरिणतयः तत्त्वतोऽभ्युपेयन्ते, नोर्पोदायप्रज्ञप्तिमात्रम्, यदि च संस्थानमर्थान्तरं रूपादिभ्यस्तदपि परमार्थसत् ततो रूपादिवदन्यानपेक्षमेव गृह्येत, अथ रूपस्पर्शमात्रम्, एवं तर्हि तदनेकं रूपस्पर्शवत् प्रसक्तम्, एवं चानिष्टप्राप्तेरसमञ्जसता, यदि रूपसन्निवेशविशेषो वृत्तं स्पर्शनेन न गृह्येताविषयत्वाद् रूपवत्, न वा स्पर्शविशेष वक्षुषा गृह्येतोक्तन्य यात्, भेदे च द्वे वृत्ते गृह्येयातामन्यत्वाद् रूपस्पर्शवत्, एवं तन्त्वादिषु तथास्थितेन्वित्यादि पिचार्यमाणं विशी. १.प्रसिद्धेः' इति क-ख-पाठः / 2 'मालम्बतो वस्तु' इति क-पाठः / 3 'कचिदपरे' इति क-ख-पाठः। 4 'नोपादेय ' इति क-ख-पाठः / Page #406 -------------------------------------------------------------------------- ________________ वस्वार्थाधिगमसूत्रम् [ अध्यायः 5 बते, तस्मादस्ति द्रव्यं तद्भावाव्ययलक्षणं स्थित्यात्मकमन्वयिरूपत्वात् स्वभेदानां प्राक सदान्वयिन्योश्च(१) मृदन्वयाविच्छेदादेकम्, न पुना रूपादि पमुदायमात्रम्, अतः सर्वैकान्तध्वंसविधायिनि स्याद्वादे दूग्मपास्तमसद्विकल्पचतुष्टयम् , किं तत् , एवं समूहिनः परिणामिनो वा तत्कार्यमुत नैव तत्कार्यमथ कार्यमेवास्ति न कारणं कारणमेव वा विद्यते न कार्यमिति, एष च सामूहिकः समस्तोऽपि रत्नावलीपटस्तम्भकुम्भसेनावनयूथादिरर्थः स्वसकार्यकारणा कारण मये पारिणामिक एव, भिन्नाभिन्नदेशानां परिणामिना परिणामाभ्युनेकान्तत्वम् - पगमात् , तथापि भेदेनोपन्यासो लोकव्यवहारानुवृत्त्या, पूर्वधर्मोपमनोसरधर्मोत्पादः परिणामो लोके क्षीरदध्यादिवत् समूहिषु पारिणामिषु चानकान्तव्या. सिप्रपञ्चप्रदर्शनार्थः / तथाहि-आलोकविशिष्टरूपग्रहणमपि नात्यन्तभेदप्रतिपत्तये, विशेषणविशेष्यभावश्चैकान्तभेदविषयो न कश्चित् प्रसिद्धः, दण्डयादावपि सामान्य विशेषभावे सति विशेषणविशेष्यभावात् / यच्चोतमवधारणं रूपादिग्रहे सत्येव भावात्, तदप्युभयस्वभाववस्त्वभ्युपगमे न कञ्चनापक्षा( 1 )लमावहति / यदप्यारेको प्रमाणानुभवमन्तरेण स्मृतिरनुपपन्नेति पश्चात् परिजिहीर्वताऽभ्यधायि विकल्पितेऽपि ह्यर्थे स्मृतिदृष्टेति, तदप्यसत, अर्थाभिधानप्रत्ययानां वस्तुत्वाभ्युपगमादत्यन्ताभावस्य च निरुपाख्यस्य प्रतिषिद्धत्वाद, सर्वप्रकारमसतः संन्यवहारायोग्यत्वात्, बभूवुरनादौ संसारे बन्धुमत्यादयः प्राणिविशेषा स्तदभिधानानि तदालम्बनाच प्रत्ययाः, ततश्च प्रमाणानुभवपूर्विकैव स्मृतिः सर्वत्र नान्यथा, समुदायस्य च प्रतिपादितवग्तुत्वान्न निर्मूल विकल्पत्वम्, बुद्धिभेदाच्चान्यत्वमेकान्तत एवेति पूर्वमेव प्रत्यस्तम् / नहि बुद्धिभिदा सर्वप्रकाराऽस्ति जनेन्द्राणां द्रव्यास्तिकनयाभिप्रायेग ग्रहणात्, सदद्रव्यतया भेदाभावात्. पर्यायतः सङ्गव्यापरिमाणाकारभेदसद्भावात् भिन्नाभिन्नस्वभावेव शेमुषी. सा च भेदाभेदखभाव एव वस्तुनि व्यापारमासादयन्ती स्वात्मप्रतिष्ठा प्रतिलभत इति न किश्चिदनिष्टम् / यच्चोक्तम-"तुलानतिविशेषाग्रहणादनन्योऽवयव्यवयवेभ्य" इति, तदिष्टमेव, अन्यत्वस्य सर्वथा निषिध्यमानत्वात्, यतो विनाऽप्यवयविना संयोगमात्र तदर्थान्तरभूतमवातपरिणामाद् दशपलपरिमाणत्वमस्त्येवेति अतो नावयविकृतं पलदशकस्य दशपलपरिमाणत्वं, विनाऽपि तेनोपलभ्यमानत्वादेकादशपलेनेव, इतवावयवव्यतिरेकेणा पन्नवयवी, अनभिभूतगु णत्वे सत्यायवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुगत्यात्, तुरगभवयाचना वारणाद्यवयवव्यतिरेकेण सेनावत् / यदि च स्याद् रूपादयो पि च गुणा ऽनन्यत्वम् प गृह्यरनवयविनः पृथक्वेन, घटबदरादिवदिति व्यतिरेकः, विशेषणोपादानाद् विद्यमानेवभिभवादनुपलभ्यमानगुणत्वं तारकादिषु दृष्टमित्यनै कान्ति रुत्वव्यावृत्तिः, द्रव्यात्मना च तन्तुपरिणतौ पटपरिणामोऽस्त्येव, सुचिरादपि तत्र भावात्, पर्यायात्मना चाभावाद्, अतीतानागतपरिणामानामसत्त्वायव्यवहार्यत्वाद् वर्तमानपर्याय एव परमार्थतोऽस्त्युपयु 1. निरूपाख्य' इति क-पाठः / 2 'ग्रहणानान्या' इति क-ख-पाठः / Page #407 -------------------------------------------------------------------------- ________________ सूत्र 29) स्वोपज्ञभाष्य-रीकालङ्कृतम् 381 ज्यमानत्वात्, पटपरिणामकाले च द्रव्यात्मना तन्तुसद्भावात् पर्यायात्मना चाभावात्, सर्वेषामवयवावयविसमुदायसमुदायिगुणगुणिनामन्यत्वानन्यत्वमुभयनयापेक्षमेवाभिरूपधियो धिनोति, तस्मादनेकान्तवादिनः सूक्ष्मवादरप्रतिघाताप्रतिघातभेदसङ्घातकार्यकारणैकत्वान्यत्वादिविश्वप्रकारपरिणाममभ्युपयतो न किञ्चिदवद्यमाढौकते / एतेन द्रव्यपर्यायनयद्वयव्यावर्णनेन किमेकोऽवयवी स्वारम्भकावयवेषु प्रत्यवयवं वर्तते आहोस्विद् एकदेशेनेत्येषोऽपि विकल्पः सिद्धसाध्यतादिबहुदोषत्वादपास्तो वेदितव्यः, तस्मान व्यतिरिक्तोऽवयव्यस्ति निभाल्यमाना, समस्ति च द्रव्यांशः स्थितिलक्षणोऽन्वयी, तदपेक्षावुत्पादविनाशौ स्तः, अतः स्थित्युत्पादविनाशस्वभावमेव सर्वमर्थक्रियासमर्थन स्थिति निरपेक्षावुत्पादविनाशाविति / यदप्युक्तम्कल्पनामानं कारणं कार्यमिति प्रतीत्य प्रत्ययमात्रत्वात्, तदप्ययुक्तम्, करोतीति कारणं कार्यान्तरनिवर्तनसमर्थम्, क्रियायाः कारणान्तरापेक्षात्, कल्पना च बहिरङ्गार्थशून्यं विज्ञानमात्रं शब्दमात्रं वा, न च तस्य घटादि कार्यान्तरनिष्पादने शक्तिरस्ति, न च विज्ञानमात्रमेव ग्राह्यग्राहकलक्षणमर्थशून्यमस्तीति प्रतिपत्तुं शक्यम्, प्रमाणाभावात् , न च भ्रान्तिमानं कार्यकारणव्यवस्था, भ्रान्तिबीजाभावात, नापि शून्यता, प्रतिषेधप्रतिषेध्यादिसद्भावात् / व्यवहारतः सत्त्वमर्थानां न परमार्थत इति चेत् प्रतिषेधोपि तर्हि व्यवहारमात्रत्वादसन्नित्यप्रतिहतसद्भावात् कथं न भावा भवेयुः? न च रासभशृङ्गमसत् स्वतः परिकल्पितेन रूपेण मृत्खननादिकायोर्थमाचेष्टमानमिष्टं दृष्टं वा // दीर्घता च यदि स्वतोऽसती ह्रस्वबुद्धेः कारणं भवत्येवं सति व्योमारविन्दकर्णिकाऽपि हेतुरसत्त्वात् स्याद् हस्वताबुद्धेः, यदि चासत्प्रतीत्याऽसदेवोत्पद्येत तथा सति शशविषाणं प्रतीत्य खरविषाणमपि स्यात्, अथास्त्येव वस्तुनो दीर्घता, न तर्हि प्रतीत्यप्रत्यदीर्घहस्वत्वम यमात्रं सर्वम्, सतीमेव दीर्घतामाश्रित्य हस्वताधियोऽभ्युपगमात् दीर्घ हस्वबुद्धयोश्चायोगपद्यादयुक्ता प्रतीत्यसमुत्पत्तिः, न चासतः कारणभावः, यदि च सर्व प्रतीत्यैव सिद्धयति नाप्रतीत्य, ततः प्रतीत्यसिद्धिरपि प्रतीत्यसिद्धिप्रभावाऽभ्युपेया, तथा चाभ्युपगमविरोधः, तसादस्ति धौव्यांशलक्षणात् द्रव्यसत्ता, नापेक्ष्यसिद्धा, कारणमिति या व्यपदिश्यते, कारणसिद्धौ च कार्यसिद्धिरपि तदविनाभावात् , अन्यथा कारणव न स्यादसम्भाविततद्गत्वात् , पर्यायास्तूत्पादादयः केचिदपेक्ष्यसिद्धाः प्रयोगजाः पटादयः, केचिदनपेक्ष्यसिद्धाः स्वाभाविकाः परमाणुनीलताभ्रेन्द्रचापविद्युदादयः, एवं च स्वरूपसिद्धेः कारणकार्यप्रत्ययावसदर्थविषयौ न भवत इति सिद्धम् // ___ भाग्याक्षरानुसरणमधुना समातन्यते-उत्पादश्च व्ययश्च उत्पादव्ययो , समस्यैकत्वेन निर्दिष्टौ, ध्रुवतीति ध्रुवं-शाश्वतं तद्भावो ध्रौव्यं स्थिरता, उत्पादव्यउत्पादादिपदानामर्थः योव्याणि, युक्तं योगः-समुदायः सत् अस्तीति सद, विद्यमानमि त्यर्थः / एतदुक्तं भवति-उत्पादादयो नैककाः सत्, किं तर्हि 1 युक्तं 'पभ्युपेयवे' इति क-पाठः / Page #408 -------------------------------------------------------------------------- ________________ 382 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 योगः-परस्परापेक्षः समुदाय एवोत्पादादीनां, न सदित्यस्य ध्वनेविषयः, यथा वृक्षा वन समुदिता एव नैककाः, एवमुत्पादव्ययध्रौव्याणि योगः सदिति, अथवा समाध्यर्थस्य युजेयुक्तं समाहितं त्रिस्वभावं सत् उत्पादव्ययधौव्याण्येव त्रयः स्वभावाः सम्यगाहिताःपरस्परप्रतिबद्धाः सदिति / अन्ये तूत्पाव्ययध्रौव्यैर्युक्तमिति गृह्णने, किं पुनस्तदुत्पादादिभियुक्तमिति निरूपणीयम् , उत्पादादित्रयव्यतिरेकेण द्रव्याभावान विद्यः किं तद् युज्यमानमुत्पादादिभिः / अपरे समाधानमाक्षेपस्याभिदधते // युक्तं विशेष्यते उत्पादव्ययध्रौव्यैः समुदितैर्यो योगस्तद् युक्तं सत् , नान्याभ्यामुत्पादव्ययाभ्यामित्यादिको योगः सदिति, योगध सामान्येनोत्पादादीनामनादिर्विशेषविवक्षया सादिः, ध्रौव्यं चेति पृथक् प्राधान्यख्यापनाय सामान्यस्य भाष्यकृतोदचारि, यतः सत्यन्धयांशे तदाश्रयावुत्पादविनाशौ सङ्गच्छेते, अन्यथा कस्योत्पादः ? कस्य चानुत्पन्नस्य तेनाकारेण व्ययः // अपरे तु धौव्यं चेत्यसमस्ततामन्यथा वर्णयन्ति त्रैलक्षण्ये सतः सादिः, कथं सन्न त्रिलक्षणम् / ध्रौव्यं तल्लक्षणत्वेन, द्रव्यार्थेन त्रिषदितम् // 1 // अत एव पृथग वृत्ती, ध्रौव्यं चेति प्रदर्शितम् / / सत् त्रिरूपं त्रयं त्वेतत् , सम्भवेन विकल्पते // 2 // आधयोर्नियमादन्त्य-मन्त्ये तु भजनाऽऽद्ययोः / स्वतः परनिमित्तौ तु, स्यातामप्युपचारतः // 3 // अस्ति नोत्पद्यते चैक-मेकमुत्पद्यतेऽस्ति च / नास्ति चोत्पद्यते चैकं, नास्ति नोत्पद्यते परम् // 4 // आकाशपरमाणू च, प्रदीपान्त्यशिखादि च / आकाशकुसुमं चेति, चतुष्टयमुदाहृतम् // 5 // सङ्कपतः कारिकापञ्चकस्यायमर्थः-पुद्गलजीवेषत्पादव्यययोरन्यादृशत्वाद् ध्रौव्यस्य पञ्चत्वेऽप्यविशेषाद् वृत्तौ पृथप विवरणम् , अन्यथा धर्माधर्माकाशेष्यधिगमोपायविषयत्वेनोत्पादप्रच्युती, अन्यथा च जीवपुद्गलेविति द्रव्यक्षेत्रकालभावापेक्षात्, अन्यथा प्रयोगजावुत्पादव्ययौ, अन्यथा च धर्मास्तिकायादिषु द्रव्यस्वभावापेक्षमप्रयोगजौ ज्ञानविषयत्वोत्पादप्रच्युतिमात्रलक्षणौ, नहि तेषु पौरुषेयो विलसा वा प्रयोगः क्रमत इति, अतः परप्रत्ययावुत्पादविनाशी त्रयाणाम् , जीवपुद्गलानां तु प्रयोगविस्रसाभ्यामुत्पादव्ययौ सम्भवतः, ध्रौव्यं तु सर्वेष्वविशिष्टम् , एतत् सतो लक्षणं कचिदुपचारतः कचित् परमार्थत इति, तदेतत् पौर्वापर्येणालोच्य कृ. तप्रज्ञैरागमज्ञैरेव व्याख्यास्यते निर्विरोध, वयं तत्रानिपुणाः किश्चिदेवस्थलकुशलतयाऽभिदध्म हे-चशब्दः समुचितौ वर्तते, तेनोत्पादादयः प्रत्येकं सतो लक्षणं, किं तर्हि ? समुदिता एव वस्तुतत्त्वं भवन्तीति, एनमेवार्थमुत्तरेण भाष्येण प्रदर्शयति-यदुत्पद्यते यद् व्येति यच्च Page #409 -------------------------------------------------------------------------- ________________ सूत्र 29] स्वोपज्ञभाष्य टीकालङ्कृतम् 383 .ध्रुवं तत् सत् / अतोऽन्यदसदिति // यदुत्पद्यते इत्यादि / यदिति सामान्यमात्राभिधायिना सर्वनाम्ना धमास्तिकायादिपञ्चकपरिग्रहः, परस्परापेक्षाः समुदिता एवोत्पादादयः सल्लक्षयन्ति, तत्र द्रव्यनयाभिप्रायेणाकारान्तराविर्भावमात्रमुत्पाद औपचारिकः, परमार्थतो न किश्चिदुत्पद्यते सततमवस्थितद्रव्यांशमात्रत्वात् , तथा व्ययः-तिरोभावलक्षणः, पूर्वावस्थायास्तिरोधानं विनाशः, यतो द्रव्यमेव तथा तथा विवर्तमानमुत्पादविनाशव्यवस्थया व्यपदिश्यते, प्रज्ञायते च पूर्वक्षणोच्छेदेन क्षणान्तरात्मलाभ उत्पादपर्यायस्य, तस्यैव क्षणस्य निरन्वयोच्छेदिता विनाशः, द्रव्यास्तिकस्य ध्रौव्यमन्वयी सामान्यांशः, पर्यायस्योपचाराव, सन्तानमात्रं ध्रौव्यशब्दाभिधेयमेकः सन्तानस्तद्वलेन च प्रत्यभिज्ञादिप्रसिद्धिः, तदेतत् त्रितयमपि प्रतिपादयत्युभयनयसङ्गत्या वस्तुसद्भावप्रतिपत्तये, न ध्रौव्यमुत्पादव्ययशून्यं केनचित् प्रमाणेन गोचरीकर्तुं शक्यते, नाप्युत्पादव्ययौ सामान्यांशवियुताविति, यदुत्पद्यते यद् व्येति यच्च ध्रुवं तत् सद् विद्यते तदस्तीति, सामादिदमापन्नम्-अतोऽन्यदसदिति, अत इत्युत्पादादिसमुदितस्वभावाद् यदन्यत् तदसत्, तच्च किं ? समुदायादपकृष्ट एकक उत्पादो वा विनाशो वा ध्रौव्यं वा उत्पादविनाशौ वा उत्पादध्रौव्ये वा, विनाशध्रौव्ये वा, इतरनिरपेक्षस्य तादृशांशस्याभावादसद्विषयत्वमसयवहारप्रतिबन्धिता चेति नानुपाख्योऽसच्छब्दवाच्यः, शब्दव्यवहारायोग्यत्वात् // ननु च द्रव्यपर्यायनयो स्वतन्त्रत्वात् द्वावपि विजिगीषू स्वविषयोपमर्द परस्परं न सहेते, ततश्च पुनरपि सीमन्तितमेव वस्तु न वस्तुतायामवतिष्ठतेति / उच्यतेपर्यायनयस्य तावदुत्पादव्ययलक्षणस्य स्वातन्त्र्यं नास्ति द्रव्यास्तिकेनाङ्कुशितत्वात् / नद्युत्पादो नाम कश्चिद् धर्मोऽस्त्यभूतभवनात्मकः, स चोत्पादो द्विधा कल्प्येत-प्रायोगिको वैस्रसिकश्च, प्रायोगिकः पुरुषकारनिर्वयः, सोऽपि द्विधा-अनभिसन्धिउत्पादादेर्भेदाः कृतोऽभिसन्धिकृतश्च, तत्राद्यः कायवाक्स्वान्तभेदेन पञ्चदशप्रकारः, ते च कायादयः समुदायात्मकाः, समुदायश्वासन् सार्थरथचक्रादिवत्, स्वाङ्गसमुदायमात्रत्वान्न सार्थो नाम कश्चित् परमार्थतोऽस्ति, रथो वा पुरुषकूवरादिव्यतिरिक्तः, स चाभावत्वात् सार्थरथादिः कथमुत्पद्येत ? एवं कायादयोऽपि पुद्गलसमुदायरूपाः, समूहश्च समूहिमात्रमतस्तत्रापि न कस्यचिदुत्पादः, कायादेः परमार्थतोऽसत्त्वात्, अभिसन्धिपूर्वकस्तूत्पादः कायादियोगात् समावास्यादिकरणापेक्षात् स्तम्भकुम्भादीनां प्रेक्षापूर्वकारिपुरुषक्रियाजन्यत्वात् प्रयोगजः, सोऽप्येवमेव समुदायविषयः समुदायश्चासत्त्वादेव नोत्पद्यत इत्युत्पादाभाव एव, अन्वयांशनिरपेक्षत्वान्न प्रायोगिक उत्पादः सम्भवतीत्यर्थः। वैससिकोऽपि नास्त्युत्पादः, विस्रसेति स्वभाववचनसंज्ञाशब्दः, स्वाभाविको वैस्रसिकः, तत्र धर्माधर्मव्योमात्मपुद्गलद्रव्याणामिमा वृत्तयो यथाक्रमं स्थितिगत्यवगाहोपयोगस्पर्शशब्दादिलक्षणाः स्वसद्भावाः, नहि तेषां धर्मादीनां गत्यादयो धर्माः पर्याया वा भवन्ति, यदि भवेयुस्त 'वासादि ' इति क-पाठः। Page #410 -------------------------------------------------------------------------- ________________ 384 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 तस्तेषामेतद् विलक्षणमन्यदेव रूपं स्याद गत्याधुत्पादसद्भावे, न चान्य रूपं लक्ष्यते भुजगप्रसारणाकुण्डलि हतोत्फणविफणादिवत्, फणिनो हि स्वभावभूताकृतकसंस्थानान्तराभिव्यक्तिमाप्रत्वात प्राच्यफणिरूपानन्यत्वात् तद् द्रव्यावस्थानात कुत उत्पादः 1 किं हि तत्रोत्पन्नं विद्यमान वा नाभिव्यक्तमित्यत उत्पादाभाव एव, इत्येवं धर्मादीनामपि गत्यादीनामुत्पादाभावः स्वरूपावस्थानान्तरमात्रत्वाजलतरङ्गतुहिनपटलादिवत् , कुतः स्वाभाविक उत्पादः / न चोत्पादस्यान्यः प्रकारो विद्यत इति, तस्मान्नेवास्त्युत्पादः / एवं द्रव्यपयोयनयद्वयापेक्षमस्तित्वमुत्पादस्य नास्तित्वं च भावितमात्मपुद्गलद्रव्य विषयम् // अथाकाशधर्माधर्मेष्वविक्रियात्मकेफुत्पादस्याभावात् कुतस्तत्रोत्पादानेकान्त इति ? / उच्यते-तेष्वपि स्वाभाविक उत्पादः समुदायजनितः एकत्विकश्च द्विप्रकारोऽप्यस्ति भजनया / यथैव ह्यात्मन्यौपशमिकादीनां भावानामात्मन एव तेन तेनाकारेण वृत्तिरुत्पादः, स्पर्शादीनामणुषु, स्पर्शशब्दादीनां च स्कन्धेषु स्वाभाविक उत्पादस्तथा व्योमादिष्ववगाहगतिस्थितयो व्योमादिस्वभावास्तेषां परिणामाः, त एव ह्याकाशादयो ऽवगाहाद्याकारणोत्पन्नाः, तस्य चावगाहादेरुत्पादस्य प्रदेशरूपता यथाऽऽत्मनोऽसङ्ख्याताः प्रदेशास्तत्समुदायश्चात्मा भवति, आकाशस्य चाकाशत्वं स्वाभाविकमकृत्रिममेव, यस्तस्यावगाहोत्पादोऽसावप्यकृत्रिमत्वान साभाविक एव, यस्मादाकाशं शुषिरमवकाशदातृत्वस्वभावम्, तथा धर्माधर्मो गतिस्थित्यनुग्रहहेतुस्वभावौ,आत्माऽपि ज्ञानात्मकत्वादुपयोगस्वभावः,पुद्गलाश्च मूर्ति त्वात् स्पर्शादिस्वभावाः / एवमवगाहादेरुत्पादस्य स्यात् स्वाभाविकत्वम् , तथा स्यादस्वाभाविकत्वं समुदायकार्यत्वात् / यथा पटो भूयसां तन्तूनां समुदायेन जन्यते, अवगाहादेरपि यथोक्त उत्पादः समुदायजन्यत्वादस्वाभाविकः / यस्मादवगाहोऽवगाह्यावगाहकद्वयसमुदायात्मकः, गतिरपि गन्तृधर्मद्रव्यद्वयसमुदायात्मिका, स्थितिरपि स्थात्रधर्मद्रव्यद्वयसमुदायस्वभावा, उपयोगो विज्ञाज्ञेयसमुदायात्मकः, स्पर्शादयोऽपि स्पर्शनादिस्पृश्यादिसमुदायात्मकाः, तस्मात् समुदायात्मकत्वात् स्यादस्वाभाविकः, समुदायनिरपेक्षाणामेपामवगाहादीनामभावादेवं स्यात् समुदायकृतः स्यादेकत्विकः, कथम् ? उत्पादो शवगाहस्याकाशेऽवगाहकानुप्रवेशे व्यक्तिः, सा च व्यक्तियोमन्येव नान्यत्रापि, तस्य तु व्यञ्जकमेवावगाहकं नोत्पादकम्, व्यञ्जकं चाकाशादन्यदेव भवति, व्यङ्ग्याद् घटादेखि प्रदीपादि, ततश्चावगाहस्यैकत्विक उत्पादः, स्यादनकत्विकः प्राक् प्रतिपादितवत्, ततश्च नभोऽवगाहोऽप्यनित्य एव गुणत्वात् पत्रनीलतावत, नमसोऽवगाहत्वलक्षणमुपकारः, स चावगाढारमन्तरेण जीवं पुद्गलं वा नामिव्यज्यत इति अवगाढजीवादिसंयोगमात्रमवगाह इति सिद्धम् / संयोगश्चोत्पादी संयुज्यमानवस्तुजन्यत्वात् घगुलसंयोगवत्, यथा चावगाह आकाशस्यैवं गतिस्थित्युपयोगरूपादयो गतिमदादिद्रव्यसंयोगमात्रत्वादुत्पादादिस्वभावा इति सर्वेऽप्युत्पादविगमधुवस्वभावा इत्यर्थः / न च पर्यायादास्मीयात् किश्चिद् द्रव्यमेकान्तभिन्नमुपलभ्यते, यत् सम्भाव्येत तस्मिन् पर्याये परस्वभावभूते 1 'कुण्डलिकाता' इति क-ख-ग-पाठः। २'वादद्वव्या' इति क-ख-पाठः।३ 'विकंन कृत्रिम इति क-पाठः। Page #411 -------------------------------------------------------------------------- ________________ सूत्रं 29] . स्वोपज्ञभाष्य-टीकालङ्कृतम् विनष्टेऽप्यविनष्टमेकान्ताविष्कृतं नित्यमिति, यस्माच्च पर्यायादनन्यद् द्रव्यं तस्मात् तत्पर्यायनाशे तेनात्मना तद् द्रव्यं नश्येत् नान्यपर्यायात्मना, अनेकपर्यायानन्यरूपत्वादनेकात्मकत्वादेकेनात्मना नश्यत्यन्येनात्मनोत्पद्यतेऽन्येन चात्मना ध्रुवमङ्गुलित्ववक्रत्वर्जुत्ववद् बहुत्वाचात्मनामेकवस्तु विषयाणामेकस्य वस्तुनः,तस्मात् कथमिवैकान्तेनाकाशादयो नित्या प्रतिपत्तुं शक्याः? स्थाद्वादस्य देशवर्तित्वप्रसङ्गात्, आकाशादिष्वौपचारिकावुत्पादविनाशौ स्यातामिति चेत्, तदयुक्तम्, उपचारो यद्यलीकत्वम्, एवं सति ध्रौव्यमेवाकाशादिष्ववशिष्यते, न च धौव्यं परमार्थरूपोत्पाद विनाशशून्यम् अपिच-आकाशादिधौव्यं पारमार्थिकानुपचरितोत्पाद विनाशसम्बन्धि ध्रुवत्वात् पुद्गल जीवध्रुवत्ववत् / अथ व्यवहार उपचारः तथापि स व्यवहारः आगमपूर्वको वा स्यालोकप्रसिद्धिपूर्वको वा ? / तद् यदि तावदागमपूर्वकस्ततो भगवताऽऽख्यातं जगत्स्वरूपं प्रश्नत्रितयेनो पादादिना, न च कचिदुपचारेण कचित् परमार्थत इत्यनागध्रौव्यसिद्धिः ममाकाशादौ ध्रौव्यमेवेति, लोकप्रसिद्धयङ्गीकरणे धर्मादिद्रव्याप्रसिद्धिरेव कुतस्तदाश्रयावुत्पादविनाशाविति दूरापास्तं धर्मादिद्रव्यध्रौव्यम् / एवमुपादव्ययध्रौव्ययुक्तं सत्सर्वमिति व्यवस्थितं लक्षणम् // एवमुत्पादमभिधाय सप्रपञ्चमधुना विनाशविचारः क्रियते / विनाशोऽपि द्विविधःसमुदायविभागमात्रमथान्तरभावगमनं च, तत्र समुदायविभागलक्षणो द्विधा-स्वाभाविक प्रायोगिकश्च, स्वाभाविको जीवव्यापारनिरपेक्षः, प्रायोगिकस्त्वात्मव्यापारादुपजातः / तत्र स्वाभाविको धर्माधर्माकाशजीवपुद्गलद्रव्याणां द्रव्यात्मनाऽवस्थितानामेव, यथा गतेरधोगति परिणामविशेषनाशादध्वगतिपरिणामे नोत्पादः, तथा कचिद् देशेऽवविनाशे भेदाः स्थितस्य तद्देशावस्थानविनाशेऽन्यदेशावस्थानोत्पादः, खस्यापि क . चिद् देशेऽवगाहस्य तद्देशावगाहविनाशे देशान्तरावगाहोत्पादः, तथाऽऽत्मनः केनचिदुपयोगेनोपयुक्तस्य तदुपयोगविनाशादुपयोगान्तरेणोत्पादः, पुद्गलद्रव्यस्यापि वर्णान्तरेण प्राक् परिणतस्यापि तद्विनाशे वर्णान्तरेणोत्पादः, स चैषां पूर्वावस्थाविनाशः, समवस्थानान्तरस्योत्पादसंज्ञकस्याभिव्यक्तिकारणं, समवस्थानान्तरमेव हि तिरोभूतं विनाश उच्यते, नहि तत्र किञ्चिद् विद्यमानमभावीभूतमतो द्रव्यात्मस्थिततायामेवोत्पतनव्यक्त्यर्थ सर्पनिपतनविनाशवद् , उत्पतनव्यक्तये सर्पस्य निपतनमेव विनाशः, तस्माद् द्रन्यस्वतत्त्वोत्पादाविनाभूत एव विगमः, नार्थान्तरम्, यथा पटे तन्तूनां विभागेन पटकार्योत्पत्तावविनष्टं तन्तुद्रव्यत्वम्, तदेव प्रत्यक्षीक्रियते यत् तेन पृथक तन्तुभावेन प्राग् नासीत्, एवं समुदायविभागमानं विनाशः / तथाऽर्थान्तरभावगमनमन्यो विनाशः, यदा मनुष्यजन्मन्यात्मपुद्गलसमुदायो विनश्यति तदार्थान्तरभूतेन देवत्वादिना वर्तते, नात्यन्ताभावतया, यथाऽहंद्दत्तस्य स्थावृक्रियाविशिष्टस्य तक्रियाविनाशे गन्तृतयोत्पादोऽर्थान्तरगमनं विनाशः, यथा 1 . दनेकश्चादेकेना' इति क-पाठः। 2 'गन्तृत्वेनार्थान्तर' इति क-पाठः / Page #412 -------------------------------------------------------------------------- ________________ 386 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 वा घटोपयुक्तस्यात्मनस्तदुपयोगविनाशे पटोपयोगोऽर्थान्तरभावगमनम्, अण्वादेश्च शुक्लवर्णविनाशे कृष्णतयोत्पादो विनाशः, तथाऽऽकाशादीनां पूर्वावगाहगतिस्थितिविनाशेऽवगाहान्तराऽर्थान्तरभावलक्षणो विनाशः, अत एव भावान्तरोत्पत्तितो न विगमो विगम एवैकान्तेन, नाप्युस्पद एवोत्पादः / इत्थमुत्पादविगमो तत्त्वेनानेकान्तात्मकेन निरूपितावन्वयांशापेक्षावेवात्मलाभं प्रतिपद्यते प्रायोगिकस्वाभाविको नान्यथेत्येवमुक्ते कश्चिन्मृपाभिमानी महानिबिडवृद्धबुद्धविप्रलब्धबुद्धिराचक्षीत-अस्तु स्वाभाविक एव विनाशो निर्हेतुकः, प्रायोगिकस्तु नोपपद्यते, विनाशहेत्वयोगात् , विनश्यतां हि घटादीनां विनाशस्य हेतुर्न युज्यते, यस्मात् स्वरूपत एव भावा नश्वराः स्वहेतुभ्यो यथास्वमुपजायमाना भङ्गुरप्रकृतय उपजननक्षणानन्तरकालानवस्थाना एव जायन्ते, नैषां स्वकारणसामग्रीतः प्रतिलब्धात्मनां सतां प्रकृतिभङ्गुरभावमपहायान्यस्मा न्मुद्रादेः कारणविशेषान्नाशस्य वस्तुन इवोत्पत्तिः, न चेदं स्वप्रक्रिया- ' निर्हेतुकनाशपक्षः प्रकाशमात्रम् , किं तर्हि ? उपपत्त्या निभाल्यते विनाशहेतुत्वेनाभिमतस्य नाशकरणं प्रति मुद्गरादेरसामर्थ्यम्, कथं पुनरसामर्थ्यमिति? उच्यते-विनाशकरणे हि विनाशस्य त्रयी गतिः-विनश्यमानभावस्वभावं वा कुर्यादथवा स्वभावान्तरमभावं वा, तत्राव्यतिरेकपक्षस्तावदतिस्थूल एव, नहि विनाशहेतुमेद्रादिः घटादिकं भावस्वभावमेव करोति, स्वकारणेभ्य एव कुलालादिभ्यस्तस्य प्रथममेव निवृत्तत्वात् निष्पन्नस्य चाकि श्चित्कार्यत्वात्, नापि स्वभावान्तरे कर्तव्ये तदवस्थस्य घटादेरविचलस्य विनशितुर्विकारोऽपि सम्भाव्यते, कुत एव तत्स्वभावप्रच्युतिः 1 तदवस्थश्च घटः पूर्ववदुपलभ्येत, अर्थक्रियां च जलहरणादिकां कुर्वीत // ननु चारित्याद् घटादेरर्थान्तरं कपालायेव विनाशस्तेन च विनाशहेतुनिष्पादितेन भावस्यावृत्तत्वान्न तथोपलब्ध्यादिप्रसङ्ग इति, उच्यते- न स्वभावान्तरं कपालादिकं विनाशहेतुना क्रियमाणमस्यानित्यस्य घटादेरावरणं युज्यते, कृतेऽपि तस्मिन् कपालादिके विनाशहेतुना घटे च तदवस्थ एव दृश्यात्मनि कुतस्त्य आवरणसम्भवः? न चैककदा युज्यते दर्शनादर्शने, विरुद्धत्वात् / नापि विनाशहेतुना तृतीयपक्षापतितो भावाभावः क्रियते, सत्र यद्येवं विकल्प्यते न विवक्षितो भावः अभाव इति ततोऽन्यः स्याद् भाव एव, एवं चाभावस्य विधिना पर्युदासरूपेण कार्यत्वाभ्युपगमे व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः सम्भाव्यते, यदि व्यतिरिक्तमन्यं भावं करोति ततस्तथोपलब्ध्यादिप्रसङ्गस्तदवस्थः, अथाव्यतिरिक्तं तमेव भावं करोतीति तदप्ययुक्तम्, तस्य प्रथमतरमेव स्वकरणैर्निवर्तितत्वात् // अथ क्रियाप्रतिषेधमात्रमालम्ब्यते, एवं सति अभावस्य भावप्रतिषेधरूपत्वेऽभ्युपेयमाने अभावं करोतीत्यसमर्थसमासेनोक्तं भावं न करोतीत्ययमर्थः सम्पद्येत, तथा च सति अकर्तुनाशहेत्वभिमतस्याहेतुत्वमकारकत्वमिति न विनाशहेतुर्नाम कश्चन सम्भवत्यन्यत्र विनष्टुस्तद्धर्मताया इत्युपसंहारः, वैयचिन . विनाशहेतुरस्ति, यस्य भावस्य विनाशाय विनाशहेतुः कल्प्यते स भावः स्वभावतो नश्वरः स्यान्न निभाज्यते ' इति क-ख-पा। २'लभ्यार्थकिया' इति 4.-ख-पाठः / Page #413 -------------------------------------------------------------------------- ________________ सूत्र 29]. स्वोपज्ञभाष्य-टीकालङ्कृतम् वा ? यदि नश्वरः स्वभावत एव भावस्तन्न किश्चिद् विनाशहेतुनाऽस्य प्रयोजनम् , स्वयं तत्स्वभावतयैव नाशात, यस्य हि घटादेर्यः स्वभावः रा स्वहेतोरेव मृदादिसामग्र्यादिकादुपजायमानस्तादृशो विनाशस्वभावो भवति, न जातुचिद् विनाशे हेत्वन्तरमपेक्षते मुद्गरादिकम्, तत्स्वभावो ह्यात्मलाभानन्तरं स्वयमेव भवत्यन्यथा तत्स्वभाव एव न स्यात्,यश्च यत्स्वभावः स स्वनिष्पत्तिहेतुमपहाय हेत्वन्तरं नापेक्षते प्रकाशादिवत्, प्रकाशादयो हि प्रकाशादिस्वभावाः स्वहेतोरुत्पन्नाः सन्तः पुनरुत्पत्तेः पश्चात् प्रकाशादिस्वभावतायां स्वजन्मव्यतिरिक्तं न हेत्वन्तरमपेक्षन्ते // अथ नैव स्वभावतो नश्यति भाव उत्पन्नः ततः पश्चादपि न नश्येदनश्वरस्वभावत्वात् / न च तादृशोऽर्थक्रियासु सामर्थ्य सम्भाव्यते / तदेतदयुक्तं स्वगोष्ठरमणीयं प्रकाशनमात्रत्वात, न धनुपपत्तिकमभिधीयमानं विचित्रमपि प्रतिपत्तुमुत्सहन्ते विद्वांसः, प्रकृत्यैव भशुराः सर्वभावा विनाशहेत्वयोगादित्यसिद्धता हेतोः, यस्मादयं विनाशः कदाचिदेव भवत्युपजननक्षणोत्तरकलं नोपजननक्षण एव, उपजननक्षणश्चात्मलाभकालस्तत्र विनाशाभावात् कादाचित्कत्वं विनाशस्य निर्हेतुकविनाशवादिनोऽपि प्रसिद्धम्, न ह्यलब्धात्मलाभं वस्तु विनश्यति, व्योमकुसुमादीनामपि विनाशप्रसङ्गात, ये च कादाचित्काः पटादयस्ते प्रतिविशिष्ट हेतुजन्या एव दृष्टास्तथा विवादास्पदास्कन्दी विनाशोऽपि प्रागविद्यमानः पश्चादात्मसहेतुकता नाशस्य लाभहेतुमपेक्षमाण एवात्मानमासादयति // ननु चैवमभ्युपेयमाने विना शस्यापि हेतुमत्त्वात् पटादेखि विनाशेन भवितव्यम् , असत्त्वाच निष्कारणो विनाशः खकुसुमादिवदित्यनुमानविरोधिनी प्रतिज्ञेयं कारणवान् विनाश इति / अत्रोच्यते-पूर्वावस्थाप्रच्युतिरुत्तरावस्थोत्पत्तिः उत्तरावस्थापत्तिश्च पूर्वावस्थानच्युतिः, अयमेव विनाशशब्दवाच्योऽर्थो नात्यन्ताभाव इति प्राक् प्रत्यपादि प्रपञ्चेन, ततश्च विनाशस्यापि विनाश इति प्रसिद्धमेव प्रसाध्यते, विनष्टे च विनाशे पुनरवस्थान्तरोत्पत्तिक्रमवृत्त्या न किञ्चिदनिष्टमस्ति स्याद्वादप्रक्रियायाम्, अत एव चासत्त्वान्निष्कारणो विनाश इत्येतदप्यपास्तमेव, असवस्यासिद्धतादिदोपाघ्रातत्वात्, न चावश्यं सर्वेणैव हेतुमता विनष्टव्यम्, अस्मत्पक्षे स्वात्मावस्थानलक्षणस्य मोक्षस्य सम्यग्ज्ञानादिहेतु कस्याप्यविनाशाभ्युपगमात् / यद्यपि सम्यग्ज्ञाना'दिर्हेतुः कर्मक्षपणाभ्युपायस्तथापि स्वात्मावस्थानस्य कर्मक्षयरूपत्वाददोषः, विनाशवान् विनाश इति चाभ्युपयतः सौगतस्याभ्युपगमविरोधः / निष्कारणविनाशवादी चेदं प्रष्टव्यःकिं निष्कारणत्वान्नित्यो विनाशः उतासन्निति ? / तत्र यदि नित्यः, कार्योत्पादाभावप्रसङ्गः, द्वितीयविकल्पे विनाशाभावात् सर्वपदार्थानां नित्यत्वप्रसङ्गः / न चासन् सर्व एव निष्कारणः, स्तम्भकुम्भादीनामसत्त्वेऽपीतरेतरात्मना हेतुमत्त्वमस्तीत्यनेकान्तात्, यथा चानादित्वात प्रागभावो निर्हेतुकोऽपि विनश्यत्येवं विनाशोऽसन्नपि हेतुमान् किमिति नेष्यते / एवं द्रव्यपर्यायात्मकप्रक्रियाप्रपञ्चे विश्वमुखे सर्वमेवैकान्तवाद्युत्प्रेक्षितमसाधनमेव जायते स्या १'दिहेतुः' इति ग-पाठः। २.पीतरात्मना' इति ग-पाठः। 3 'यथा वा' इति क-पाठः / Page #414 -------------------------------------------------------------------------- ________________ 388 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 द्वादिनं प्रति, विनाशे च सहेतुके प्रतिपादिते यदुक्तं-मुद्गरादेरसामर्थ्य विनाशकरणं प्रति तदयुक्तम् / अस्त्येव हि सामर्थ्य तद्भावभावितया कपालाद्युत्पत्तेः, विकल्पत्रयं च सुकुमारप्रज्ञेन प्रमाणविचारपरिक्लेशासहिष्णुना यथाकथञ्चिदुपन्यस्य प्रथमविकल्पोऽतिस्थूल इत्येवोपेक्षितो मनागागतत्रपेण, तथा द्वितीयविकल्पः स्वभावान्तरं किल क्रियते विनाशहेतुना, घटतादवस्थ्ये तु सकलघटनिष्पाद्यजलधारणादिक्रियाप्रसङ्ग इति शापदानमुदघोपि / एतच विकल्पद्वयं न जाने किं प्रथमतरमेव मायासूनुनोत्खातमुत्पन्नसर्वार्थज्ञानेनाहोस्विद् भिक्षुवरधर्मकीर्तिनैव स्वयमुत्प्रेक्षितमिति यत् सत्यं विस्मिताः स्मोऽनया वाचोयुक्त्या, किं विनाशहेतुर्घटमेव करोति उत स्वभावान्तरमिति ? यद् विनाशहेतुना क्रियते तदेवैकं न व्यपादेशि गलितधिपणेन, घटविनाशहेतुर्घटविनाशमेव करोति, स चोक्तोऽवस्थान्तरापत्तिलक्षणः प्रथममेव, अभावविकपेऽपि पयुदासाभ्युपगमे किल विवक्षिताद् भावादन्यं भावमेव करोति, ततश्च पूर्ववद् व्यतिरेकाव्यतिरेकविकल्पानतिक्रमः, व्यतिरेकाव्यतिरेकविकल्पौ च विहितप्रतिक्रिया प्राग्र विकल्पाभासत्वाचायुक्तौ, प्रसज्यप्रतिषेधपक्षे त्वभावं करोति, भावं न करोतीति वाक्यार्थः, तदेत' दयुक्तम्, असत्प्रक्रियानवबोधात्, जैनी प्रक्रिया द्रव्यपर्यायावुभौ वस्तु भावाभावस्वभावं, न चाभावः कश्चिद् भावानि ठितः सम्भवति यं विनाशहेतुः करिष्यति, न चास्ति काचित् क्रिया द्रव्यादत्यन्तव्यतिरिच्यमानस्वभावा यस्याः प्रसज्यप्रतिषेधेन निवारणा क्रियेत, द्रव्यमेव हि तथोद्भुतपरिणामं क्रियाव्यपदेशमश्नुते द्रव्यनयस्य, पयुदासो हि विधिरूपत्वाद् द्रव्यास्तिकः, इतरः पर्यायनयः प्रतिषेधमात्रत्वात्, एतौ च परस्परापेक्षावेव च वस्तु नैकको, ततश्च विभागाभावादसद्विकल्पता / अपिच भावो वस्तु परिनिष्पन्नं, तस्य कुतः कारणेनाभिसम्बन्धः? पूर्वोत्पादार्थत्वात् करोतेः, अथ प्रष्टुं कुर्वित्युपचारः, तथापि यत् किश्चिद्भावस्य करणम्, अभावश्चापरिनिष्पन्नमवस्थान्तररूपं वस्तु, तन्निष्पादनाय यत्नः क्रियते, तच्च नात्यन्तमसन्न सर्वथा सदित्यभाव विशिष्टस्यैव वस्तुनो वस्तुत्वात् / यदप्युक्तं-वैयर्थ्याच न विनाशहेतुरिति तदप्यसमीक्षिताभिधानम्, अस्मत्प्रक्रियानवगमात् / वैससिकः प्रायोगिकश्च द्विधा विनाशः, तत्र प्रायोगिकः कादाचित्कत्वात् पटादिवत् सहेतुकः, न च दृष्टमपनोतुं शक्यं, प्रमाणतः पदार्थस्वसपावबोधात, आत्मलाभसमनन्तरमेव च सर्वथा विनश्यन्ति पदार्था इति न किञ्चिदस्मिन्नर्थे प्रमाणमस्ति, कालान्तरावस्थायिनि च विनाशे प्रत्यक्षबुद्धेापारः / यच्चावाचि-प्रकाशादयो लब्धात्मलाभाः प्रकाशादिस्वभावतयां स्वजन्मैवापेक्षन्ते, नापरं हेत्वन्तरम्, एतदप्यसङ्गतम्, यदि प्रकाशादय उत्पन्नाः पुनरुत्पत्ती हेत्वन्तरं नापेक्षन्त इति वाक्यार्थः ततः किं केन सङ्गतम् ? न [त्पन्नः पदार्थस्तेन रूपेण पुनर्हेतुमभिलपति, लब्धात्मलाभः कालान्तरे हेतुमपेक्ष्य विनश्यतीति जागंद्यामहे // ननु च स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति येनोत्पत्तिसमनः 1. लक्षणात् प्रथम' इति क-ख-पाठः। 2 'कल्पासत्वात् इति क-ख-पाठः। 3 'कल्पना ' इति क-पाठः। 4' पृष्टं' इति ग-पाठः। 5 'कारणं' इति क-ख-पाठः। 6 'जगद्यामहे ' इति ग-पाठः। Page #415 -------------------------------------------------------------------------- ________________ सूत्र 29] स्वोपज्ञभाष्य-टीकालङ्कृतम् न्तरमेव विनश्यतीति, अयुक्तमिदम् , प्रतिज्ञामात्रत्वात् , वयमपि ब्रुमः-स स्वहेतुरेव तादृश उपजायते येन कालान्तरमवस्थाय विनश्यतीति, अत्र च पक्षे प्रत्यक्षाद्यपि प्रमाणं सहायीभवति // ननु च निष्कारणविनाशवादिनामियं युक्तिः-" नष्टा चेन्नाशविघ्नः कः ? न चेन्नैव विनयति" इति, प्रतिकृतविधानैषा युक्तिः, “प्रागभूतात्मलाभत्वान्नाशः कारणवान् भवेत्" इति / स्वभावश्च वस्तुनो धर्मः परिणतिविशेषः, स च कश्चित् सादिवर्णादिपरिणामः, कश्चिदनादिः सत्तामूर्तत्वामूर्तत्वापरिणाम इति, अतोऽनेकान्तेनैव यो यत्स्वभावः स सर्वदा तत्स्वभाव एव कदाचिन्नश्यति कदाचिदवतिष्ठते कदाचिदुत्पद्यत इत्यलमतिप्रसङ्गेन / स्थितमिदम्-प्रायोगिकोऽप्यस्ति विनाश इति / ऐतेऽवस्थित्युत्पादविनाशास्त्रयोऽप्येककालाः विभिन्नकालाश्च परस्परतोऽनर्थान्तरमर्थान्तरं च, तत्रोत्पादविनाशयोरे. ककालतायां सिपाधयिषितायां स्वात्मत्वापृथग्भावः कारणम् , नहि उत्पादविनाशयोः स्वास्मा भिद्यते, यथैकस्मिन्नेकक्षणवर्तिनि सैंपे विभागाभावात् स्वात्मलाभकाल एवैकः कालो नान्यः समस्ति, यच्चैककालं न भवति तदेकमपि नियमेन न भवति, यथा गवाश्वयोजन्मविनाशाविति / एवमुत्पादविनाशयोरेककालता, एवमुत्पादविनाशाभ्यां द्रव्यमभिन्नकालं साध्यम्, तथोत्पादविनाशौ द्रव्यादभिन्नकालौ ताभ्यामेव हेतुदृष्टान्ताभ्यां वाच्यौ // ननु चैकान्तवादी स्वात्मत्वापृथग्भूतत्वमुत्पादविनाशयोन प्रतिजानीते, तत्प्रसाधनाय परिकरः सर्पद्रव्यस्यात्मन्युत्पतनाकारणोत्पादः, तस्यैवात्मनि पतनाकारेण विगमः, सर्पद्रव्यात्मैवोभयाकारः नहि सर्पात्मा भिद्यते, न चेद् भिद्यते ततः सर्पस्वभावतैव, अत. एवानन्तरताऽपि ग्राह्या, अनर्थान्तरमुत्पादविनाशौ परस्परावधिको, तत्प्रतिपत्तेरभिन्नकालत्वात् , तस्योत्पादस्यारम्भो विशिष्यते अभिन्नकालत्वेन / केन सहाभिन्नकाल इति चेत् , सामर्थ्याद् विनाशेन,यस्माद् विनश्यतो हि योऽन्त्यक्षणो यश्चोत्पादस्याद्यक्षणस्तदेतावुत्पादविनाशावेककालावनोन्तरं च, यदि चान्यो विनाशकालः स्यात् पूर्वस्यान्यथोत्पादकालः स्यादुत्तरस्य, ततः प्रागेतनं विनष्टमुत्तरमनुत्पन्नम्, एवं च वस्तुशून्यः कालो भवेनिजिं चोत्तरमुत्पद्येत, तस्मादभिन्नकालावनान्तरं च ताविति / यथैकक्षणवर्तिनो रूपस्यैकत्वादेव तत्प्रतिपत्त्यभिन्नकालतेत्येतत् प्रतिपादयति / अन्यस्य ह्यन्येन भिन्नकालता सम्भाव्येत, न पुनस्तस्य तेनैवेति वाक्यार्थः / एवमितरत्रापि द्वयेऽनन्तरता भावनीया, हेतुदृष्टान्तौ तु तावेव / नैगमनयाभिप्रायेण तूत्पादविनाशद्रव्याणां भिन्नकालता, उत्पादो हि प्रागभावः, स च द्रव्यधर्मत्वाद् द्रव्यवृत्तिः, प्रध्वंसाभावोऽपि विनाशः सोऽपि द्रव्यधर्म एव, द्रव्यमपि द्रव्यात्मरूपमजहत् स्वात्मनि वर्तते, ततश्चोत्पद्य कश्चित् कालं स्थित्वा प्रध्वंसाभावाद् विनश्यति, एवं भिन्नकालाः प्रत्येकात्मकालवृनित्वात् परस्परविभिन्नात्मानोर्थान्तरभूता इतियावद, पटव्योमादीनां चात्यन्त 1. सादिपरिणामः' इति क-पाठः / 2 'एतेन च ' इति क-ख पाठः। 3 'स्वत्मतत्वा' इति क-पाठः / ४'रूपेण ' इति क-पाठः। 5' प्रध्वंसद्' इति ग-पाठः / Page #416 -------------------------------------------------------------------------- ________________ 390 तत्त्वार्थाधिगमसूत्रम् [अभ्यायः 5 पृथग्भूतरूपाणामत्यन्तभिन्नकालानां च नैकत्वं दृष्टम् , यो वाऽद्य जनित्वा प्रियते यश्च वर्षशत जीवित्वा मरणमनुभवति न तयोस्तुल्यकालता युक्ता, तथा न घटोत्पादकाल एव विनाशकालः, क्रियाफलानाश्वासप्रसङ्गात् , यदि घटरूपनिवृत्त्यनन्तरमेव घटस्य विनाशः ततः क्रियाफले घटे स्यादनाश्वासः, विनष्टेन तेन घटकायोंकरणात् , तस्माद् भिन्नकालावुत्पादविनाशौ / तथाऽर्थान्तरमुत्पादस्थितिभङ्गाः परस्परतः स्वलक्षणभेदात् , आत्मलाभात्मावस्थानात्महानिस्वभावाः खल्वेते, यत्र च स्वलक्षणभेदस्तत्रार्थान्तरता दृष्टा घटपटादिषु, यत्र चानान्तरता न तत्र स्वलक्षणभेदः, यथैकलक्षणवर्तिनि रूप इति / एवं भिन्नाभिन्नकालतो. त्पादादीनामर्थान्तरत्वमनर्थान्तरता च स्याद्वादप्रक्रियायां सकलप्रमाणाविरोधिनी सिध्यति, नैकान्तवादेषुत्पादादयः सम्भवन्ति, भेदाभेदादिलक्षणानभ्युपगमात् / तस्मादवस्थितमिदम्उत्पादव्ययध्रौव्ययुक्तं सदिति // 29 // एवं प्रपञ्चतः संल्लक्षणमुपपाधोत्तरसूत्रसम्बन्धाय ग्रन्थमुपचिक्षेप भाष्यकार: भा०-अत्राह-गृह्णीमस्तावदेवंलक्षणं सदिति, इदं तु वाच्यं-तत् कि नित्यमाहोस्विदनित्यमिति ? / अत्रोच्यते टी-अत्राहेत्यादि / अत्रावसरे परः प्रश्नयति, प्रतिपादितसल्लक्षणानुमोदनाद्वारेण गृहीमस्तावदेवंलक्षणं सदित्येवंविधस्य सत्त्वमनुमन्यामहे युक्त्यागमभाजः, तावच्छब्दः प्रक्रमावद्योतनार्थः, पूर्वमेव सत्त्वं निश्चयम् , निश्चिते सत्वे पचानित्यताऽनित्यता च चिन्त्या, एवं लक्षणमस्येत्युत्पादादित्रययोगमुल्लिङ्गयति / इतिशब्दो हेत्वर्थः / यस्मात् सत् तस्मात् इदं तु वाच्यं-तत् किं नित्यमाहोस्विदनित्यमिति ? तुशब्दस्तस्मादित्यस्यार्थमभिधत्ते, तदिति सतः परामर्शः, तत् सत् किं नित्यमनित्यमिति, सप्तसु विकल्पेषु सति सम्भवत्सु प्रश्नद्वयोपन्यासः किमर्थ इति चेत्, उच्यते-द्रव्यास्तिकनयपर्यायास्तिकसम्परि ग्रहार्थः, तत्सम्परिग्रहाच शेषविकल्पसूचनमवसेयम् , कुतः पुनरियउत्पादादेर्नित्या. मारेका प्रष्टुः 1 उच्यते-सतां नित्यानित्यत्वदर्शनात् , सद व्योमादि नित्यत्वे नित्यं दृष्टं सच्च घटादि अनित्यमतः सन्देहः / अथवा आदाविदमुक्तम्-'नित्यावस्थितान्यरूपाणि" (अ० 5, सू० 3) इति तत्रैवं मन्यते-न सर्व सन्नित्यमरूपग्रहणात् रूपवतस्त्वनित्यत्वमर्थादतो न सत् सर्वे नित्यं नाप्यनित्यमितीष्यतेऽवस्थित्यंशाङ्गीकरणेन रूपवदपि नित्यम् / यथाऽऽह भगवान्-“से जहा णामए पंचत्थिकाया सिया" इत्यादि सूत्रम् // अन्यथा तूत्पादव्ययधौव्ययुक्तं सदित्यव्यापि सल्लक्षणं स्यात्, अत इदं तु वाच्यम्-तत् किं सर्वथा नित्यमाहोस्वित् स्थित्यंशसमाश्रयणेनैव नित्यमिति ? / आचार्यस्तु स्थित्यंशमभिप्रेत्याह-अत्रोच्यते // १'सल्लक्षण ' इति ग-पाठः / 2 अथ यथा नाम पञ्चास्तिकायाः स्यात् / Page #417 -------------------------------------------------------------------------- ________________ सूत्र 30 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 391 सूत्रम्-तद्भावाव्ययं नित्यम् // 5-30 // टी-तदित्यनेनाभिसम्बध्यते सत् , तस्य-सतो भवनं-भावस्तद्भावः, कर्तरि षष्ठी, तदेव हि सत् तथा तथा भवति जीवादि देवादिरूपेण, न जातुचित् सत्त्वत्यागेनान्यथा भवति, तद्भावादव्ययं तद्भावाव्ययम् अविनाशि नित्यं, नित्यग्रहणात् ध्रौव्यांशपरिग्रहः, " ने वे त्यप्" (सिद्ध० अ० 6, पा० 3, सू० 17) इति वचनात् , स ह्यन्वयी द्रव्यास्तिकांशः सर्वदा सर्वत्र न विच्छिद्यते, सदाकारेणानुत्पत्तेरविनाशाच्च, भावशब्दोपादानात परिणामनित्यता गृह्यते, कूटस्थनित्यता त्यज्यते, अन्यथा 'तदव्ययं नित्य मिति सूत्रं स्यात् / यत् तु न केनचिदाकारेण विक्रियते तदनुपाख्यमेव भवेत् , सत्त्वं च सर्वेषामन्वयिनां धर्माणां सूचकम्, पश्चास्तिकायव्यापित्वात् तु सत्त्वपरिग्रहः, साक्षाज्जीवस्तावत् सत्त्वं चैतन्यममूर्तत्वमसङ्ख्येयप्रदेशत्वं चाजहत तथातथापरिणामान्न व्यगात् न व्येति न व्येपत्यविनाश्यव्ययो नित्य उच्यते, न पुनर्देवादिपर्यायेणाप्यनन्वयिना नित्यता ध्रौव्यमस्य विद्यते, तथा परमाणुधणुकादिपुद्गलद्रव्यं सत्त्वमूर्तत्वाजीवत्वानुपयोगग्राह्यादिधर्मानपरित्यजद् विवर्तते, न घटादिपर्यायविवक्षया ध्रौव्यम्, धर्मद्रव्यमपि सत्त्वामूर्तत्वासङ्ख्येयप्रदेशवत्त्वलोकव्यापित्वादिधर्मात्यागेनावतिष्ठते, न तु परमाणुदेवदत्तादीनां प्रत्येकं गन्तृत्वस्य विवक्षायां गत्युपकारित्वेन नित्य ___त्वम्, गन्तभेदाद्धि गत्युपकारित्वं भिद्यते अन्यादृशाकारेण पूर्वः परिणाद्रव्यस्य मोऽन्यादृशेनाकारेण पाश्चात्यः, नहि प्रथमतरमुत्पन्नो गत्युपकारित्वपनित्यता " रिणामः सर्वदाऽवतिष्ठते, स्वरूपव्यतिरिक्तवस्तुसम्बन्धितयोपजायमानस्वाद् घटादिवत्, एवमधर्मद्रव्यमपि द्रष्टव्यम्, स्थित्युपकारितया चानित्यत्वभावना, आकाशं तु सत्त्वामृतत्वानन्तप्रदेशवत्वादिधर्मद्वारेण नित्यम् , अवगाहकापेक्षयाऽवगाहदातृत्वेनानित्यम्, यत्राप्यवगाहकं जीवपुद्गलं नास्ति तत्राप्यगुरुलध्वादिपर्यायवत्तयाऽवश्यंतयैवानित्यताऽभ्युपेया, ते त्वन्ये चान्ये च भवन्ति, अन्यथा तत्र न स्वत उत्पादव्ययौ नाप्यापेक्षिकाविति न्यूनमेव सल्लक्षणं स्यात्, इमामेव परिणामनित्यतां भाष्येण दर्शयति मा०-यत् सतो भावान्न व्यति न व्येष्यति तन्नित्यमिति // 30 // . टी०-यत् सत इत्यादि / सत्त्वादेरन्वयिनोंऽशान व्येति न विनश्यति नापि विनङ्क्ष्यति तनित्यम्, किं पुनः कारणमप्रवृत्तः कालो नोदाहृतः / एवं मन्यते भाष्यकारः-नातीतप्रत्याख्याने वर्तमानः सम्भवति, वर्तमानावधिकमेवातीतत्वम् अतीतासत्त्वे निर्मूलस्य वस्तुनोऽनुत्थानप्रसङ्गात्, तस्सादनादि जीवादि सत्त्वादि, एवं तर्हि भविष्यतो ग्रहणं किमर्थम् ? अत्राप्येवं मन्यते-केचिदविविक्तबुद्धयः प्रत्याख्यापयन्ति न वर्तमानकालावच्छिन्नस्य वस्तुनः कदाचिद् भविष्यत्कालाभिसम्बन्ध इति, तनिषेधार्थ भविष्यग्रहणम्, अथवा तद्भावेनाव्ययं, १'रिक्तसम्बन्धि' इति क-ख-पाठः / 2 'पुदलाद्यनादि तत्रा०' इति ग-पाठः। Page #418 -------------------------------------------------------------------------- ________________ 392 तत्त्वार्थाधिगमसूत्रम् ( अध्यायः 5 तेन सदात्मना स्थित्यंशेनाविगतं परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेनित्यमुच्यते / तमेव च ध्रौव्यांशमाश्रित्य समस्तास्तिकायेषु नित्यताव्यवहारः प्रतीयते, अथवा भूतिर्भावः स्वात्मेत्यर्थः। स चासौ भावश्च तद्भावः कश्वासौ ? यः सर्वास्ववस्थासु निर्विकारः, शुद्धा द्रव्यास्तिकनयप्रकृतिरविवक्षितसकलभेदग्रन्थिः , अयो-गमनं विरुद्धोऽयो व्ययस्तद्भावस्य च विरुद्धगमनमभावापत्तिः, न व्ययोऽव्ययः, न जातुचित् तद्भावोऽभावो भवतीति वाक्यार्थः, धोव्याभिसम्बन्धाच्च नपुंसकनिर्देशः, तद्भावश्चासावव्ययं च तद्भावाव्ययम्, किं तत् ? प्रकृतत्वादेवंविधविशेषणसामर्थ्याद धौन्य नित्यशब्देनाभिधीयते, भाष्ये च यद्यपि भाष्यकृता पञ्चमी प्रदर्शिता विवक्षावशात् तथापि विवक्षितस्यार्थस्याभिन्नत्वात् तृतीयाषष्ठयोन दोपः॥ ननु च प्रागपि नित्यावस्थितान्यरूपाणीत्यत्र (तृतीये) मूत्रे नित्यग्रहणं ध्रौव्यार्थमेव व्याख्यायि भवता, तत् किमर्थमिदमुच्यते तद्भावाव्यये नित्यम्' इति ? अत्रोच्यते-इह नित्यस्य लक्षणमभिधिसितं, लक्षितेन चेह नित्यत्वेन तत्र व्यवहारः प्रदर्शितः / अपरे त्वेवं वर्णयन्ति-द्वे नित्यते, नत्रैका स्वभावानच्युत्या कालत्रयाव्यभिचारिणी नित्यता, अपरा पारम्पर्यप्रवृत्तिनित्यता, तत्र च प्राच्यां नित्यतामाश्रित्य नित्यावस्थितान्यरूपाणीति पठितम्, परम्परावृत्त्यवच्छेदमधिकृत्योत्पादव्ययध्रौव्यसूत्रमध्य ___ गायीति, एतदपि यत्किञ्चित्, यतस्तद्भावाव्ययं नित्यमित्येकमेव नित्यनित्यसूत्रफलम् लक्षणं लक्षणान्तरानभिधाना। कथं द्वे नित्यते ? नित्यप्रहसितादिषु ___ दृष्टेति चेत्, तदयुक्तम्, अभीक्ष्णार्थाभिधायित्वादर्थान्तरवृत्तिस्तत्र नित्यशब्दः, तत्त्वविचारप्रस्तावे च न किञ्चिदुपचारेण प्रयोजनम्, अतो व्यवस्थितमेव लक्षण तद्भावाव्ययं नित्यमिति // एवमन्वय्यंशो नित्यत्वेन लक्षितो द्रव्यनयस्वभावः / पर्यायनयस्वभावौ तूत्पादविनाशावभूतभावभूताभावलक्षणावुक्तन्यायेन स्थित्यंशप्रतिबद्धौ / स्थितिरपि पर्यायप्रतिबद्धा, सर्वदा संसर्गरूपत्वाद् वस्तुनः, एवमेकाधिकरणावुत्पादविनाशौ जैन एव शासने साङ्गत्यमनुभवतोऽन्यत्र तु व्यधिकरणावेवोत्पादविनाशौ नियतौ वेति // नन्वेवमपि यथा तद् द्रव्यमात्मापरित्यागात् तथोत्पादविनाशलक्षणः पर्यायोऽपि द्रव्यपर्यायाभ्यां आत्मभूतो द्रव्यस्येत्यतः पर्यायनिवृत्तिवद् द्रव्यनिवृत्तिप्रसङ्ग इति / नित्यानित्यत्वे अत्रोच्यते-स्यादेतदेवं, यदि घटादिनिवृत्ती मृन्निवृत्तिदृश्येत, मृन्नि वृत्तौ वा पुद्गलनिवृत्तिः, न च दृश्यते मृदोऽन्वयिन्याः पुद्गलजाते, कस्यांचिदवस्थायां निवृत्तिस्तदभिधानप्रत्ययव्यवहार्यत्वात्, घटादिनिवृत्ती वा यदि न किञ्चित् पश्चादुपलभ्येत श्रद्दधीत विद्वज्जनः पर्यायनिवृत्तौ द्रव्यांशनिवृत्तिः, न च प्रत्यक्षविरोधे नर्कः क्रमत इत्यपकण्यमेतत्, एवमुपपत्यागमाभ्यामवस्थितं तद्भावाव्ययं नित्यमिति // 30 // ___ एवं सत्रद्वयन निरूपिते समस्ते वस्तुन्यर्थाभिधानप्रत्ययरूपे स्थित्युत्पत्तिव्ययस्वभावे पुनर्विस्तरविशेषार्थी पर आरेकते, यद् व्येत्युत्पद्यते च तत् सन्नित्यं चेत्यतिसाहसम्, अथवा 44 किश्चिदसदनित्यं वा, सन्नित्यत्वाभ्यां निराकृतत्वात्, ततो लोकव्यवहारोच्छेदः, तदेतद् Page #419 -------------------------------------------------------------------------- ________________ सूत्रं 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् 393 दुरुपपादत्वात् दुःश्रद्धानत्वाचासङ्गतम्, नित्यता ह्युत्पादव्ययौ विरुणद्धि, उत्पादव्ययौ च नित्यतां विरुन्धाते, सोऽयं छायातपवदसहावस्थानलक्षणविरोधाघातपक्षो न विद्वज्जनमनांसि प्रीणयतीति, अत्रोच्यते-श्रद्धत्तां भवानुपपाद्यमानं यथा न कश्चिद् विरोधः समस्ति, यथा चात्रैव लोकव्यवहारसङ्गतिद्रव्यास्तिकपर्यायास्तिकनयसम्भवेऽन्यतरप्रधानगुणभावविवक्षाप्रापिते उभे अपि सन्नित्यत्वे तत्प्रतिपक्षभूते वाऽसदनित्यत्वे // सूत्रम्-अर्पितानर्पितसिद्धेः // 5-31 // टी–अपरेऽन्यथाकारं सूत्रसम्बन्धमभिदधते, ध्रौव्यस्य नित्यपर्यायत्वेन लक्षणमुक्तमुत्पादव्यययोरुच्यताम्, नोच्यते, तयोर्लोकप्रतीतत्वात्, सामर्थ्यगतेश्वासदनित्यत्वादीनाम, अतस्तल्लक्षणं न साक्षाद् वाच्यम्, किं कारणम् ? भा०-अर्पितानर्पितसिद्धः // टी०-अर्पितं निदर्शितमुपात्तं, तद्विपरीतमनर्पितम्, सिद्धिः-ज्ञानम्, अर्पितेनानर्पितपरिज्ञानमर्पितानर्पितसिद्धिस्तस्याः-ततो हेतोरर्पितानर्पितसिद्धः,विशेष्यं हि वस्तु नीलोत्पला दिवदुपादीयमानं नियमकारिविशेषणधर्मप्रत्यनीकपर्यायाश्रयतामनुअर्पितानर्पितस्वरूपम् भवत्येवेति न्यायात्, एवमिहापि धौव्यलक्षणेऽर्पितेऽनर्पितावपि साक्षात् ____तद्विपरीतावुत्पादव्ययौ सङ्गस्येते, पूर्वमुत्तरं च पर्यायं धौव्यमासादयति, न तूत्पादलक्षणः पर्यायो विनाशलक्षणो वा पूर्वोत्तरपर्यायानुभावी, तस्माद् विलक्षणावुत्पादव्ययाविति सुज्ञानम्, एवं सम्बन्धद्वयमभिधाय सूत्रार्थोऽभिधीयते, पूर्वकं सम्बन्धमाश्रित्येदं भाष्यम्-- . '' भा०-सच त्रिविधमपि नित्यं चोभे अपि अर्पितानर्पितसिद्धेः // टी-चशब्दः समुच्चये, अपिः सम्भावने / सत् त्रिविधमुत्पादव्ययस्थितिलक्षणम्, नित्यं च द्वितीयसूत्रोक्तमुभयमप्येतदर्पणानपेणाभ्यां सिद्धमव्याहतम् अनेकधर्माधर्मी, तत्र प्रयोजनवशात् कदाचित् कश्चिद् धर्मो वचनेनाप्यते-विवक्ष्यते, सन्नपि च कश्चिन्न विवक्ष्यते प्रयोजनाभावात्, न पुनः स धर्मी विवक्षितधर्ममात्र एव / इत्यतः सत्पर्यायविवक्षायां सदु त्पादादिस्थित्यंशविवक्षायां नित्यमसदप्युत्पादाद्यनित्यं च, सत्त्वासत्त्वविवक्षामुख्यता विशिष्टग्रहणात् सर्वदा वस्तुनः येन प्रमाणेन यद् वस्तु सद्विशिष्टं गृह्यते, तेनैव प्रमाणेन तदेव तदैव वाऽसद्विशिष्टमपि गृह्यते, अन्यथा त्वविविक्तग्रहणमेव स्यात्, विविताच चक्षुरादिबुद्धयोऽनुभूयन्ते / यथैव हि स्वास्तित्वात् सद्विशेषणोल्लेखेन सद्भुद्धिरभिधावति, एवं असद्विशेषणावष्टम्भजनिताऽपीति // न चोपहतेन्द्रियस्याव्यापृतेन्द्रियस्य वा वस्त्वन्तराभावविशिष्टं ग्रहणमुपजायते तत इन्द्रियव्यापारे सति भावादसद्विशिष्टस्य ग्रहणस्य नापह्नवो यु Page #420 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः / ज्यते, यथा प्रकाशकाः कृशानुभास्करादयः प्राकाश्यं वस्त्वन्तराभावविशिष्टमेव प्रकाशयन्ति एवं प्रमाणमपि वस्तुपरिच्छेदहेतुत्वेन व्याप्रियमाणं वस्त्वन्तराभावविशिष्टमेव प्रकाशयति प्रमाणं च यथावस्थित वस्तुस्वभावग्राहि / ततः प्रमाणपरिच्छिन्नेनार्थेन यथाप्रयोजनमर्पणादि व्यवहारः / तस्मात् सच्चासच्चैकमेव वस्तु, स्वरूपार्पणयोत्पादः सन् स्थितिविनाशाभावविशिष्टग्रहणादसन्, एवं स्थितिविनाशावपि वाच्यौ / एवं हि त्रिविधग्रहणं सगर्थितं भवति / तथा स्वात्मापरित्यागार्पणान्नित्यम्, उत्पादव्ययार्पणात् तदेवानित्यम्, स्थित्यादयश्च सङ्ग्रहा देकीभावाद् वस्तु, न स्थितिरहितावुत्पादविनाशी, नाप्युत्पादव्ययशून्या स्थितिः, अतः संसर्ग लक्षणं वस्त्वेकमेव नित्यं चानित्यं च // ननु चोत्पादव्ययध्रौव्ययुक्तं सदिति विस्वभावमेव सत्वेनावधृतम्, भाष्यकारस्तु सच त्रिविधमपीत्येव विवृण्वन्नेकैकस्य सचं प्रतिपादयति, नैप दोषः, अविभक्तेऽपि वस्तुनि स्वभावत्रयाख्यानगन्योन्यापरित्यागद्वारेणैव क्रियते, अन्यथा कथं कथ्येत प्रज्ञापनागोचरः१ / स्थित्यादयो हि परस्परावियोगिनः सर्वदा सदसदात्मका भेदाभेद लक्षणास्तेषु सत्त्वप्रज्ञापना न विरुध्यते, न ह्येकदेशोऽसद्वस्तुनो भवति पटादेस्तन्त्वादिः, अथ नित्यं चेति किमर्थमुच्यते, सद्हणादेव तद्गृहीतेः पुनर्न किश्चित् फलमस्ति सद्रहणेनैव धौव्यांशस्य लक्षितत्वात्, सच्च त्रिविधमपीत्येतावदेवाभिधेयमिति, अत्रोच्यते-सत्यमेतदेवम्, तथाऽप्यर्थविशेषप्रतिपिपादयिषया पुनर्नित्यग्रहणं, स विशेपो भाव्यते यदि धौव्यांश एव नित्यः स्यात् न समस्तं वस्तु तत उत्पादव्ययावप्यनित्यो न वस्तु सकलम् ,,एवं चान्याधार नित्यत्वमन्याधारं चानित्यत्वं स्याद् अनिष्टं चैतद् व्यधिकरणत्वात्, यथा प्रवचनबाह्यानां नित्यं व्योमाऽनित्यो घट इति, अत्राप्येवं स्यादन्यन्नित्यमन्यचानित्यम्, इप्यते तु यदेव नित्यं तदेवानित्यमिति, तत्राऽमुना पुनर्नित्यग्रहणेन निरंशं वस्त्वर्णत एतद्विपक्षेण चानित्यं समस्तमेव वस्तूच्यते निर्विभागत्यात्, एवं हि तत् प्रज्ञाप्यते केवलं श्रोतृबुद्धिव्युत्पत्तये स्थित्यंशोऽयमिमावुत्पादव्ययांशाविति बुद्धया विभज्यते, न तु परमार्थतोऽस्ति विभाग इत्येवमैकाधिकरण्यम् / यथाऽऽह " अभिन्नांश मतं वस्तु, तथोभयमयात्मकम् / प्रतिपत्तेरुपायेन, नयभेदेन कथ्यते // 1 // " __यत् तूक्तं नित्यता ह्युत्पादव्ययौ विरुणद्व्युत्पादव्ययौ च नित्यतां विरुन्धाते, तत् प्रपश्यापोद्यते, कः पुनर्विरोधशब्दार्थः / किं ययोरेकवावस्थानं न दृश्यते तो विरुद्धावथ यावेकत्र कालान्तरं स्थितौ पश्चादन्यतरविनाश उभयविनाशो वा तो विरुद्धाविति ? किश्चातः, यदि प्राच्यः पक्षः कदाचिदपि यावेकर न दृष्टावेवं सति कध्यघातकभावलक्षणस्तावदहिनकुलयोरग्न्युदकयोर्वा न विरोधः, यतः संयोगे सत्येककालयोरहिनकुलयोरमिजलयोर्वा स्थितयोर्वि 1. सस्वासस्वैकमेव ' इति क-ख-पाठः। 2 . सर्वात्मका ' इति ग-पाठः / Page #421 -------------------------------------------------------------------------- ________________ सूत्रं 31] . स्वोपज्ञभाष्य टीकालङ्कृतम् 395 रोधः, संयोगस्यानेकाश्रयत्वात् द्वित्वादिवत्, न चासंयुक्तो नकुलः सर्पविनाशे प्रभुः, यदि स्यात् ततः समस्तत्रैलोक्योदरवर्तिसाभावप्रसङ्गः, अग्निजलयोरप्येवमेव भावना, वाडवाग्नेर्वारिधिवारिणश्चैकत्रावस्थानं दृष्टमिति चेत्, हन्त हतस्तर्हि विरोधः, प्रकृतमुच्यते-संयोगे पुनः क्षणमात्रावस्थायिनोरुत्तरकालमेकस्य बलवत्वाद् घातकत्वे सतीतरस्य दुर्वलत्वाद् वध्यत्वे स्याद् विरोधः, न चैवं सदसतोर्नित्यानित्ययो क्षणमात्रमप्येकत्र वृत्तिस्त्वयाऽभ्युपेयते, गुणविषये संयोगाभावान्नापि समवायवृत्तिर्विरोधाभावप्रसङ्गात्, तस्मान्न नित्यानित्यसदसदादीनामेकवस्त्वाश्रयतायां वध्यघातकभावलक्षणो विरोधः समस्ति, नाप्यसहावस्थानलक्षणो विरोधः, सहि शीतोष्णवत् फलवृन्तसंयोगविभागवदाम्रफलादिषु श्यामतापीततावद वा, तथाहि शीतपर्यायोऽश्मादीनां प्राय वा विद्यमानः पश्चादुपजायमानेनोष्णपर्यायेण सह नावतिष्ठते, तथोष्णः शीतेनोपजायमानेन सह विरुध्यते, न चैवं प्रागवस्थितं नित्यत्वमनित्यत्वेन पश्चात्कालभाविना विनाश्यते, तद्धि नित्यत्वमेव न स्यादध्रुवत्वात्, नापि नित्यत्वेनोत्पत्तिभाजा पूर्वावस्थितमनित्यत्वं विनाश्यते, तत् तु नित्यत्वमेव न स्यादुत्पद्यमानत्वात्, अपिच क्षणनश्वरेषु भावेषु न कदाचिदयं विरोधः समस्ति, नहि तत्रानित्यत्वस्य पूर्वमवस्थानम् , तेन ह्यनित्यत्वेन नाशिते वस्तुनि निराधारस्य नित्यत्वस्याभाव एव, अवश्यंतयाऽसहावस्थानलक्षणविरोधपादिना तत्रान्यतरस्योत्पद्यमानता अन्यतरस्य च पूर्वावस्थितिरभ्युपेया, अन्यथाऽसहावस्थानलक्षणविरोधवाद्येव न स्यात् , येषामपि किञ्चित् कालं स्थित्वा घटो विनश्यति तैरपीदं वक्तव्यम्-यावदसौ न विनश्यति तावत् किं नित्यः उतानित्य इति / नित्यश्चेद् व्योमादिवदनुच्छेदप्रसङ्गः, इतरत्र त्वभावप्रसङ्गः, अवश्यमेव सता नित्येनानित्येन वा भवितव्यमेकान्तवादिनाम् , अनेकान्तवादिनां तूभयस्वभावत्वाद् वस्तुनो न किञ्चिदघटमानकम् , एवमेव फलवृन्तयोः संयोगविनाशे विभाग उपजायते फलादिषु श्यामता . .. ऽपैति पीततोत्पद्यत इति विकल्प्य निरसनीयम् , एवमेते विकल्पाः नित्यानित्यत्वयोः सहा- पूर्वकेण विरोधलक्षणेन सङ्गता अपीह स्यात्कारोपलाञ्छनप्रक्रियायां वस्थानविरोधाभावः न सम्भवन्ति / अपिचैकवावस्थानं न दृश्यत इति किमेकस्मिन् धर्मिणि नास्ति, यद्येवं ततोऽसिद्धता, दृष्ट एक एवाश्मा शीतश्चोष्णश्च / अथ यत्र देशे शीतो न तत्रैवोष्ण इति, एतदप्यसत् , नहि शिशिरस्पर्शमुदकं भिन्नदेशवयंसंयुक्तमेवाग्निं विध्यापयति, संयोगश्चैकदेशवर्तित्वे जलानलपरमाणूनां सि यति, अन्यथा च त्रैलोक्येऽप्यग्न्यभावप्रसङ्गः, सति च संयोगे क्षणमात्रावस्थानमेकत्र दृष्टमेव तदा कुतो विरोधः 1 / उत्तरकालमदर्शनाद् विरोध इति चेत् , अत एव कदाचिद् विरोधः कदाचिदविरोध इति स्याद्वादाश्रयणमपदोषम् // अथैकस्मिन्नेवाग्निद्रव्ये उष्णतानुष्णते युगपन्न स्तः, इत्येतदप्यसारम् / यतः स्पर्शपर्यायेणाग्निरुष्णोऽभिधीयते रूपपर्यायेण त्वनुष्ण 1' पूर्वावस्थानम् ' इति.क-स्व-पाठः / Page #422 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 एव / अथोष्णस्य प्रतियोगी शीत एवानुष्ण इति गृह्यते, रिक्तं शक्यमेतदपि, अनुष्णाशीतस्याप्युप्णग्रहणे प्रतिक्षिप्यमाणत्वात् , तसादुष्णपर्यायोऽनुष्णपर्यायेण प्रतिपक्षेण सहैकत्रैकदा च दृष्ट इति / न च वध्यघातकासहावस्थानविरोधयोर्विशेषः कश्चिदस्ति, अहिनकुलयोर्हि संयोगे योऽहेर्जीवनपर्यायः स मरणपर्यायेण सह नावतिष्ठते इत्यसहावस्थानलक्षण एव वि. रोधः, तथाऽग्निजलयोः सति संयोगे कदाचिदुष्णपर्यायस्य शीतपर्यायेण सहानवस्थानं बहुजलमध्यप्रक्षिप्तस्यैकस्याङ्गारशकलस्य, कदाचिच्छीतस्यानवस्थानं प्रवृद्धज्वलनज्वालाग्रतप्तवारिणीति / वध्यघातकलक्षणः प्राणिविषय इति चेत् , न, असहावस्थानलक्षणस्यापि कस्यचित् प्राणिविषयत्वेन दर्शनात् // अथैककालविषययोर्वध्यघातकविरोध इति चेत् , न, असहावस्थानलक्षणऽपि विरोधे यदा श्यामताऽपैति पीतता चोत्पद्यते तदा विगमप्रतिपच्योरेकः कालोऽतः शब्दार्थोऽपि न सङ्गच्छते सहानवस्थानमिति, तस्मान्नास्ति विरोधः॥ अथ द्वितीयपक्षमाश्रयते-कालान्तरावस्थायित्वे सति दृष्टयोरेकनान्यतरस्यानवस्थानमुभयानवस्थानं वा विरोध इति, सोऽप्यसङ्गतः, कालान्तरावस्थायितायामेकत्र तावन्न विरोधः। उत्तरकालमनवस्थानोपलब्धेविरोध इति चेत् , एवं सति न कस्यचित् स्त्रीमनुष्यवलीवर्दादेविरोधः स्यात् , तसादुपेक्ष्यः / नापि प्रतिबन्ध्यप्रतिवन्धकमावलक्षणो विरोधः सदसतोर्नित्यानित्ययोर्वा, अभिन्नकालमेकत्रात्मद्रव्ये किल धर्माधर्मावुभावपि स्तः, तयोश्चैकस्य प्रधानभावोऽन्यस्य गुणभावः, प्रधानगुणभावे चैकत्र द्वयमप्यस्तीति को एकत्रानवस्थानादि- विरोधः 1 // अथैवं मन्येथाः-धर्मस्य फलमधर्मफलेन प्रतिवद्धमधर्मफलं विरोधखण्डनम् च धर्मफलेन प्रतिवद्धमेप विरोध इति, यदैकस्य प्रधानभावस्तदेव न तस्य गुणभावः, प्रधानता चोद्भूतविपाकावस्थया गुणभावोऽप्यनुभूतविपाकावस्थयेति, एतदप्ययुक्तम्, यस्मादेकत्रात्मन्येकदा धर्माधर्मफलोपभोगोऽभ्युपगम्यत एव जैनेन्द्रैः, धर्माधर्मों पुण्यापुण्यलक्षणौ, पुण्यापुण्ये च पुद्गलात्मके, पुद्गलाश्च ज्ञानावरणादिभेदेन परिणताः, कर्म चतुर्विंशत्युत्तरप्रकृतिशतभेदम्, तत्र कर्मप्रकृतीनामशीतिघधिका पापमपुण्यमधर्म इति संज्ञाता, चत्वारिंशत् ब्यधिका तु पुण्यं धर्म इति, तत्र कासाञ्चित् प्रकृतीनां पुण्याख्यानां पापप्रकृतीनां च युगपद् विपाकाभ्युपगमे कुतः प्रतिबन्ध्यप्रतिबन्धकभावलक्षणो विरोधः ? / अथापि स्यात् कासाञ्चित् प्रकृतीनां प्रतिबन्थ्यप्रतिबन्धकमावो यथा नरायुषः सुरायुपश्चैकदैकत्र विपाकाभावः, तत्रापि न कर्मणः सहावस्थानमनिष्टम्, किं तर्हि ? विपाकपर्याययोरसहावस्थितिः, नरायुर्विपाकपर्यायः सुरायुषो विपाकेन सह नावतिष्ठत इत्यसहावस्थानलक्षण एव, विगैमप्रतिपत्त्योश्चैककालत्वाज्जातुचित् सहावस्थानमपीति / उपेत्य वा ब्रूमः-अस्त्वयं विरोधः प्रस्तुते वस्तुनि, न कश्चिद् दोषः, इष्यत एव 1 योऽहिजीवन' इति क-पाठः / 2 बन्धे विंशत्युत्तरशतभावेऽपि प्रशस्तेतरवर्णचतुष्कग्रहात् अधिकाश्चतस्रोऽत्र। 3 नरायुषा विगमः सुरायुषः प्रतिपत्तिः / Page #423 -------------------------------------------------------------------------- ________________ सूत्र 31 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 397 द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, कदाचिद् द्रव्यं विवक्ष्यते, न पर्यायः, कदाचित पर्यायो विवक्ष्यते, न द्रव्यम्, उभयं नु सम्भवति, त्वयाऽप्येककालयोरेव प्रतिवन्ध्यप्रतिबन्धकभावोऽभ्युपेयते, अन्यथा स एव न स्यात् प्रतिवन्धः, अतो न कश्चिद् विरोधः। सदसतोर्नित्यानित्ययोर्वा भिक्षुवरधर्मकीर्तिनापि विरोध उक्तः प्रमाणविनिश्चयादौ स पुनरयं विरोधः कथं गम्यते, कचिदविकलकारणस्य भवतोऽन्यभावेऽभावाद् विरोधगतिर्भवति, यथा शीतोष्णस्पर्शयोरसहावस्थानम्, अन्योन्यपरिहारस्थितिलक्षणतया वा विरोधो नित्यानित्यवत् . अन्योन्यं परस्परं व्यवच्छेदः-परिहारस्तेनान्योन्यपरिहारेण स्थितिधर्मकीर्तिमतखण्डनम् लक्षणोऽन्योन्यव्यवच्छेदरूपः, परस्परपरिहारस्थितिलक्षणतया च विरो धिनोनित्यनित्ययोरेकपरिग्रहोऽपरत्यागनान्तरीयकः एकत्यागोऽप्यपरपरिग्रहाविनाभावी, तथा भावाभावयोरेकत्राभावः, एष च प्रतियोगिव्यवच्छेदरूपः सामयिकोऽसहावस्थानभेद एव, पूर्वकस्तु शीतोष्णस्पर्शयोश्छायातपयोः प्रकाशतमसोश्च दृश्यात्मनोः परिनिष्पन्नयोरेकत्राभावादनुपलब्धिलक्षण इत्येतावान् विशेष इति / अत्रोच्यते-तार्किकापशब्देन न किञ्चिदत्रातिरिक्तमपदिष्टम् // यदप्यपादेशि तदप्यसमीचीनम्, यतोऽसहावस्थानलक्षण एव विरोधो द्विधा कल्प्यते, नामैव च लक्षणं, न सहावस्थानं लक्षणं यस्य विरोधस्येत्यनेनैव शीतोष्णस्पर्शयोरिव नित्यानित्यविरोधस्यापि सङ्गृहीतत्वाद् भेदेनाभिधाने प्रयोजनाभावाद् दुर्विदग्धतामात्रमेवावशिष्यते भिक्षुवरस्य / स्यादियमारेका, दृश्यपरिनिष्पन्नयोः प्राच्यः, इतरः परिकल्पितरूपयोः स्वसामान्यलक्षणविषयत्वेन भेदप्रकाशनमिति, एतदप्यसङ्गतम्, स्वलक्षणभेदानामानन्त्यात् परिकल्पबहुत्वाच कुतो द्वैविध्यम् / अपिच नित्यता भवतु परिकल्पः, अनित्यता पुनः संस्कृतलक्षणम्, " उत्पत्तिः स्थितिर्जराऽनित्यते"ति वचनात् / दिग्नागेनाप्युक्तम्, “नित्यसमायां जातौ स एव तु भावोऽभूत्वा भवन् भूत्वा वाऽभवन्ननित्य इत्युच्यते, सा चावस्था भावप्रत्ययेनानित्यते"ति, एवं च न नित्यानित्ययोः सामान्यलक्षणयोविरोधः, नापि स्वलक्षणासामान्यलक्षणयोः, स्वलक्षणोपादानत्वात् सामान्यलक्षणस्य, परिकल्पितयोश्च खरतुरगविषाणयोर्विरोध इत्यद्भतमपश्यद् भिक्षुवरः, तस्मात् स्वलक्षणविषय एव विरोधोऽस्तु, तत्रापि न स्वलक्षणमित्येव विरोधः, किन्तु द्रव्याणां द्विविधाः पर्यायाःक्रमभुवः सहभुवश्च, युगपदवस्थायिनोऽयुगपदवस्थायिनश्च, सूक्ष्माः स्थूलाच, साध्याः साधनानि चे, व्यापृताश्चाव्यामृताश्च, यथा घटे सद्रव्यमूतोचेतनरूपरसगन्धस्पशेसङ्ख्यासं 1 लक्षणाऽन्योन्यव्यवच्छेदरूपाः ' इति क-ख-पाठः। 2 स्पर्शयोर्नित्यानित्य ' इति क-ख-पाठ / 3 नित्यमित्युक्तेऽनित्यतापरिहारस्यावश्यकत्वात् शीतोष्णसमानता तत्त्वतस्तु अवयवभेदेन कालादिभेदेन वा न क्वापि विरोधः। 'वा' इति क-पाठः। Page #424 -------------------------------------------------------------------------- ________________ 398 अर तत्त्वार्थाधिगमसूत्रम् [ अध्यायः५ स्थानादयः सहभुवो युगपदवस्थायिनः, स्थूलाः सूक्ष्माश्च साधनानि द्रव्याणां पर्यायाणां साध्यानि च कार्यवशाद् व्यापृताश्चोदकाद्याहरणादिषु मृत्पिण्ड-शिवकद्वैविध्यम् स्थासक-कोशक-कुशूल-घट-कपाल-शकल-शर्करा-पांशुत्रुटिपरमाणवः क्रम भुवः, नहि मृदादिसामान्यव्यतिरेकेण पिण्डादिधर्मा भवितुमुत्सहन्ते, न ह्यङ्गुलिभेदेनर्जुकुटिलतयोः सम्भवः, सैव हि साङ्गुलिः स्वाँस्तु धर्मान् पारम्पर्यमात्रातिलब्धवृत्ती क्रमेणोन्नमयति, मयूराण्डकरसवदुपारूढस्वरूपाख्येति वचनात् / एत एवासहावस्थायिनः सूक्ष्माः स्थूलाश्चापेक्षया नित्यानित्यादयः साध्याः साधनानि चाव्यामृता उदकाद्याहरणादिषु, तेषां को नामायं विरोधः? // ननु सहानवस्थानम्, तन्न, सहोत्पादावस्थानदर्शनादेकद्रव्यवृत्तित्वाच, द्रव्यमेव चक्षुरादिग्रहणापदेशविशेषाद् रूपादिव्यपदेश्यमेकपुरुषपिसृपुत्रत्वादिवत्, न च रूपादीनां समुदायैकरूपताऽभ्युपगमनीया, रूपग्रहणे रसादिग्रहणप्रसगादिन्द्रियान्तरवैयर्थ्य सङ्करादिदोपप्रसङ्गाच्च / न चाभावता, प्रमाणाभावात् प्रसिद्धिविरोधाच्च / स्वलक्षणविरोधोऽपि नास्त्येव, सामान्यविशेषात्मैकलक्षणत्वात् स्याद्वादिपरिगृहीतस्य वस्तुनः, जात्यन्तरत्वाच्च नरसिंहवदेकान्तवादिपरिकल्पिताद् वस्तुन इति / स्यात् तु क्रमजन्मनां धर्माणामसहावस्थायिनां देवमनुष्यादीनां मृत्पिण्डशिवकादीनां च विरोधोऽसहावस्थानलक्षणः, सोऽपि द्रव्यास्तिकनयप्राधान्यादभेदे विवक्षिते पर्यायाणां द्रव्यव्यतिरेकेणानभ्युपगमानास्तीति न कश्चिद् विरोधोऽस्ति स्याद्वादिनः, तमःप्रकाशच्छायातपशीतोष्णविरोधोदाहरणनिरास उक्तविधिनाऽवगम्यः, द्रव्यार्थतो नित्याः पुद्गलाः तमस्तया च क्रमजन्मानः परिणमन्ते पर्यायाः, सामान्यस्याभिन्नत्वादेकरूपा एवेति कः केन विरुध्यते ? / इत्थमर्थस्य सामान्यविशेषात्मैकरूपत्वेऽन्योन्यापेक्षित्वेऽनेकान्तात्मकत्वे एकान्तवादिपरिकल्पिताज्जात्यन्तरत्वे च न कश्चिद् दोषः, तथा स्थित्यंशस्य नित्यत्वादुत्पादव्ययानित्यत्वादुभयस्याभिन्नस्वभाववस्तुतायां कथमिदं घटते नित्यानित्ययोरेकपरिग्रहोऽपरत्वागमनान्तरीयकः एकत्यागश्वापरपरिग्रहाविनाभावीति, प्रत्यक्षादिप्रमागबाधितत्वादुन्मत्तकप्रलापमात्रमेतदवसीयत इति, तस्मान्न परिकल्पितविषयो विरोधो ( न परिकल्पितापरिकल्पितविषयो ) न सकलस्वलक्षणविषयो नापि सामयिकः, किं तर्हि ? पर्यायनयाभिप्रायेण क्रमजन्मपर्यायविषयः, स चैक एवासहावस्थानलक्षणः, सोऽपि द्रव्यार्थनयाभिप्रायेण नैवास्तीति भावितम् / एवं चैकवस्तुविषये सदसती नित्यानित्ये च अर्पितानर्पितसिद्धेरिति व्यवस्थितम् / / द्वितीयसम्बन्धाभिधानेऽपि सङ्गतार्थमेव भाष्यमुक्तेन विधिना, एतमेवार्थमधुना भाष्येण प्रपञ्चयति भा०–अर्पितव्यावहारिकमनर्पितव्यावहारिक चेत्यर्थः // टी०-अर्पितव्यावहारिकमित्यादिना, प्रक्रान्तं त्रिविधं सन्नित्यं च, तदपेक्षया 1 चिहितो भागः क-ख-यो स्ति. Page #425 -------------------------------------------------------------------------- ________________ सूत्रं 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् नपुंसकलिङ्गनिर्देशः, आदिमदनादियुगपदयुगपद्भावित्रिकालविषयपर्यायार्पणभजनानेकान्तप्ररूपणो हि परिणामार्थः, तैः पर्यायैः प्रतिषेधसमग्रादेशविकलादेशैः, स्वपरार्थशब्दपर्यायभजनया च स्वं स्वं तत्त्वं पुष्णातीति विस्तरेण चरितार्थमेतत्, तत्र स्थितिलक्षणोऽन्तरगस्तत्परिणामरूपत्वात् तत्सहावस्थायित्वात् , बहिरङ्गावुत्पादव्ययौ विस्रसाप्रयोगेण च कादाचित्को द्रव्यादिभेदात् प्रतिपन्नानन्तभेदौ, एवं चार्थोऽपितानर्पितधर्मात्मकस्तद्विषयः शब्दो व्यवहाराङ्गमतः शब्दव्यवहार एव प्राधान्येनाङ्गीक्रियते, अत्र प्रत्यर्थं च प्रतिपत्तिः शब्दात् साक्षाद् गम्यमानार्थतया च सर्वत्रैव, यतः सदेकनानानित्यानित्यादिधर्मकलापपरिकरमशेषमस्तिकायजालम्, तत्रान्यतमैकधर्मार्पणे शेषधर्माणां गम्यमानता, यतो न सद् असत्त्वादिभेदविविक्तम् , असद् वा सदादिविकल्पशून्यम् , अन्योन्यापेक्षसत्ताकत्वात् सदादीनाम्, एवं वस्तुनिश्चयः, अर्पितमुपनीतं वस्तु विवक्षितेन धर्मेण साक्षाद् वाचकेन शब्देनाभिहितं व्यवहारः प्रयोजनमस्येति व्यावहारिकम्, अर्पितं च तद् व्यावहारिकं चेत्यर्पितव्यावहारिकम् / एतदुक्तं भवति-किञ्चिद् वस्तु विशिष्टाभिधानार्पितं सद् व्यवहारं साधयत्यपरमनर्पितमेव साक्षाद् वाचकेन शब्देन प्रतीयमानं सब्यवहाराय व्याप्रियत इत्यत आह-अनर्पितव्यावहारिकं चेत्यर्थः। अथवाऽर्पितविषयो व्यवहारोऽर्पित व्यवहारः शब्दपरिप्रापितव्यवहार इत्यर्थः / सोऽस्य सतोऽस्ति नित्यस्य चेत्यर्पितव्यावहारिकं सन्नित्यं च, एवमनर्पितव्यावहारिकमपि द्रष्टव्यमसदनित्यं च यदा चासदनित्ये शब्देन साक्षात् प्रतिपिपादयिपिते तदाऽर्पिते ते, इतरे तु सन्नित्ये गम्यमाने तत्रानर्पिते भवतः, तस्मादेकत्र वस्तुन्यर्पितधर्मपरिग्रहोऽनर्पितधर्मसत्तानान्तरीयकः, यथा कृतकत्वधर्माभ्युपगमोऽनित्यत्वसत्तानान्तरीयकः, एकत्यागश्चापरपरित्यागाविनाभावी, यथा अनित्यत्वपरित्यागे कृतकत्वपरित्यागोऽवश्यंभावीति, चशब्दः समुचिनोति सर्वान् विकल्पान्, इतिशब्दो हेतौ, यस्मादर्पितधर्मविषयः शब्दव्यवहारस्तस्मादर्पितानर्पितसिद्धेः सन्नित्ये असदनित्ये च विवक्षावशात्, अवधारणे वा, एतावानेव शब्दव्यवहारो यदुतापितानर्पितधर्मविषयो नान्य इति, अर्थ इत्यभिधेयप्रतिपत्तिमाचष्टे, समासत एषोऽर्थः सूत्रस्येतियावत् / धर्मार्थकाममोक्षलक्षणः सकलः पुरुषार्थस्तद्योग्य व्यवहारापेणाभ्यां यथावदधिगम्यत इति // भा०--तत्र सचतुर्विधम्, तद्यथा-द्रव्यास्तिकं, मातृकापदास्तिकं, उत्पनास्तिक, पर्यायास्तिकमिति / . टी.-तत्र सच्चतुर्विधमित्यादि / तत्र-तेषु सनित्यासदनित्येषु सतो भेदानाचष्टे , सच्चतुर्विधमेव, न त्रिधा न च पञ्चधा, तदुद्देशार्थमाह-द्रव्यास्तिकमित्यादि / उत्पादादिमूलभेदान्तःपात्येव, सविपर्ययद्रव्यादिभेदप्रपञ्चस्त्रैरूप्येऽप्येकस्य धर्मिणः परिणामसमूहस्वभावस्योत्तरोत्तरभेदप्रदर्शनार्थः, एवंविधोपन्यासे च सर्वतत्पर्यायाकाङ्क्षा, तावत्परिणा 1 'विक्तम्' इति क-पाठः। Page #426 -------------------------------------------------------------------------- ________________ [ अध्यायः 5 तत्त्वार्थाभिगमसूत्रम् मानुयायित्वात् तत्संज्ञासम्बन्धादीनाम् , तत्रादिमद्भिः पर्यायैरर्ण्यमाणं सतो भावाद् व्येति व्येष्यतीति चानित्यम् , अनाद्यैः पर्यायैरादिश्यमानं सत्त्वद्रव्यत्वसंज्ञित्वप्रमेयत्वचेतनत्वमृर्ता मूर्तत्वभौतिकत्वेतरत्वग्राह्यत्वादिभिरविनाशधर्मकत्वानित्यम् , तद्धि सूक्ष्मोत्पादभङ्गसन्ततिसम्भवेऽपि सत्त्वादिभिराकारैर्नोत्पद्यते नापि विनश्यति / तत्र द्रव्यास्तिकं मातृकापदास्तिकं च द्रव्यनयः, उत्पन्नास्तिकं पर्यायास्तिकं च पर्यायनयः / अस्ति मतिरस्येत्यास्तिकं, सतः प्रस्तुतत्वात् तदभिसम्बन्धे नपुंसकलिङ्गता, द्रव्ये आस्तिकं द्रव्यास्तिकम् , मयूरव्यंसकादावकृतलक्षणतत्पुरुषप्रक्षेपात् / अथवाऽधिकरणशेषभावविवक्षायां द्रव्यस्यास्तिकं द्रव्यास्तिकम् , अथवा आस्तिकमस्तिमति, किं तत् ? नयरूपं प्रतिपादयित, कस्य प्रतिपादकम् ? द्रव्यस्य, अतः प्रतिपाद्यप्रतिपादकभावलक्षणसम्बन्धविवक्षायां षष्ठीसमासश्च / एवं द्रव्यास्तिक-स्वरूपम् मातृकापदास्तिकादिष्वपि योज्यम् / द्रव्यमेवाभेदं भिद्यते न पर्यायः, द्रव्यं भवनलक्षणं मयूराण्डकरसवदुपारूढसर्वभेदबीजं देशकालक्रमव्यङ्ग्यभेदसमरसावस्थमेकरूपं भवनं-भूतिः सत्त्वमाश्रितसत्तातिरिक्तं भेदप्रत्ययमर्शेनाभिनमपि भिन्नवदाभासते, तदेव चास्तीति मन्यते, तच्च द्रव्यास्तिकमसङ्कीणेस्वभावं शु. द्धप्रकृतिरूपमेकं प्रत्याख्याताशेषविशेषकदम्बकं द्रव्यात्मकं द्रव्यमानं सङ्ग्रहप्ररूपणाविषयमभिहितम्, अपरं नैगमव्यवहारविषयमशुद्धप्रकृति, यस्माद् द्रव्यपर्यायावुभाविच्छति नैगमः स्वतन्त्रौ, सामान्यमर्थान्तरभूतमन्यदेवाश्रितं सदभिधानप्रत्ययहेतुस्तयोर्निनिंगित्तयोः सर्वथाऽनुपाख्ये प्रवृत्त्यभावात्, व्यावृत्तिबुद्धिहेतुर्भेदकरोऽन्य एव विशेष इति भेदाभ्युपगतेरशुद्धप्रकृतित्वम्, व्यवहारोऽप्यशुद्धप्रकृतिरेव, परस्पर विभिन्नरूपैरथैः संव्यवहारः सिध्यतीत्यभिप्रायात् , नैगमस्य वा सङ्ग्रहव्यवहारानुप्रवेशाच्छुद्धाशुद्धप्रकृतित्वं द्रव्यास्तिकर प, तत्र सङ्ग्रहाभिप्रायानुसारि द्रव्यास्तिकम् , व्यवहारनयानुसारि मातृकापदास्तिकम् , शुद्धाशुद्धप्रकृतिद्वयसन्दर्शनार्थ द्विधोपादानम् , सर्ववस्तुसल्लक्षणत्वादसत्प्रतिषेधेन सर्वसङ्ग्रहादेशो द्रव्यास्तिकम् , नहि सता किश्चिदनाविष्टमस्ति द्रव्येण वा, तच्च निर्भेदत्वाल्लोकयात्राप्रवृत्तिवहिर्मुखम् , अत एव व्यवहारप्रवृत्तिस्त्यागोपादानोपेक्षारूपेण वस्तुषु प्रायो भेदसमाश्रया, स च भेदो मातृकापदास्तिकनिबन्धनः, व्यवहारस्याशुद्धप्रकृतित्वाल्लोकव्यवहारप्रसाधनाय द्रव्यास्तिकं भिनत्ति व्यवहारनयः, किमन्यद्धर्माधर्माकाशपुद्गलजीवास्तिकायेभ्यस्तद्रव्यास्तिकं नाम ? ते चास्तिकायाः परस्परं भिन्नस्वभावास्तुल्येऽपि हि द्रव्यत्वे न धर्मास्तिकायो भवत्यधर्मास्तिकायः, पकापकवत्, तथेतरेऽपि विविक्ता एव लोकयात्रा वर्तयन्ति, सन्मात्रं शुद्धद्रव्य मात्रं वा विद्यमानमपि न जातुचिद् व्यवहारक्षमम्, अतः स्थूलकतिपयमातृकापदास्तिकम् व्यवहारयोग्यविशेषप्रधानं मातृकापदास्तिकम् , एते च धर्मास्तिका यादयः समस्तसामान्यविशेषपर्यायाश्रयत्वान्मातृकापदशब्दवाच्याः, पालुवा ह्यशेषवर्णपदवाक्यप्रकरणादिविकल्पानां योनिः, इत्थं धर्मादयोऽपि व्यवहारनिबन्ध Page #427 -------------------------------------------------------------------------- ________________ सूत्रं 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् 401 नानेकपर्यायोपघ्नास्तविपरीतपर्यायाश्रयाश्च तत्र तत्र व्यवहियन्ते व्यवहारार्थिभिः, अतो मातृकॉपदमेवास्ति व्यवहारयोग्यत्वान्, न शेषमिति व्यवहारनयाभिप्रायः / सङ्ग्रहव्यवहारौ च प्रत्येकं शतभेदत्वादनेकमुखौ, व्यवहार इति चान्वर्थसंज्ञत्वादेवास्य नयस्य, अवहरणमवहारः, कस्य ? एकसत्त्वस्य, केन ? विशेषेण-घटादिना, नानासत्त्वेन लोकयात्रासिद्धेः // ____अधुना द्रव्यास्तिकमातृकापदास्तिकाभिहिताविशिष्टवस्तुप्रतिक्षेपेण भेदा एव वस्तुत्वेना. वध्रियन्ते पर्यायनयेन, अनवरतोत्पादविनाशप्रवाहमात्रमेव वस्तु सकलव्यवहारनिवन्धनम्, न तु स्थितमस्ति किञ्चित्, आत्मभावलक्षणानन्तरविनाशित्वान्न किञ्चित् पर्यायवादिमतम् केनचिदेकेनाभिन्नेन स्थित्यंशेनावबध्यमानं सम्भाव्यते, तत्राशेपस्थल सूक्ष्मोत्पादकलापस्य प्रतिपादकमुत्पन्नास्तिकमुत्पन्नेऽस्तिमति, नानुत्पन्ने वान्ध्येयव्योमोत्पलादाविति, योऽप्यात्मलाभक्षणोऽस्ति सन्नित्येवंविधशब्दवाच्यः सोऽप्यभूतप्रादुर्भावः प्राग् नासीत् पश्चालब्धात्माऽस्ति सन्नित्यादिशब्दव्यपदेश्यः, न तु भूत्वाऽस्तिमनुभवनस्तीत्याख्यायते',क्रियायाः कृतकत्वात् पचत्यादिवत्, कर्तुश्च तत्सम्बन्धेन कर्तृत्वप्रतिलम्भस्य कृतकत्वान्न स्थितसत्ताकमेकमस्ति किञ्चित्, प्रथमक्षणविलक्षणाश्चोत्तरोत्तरक्षणाः सन्तानाकारेणोपजनमासादयन्ति / तथा पर्यायास्तिकमित्युत्पत्तिमतोऽवश्यं विनश्वरत्वाद् यावन्त उत्पादास्तावन्त एव विनाशा इति विनाशेऽस्तिमति पर्यायास्तिकम् , पर्यायो भेदो विनाशलक्षणः सोऽस्त्येवोत्पन्नस्येति, पर्यायो हि विनाशपर्यायः, यथा प्राप्तपर्यायो देवदत्त इति, समस्तविलसाप्रयोगापादितविनाशसूचनाकारि च पर्यायास्तिकम् / अपरे तु वर्णयन्त्यन्यथा उत्पन्नास्तिकं पर्यायास्तिकं च, तत्र सामग्रीग्रहणादेकद्रव्यभाविनां पर्यायाणां कालतोऽर्थतो वाऽप्यव्यभिचारिणां यत्र व्यपदेशस्तदुत्पन्नास्तिकं सिध्यमानसिद्धवत्, यथा सिध्यमानः सिद्ध इति कालतोऽर्थतश्चाव्यभिचारी शब्दः, तथैकद्रव्यभाविनां पर्यायाणामयुगपदवृत्तीनां युगपदग्रहणात् सामग्रीग्रहणाञ्च यत्र व्यपदेशः स पर्यायदेशः, यथा स्पर्शादिमतां पुद्गलानामिन्द्रियैर्युगपदग्रहणादपि व्यपदेशः क्रियते स्पर्शरसगन्धवर्णवन्तः पुद्गला इति / अपरे व्याचक्षते " तेषामुत्पादसम्भक्ते-रुत्पन्नास्तिकदेशना / / उत्पद्यमानाः पर्यायाः, पर्यायास्तिकमुच्यते // " / तेषामिति / द्रव्यमातृकापदास्तिकभेदानामुत्पादयोगादुत्पन्नास्तिकदेशना, पर्यायनयस्यानुत्पन्नेन व्यवहाराभावात् तदानीमेव सन्, न ह्यनुत्पन्नाः केचिद् द्रव्यादयः सन्ति, अतीतानागतवर्तमानेष्वविशेषात्, यदा पुनरुत्पादसमावेशिनो वर्तमानकालावच्छिन्नाः पर्याया विवक्ष्यन्ते तदोत्पद्यमानावस्थायां पर्यायास्तिकमुच्यते / अन्ये वभिदधति-न मातृकापदास्तिकं द्रव्या. स्तिकाद् भिद्यत इति द्रव्यनयपरिग्रहः, पर्यायास्तिकं च नोत्पन्नास्तिकाद् विविच्यत इति १.लाभेक्ष.' इति क-पाठः / 1. भूयांसि म.' इति क-ख-पाठः / 3 अत्र 'क्रियते' इत्यधिकः क-पाठः। ४'गादिक' इति क-पाठः। Page #428 -------------------------------------------------------------------------- ________________ 402 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 पर्यायनयपरिग्रहः, तदेवं चतुर्भिरपि विकल्पैर्नयद्वयी प्रतिपिपादयिपिता, एवं तर्हि द्रव्यादिचतुष्टयी किमर्थेति चेत्, तदुच्यते-उभयनयस्वभावप्रदर्शनार्था चतुष्टयी / एवमेतान्यन्यव्याख्यानान्यालोच्य भाष्यं कथमपि गमनीयम्, स्वव्याख्यानानुसारेण तावदुच्यते पर्यायनयश्वोत्यादविनाशाद् द्वैविध्यप्रदिदर्शयिषया भाष्यकारेणोपचक्रमे, उत्पन्नास्तिकं पर्यायास्तिकमिति। स एप पर्यायनयमहाविटपी प्रौढदृढानवद्यर्जुसूत्रनयादभ्रस्कन्धः सुप्रतिष्ठिताधारनानागमगहन शब्दनयशाखस्तदाश्रयसमभिरूद्वैवंभूतविविधविकल्पप्रशाखोऽर्थशब्दज्ञानशून्यताङ्गुरपत्रपुष्प फलोपशोभितः पर्यायप्रधानत्वादुत्पादविनाशमात्रजलावसेकसंवर्धनीयः ऋजुसूत्रादिभिः प्रतन्यते, तत्र सूत्रः कुटिलातीतानागतपरिहारेण वर्तमानक्षणावच्छिपर्यायपक्षः भवस्तुसत्तामात्रमृजुं सूत्रयति-अन्यतो व्यवच्छिनत्ति सूत्रपातवन, न ह्यतीतमनागतं वाऽस्ति, यदि स्यातामतीतानागते न तर्हि मृतपुत्रिका युवतिः पुत्रकमुद्दिश्य रुद्यात्, न च पुत्रार्थिनी योषिदौपयाजिकादिविशिष्टदेवतासन्निधौ विदध्यात्, तद्धि वस्तु वर्तमानक्षणावस्थाय्येव, न जातुचित् ततः परं सत्तामनुभवति, नाप्यतीतकालासादितात्मलाभं किश्चित् तत्रान्वेति, स्वकारणकलापसामग्रीसन्निधावुत्पाद्य स्वरसम गुरतामवलम्बन्ते तत्क्षणमात्रावलम्बिनः सर्वसंस्काराः। एवं च सति य एते कभूतद्रव्यशब्दसन्निधौ क्रियाशब्दाः प्रयुज्यन्ते यथा देवदत्तः पचति पठति गच्छतीति कर्मभूतद्रव्यशब्द. सनिधौ वा यथा घटो भिद्यते घटं वा भिनत्तीत्येवमादयो. न यथार्थाः, कथम् ? यतो नामशब्देनाविकृतरूपस्य द्रव्यस्याभिधानात् , क्रियाशब्देन च विकारस्य प्रतिपाद्यत्वात्, न च विकाराविकारयोरैकाधिकरण्यमस्ति, विरुद्धत्वात , अर्थप्रत्यायनाय हि प्रयुक्तः शब्दो विरुद्ध मर्थ प्रतिपादयनैव सम्यग्ज्ञानमाधत्ते, अयथार्थत्वात् , मृगतृष्णायां सलिलशब्दवदिति उक्तार्थसंवादी च श्लोको गीतः पुराविदा "पलालं न दहत्यनि-भिद्यते न घटः कचित / . नासंयतः प्रव्रजति भव्यो-ऽसिद्धो न सिद्धयति // पलालं दह्यत इति यद् व्यवहारस्य वाक्यं तद विरुध्यते, अत्र वाक्ये वाक्यार्थप्रतिपत्तये पदार्थप्रविभागकाले पलालशब्दो विशिष्टाकारद्रव्यवचनो नाम शब्दः तद्धि द्रव्यं यावत सस्मिन्नेवाकारे वर्तते तावदेव पलालशब्दवाच्यम् , अन्यदा तु पलालभावेन तस्याभाव एव, सद्भावेनाभावात् पटवत् , तस्मात् स्थिररूपमव्यापारमुदासीनमविकृतं पलालशब्देन वस्तु प्रतिपादितम् , कथं तदेव दह्यत इत्यनेन शब्देनोच्येत ? क्रियाशब्दस्य विकाराभिधायित्वात्, न हि स एवार्थो विकारश्चाविकारश्च भवितुमुत्सहते, यदि हि तत् पलालं न तर्हि तदेव दह्यते, अविपरिणतत्वात् , प्रागवस्थावत् , विपरिणममानं च पलालमेव तन्न भवति, विपरिणामशब्दस्य भावान्तरवाचित्वात् , तस्माद् यावत् तत् पलालं तावन्न दह्यते, यदा दह्यते १.सिक्यते इति क-पाठः / Page #429 -------------------------------------------------------------------------- ________________ सूत्र 31] . स्वोपज्ञभाष्य-टीकालङ्कृतम् तदा पलालं न भवतीत्यतो नैतावेकस्यार्थस्य प्रत्यायनाय सम्यग्ज्ञानोपजनकारणम , शब्दान्तरापत्त्यसहिष्णुत्वात् प्रमत्तगीतावेताविति // ___ एवं घटायुदाहरणभावना कार्या, एवं च सदेकक्षणवृत्त्येव, नित्यं पुन.वास्ति वस्तु किञ्चिदिति / एवमृजुसूत्रनयेन निरूपिते वस्तुनि शब्दनयस्तयावृत्त्यर्थमाह-शब्दप्रयोगो. ऽर्थगत्यर्थः, तत्र वक्तुरर्थानुविधायी शब्दोऽर्थवशात् तस्य शब्दप्रयोगः, श्रोतुः पुनः शब्दवशादर्थप्रतिपत्तिरिति शब्दानुविधाय्यर्थः, शब्दनयाश्च शब्दानुरूपमर्थमिच्छन्ति, यथा शब्दस्तथाऽर्थोऽपि प्रतिपत्तव्यः, समनन्तरनयप्रतिपादितं वर्तमानरूपप्रवृत्तं वस्तु सूक्ष्मतरेण शब्देन भिद्यते, ऋजुसूत्रस्तु वर्तमानानेकधर्मरूपमपि घटशब्देनाभिधीयमानं सम्यगभ्युपैति, यथा मृद्धटोऽस्ति घटो द्रव्यं घट इति, यद्यसौ मृद्रूपेण द्रव्यतया च न स्यादमृद्रव्यं च घटः स्यात् , अतः सोऽसौ तेन रूपेण वृत्तत्वाद् वर्तमानरूपघटवदिति / शब्दनयस्तु वर्तमानकालेवृत्तमपि लिङ्गसङ्ख्यापुरुषकालादिभिन्नमवस्त्वेव मन्यते, स्त्रीपुंनपुंसकलिङ्गानां गुणानां भिन्नत्वात्, मृद्धटो द्रव्यमिति न सामानाधिकरण्यम्, यथा गौरश्वः, संस्त्यानप्रसवस्थितिलक्षणाः परस्परविरुद्धाः खल्वेते गुणाः शीतोष्णादिवत्, मृदादिशब्दाच भिन्नरूपप्रत्ययप्रसवो दृष्टः, पटकुटादिभिन्नध्वनिवत् , तस्माल्लिङ्गादिभिन्नमसम्यगभिधानम् , तस्यार्थस्य तेन रूपेणाभूतत्वात्, कातरे शूरशब्दप्रयोगवदिति, एवं चाभिन्नलिङ्गसङ्ख्याधुच्यमानं वस्तु वस्तुतामधिवसति, तेन रूपेण वृत्तत्वात्, यथा शूरे शूरशब्दप्रयोगः, समानलिङ्गशब्दाभिधेयतायां च वस्तुनः पर्यायान्तरैः सामानाधिकरण्यं सिध्यति, घटः कुटो हस्ती दन्ती चेति // एवं शब्दनयेन सूत्रे व्यावर्तिते वस्तुनि चाभिन्नलिङ्गादिशब्दवाच्ये प्रतिष्ठापिते वर्तमानस्याभिन्नलिङ्गादिकस्य वस्तुनः सूक्ष्मतरं भेदमभिधत्ते समभिरूंढनयः / न जातुचित् पर्यायान्तरैकाधिकरण्येन शब्दैरुच्यमानं वस्तु यथावस्थितमुक्तं भवति, संज्ञानिमित्तभेदाद् / द्विविधा संज्ञा-पारिभाषिकी नैमित्तिकी च, तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीति, यदृच्छामात्रप्रवृत्तत्वात्, नैमित्तिकी तु सर्वैव संज्ञा युक्ता, यथाऽऽह "नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् / यन्न विशेषपदार्थसमुत्थं, प्रत्ययतः प्रकृतेश्च तदूह्यम् // " _ एवं च सर्वे क्रियानिमित्ताः शब्दाः धातुजत्वानिमित्तभेदाचार्थभेदो दृष्टश्छत्रिदण्ड्यादिवत्, अतो यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढस्तामेवैकामारोहति, द्वितीयां निमित्तान्तरवृत्तां न क्षमते, तस्माद् वर्तमानेनाभिन्नलिङ्गादिनाऽप्येकेनैव ध्वनिनाभिधीयमानोऽर्थः सम्यगुक्तो भवति, नान्यथेति // क्रियाभेदादित्थं समभिरूढनयेन प्रतिपादित वस्तुन्येवंभूतनयः तद्वस्तु सूक्ष्मतरभेदं प्रति 1' तस्य प्रयोगः' इति क-ख-पाठः / २'लमपि' इति क-पाठः / 3 रूढो नयः' इति क-ख-पाठः। Page #430 -------------------------------------------------------------------------- ________________ 404 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 पादयितुमुपक्रमते-यदि घटत इति घटः क्रियानिमित्तशब्दवाच्योऽभ्युपेतस्त्वया ततो यत् तनिमित्तं सा क्रिया यदैव वर्तमाना तदैव नैमित्तिकः शब्दो युक्तश्चित्रकारादिवत्, तसाद् यदैव घटते-चेष्टते तदैव घटः, तन्निमित्ताभावे पटादिवदेवासौ न घटः, न चातीतानागतनिमितसम्बन्धः, तयोरभावात्, न ह्यतीतं भावि वा छत्रदण्डादि छत्रिदण्ड्यादीनां निमित्तं युज्यते, यदि स्यात्, त्रैलोक्यस्य छत्रिदण्डित्वप्रसङ्गः, अतो घटमान एव घटः, क्रियाविशिष्टस्यैव घटता, ततश्च घटशब्देनापि नैवासौ सर्वदा वाच्य इति, एवमेष पर्यायनयः ( सूक्ष्म )सूक्ष्मतरभेदस्तावदाधावति यावज्ज्ञानमात्रमवशिष्यते शून्यता वा, न विह सकलक्रमभेदाख्यानं क्रियतेऽन्यत्र प्रपञ्चितत्वात् / एवमेतयोर्द्रव्यास्तिकपर्यायास्तिकयोर्वचनचतुष्टयोपात्तयोः परस्परापेक्षयोरर्पणानर्पणविशेषतः सम्भवद्भिर्विकल्पैर्भाष्यकृत् स्वयमेव सवित्यादिभेदभावनां करोति___ भा०-एषामर्थपदानि द्रव्यं वा द्रव्ये वा द्रव्याणि वा सत् / असन्नाम नास्त्येव द्रव्यास्तिकस्य / टी-एषामर्थपदानीत्यादि / एषां-द्रव्यपर्यायनयभेदानां द्रव्यास्तिकादीनां चतु र्णाम् अर्थानि पदानि अर्थपदानि द्रव्यं वा द्रव्ये वा इत्यादीनि, द्रव्यमतनिरूपणम् द्रव्यास्तिकादीनां योऽर्थोऽभिधेयो-वाच्यस्तत्प्रतिपादनप्रयोजनान्येक ___ वादीनि युक्तानि द्रव्यादीनि, एभिर्हि द्रव्यास्तिकादीनि व्याख्यायन्ते विकल्पैस्तेषां चार्थाभिधानप्रत्ययभेदेन भिन्नानामन्तरङ्गाभिधानप्रत्ययपदापेक्षया बहुतिथविद्वजनाभिमतबहिरङ्गार्थपदचिन्ता क्रियते, तिष्ठतां तावदभिधानप्रत्ययावित्यर्थपदमेव प्राक् प्रदपर्यत इत्यर्थः / तत्र द्रव्यं भव्यं योग्यं स्वपर्यायपरिणतेः सर्व धर्मादि भेदवायभिमतमभिन्न लक्षणार्पणयैकत्वेन विवक्ष्यते द्रव्यमिति द्रव्यस्वभावात्यागात्, न च द्रव्यव्यतिरिक्तं गुणकर्मादि फिश्चिदस्ति, रूपरसादयस्तव्यद्वारेणैवोपलब्धिमार्गमवतरन्तो द्रव्यवृत्तिमात्रत्वेनावधार्यन्ते, न भिन्नजातीयत्वेन, चक्षुरादिग्रहणभेदात् तु वृत्तयस्तास्तस्य भिद्यन्ते, पितृपुत्रमातुलत्वाद्यनेकसम्बन्धिसम्बन्ध विशिष्टपुरुषवत्, अभिन्नस्यैकस्य जिनदत्तादेजन्यजनकायनेकसम्बन्धापेक्षाः पित्रादिव्यपदेशाः प्रवर्तन्ते, न तु तस्मात् पुरुषवस्तुनोऽर्थान्तरभूतं पितृत्वं नामार्थो जात्यन्तरमस्ति, पुरुषवृत्तिमात्रत्वात्, तथा द्रव्यमपि चक्षुग्रहणादिविषय यमासादयद् रूपादिव्यपदेशमनेकमासादयति, अतोऽनन्तरं रूपरसादयो द्रव्यादिति, कर्मापि विलसाप्रयोगसापेक्षो द्रव्यपरिणामस्तद्भावलक्षणो द्रव्यादव्यतिरिच्यमानो द्रव्यमेव, सामान्यविशेषयोरपि तदग्रहे तद्बुद्धयभावात् द्रव्यमावतैवेति, एवमेकमेव द्रव्यं शुद्धप्रकृते व्यार्थस्य / अविशुद्धद्रव्यार्थभेदनैगमस्त्वभिन्नद्रव्येण व्यवहाराभावाद् भेदनि 1 'नास्ति' इति ग-पाठः / 2 'बहुविध' इति क-ख-पाठः। 3 भूयसा यद्रूपादि' इति क-पाठः / Page #431 -------------------------------------------------------------------------- ________________ सूत्र 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् 405 बन्धनद्वित्वादिसङ्ख्याव्यवहारः सकललोकयात्राक्षमः सिद्धयतीति द्रव्ये वा द्रव्याणि वेत्याह, अन्यथैकसङ्ख्याऽपि न स्याद, व्यवहारस्य वा शतभेदत्वात् कश्चिदंशः द्रव्यास्तिके नैगमा प्रतिपन्नदेशकालसङ्ख्याभेदः प्रतिमन्यते द्रव्ये वा द्रव्याणि वेति विकल्प सम्भवः, सच त्रिविधमुत्पादादि, तच्च द्रव्येणार्यमाणमङ्गीकृतसङ्ख्यामेदमेवात्मलाभ प्रतिपद्यते,द्रव्यं वा द्रव्ये वा द्रव्याणि वेति,न तु कदाचिद् वचनत्रयप्रतिपाद्यद्रव्यव्यतिरेकेणान्यत् किश्चित् सदस्ति,यतो द्रव्यमित्यपदिष्टे सत् प्रतीयते,द्रव्ये इत्यपि सती,द्रव्याणि च सन्तीत्येवं व्यस्तेषु समस्तेषु च प्रतीयते द्रव्येष्वेव सत्, द्रव्यमाने नियतवृत्तित्वात्, द्रव्यव्यतिरिक्तपदार्थाभावाचान्यत्र नोपलभ्यते, यदि स्यादद्रव्यं किश्चिद् गुणः कर्मादि वा तत्राप्याशङ्केत सतो वृत्तिः, तत् तु नैवास्तीत्ययमर्थोऽनेन भाष्यवचनेन प्रत्याय्यते-असन्नाम नास्ति, असदिति यस्य नाम संज्ञिनस्तत्संज्ञिरूपमसन्नामकं नास्ति, संज्ञिरूपाभावाद् वा संज्ञा नास्ति, परस्परापेक्षत्वात् संज्ञासंज्ञिनोः, एवं चासच्छब्देन गुणाद्यभाव एवोच्यते, स च गुणाधभावो द्रव्यमात्रमेव द्रव्यास्तिकस्येत्युक्तेन प्रकारेण द्रव्यार्थिकस्यार्थपदभावना / अन्ये भाष्यमेवं पठन्ति-असन्नाम नास्त्येव सावधारणोऽसतः प्रतिषेधः, व्यास्तिके संग्रहः सर्वे द्रव्यमिति सञ्जिघृक्षतो द्रव्यास्तिकस्य हि मातृकापदास्तिकाद्यपि सर्वमन्तर्वसंतीति, तस्मात् सदित्युक्ते एषामेकत्वद्वित्वबहुत्वानामन्यतमो. तौ तदवरोधः सन्मात्रत्वादिति / एवं सङ्ग्रहनयेन स्वाभिप्राये द्रव्यास्तिकमात्रतया प्रकाशिते व्यवहारनयः स्वाभिप्रायमाविष्करोति मातृकापदास्तिकोपन्यासेन भा०-मातृकापदास्तिकस्यापि मातृकापदं वा मातृकापदे वा मातृकापदानि वा सत् / अमातृकापदं वा अमातृकापदे वा अमातृकापदानि वाऽसत् / टी०-मातृकापदास्तिकस्यापीत्यादि / धर्मास्तिकायादीनामुद्देशमात्रं मातृकापदास्तिकलक्षणम् , एवं मन्यते व्यवहारः-न द्रव्यमात्रमभेदं सत् संज्ञास्वालक्षण्यादिशून्यं व्यवहां लौकिकपरीक्षकाणां धियं धिनोति, व्यवहारार्थश्च वस्त्वभ्युपगमः, स च भेदेन प्रायः साध्यंते, त्वयाऽपि च भेद एव प्रदर्शितो द्रव्यं वा द्रव्ये वा द्रव्याणि वेति, एकस्मिन्नर्थे एकवचनं प्रयोरर्थयोर्द्विवचनं बहुष्वर्थेषु च बहुवचनमित्येवं सतो भेदिका सङ्ख्या , न च द्रव्यसतोमें दस्तद्रव्यमेव सत्सदेव द्रव्यम्, यच्चैकसङ्ख्यावच्छिन्नं सत् तन्न द्वित्वाम्यास्तिके व्यवहाररा दिसङ्ख्ययाऽऽश्रयितुं शक्यम्, न धेको द्वौ, द्वौ वा एक इत्येवं लोक व्यवहारप्रवणेन भेदोऽभ्युपेयः,किं तद् द्रव्यं धर्माधर्माकाशपुद्गलजीवभेदं गतिस्थित्यवगाहशरीरादिपरस्परोपग्रहणाद्युपकारि संज्ञास्वलक्षणादिविवितं संव्यवहारप्रापण. प्रत्यलं भवति ? निर्भेदं पुनर्वस्तु न काश्चिद् व्यवहारमात्रामभिमुखीकरोति, भेदप्रधानतायां तु 'मातृकायपि' इति क-पाठः / Page #432 -------------------------------------------------------------------------- ________________ ত্যাখীখিসুষ [ अध्यायः 5 धर्मादीनामन्यतमकविवक्षायां सद मातृकापदम् द्वित्वविवक्षायां सती मात कापदे,त्रित्वादिविवक्षायां सन्ति मातृकाएदानीति प्रतिविशिष्टव्यवहारप्रसिद्धिः, अतो धर्मादयः परस्परव्यावृत्तसत्त्वस्वभावार्पणयैव सन्ति, नान्यथा / धर्मास्तिकायस्वलक्षणं यात तीन जातुचिदधर्मास्तिकायलक्षणं भवति, अतो यदस्ति तन्मातृकापदं वेत्यादिना विकल्पत्रयेण सगृहीतं धर्मादि पश्चविधम्, सकलभेदजालप्रसूतिहेतुत्वान्मातृकापदं मातृकास्थानीयमुच्यते धादि, नातोऽन्यदस्तीति, अमातृकापदं वेत्यादिना तामेव परस्परव्यावृत्तिमभिव्यनक्ति, यदि धर्मादिपञ्चकव्यतिरेकि किञ्चिद् भवेत् ततस्तन्मातृकापदं वेत्यादिव्यादेशो युज्येत, संज्ञावालक्षण्याद्यभावात् तच्चासत, तस्माद धर्म एवाधर्मलक्षणाद् व्यावर्तमानस्तेनाधर्मस्खलक्षणरूपेणासनित्युच्यते / एवं शेपेष्वपि भावना विधेया॥ सर्वसद्गतिविशेषाणां प्रसवहेतुत्वाद धर्मास्तिकायो मातृकापदम्, स एव च सर्वसस्थितिविशेषप्रसवच्यावृत्त्यपेक्षया अमातृकापदम्, एवं द्विवचनबहुवचने विभावनीये / तस्मान द्रव्यास्तिकादि किश्चिन्मातृकापदव्यतिरेकि विद्यते, स्वभावासंक्रान्त्या तु परस्परापोहभावतः पदार्थव्यवस्थानम्, स चापोहः सल्लक्षणव्यवच्छेदेनको यथा प्रमाणं प्रमेयं च सद्, यत्र प्रमाण न प्रमेयं तदसदेव, अपरो धर्मान्तरस्य धर्म्यन्तरोत्पन्नवैशिष्ट्येनापोहा, तधया-जीवोऽजीवो न भवत्यश्वो गौन भवतीति, तथाऽनपोहश्चेतनाचेतनयोर्द्रव्यादेशात्, परस्परापोहे च द्रव्यादेशात् सर्वेषां धर्मादीनामनपोह इत्येवं सामान्य विशेषाने धर्मलाद् धर्मादयोऽपोहानपोहरूपाः सर्वे मातृकापदास्तिकम्, एवं द्रव्यार्थनयामिप्रायो द्रव्यास्तिकमातृकापदास्तिकाभ्यामाख्यातः / पर्यायार्थनयावसरे विदमुच्यते• भा०-उत्पन्नास्तिकस्य उत्पन्नं वा उत्पन्ने वा उत्पन्नानि वा सत् / अनुत्पन्न धाऽनुत्पन्ने वाऽनुत्पन्नानि वाऽसत् // टी-उत्पन्नास्तिकस्येत्यादि / पर्यायार्थस्य मूलमृजुसूत्रः, स च प्रत्युत्पन्नं वर्तमानक्षणमात्रं सर्वमेव धर्मादिद्रव्यं प्रतिजानीते, क्षणं क्षणं प्रत्युत्पन्नं पूर्वपूर्वक्षणविलक्षणम्, इदमेव च सतो लक्षणं यदुत्पद्यते प्रतिक्षणम्, उत्पादो हि वस्तुनो लक्षणम्, अनुत्पादाश्च व्योमोस्पलादयो न कथञ्चिल्लक्ष्यन्ते, तत्रात्मनां तावत् प्रतिक्षणमपरापरज्ञानदर्शनक्रियाद्युत्पादो लक्षणम्, पुद्गला वर्ण-गन्ध-रस-स्पर्श-शब्द-संस्थान तम-श्छायाद्युत्पादलपर्यायास्तिके उत्पा० क्षणाः, धर्माधर्माकाशांस्तु गन्तृस्थात्रवगाहमानगतिस्थित्यवगाहाका __ऋजुसूत्रः रोत्पादतः प्रतिक्षणमन्ये चान्ये च भवन्तीति, एपां च वर्तमानक्षण एव सत्यः, तसादेकमभिन्नं सकलभेदहेतुर्मातृकापदं नाम किश्चिन्नास्ति व्यवहारनयपुरस्कृतम् / अपि च-व्यवहारोऽपि लौकिक: प्रत्युत्पन्नक्षणसाध्य एव, सतोऽर्थक्रियासामोत् सँच वर्तमानक्षणः, क्रान्तानागतक्षणयोरसत्वान्नार्थक्रियासामर्थ्य सम्भाव्यते, 1 'अलोकाकाशेऽपि अगुरुलघुपर्यायाणामनुसमयमुत्पादोऽस्त्येव / Page #433 -------------------------------------------------------------------------- ________________ सूत्र 31] स्वोपनभाष्य-टीकालङ्कृतम् 407 तसादुत्पन्न एवास्ति क्षणः, तस्मिँश्च नान्वयि किश्चिद् द्रव्यत्वादि विद्यते, ततश्च भूतान्वेषिणो न द्रव्यास्तिकं न मातृकापदास्तिकं किञ्चिदस्ति, उत्पन्नास्तिकमेव तु सत् सन्तत्या द्रव्यं वा धर्मादि वाभिधीयते, न भूततस्तदस्ति, सन्तानस्य सांवृतत्वात, ते च वर्तमानक्षणा भूयांसः, तत्रैकक्षणविवक्षायामुत्पन्नास्तिकं सदिति विकल्पः, द्वित्वविवक्षायामुत्पन्नास्तिके वो सती, त्रित्वादिविवक्षायामुत्पन्नास्तिकानि वेति, यत् तत् सदेवं विवक्षया नियम्यते सङ्ख्याभेदेन व्यवहारार्थम् / यच्च परेण द्रव्यास्तिकं मातृकापदास्तिकं वाऽभ्युपेतं तदुत्पन्नमनुत्पन्नं वा स्यात् ? यदि पूर्वः कल्पः असत्समीहितसिद्धिः, अथोत्तरस्ततोऽसदेव द्रव्यास्तिकादि, कथञ्चिदप्युत्पादनेनायोगादत आह-अनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि षा सर्वमसत् स्वलक्षणस्योत्पादस्याभावादिति / एवमुक्तेन प्रकारेण धर्मादि द्रव्यं स्यात् सत् स्यादसत् स्यान्नित्यं स्यादनित्यमिति प्रतिपाद्यत्वेन सूचितम्, अधुना विपञ्च्यते / तत्र द्रव्या र्थनयप्रधानतायां पर्यायनयगुणभावे च प्रथमविकल्पः, प्राधान्यं शब्देन . सदादिभङ्गाः विवक्षितत्वाच्छब्दाधीनम् , शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधा नता१। पर्यायनयप्रधानतायां द्रव्यनयगुणभावे च द्वितीयः 2 / अपितेऽनुपनीते न वाच्यं सदित्यसदिति वेत्यनेन भाष्यवचनेन तृतीयविकल्पो विवक्ष्यते स्यादवक्तव्यमिति 3 / एते त्रयः.सकलादेशाः। यदा त्वभिन्नमेकं वस्त्वनेकेन गुणरूपेणोच्यते, गुणिनां च गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावादिहात्मादिरेकोऽर्थः सत्वादेरेकस्य गुणस्य रूपेणाभेदोपचारतो मतुब्लोपेन वा निरंशः सकलो व्याप्तो वक्तुमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्यासत्वादेस्तत्रानाश्रयणात् , तत्र द्रव्याथाश्रयं सत्त्वगुणमाश्रित्य तदा स्यात् सन्नित्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्ति भवत्युभयात्मकत्वाद् गुणिनः, न त्वेको गुणो भागवृत्तिरिति / एवं स्यानित्य इत्यपि वाच्यम् / तथा पर्यायनयाश्रयमसस्वमनित्यत्वं चाङ्गीकृत्य स्यादसत् स्यादनित्य आत्मेति वाच्यम् / युगपत् भावादुभयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनुपात्तत्वात् स्यादवक्तव्यः // का पुनर्भावना स्याद् सन्निति ? किमत्र भाव्यम् ? एकं द्रव्यमनन्तपर्यायमतीतानागतानन्तकालसम्बन्ध्यनेकार्थव्यञ्जनपोयस्मकतया विश्वरूपम् , तदेवंविधावस्थं वस्तु वर्तमानपर्यायवृत्तमपि येन येन शब्देनोच्यते तेन तेन रूपेण तदभिसम्बद्धम् , द्रव्यस्य पयोयसचिवत्वात् पर्यायाणां च द्रव्यसहायत्वात् , अतोऽनेकान्तवादसामोद वस्तुनो यदुक्तसूक्तिका, न च व्यवहारविरोधिनी, यथा घटः पटादिरपि भवति स्यात्कारसंलाञ्छनशब्दाभिधेयतायामिति जैनेन्द्रो न्यायः / एवं न्यायव्यवस्थायामनन्तपर्याये पुरुपादौ सप्तधा नाचकः शब्दः प्रवर्तते स्यादस्त्येवेत्यादिः, यथा युवत्ववृत्तिः, पुरुषः पुरुषत्वेनास्ति न तु बालपत्या, ततः स्यादस्त्येव न पुनः सवोत्मनैव पुरुषः द्रव्या 1. द्विस्वादिविवक्षायामुत्पादास्तिके वा सती सन्त्युत्पनास्तिकानि वेति' इति ग-टी-पाठः। 2 . घेति ' इति क-पाटः। 3' कस्य रूपेण' इति क-पाठः। Page #434 -------------------------------------------------------------------------- ________________ 408 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 र्थेनान्वयिना वर्तमानेन यौवनेन विद्यते, न तु तत्र सम्भविनान्येनापि पर्यायेण बालादिना, यदि पुनरस्त्येवेति नियमेनैवोच्यते तत आमरणकालवृत्तत्वात् पुरुपशब्द पुरुषार्थयो!स्तित्वनिरव काशास्तित्वप्रतिज्ञावशात् यथा पुरुषत्वयोवनाभ्यां विद्यते तथा बालपुरुषतयाऽपि स्यादन्याभिश्व वृत्तिभिः सत्सकीणवृत्तिभवेत्, नियतवृत्तिश्च दृश्यते, न वा बालता पुरुषस्वभाव एव भवती. त्यभ्युपेयम्, ततश्चावस्थाहानेः पुरुषाभावप्रसङ्गः, अतो बालापेक्षया स्याद स्त्येवेति भवति, तथैकान्तवादिनो नास्त्येवात्मेत्यवधारणेनोक्ते यथैवान्वयिना द्रव्यार्थपुरुषतया स नास्ति, एवमुत्पादविनाशप्रवाहरूपपर्यायात्मिकयाऽपि बालादिवृत्त्या न स्यात, एवं चात्मनास्तित्वमस्तित्वनिरवकाशं भवेत् ततश्चान्वयिना नैमित्तिकेन वा रूपेण नास्तित्वमात्मनो वान्ध्येयस्येव सर्व प्रकारमनुषक्तम्, अतस्तद्दोपापाकरणेन स्यान्नास्त्येवेत्युच्यते, स ह्यन्वयिन्या वृत्त्या न (?) विघते, न सर्वात्मनैव, येतो वर्तमानपयोयः स्वात्मना बालादिरूपेणास्त्येव, पर्यायपरम्परायामपि वर्तमानपर्यायेणेवास्ति नातीतानागतपर्यायापेक्षणेनेत्यतः स्यानास्त्येवेति / ये त्वस्तित्वनास्तिस्वैकान्तवादिनोऽवधारणमिष्टतः प्रयुञ्जतेऽस्त्येवात्मा नास्त्येव चात्मेति, तेषां शब्दशक्तिप्रापितत्वात् सर्वथाऽस्तित्वनास्तित्वप्रसङ्गः। प्रथमविकल्पे तावत् सर्वप्रकारास्तित्वमात्मनः प्रसजति, प्रतिषेधनिरपेक्षत्वादस्तित्वेन स्वक्शे व्यवस्थापितत्वादस्तित्वाभावे चात्माभावात, नास्तित्वस्यापि स्वविषयेऽवधृतत्वात् सति घटे तदप्रसङ्गात, एकाधिकरणयोश्च सदसतोविरोधात् परस्परविषयानाक्रान्तिः, अतः समस्तवस्तुरूपेणास्त्यात्मा नास्तित्वनिरवकाशास्तिशब्दवाच्यत्वादस्तित्वे स्वात्मवत्, अस्तित्वसामान्येन व्याप्तो न स्वस्तिविशेषैः पटादिभिरिति चेत्, यथाऽनित्यमेव कृतकमनित्याभावे तदभावात्, साध्यधर्मसामान्येनेति वचनात्, अनित्यत्वसामान्यमनित्यव्यक्तिश्चेति द्विरूपः साध्यधर्मः, साधनधर्मोऽपि हि द्विप्रकारः, तत्तुल्योऽपि हितानामे(?)त्यादिवचनात्, तथास्वं येन रूपेणेत्याद्यभिधानात् सामान्यानित्यतया व्याप्तिन विशेषानित्यतया, हन्त भवतैव तर्हि प्रतिपन्नः साध्यधर्मभेदस्तथा चावधारणवैयर्थ्यम्, अनित्यत्वे हि सर्वप्रकारे सत्यवधारणसाफल्यं स्यात्, यदा तु विशेषानित्यतया न भवत्यनित्यं वस्तु तदा व्यर्थमवधारणम् / स्वगतेनापि विशेषेणानित्यं भवत्येवेति चेत्, तन्न, तत्रापि स्वगतेनेति विशेपेणसामर्थ्यात् परगतविशेषानित्यत्वाभावः, पुनरप्यफलमेवावधारणम् / न चानवधारणो वाक्यप्रयोगः पण्डितजनमनःप्रीतिहेतुः, सर्ववाक्यानां सावधारणत्वादिष्टतश्वावधारणप्रकल्पनादवश्यतयाऽवधारणमभ्युपेयम्, अन्यथा त्वनित्यं कृतकमनित्यत्वस्यानवधृतत्वानित्यत्वप्रसक्तिरपि // अपरे त्वेवंविधप्रसङ्गभीत्या त्रिधाऽवधारणफलं वर्णयन्ति अयोगान्ययोगात्यन्तायोगन्यवच्छेदद्वारेण, कचिदेवकारप्रयोगादयोमव्यवच्छेदः, कचिदन्ययोगनिरासः, कचिदत्यन्तायोगव्यु १'वेति तथैकान्त ' इति क-पाठः। २'सतो वर्त ' इति ग-पाठः / धर्मो हि' इति-क-ख पाठः / 5. तथाग' इति ग-पाठः / 3 निषेध ' इति क-पाठः / Page #435 -------------------------------------------------------------------------- ________________ सूत्र 31 स्वोपज्ञभाष्य-टीकालङ्कृतम् ___ दासः, तत्रायोगोऽसम्बन्धस्तदवच्छेदफलं विशेषणमस्त्येव घट इत्यादावएवकारस्यार्थ- स्तिना सह घटस्यायोगो नास्त्ययोगमात्रं व्यवच्छिद्यते,यथा चैत्रोधनु त्रैविध्यम् र्धरः, चैत्रे हि धनुर्धरतायामाशङ्कयमानायां चैत्रो धनुर्धर एवेत्यवधार्यमाणेनान्येभ्यो धनुर्धरता व्यावर्तते,तद्वदिहापि प्रकृतवस्तुनीति, स्यात् त्वेष दोषो यद्यन्ययोगव्यवच्छेदेन विशेषणं क्रियेत, यथा पार्थो धनुर्धरः पार्थे धनुर्धरतायां प्रतीतायां तादृशी किमन्यत्राप्यस्तीति चिन्तायां पार्थ एव धनुर्धरो नान्य इति प्रतिविशिष्टधनुर्धरतायां सहान्यैयोगो व्यवच्छिद्यत इति / कचिदत्यन्तायोगव्यवच्छेदो नीलमेव सरोजमित्यत्र, न सरोजं सकलद्रव्यभाविनीलगुणमात्मसात्करोति, तथा नीलत्वमपि न समस्तसरोजाक्षेपि, अत एवोभयव्यभिचारादुभयविशेषणत्वम्, अत्र च नीलतायाः किलात्यन्तमयोगो व्यवच्छिद्यते, नात्यन्तमयोगः-असम्बन्धः सरोजेन सह नीलतायाः / सर्वत्र चैवकारस्य विवक्षावशात् साक्षादप्रयोगेऽपि व्यवच्छेदार्थप्रतीतिरतो निरन्वयदोषाभावस्तदयोगव्यवच्छेदेन विशेपणादिति / अप्रोच्यते-सर्वमेतद् व्यामोहभाषितं दुर्बुद्धेरुद्धरतः परप्रयुक्तदूषणानि, यसादयोगे व्यवच्छिमेऽपि प्रागेतन( 1 )दोषसम्पातो न निवर्तते, अयोगव्यवच्छेदेन ह्यस्तिना योग इष्यते, स च योगः किं सामान्यरूपेणास्तिना प्रत्याय्यतेऽथ विशेषरूपेण उतोभयरूपेणेति सर्वथा प्राक्तनदोपप्रसङ्गः, व्यवच्छेदोऽप्यस्तित्वसामान्यायोगस्य वाऽस्तित्वविशेषायोगस्य वा उभयायोगस्य षा 1 यद्यस्तित्वसामान्यायोगव्यवच्छेदः, ततोऽस्तित्वविशेषायोगव्यवच्छेदाभावप्रसङ्गस्तस्मिँश्चाव्यवच्छिन्ने सर्वास्तित्वविशेषस्वभाव आत्मादिः प्रसक्तः,अथास्तित्वविशेषायोगव्यवच्छेद इष्टः, एवं तहस्तित्वसामान्ययोगव्यवच्छेदाभावप्रसङ्गः,ततःप्रागेतन. व्यवच्छेदेऽपि स्याद्वादः दोषव्रातस्तदवस्थः, अथोभयायोगव्यवच्छेदः, तथापि सामान्यविशेषा स्तित्वोभयस्वभावः आत्मादिरभ्युपेतः स्यात्, ततश्च निष्फलमवधारणं, सामान्यास्तित्वेन चास्त्यात्मादिविशेषास्तित्वेन च, ततश्च खगतविशेषास्तित्वेनास्ति परगतविशेषास्तित्वेन नास्ति वस्तु, स्यादस्ति स्यानास्तीति सिद्धम्, अनेकान्तरूपमेव समस्तवस्तु व्यवहारास्पदतामानयन्तस्तत्कारिणस्तद्वेषिणश्च केचिज्जायन्ते जगत्यकारणाविष्कृतमत्सरप्रसराः खलु दुर्जनाः / यत्राप्यन्ययोगव्यवच्छेदोऽभिप्रेतस्तत्रापि योगविशेषो व्यवच्छिद्यते न योगसामान्यम्, यादृक् पार्थे धनुर्धरता तादृगन्यत्र नास्तीति / अत्यन्तायोगव्यवच्छेदेऽपि अत्यन्तमयोगो नास्ति योग एव सर्वथा, अथवा कदाचिदस्ति कदाचिन्नास्तीत्येवं च विकल्पद्वयेऽपि प्राच्य एव प्रसङ्गो योज्यः॥ प्रकृतमनुस्रियते-सर्वथा सामान्यविशेषरूपत्वात् प्रकारवदस्तित्वमतः सामान्यास्तित्वेनास्ति विशेपास्तित्वेन नास्त्यात्मा स्यादस्ति स्यानास्तीति,तथा यदस्ति तन्नियमेन द्रव्यक्षेत्रकालभावरूपेणैवात्मलाभं लभते, यथा-आत्मा जीवद्रव्यतया, क्षेत्रत इह क्षेत्रतया, कालतो वर्तमानकालसम्बन्धितया, भावतो ज्ञानदर्शनोपयोगमनुष्यगतितयेति 1' इति विशिष्ट. ' इति क-ख-पाठः / Page #436 -------------------------------------------------------------------------- ________________ नत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 प्रतिपादिते गम्यत इदं-द्रव्यक्षेत्रकालभावान्तरसम्बन्धितया नास्त्यात्मा। यदि च सर्वद्रव्यत . याऽऽत्मा स्याद्, आत्मैवासौ न भवेत्, द्रव्यत्ववत्, सर्ववृत्तितया वा, स्थद्रव्यादिना सत्त्वम् तद्रूपतया च सर्वकालसम्बन्धित्वाद् व्योमवन्मनुष्यभावे वा समस्तनार कादिभावप्रसङ्ग एकान्तवादिनाम्, अतोऽवश्यं स्वद्रव्यादित्वेनैवास्तित्वमभ्युपेयम्, नान्यद्रव्यादित्वेन // ततश्च स्वैरस्तित्वात् परैश्च नास्तित्वात् स्यादस्ति स्यामा स्तीति, स्वपरमात्रभावाभावोभयाधीनत्वादात्मास्तित्वस्य, यथैव स्वास्तित्वादस्तीत्युच्यते, तथैव परनास्तित्वान्नास्तीत्यपि वाच्यम्, न च प्रकारान्तरमस्ति किश्चिदेकान्तवादिनां यदाश्रथणेनावष्टम्भो दृढप्रतिबन्धः स्यादिति नास्तित्वमस्तित्वानपेक्षमत्यन्तशून्यं वस्तु प्रतिपादयेदन्वयाप्रतिलम्माद् अस्तित्वमपि नास्तित्वानपेक्षं सर्वरूपं वस्तु गमयेत् व्यतिरेकाप्रतिलम्मान, न च सता सर्वाभावरूपेण सकलभावरूपेण वा भूयते, अतः सर्वदाऽस्तित्वं नास्तित्वसापेक्षं नास्तित्वं चास्तित्वापेक्षमेवात्मलाभमासादयति, एवं चात्मनि नाग्रसक्ता घटादिसत्ता निषि _ ध्यते अर्थात् प्रकरणाद् वा, घटादिसत्तानिषेधश्चात्मनोधर्मस्तदधीनत्वाआस्तनास्तिकपता दात्मस्वभावस्थ, स एव च परेण विशेष्यमाणत्वात् परपर्याय उच्यते, गव्यनश्वत्ववत, आत्मना विशेष्यमाणत्वादात्मपर्यायः, स्वपरविशेषणायत्तं हि वस्तुस्वरूपाकाशनम्, अनेकान्तवादे च स्यादस्त्यात्मेत्यादिभिः सप्तभिवाक्यैरभिधीयते वस्तु प्रत्येकक्रि यापदप्रयोगेणार्थपरिसमाप्तेः, आत्मेति द्रव्यवाची विशेष्यत्वात्, अस्तीति गुणाभिधायी विशेषणत्वात्, शब्दशक्तिस्वाभाच्याच तथा प्रतीतः, बुद्धयारूढस्योपचरितसत्ताकस्य मुख्यसत्त्वविशेषणत्वेनोपात्तस्य धर्मिण उपादानादसत्त्वे इव, स्याच्छब्दस्तु द्रव्यधर्मलिङ्गसङ्ख्याभेदवियुक्तत्वादसिप्रकृतिर्विध्यादिविषयस(म ?)द्विभक्तिप्रथमपुरुषैकवचनान्तप्रतिरूपको निपातो विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिः, तस्य चानेकान्तावद्योतनमेवार्थो विवक्षितः, केवलस्य च सामान्यविषयत्वावद्योतकत्वाद् विवक्षितार्थप्रतिपादनाय द्रव्यधर्मविशेषोपादानं, तन्नान्तरीयकत्वात्, निपातानां चापरिमितत्वादनेकान्तद्योतकतया विवक्षितत्वादिति, स्याच्छब्देनानेकान्ताभिधानादाक्षेपेऽपि सप्तभङ्ग्याः पुनर्भेदेनोपादानं विशिष्टार्थप्रतिपादनाय, यथा वृक्षशब्देन सामान्यविषयेणाक्षेपेऽपि धवादीनां विशेषप्रतिपिपादयिषया धवादिशब्दोपादानम्, एवमेतदपि दृश्यम्, भेदाप्रतिपत्तेर्विवक्षितमेदप्रतिपादनाय भेदपरिमाणनियमाभिधानाय वा सामान्यलक्षणप्रपञ्चव्याख्यानाय वा सक्षेपव्यासाभिधानम् , तत्रास्तित्वनास्तित्वैकान्तनिवारणाय प्रथमद्वितीयौ,एकान्तरूपस्यार्थस्यावस्तुत्वादिति / तृतीयविकल्पाभिधित्सया भाष्यकदाह भा०-अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा / / टी०-युगपदात्मन्यस्तित्वनास्तित्वधर्माभ्यामर्पिते विवक्षिते क्रमेण चानुपनीते क्रमेणामिधातुमविवक्षिते वाच्यं न जातुचित् सदात्मतत्वमसदात्मतत्त्वमिति वा / वाशब्दो विकल्पार्थः, 1 'कादिप्रसङ्गा' इति क-पाठः। Page #437 -------------------------------------------------------------------------- ________________ सूत्र 31] स्वोपज्ञमाष्य-टीकालङ्कृतम् 411 अर्पितं विशेष्यते, कीदृशेर्पिते ? अनुपनीते, कथमनुपनीते ? सामर्थ्यात् क्रमेणाविशेषिते, क्रमेण त्वर्पणे प्राच्यविकल्पावेव स्याताम् , अतोऽवश्यंतया युगपदमिन्ने काले द्वाभ्यां गुणाभ्यामेकस्यैवार्थस्याभिन्नस्य प्रतियोगिभ्यामभेदरूपेणैकेन शब्देनावधारणात्मकाभ्यां वक्तुमिष्टत्वादवाज्यम् , तद्विवस्यार्थस्य शब्दस्य चाभावात् , अयं च विकल्पस्तत्त्वान्यत्वसत्त्वासम्भवात् कि लावक्तव्यमेवेत्येवंविधैकान्तव्यावर्तनार्थः स्यादवक्तव्य एवात्मा, अवअवक्तव्यत्वम् क्तव्यशब्देनान्यैश्च षड़भिवचनद्रव्यपर्यायविशेषश्च वक्तव्य एव, अन्यथा सर्वप्रकारावक्तव्यतायामवक्तव्यादिशब्दैरप्यवाच्यत्वादनुपाख्यः स्यात् , अतीतविकल्पद्वयं त्वेकान्तास्तित्वैकान्तनास्तित्वप्रतिपक्षनिराकरणद्वारेण स्यादस्ति स्यान्नास्तीति स्वपरपर्यायान्यतरैकधर्मसम्बन्धार्पणात् कालभेदेनोक्तम् , अधुना युगपद् विरुद्धधर्मद्वयसम्बन्धार्पितस्य च वस्तुरूपस्याभिधानात् कीदृशः शब्दप्रयोगो भवतीति ? उच्यते-न खलु तादृशः शब्दोऽस्ति यस्तादृशीं विवक्षां प्रतिपूरयेत् , यतोऽर्थान्तरवृत्तैः पर्यायैरवर्तमानर्मेननुभवंस्तान् पर्यायान् द्रव्यं ब्रवीतीत्येका विवक्षा, अपरा तु विवक्षा निजैः पर्यायैः स्वात्मनि वृत्तैवर्तमानमनुभवन् स्वान् पर्यायान् द्रव्यमभिदधातीति , एवमेतयोर्विवक्षयोः परस्परविलक्षणत्वाद् विरुद्धत्वाच्च द्वाभ्यामपि युगपदादेशे पुरुषस्यैकस्यैकत्र द्रव्ये नास्ति सम्भवो वचनविशेपातीतत्वाचावक्तव्यं वाचकशब्दाभावात् / एतदुक्तं भवति–अस्तित्वनास्तित्वयोर्विरुद्धयोरेकप्राधिकरणे काले च सम्भव एव नास्तीत्यतस्तद्विधस्यार्थस्याभावात् तस्य वाचकः शब्दोऽपि नास्त्येवेति 1 // तथा कालाघभेदेन वर्तनं गुणानां युगपद्भावस्तच्च योगपद्यमेकान्तवादे नास्ति, यतः कालात्मरूपार्थसम्बन्धोपकारगुणिदेशसंसर्गशब्दद्वारेण गुणानां वस्तुनि वृत्तिः स्यात् , तत्रैकान्तवादे विरुद्धानां गुणानामेकस्मिन् काले न कचिदेकत्रात्मनि वृत्तिदृष्टा, न जातुचित प्रविभक्ते सदसत्त्वे स्त एकत्रात्मन्यसंसर्गरूपे येनात्मा तथोच्येत, ताभ्यां विविक्तश्च परस्परगु . णानामात्मस्वभावो नान्योन्यात्मनि वर्तते, ततश्च नास्ति युगपदभेदेनाकालादयो वृत्तिहेतवः भिधानम् 2 // न चैकत्रार्थे विरुद्धाः सदसत्त्वादयो वर्तन्ते, यतोऽह्य भिन्नैकात्माधारत्वेनाभेदे सति सदसत्त्वे युगपदुच्येयाताम् 3 // न च सम्बन्धाद् गुणानामभेदः, सम्बन्धस्य भिन्नत्वात् , छत्रदेवदत्तसम्बन्धाद्धि दण्डदेवदत्तसम्बन्धोऽन्यः, सम्बधिनोः कारणयोर्भिन्नत्वात् , न तावेकेन सम्बन्धेनाभिन्नावेव, सदसतोरात्मना सह सम्बन्धस्य भिन्नत्वात् , न सम्बन्धकृतं योगपद्यमस्ति, तदभावाच नैकशब्दवाच्यत्वम् 4 // न चोपकारकृतो गुणानामभेदः, यसान्नीलरक्ताद्युपकर्वगुणाधीन उपकारः, ते च स्वरूपेण भिन्नाः सन्तो नीलनीलतररक्तरक्ततरादिना द्रव्यं रञ्जयन्ति विविक्तोपकारभाजः। एवं सदसत्त्वयोर्भेदात् सत्त्वेनोपरोक्तं सत्, असत्त्वोपरक्तमसदिति दूरापेतमुपकारसारूप्यम्, यत 1 'सत्त्वान्यत्व' इति क-पाठः / 2 'युगपत्तया विवक्षितादन्यैः द्रव्यविशेषपर्यायविशेषवाचकैः शब्दैः / 3 स्यादस्तीत्यादिरूपैरेतद्वक्तव्यव्यतिरिकः। 4 'मनुभवन्' इति क-पाठः। Page #438 -------------------------------------------------------------------------- ________________ 412 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 स्तदभेदेन शब्दो वाचकः स्यादिति 5 // नाप्येकदेशे गुणिन आत्मन उपकारः समस्ति, येनैकदेशोपकारेण सहभावो भवेत् , गुणगुणिनोरुपकारकोपकार्यत्वे नीलादिगुणः सकल उपकारकः समस्तश्च घटादिरूपकार्यः, न चैकदेशे गुणो गुणी वा, यतो देशसहभावात् कश्चित् शब्दो वाचकः कल्प्येत 6 // न चैकान्तवादिना सदसत्त्वयोः संसृष्टमनेकान्तात्मक रूपमस्ति, अवधृतैकान्तरूपत्वात्,यथैव हि शबलरूपव्यतिरिक्तौ शुक्लकृष्णावसंसृष्टौ नैकस्मिन्नर्थे वर्तितुं समथी,एवं सदसत्त्वाभ्यां संसर्गाभावान युगपदभिधानमस्ति, नाप्येकशब्दः शुद्धः समासजो वाक्यास्मको वाऽस्ति गुणद्वयस्य सहवाचकः, क्रमेण सदसच्छब्दयोः प्रयोगे यद्यसच्छब्दः सदसत्त्वे योगपद्येन ब्रवीति, एवं तर्हि स्वार्थवत् सत्त्वमप्यसत् कुर्यात्, तथैव सच्छब्दोऽपि स्वार्थवदसदपि सब कुर्यात, विशेषशब्दत्वोच्च सदित्युक्ते नासदभिधीयते, न चासदित्युक्ते सदित्युक्तं भवति, अतो युगपदवाचक एकशब्दः / अथ युगपत् सदसच्छब्दौ गुणद्वयस्य युगपदवाच्यता वाचकाविष्येते, ततः समासवाक्यमाख्यातादिपदसमुदायवाक्यं वा भवेद तत्र च समासवाक्यं न वाचकम्, द्वन्द्वस्तावदुभयपदार्थप्रधानः प्लक्षन्यग्रोधवद्, अस्त्यादिभिः क्रियाभिस्तुल्ययोगित्वात्, क्रियाश्रयत्वाच्च द्रव्यस्य प्राधान्यं न गुणस्वम्, यश्च गुणक्रियाशब्दानां द्वन्द्वो रूपरसादीनामुत्क्षेपणावक्षेपणादीनां च, तत्रापि गुणाः शब्दशक्तिस्वाभाव्याद् द्रव्यरूपा एवोच्यन्तेऽस्त्यादिक्रियायोगित्वात्, अन्यथा द्वन्द्वाभावात् / अत्र चात्मा विशेष्यद्रव्यं सदसतोगुणवचनत्वमतो गुणस्य गुण्यभेदोपचारेणाभिधानम्, सन्नास्माऽसनात्मेत्यतो न द्वन्द्वः // ननु च द्रव्येऽपि स्याद्वादोऽस्ति, न गुणविषय एव, यथा स्याद् घटः स्यादघट इति, अत्रापि हि द्रव्यं गुणरूपोपपन्नमेवोच्यते, शब्दशक्तिस्वाभाव्याद् विशेषणविशेष्यभावापत्तेद्रव्यस्य विशेष्यत्वात्, स्याद् घट इदं वस्त्विति वाक्यं च वृत्तेरभिन्नार्थ केवलं विभक्तिश्रवणाद् रूपेण भिद्यते, अतो वाक्येनापि युगपत् प्रयोगासम्भवः / समानाधिकरणसमासवाक्यमपि न सम्भवति, तत्र हि द्रव्यगुणयोः सामान्यविशेषभावे सति द्रव्यशब्दतायां सामानाधिकरण्यं नीलोत्पलादिवत्, अत्र च सदसतोगुणत्वात् परस्परं भेदे सति न सामानाधिकरण्यमद्रव्यशब्दत्वात् सामान्यविशेषरूपेणास्थितत्वान्नास्तिविशेषणविशेष्यसमानाधिकरणसमासः कर्मधारयथार्थयोरिष्यते, न चान्यत् प्रतिपदविहितं समासलक्षणमस्ति, तस्मात् समासाभावाद युगपत् प्रयोगाभावस्तद्वाक्येऽपि सामर्थ्याभावाद् वृत्त्यनुरोधिवाक्यत्वाचातो न कर्मधारयः / नाप्याख्यातादिपदसमुदायो वाक्यं संश्वासंश्चात्मेति, भवत्यादिक्रियासम्बन्धात्, तत्र सामान्यशब्दो युगपदनेकमर्थमभिदध्यात् न चाभिदधीत, " अभिहिताना सामान्यशब्देन विशेषाणां नियमार्था पुनः श्रुतिः" इति न्यायात्, न वा ब्रूयादनेकमर्थमभिधानोपायासम्भवात्, "तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येन चोज्झितः " इति न्यायात, सामान्यशब्देष्वेवं न विशेषशब्देषु धवखदिरादिषु, विशेषशब्दास्तु वाक्ये प्रयुज्यमानाः केवलाः १'त्वसदित्युक्ते ' इति क-पाठः / 2 ' अथवा ' इति क-पाठः / 3 ' रूपापन्न ' इति क-पाठः। .. Page #439 -------------------------------------------------------------------------- ________________ सूत्र 31] स्वोपज्ञभाष्य-टीकालङ्कृतम् 413 स्वार्थमेव ब्रुवते संश्चासंश्चेति, न त्वनेकमर्थ स्वार्थमात्राभिधानान्न सहगुणद्वयाभिधायिता // ननु च वाक्ये द्वयोरपि शब्दयोरेकतया युगपद्भावः, तन्न, पदेभ्यो वाक्यशब्दस्य शब्दान्तरत्वात्, एक एव हि शब्द इष्यते वाक्यम्, तस्य चार्थान्तरेणैकेनैव प्रतिभारूपेण भाव्यम्, अतोत्रापि गुणद्वयवचनस्य युगपच्छब्दद्वयस्यासम्भव इति / एवमुक्तात् कालादियुगपद्भावासम्भवाव समासवाक्यलौकिकवाक्ये युगपच्छब्दयोर्द्वयोरर्थयोश्च वृत्त्यसम्भवाद् युगपद्विवक्षायामवाच्य इत्येवं सर्वैकान्तावक्तव्यप्रतिषेधद्वारेण भाष्यकृता तृतीयविकल्पप्रणयनमकारि प्रेक्षापूर्वकारिणा कथञ्चिदवक्तव्यः, कथश्चिद् वक्तव्योऽवक्तव्यादिशब्दैरात्मेति निरूपितम् / एतदेव च विकल्पत्रयमधुना भाष्यकारः स्फुटतरं भाष्येण दर्शयति / स्याद्वादो हि धर्मसमाश्रयः स्वसिद्धसत्ताकस्य च धर्मिणः सत्त्वासत्त्वनित्यत्वानित्यत्वायनेकविरुद्धाविरुद्धधर्मकदम्बकाभ्युपगमे सति सप्तभङ्गीसम्भवः, तत्र सहव्यवहाराभिप्रायात् त्रयः सकलादेशाः, चत्वारस्तु विकलादेशाः समवसेयाः ऋजुसूत्रशब्दसमभिरूद्वैवंभूतनयाभिप्रायेण / तत्रातीतविकल्पत्रयस्वरूपभावनायेदमुच्यते - भा०-पर्यायास्तिकस्य सद्भावपर्याये वा, सद्भावपर्याययोर्वा, प्रथमो विकल्पः सद्भावपर्यायेषु वा आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा सत्। . टी-पर्यायास्तिकस्येत्यादि / पर्यायास्तिकग्रहणं धर्मविषयस्याद्वादप्रतिपत्यर्थम्, धर्मास्त्वरूपित्वसत्त्वमूर्तत्वादिरूपा धर्मिणः परिणामिनो नात्यन्तव्यतिरिक्ता इत्यतस्तत्प्रणाडिकया धमिविषयत्वमपि द्रव्यपर्याययोः संसृष्टत्वादेवं (देवमेव), अत्र च द्रव्यास्तिकपर्यायास्तिकनयद्वयमात्रवस्तुसमाश्रयः सिद्धयति स्याद्वादः, अन्यथा पर्यायनयाश्रय एव विकल्पसप्तकेन सकलव स्तुव्यापी स्यात् स्याद्वादः, सतो भवनं भावस्तद्भावलक्षणः परिणामः, धर्मर्मिस्यावादः स चानेकरूपः क्रमयुगपद्भावित्वात्, सुरमनुष्यादेनिदर्शनादेश्वात्मनः . सद्भावपयोयत्वं, शेषधमोदिद्रव्यवृत्ताः पुनरसद्भावपयोयाः, वर्तमानकालावधिकाः पर्यायाः सद्भावलक्षणाः, ततोऽन्येऽतीतानागतवर्तमानकालविशिष्टास्त्वसद्भावपर्यायाः, तावत् परिणामपर्यायकलापाश्चात्मादयः पदार्थाः, स्वपरपर्यायानन्तस्वभावमेकं द्रव्यं सत्तारूपेण विवक्षितम्, चेतनाचेतनाहं महासामान्यमुत्सर्गः, पर्यायाः शक्तयोऽनन्ताः, तत्र स्वपर्यायान्वयवत् परपर्यायव्यतिरेकोऽपि वस्तुस्वभावावगतेरङ्गम्, तनिवृत्त्यग्रहणे वस्तुसद्भावानहणाद् विनिवृत्तिद्वारेणैवासद्भावपर्यायोपयोगः, न निवृत्तिरभावः, स एव हि तथा स्वभावो विनिवृत्ताशेषान्यविशेषलक्षणो निवृत्तिशब्दवाच्यः, तदेवमन्वयव्यतिरेकयोर्विधिप्रतिषेधविषययोरनियमातिप्रसङ्गपरिहारार्थ चिदुत्तरकिंवृत्तावद्योत्यविषयं स्याच्छब्दाग्रेसरमपि शब्दसहितं तथाविधान्यतमशब्दविशिष्टं वा धर्मधर्मिनिर्देशवाक्यं प्रयुज्यतेऽन्तर्भूतैवकारं गुणप्रधानभावव्यक्ति १'नेकविरुद्धधर्म' इति क-पाठः। 2 . रूपे विव० ' इति ग-पाठः / Page #440 -------------------------------------------------------------------------- ________________ 414 तत्त्वार्थाधिगमसूत्रम् [ अध्याय: 5 प्रकृत्यर्थं प्रयुक्तान्यतरैवकारं वा परप्रतिपन्नैकान्तधर्मविशिष्टं वस्तु कथञ्चित् नियमकारिधर्मप्रत्यनीकपर्यायधर्मसम्बन्धीति स्यात् सत् स्यादनित्यनित्यादिधर्मात्मकमित्थं धर्म्यपीति वा स्याद्वादिभिः प्रतिज्ञायते, सुलभहेतुदृष्टान्तत्वात् , अतो द्रव्यास्तिकनयार्पणात् सोऽयं धय॑भे. देनैव व्यपदेशः प्रत्यभिज्ञाप्रधानत्वात् , पर्यायार्थिकनिर्देशादस्येदमिति भेदभाक्त्वम् , एकवचनादिप्रदर्शनं चैकस्यैव सत्त्वस्यासत्त्वस्य वा भजनाप्रभावितमनेकत्वमिति प्रतिपादनार्थम् , तत्र सद्भावपर्यायनिमित्तेनादेशेनार्पितमात्मरूपद्रव्यमित्येव सद्रव्यत्वमेव हि सद्भावपर्यायः, तद्धि द्रवति पर्यायान् द्रूयते वा तैर्द्रव्यमनेनाकारेणार्पितं स्यादस्तीत्युच्यते, तस्य द्रव्यत्वादेः पर्यायस्यात्मपरिणामिकारणप्रभावितत्वात् ताद्रूप्याच्च, तच्चास्तित्वं शेषषइविकल्पापेक्षमेव सङ्गतिमनुभवति, सद्भावपर्यायद्वयनिमित्तादेव ज्ञानदर्शनोपयोगद्वयकारणक आदेशो द्रव्यम् , वक्ष्यत्युपरि-द्रव्याश्रया निर्गुणा गुणाः (अ०५,सू०४०) इति / तथा गणतिथसद्भावपर्यायकारणो पाध्यमादेशश्चैतन्यज्ञानदर्शनोपयोगाश्रयो द्रव्यमिति, एवं द्वे द्रव्ये बहूनि वाऽप्युक्तेन प्रकारेणा पितानि सद्भावपर्यायापेक्षया सधपदेशभाञ्जि भवन्ति, अथवैकसद्भावासद्भवापेक्ष- स्मिन् सद्भावपर्यायविषयेऽपितमादिष्टं द्रव्यं वा द्रव्ये वा द्रव्याणि वा था द्रव्यस्यैकत्वादि- सत् तथा द्वयोर्बहुषु विभाव्यम्, अविशिष्टस्य वा द्रव्यपदार्थस्यैकत्वद्वित्व बहुत्वपर्यायाः, तथा च तदर्यमाणं स्यादस्त्येकत्वेनार्पितमेकसङ्ख्या विशेषरूपतयेवास्ति न द्वित्वबहुत्वाकारेण, अनेकधर्मिणो हि वस्तुनः कदाचित् किश्चिद् विवक्ष्यते, युगपद्भरिवक्तृविवक्षायामप्येकत्वादयो यौगपद्येनार्पणावशादुपलभ्यन्ते, सकलपर्यायशक्तिसङ्गतेः परिणामिनः, एकपुरुषाधारमातुलभ्रातृभागिनेयादिशक्तिवत् , एकेन वक्त्रा विवक्षिते प्रयोजनवशादेकत्वद्वित्वादि च सम्भवदप्युपेक्षितं प्रयोजनाभावात् , अतस्तस्य तेनैव विवक्षिताकारेण कार्यसिद्धेः स्यादस्त्यात्मेत्युच्यते, न सर्वपर्यायार्पणया तदा ___ तदस्ति तस्य वक्तरिति प्रथमविकल्पभावना // द्वितीयो विकल्पः भा०---असद्भावपर्याये वा, असद्भावपर्याययोवा, असद्भाव पर्यायेषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वाऽसत् / टी०-असद्भावपर्याये वेत्यादिना द्वितीयविकल्पं भावयति। आत्मनो ज्ञानदर्शनादिव्यतिरिक्ता गतिस्थित्यवगाहोपकारस्पर्शादयोऽसद्भावपर्याया वर्तमानजन्मनो वाऽतीतानागतास्तजन्मनि वाऽतिक्रान्तागामिनः सर्वेऽप्यसद्भावपर्यायाः तदर्पणया स्यानास्त्येवात्मेति, न सर्वथा नास्तित्वप्रतिपत्तिः, यदाऽऽत्मा गत्युपकारकपर्यायेणार्पितस्तदाऽऽत्मद्रव्यमसत्, तत्स्वभावकत्वेन तस्याद्रवणात्, सद्भावपर्यायप्रभावितं वा द्रव्यं स्वपरिणामिप्रभाविता वा पर्यायास्तत्र चैकमपि नास्तीत्यतोऽसदित्युच्यते,परपर्यायार्पणया नास्ति तदित्यर्थः / शेषं पूर्ववद् विभाव्यम् // विचार 1' तर्षभाव ' इति क-ख-पाठः / Page #441 -------------------------------------------------------------------------- ________________ सूत्र 31] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 415 इदानीमवक्तव्यताविभावनायाह ___भा०–तदुभयपर्याये वा, तदुभयपर्याययोर्वा, तदुभयपर्यातृतीयो विकल्पः येषु वा, आदिष्टं द्रव्यं वा, द्रव्ये वा, द्रव्याणि वा, न वाच्यं सदसदिति वा। टी०-तदुभयपर्याये वेत्यादि / तदित्यतिक्रान्तद्वयपरामर्शः, सद्भावासद्भावपर्यायद्वयसम्परिग्रहार्थः, उभयश्चासौ पर्यायश्च उभयपर्यायोऽस्तित्वनास्तित्वलक्षणः स चासावुभयपर्यायश्च तदुभयपयोयस्तदुभयपर्यायनिमित्तस्तद्विषयो वाऽप्यादेशस्तेनार्पितमात्मतत्त्वमस्तिनास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यम्, ताभ्यामुभयपर्यायाभ्यामादिष्टं युगपदात्मरूपं द्रव्यं वेत्यादि विकल्प्यते, न वाच्यं सदित्यसदिति वा सद् द्रव्यमसद् वा द्रव्यं न वक्तव्यम्, क्रमेण त्वादेशे भवत्येतदेवम्, सहभावाणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयम्, एकस्मिन् काले तादृग्विधवाचकशब्दाभावात् // ननु च तदुभयपयोये वेत्येकवचनमनुपपन्नम्, एकपर्यायविवक्षायामवक्तव्याभावात् / अत्रोच्यते-उभयग्रहणाद् द्वयमत्र गृह्यते / एवं तर्हि तदुभयपर्याययो।त्यस्मादविशेषः, नैतदेवम् , यतस्तदुभयपर्याये विशेषविवक्षयाऽस्तित्वं हि स्वपर्यायविषयं परपर्यायविषयं चेत्युभयपर्यायस्तत् तु खपोयेणावच्छिद्यमानमिहास्तीति गृह्यते, तदेव च परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यमिदानीमुभयपर्यायो युगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु प्रधानभेदव्याख्यायां द्विवचनादिनिर्देशः समीचीनः, जातिविवक्षायां वा जातेरेकत्वादेकवचनसिद्धिरिति // __एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः सङ्ग्रहव्यवहारानुसारिण आत्मद्रव्ये, सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकारः . भा०-देशादेशेन विकल्पयितव्यमिति / टी-इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः। पर्यायास्तिकमिति नपुंसकलिङ्गप्रकान्तेविंकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति / अयमभिप्रायो भाष्यकारस्य लक्ष्यते-सकलादेशसंयोगाचतुणों निष्पत्तिरिति सुज्ञानाः, तत्रायद्वितीयविकल्पसंयोगे तुर्यविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चेति / प्रथमतृतीयविकल्पसंयोगे पञ्चमविकल्पनिष्पत्तिः स्यादपर्यायादेशविकल्पाः स्ति चावक्तव्यश्चेति / द्वितीयतृतीयविकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः स्यान्नास्ति चाक्तव्यश्चेति / प्रथमद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चावक्तव्यश्चेति / तत्रायेषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते / तदाह-देशादेशेनेत्यादि / 'किं कारणं पुनर्भाष्यकृता' इति क-ख-पाठः / 2 विकलीकृतं ' इति क-ख-पाठः / Page #442 -------------------------------------------------------------------------- ________________ 416 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं-व्याख्येयम्,आत्मादितत्त्वमित्येवं विकल्पचतुष्टयस्यापि ग्रहणम् / तत्र चतुर्थ उभयप्रधानो विकल्पः, क्रमेणोभयस्यापिशब्देनाभिधेयत्वात्, देशादेशो हि विकलादेशस्तस्य वस्तुनो वैकल्यं, स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्तं गुणरूपं स्वरूपेणोपरञ्जकमपेक्ष्य प्रतिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्वव्यवस्थायां नरसिंहनरसिंहत्ववत् समुदाया. मकमात्मरूपमभ्युपगम्याभिधानं विकलादेशः, न तु केवलसिंहसिंहत्ववदेवात्मकैकत्वपरिग्रहात् , यथा च प्रतिपादनोपायार्थपरिकल्पितानेकनीलपीतादिभागा निर्विभागमनेकात्मकमेकं चित्रं सामान्यरूपमुच्यते, तथा वस्त्वप्यनेकधर्मस्वभावमेकम् , दृष्टश्चाभिमात्मनोऽर्थस्य भिन्नो गुणो भेदकः, परुद्भवान् पटुरासीत् पटुतर ऐपमोऽन्य एवाभिसंवृत्तः, पटुत्वातिशयो गुणः सामान्यपाटवाद् गुणादन्यः, स वस्तुनो भेदं कल्पयति, भिन्नप्रयोजनार्थिना तथाश्रितत्वात्, अनेकात्मकं चैकत्वमात्मादेः, यतोऽनेकं शुद्धाशुद्ध द्रव्यार्थमाश्रित्य पर्यायनयं चैकात्मनो वृत्तिस्तथात्मकोऽसौ तद्भावभावित्वाद्, घटमृदात्मकत्ववत् पुरुषपाण्याद्यात्मकत्ववद् वा, अतस्ते तस्यारम्भकत्वाद् भागाः पुरुषस्येव पाण्यादयो वस्त्वंशमनुभवन्ति क्रमेण वृत्ताः क्रमयोगपद्याभ्यां वा, चतुर्थे तावत् समुच्चयात्मके न क्रमेण वृत्ताः, पञ्चमषष्ठयोरपचितक्रमयुगपद् वृत्ताः, सप्तमे प्रचितक्रमयोगपद्याभ्यां वृत्ताः संश्वासथावक्तव्यश्चेत्यनेकबुद्धिबुद्धित्वाद् अनेकबुद्धिर्हि बुद्धिर्भवति द्रव्यपयोयेषु सत्सु व्यात्मिका, यतोऽनेकां सद्पामसद्रूपामवक्तव्यरूपां च बुद्धिं भिन्नामिव क्रमवतीमिवाश्रित्याभिन्नैकाक्रमावस्तुरूपा वाक्यार्थबुद्धिर्भवति, तस्माद् भेदक्रमप्रतिभासविज्ञानहेतुत्वाद् भागास्ते भवन्त्यत्राविभक्तस्यैकस्यापि वस्तुनः / एवं चानेकस्वभावेऽर्थे सति वक्तुरिच्छावशात् कदाचित् केनचिद् न रूपेण वक्तुमिष्यते, विवक्षायत्ता चे वचसः सकलादेशता विकलादेशता सकलादेशविकला-च द्रष्टव्या, द्रव्यार्थजात्यभेदात् तु सर्वद्रव्यार्थभेदानेवैकं द्रव्याथ मन्य देशोत्पत्तिः ते, यदा पर्यायजात्यभेदाचैकं पर्यायार्थ सर्वपर्यायभेदान् प्रतिपद्यते तदा त्वविवक्षितस्वजातिभेदत्वात् सकलं वस्त्वेकद्रव्यार्थाभिन्नमेकपर्यायार्थाभेदोपचरितं तद्विशेषकाभेदोपचरितं वा तन्मात्रमेकमद्वितीयांशं ब्रुवन् सकलादेशः स्यान्नित्य इत्यादित्रिविधोऽपि नित्यत्वानित्यत्वयुगपद्भावैकत्वरूपैकार्थाभिधायी, यदा तु द्रव्यपर्यायसामान्याभ्यां तद्विशेषाभ्यां वा तद्योगपद्येन वा वस्तुन एकत्वं तदतदात्मकं समुच्चयाश्रयं चतुर्थविकल्पे स्वांशयुगपदवृत्तं क्रमवृत्तं च पञ्चमषष्ठसप्तमेधूच्यते तथाविवक्षावशात् तदा तु तथाप्रतिपादयन् विकलादेशः, ते हि द्रव्यपयोयास्तस्य देशाः तदादेशेनादेश एको ह्यनेकदेश आत्माऽभिधीयते, तत्र द्रव्यार्थसामान्येन तावद् वस्तुत्वेन सन्नात्मा, पयोयसामान्येनावस्तुत्वेनासन्निति, विशेषस्त्वात्मनि स्वद्रव्यत्वात्मत्वचेतनत्वद्रष्टुत्वज्ञातृत्वमनुष्यत्वादिरनेको द्रव्यार्थभेदः,तथा श्रुतप्रतियोगिनः 1. तच्च व० ' इति ग-पाठः / 2 रूपमस्याभिधानं ' 3 ' वस्त्वनेक इति क-पाठः / 4 / नेकबुद्धित्वात् / इतिक-पाठ ५'च सकला' इति क-पाठः। Page #443 -------------------------------------------------------------------------- ________________ सूत्रं 31]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 417 पर्याया असत्त्वाद्रव्यत्वानात्मत्वाचेतनत्वादयः, तद्रव्यक्षेत्रकालभावसम्बन्धजनिताश्च द्रव्यपर्यायवृत्तिभेदाः, तत्र द्रव्यार्थादेशात् स्वद्रव्यतया द्रव्यत्वम्, पृथिव्यादित्वेनाद्रव्यत्वं तद्विशेषैश्च घटादिभिः, क्षेत्रतोऽसङ्ख्याताकाशदेशव्यापितया, न सर्वव्यापितया, कालतः स्वजात्यनुच्छेदादभिन्नकालता, पर्यायादेशाद्द्घटादिविज्ञानदर्शनभेदाः क्रोधाद्युत्कर्षापकर्षभेदाच, तथाऽनन्त कालवृत्तस्ववर्तनाभेदात् कालभेदः, भावतो ज्ञत्वं क्रोधादिमत्त्वं च, एवं चतुर्थो विकल्पः बहवो द्रव्यार्थपर्यायार्थयोवृत्तिभेदाः सर्वेऽपि तस्यांशाः, तैर्द्रव्यपर्याय रूपैर्वक्तमिष्यमाणो नानारूप आत्मोच्यते / भावना तु स्यादस्ति च नास्ति च, द्रव्यार्थभेदेन चैतन्यसामान्येनास्ति, चैतन्यविशेषविवक्षायां वाऽस्त्येकोपयोगत्वात, पर्यायतस्तु अचैतन्येन नास्ति, घटोपयोगकाले वा पटाधुपयोगेनासन्, चैतन्येन तद्विशेषेण वा वर्तमान एव तदभावेन तद्विशेषाभावेन वर्तते इत्युभयाधीनस्तस्यात्मा, अन्यथाऽऽत्माभाव एव स्यात् / एवं सर्वसिद्धान्तेषु पदार्थाः परस्परविरुद्धार्थत्वात् तदतद्रूपसमुच्चयात्मकाश्चतुर्थविकल्पोदाहरणीयाः // पञ्चमविकल्पस्तु स्यादस्ति चावक्तव्यश्चात्मेति, तत्रानेकद्रव्यपर्यायात्मकस्य सतः कश्चिद् * द्रव्यार्थविशेषमाश्रित्यास्तीत्यात्मनो व्यपदेशः, तस्यैवान्यात्मद्रव्यपञ्चमो विकल्पः सामान्यं तद्विशेष द्वयं वाऽङ्गीकृत्य युगपद्विवक्षायामवक्तव्यता, स्फुट __तरमेतद् विभाव्यते, स्यादस्त्यात्मा द्रव्यत्वेन द्रव्यविशेषेण वा जीवस्वेन मनुष्यत्वादिना वा द्रव्यपर्यायसामान्यमुरीकृत्य, वस्तुत्वावस्तुत्वसत्त्वासत्त्वादिना विशेषेण वा मनुष्यत्वामनुष्यत्वादिना युगपदभेदविवक्षायामवाच्यः, यतः सर्वेऽपि तस्यैकस्यात्मनस्तदैव विकल्पाः सम्भवन्तीति // षष्ठविकल्पोऽपि त्रिभिरात्मभिद्यशः स्यानास्ति चावक्तव्यश्चात्मेति, नान्तरेणात्मभेदं वस्तुगतं नास्तित्वमवक्तव्यरूपानुविद्धं शक्यं कल्पयितुं वस्तुनः, तथापि षष्ठो विकल्पः सद्भावात् तत्र नास्तित्वं पर्यायाश्रयम्, स च पर्यायो युगपवृत्तः क्रमप्र . वृत्तो वा, सहावस्थाय्यविरोधादात्मनो धर्म एककाल एव, यथा चेतनो. पयोगवेदनाहर्षसम्यवहास्यरतिपुरुषवेदायुर्गतिजात्यादिसत्त्वद्रव्यत्वामूर्तत्वकर्तृत्वभोक्तृत्वान्यखानादित्वासङ्ख्यातप्रदेशत्वनित्यत्वादिः,क्रमवर्ती तु क्रोधादिदेवत्वादिवालत्वादिज्ञानितादिः खस्थानेऽनेकभेदवृत्तः, तत्रैकोऽवस्थितो द्रव्यार्थी जीवनामा नैवास्ति कश्चिचेतनाव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनैरन्तर्यमात्रव्यतिरिक्तो वा, अत एव तु धर्मास्तथासन्निविष्टाः सत्त्वव्यपदेशव्यवहारभाजो भवन्तीति, अतो नास्ति पर्यायार्थादेवंविधो द्रव्यार्थस्य कश्चिदंशो नास्तीति तेन रूपेणाभावात्, न पुनः सर्वथैव नास्तित्वम्, विशिष्टस्याभावस्य विवक्षितत्वाद, पर्यायांशः सर्वार्थज्ञातृत्वांसत्सर्वव्यापारविनियोगात् सर्ववस्तुत्वेन सन्निति द्रव्यार्थाशः, आभ्यां सह विवक्षायामवाच्य इति द्वितीयोऽशः // १'वाऽन्य आत्म.' इति ग-पाठः।२'वस्वादिज्ञातादिः देवत्वादिस्वस्थाने' इति क-ख-पाठः। ३त्वासर्व.' इति क-पाठः। Page #444 -------------------------------------------------------------------------- ________________ 418 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 अधुना सप्तमविकल्पश्चतुर्भिरंशैस्रयंशः / कञ्चिद् द्रव्यार्थविशेषमाश्रित्यास्तित्वं पर्यायविशेषं च कश्चिदङ्गीकृत्य नास्तित्वं समुचितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात्, य(त)था द्रव्यसामान्येन पयोयसामान्येन च युगपदवक्तव्यः, स्यादस्ति च नास्ति चावक्तव्यश्चास्मेति / भावना तु द्रव्यार्थात् सति द्रव्यत्वे देहेन्द्रियादिव्यतिरिक्तात्मत्वेन विशेषेण नास्ति त्वमतोऽस्ति च नास्ति च स एवात्मा, द्रव्यपर्यायसामान्यसदसत्वाभ्यां सप्तमो विकल्पः युगपदवाच्य इति / एवमर्थानुरोधाद् विवक्षावशाच सप्तधैव वचनप्रवृत्तिः, ___नान्यथाऽपि, प्रवृत्तिनिमित्ताभावात्, एष च मार्गो द्रव्यार्थपर्यायार्थाश्रयः, तौ च सङ्ग्रहाद्यात्मको, सङ्ग्रहादयश्चार्थशब्दनयरूपेण प्रधाविताः, तत्र सङ्ग्रहव्यवहारर्जुसूत्रैरर्थनयैयौँ द्रव्यार्थपर्यायार्थी तदाश्रयैषा सप्तभङ्गी / तत्र अनपेक्षितोपदेशकशब्दव्यापारमिन्द्रियानिन्द्रियनिमित्तमर्थरूपोत्पादितं मतिज्ञानम्, अर्थनया वक्तृपरिच्छेदविषयाः, ते त्वर्थपृष्टेनैवार्थ गमयन्ति / शब्दनयास्तु साम्प्रतिकसमभिरूढैवंभूतनयाः श्रोतृविषयाः श्रुतज्ञानात्मकाः शब्दरूपरूपितविज्ञानत्वाच्छन्दप्रमाणकाः, यच्छब्द आह यथा च तथैवार्थ इति शब्दपृष्टेनार्थपरिच्छेदं कुर्वन्ति, अत एवैतेष्वभिधानस्वरूपशुद्धिपरा चिन्ता, चक्षुर्विमलीकरणाअनवत् / तत्रार्थनयाः सत्त्वासत्त्ववर्तमानसत्चमात्रैषिणः प्रत्येकात्मकाः संयुक्ताश्च सप्तविधवचननिर्वचनप्रत्यलाः / विविक्तसत्त्वमात्रपरिग्रहात् सत्त्वसङ्ग्रहः, अन्यासत्वमेव सत्वमिति व्यवहारः, वर्तमानप्रधानत्वाद् वर्तमानमेव सत्त्वमृजुसूत्रः / तत्र स्यादस्तीति सङ्ग्रहः 1 स्यानास्तीति व्यवहारः 2 सङ्ग्रहव्यवहारयोगात् स्यादवक्तव्यः 3 सङ्ग्रहव्यवहारविभागसं योगादेव स्यादस्ति च नास्ति च 4 स्यादस्त्यवक्तव्यश्चेत्यत्र सङ्ग्रहः नयत्रयापेक्षया सङ्ग्रहव्यवहारौ चाविभक्तौ 5 स्यान्नास्त्यवक्तव्यश्चेत्यत्र व्यवहारः समसप्तभङ्गी हव्यवहारौ चाविभक्तौ 6 स्यादस्ति नास्त्यवक्तव्यश्चेत्यत्र विभक्तौ सङ्ग्रह व्यवहारावविभक्तौ वा७,इत्येवमर्थपर्यायः सप्तधा वचनव्यवहारः। व्यञ्जनपर्यायाः शब्दनयास्ते त्वभेदभेदद्वारेण वचनमिच्छन्ति, शब्दनयस्तावत् समानलिङ्गानां समानवचनानां च शब्दानामिन्द्रशक्रपुरन्दरादीनां वाच्यं भावार्थमेवाभिन्नमभ्युपैति, न जातुचिद् भिमलिङ्गं भिन्नवचनं वा शब्दं स्त्री दारास्तथाऽऽपो जलमिति, समभिरूढस्तु प्रत्यर्थ शब्दनिवेशादिन्द्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजानीते, अत्यन्तभिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थत्वमेपानुमन्यते, घटशकादिशब्दानामिवेति, एवंभूतः पुनर्यथासद्भावं वस्तु वचसो गोचरमापृच्छ तीच्छति, चेष्टाविष्ट एवार्थो घटशब्दवाच्यश्चित्रालेखनोपयोगपरिणशब्दनया तश्च चित्रकारः, चेष्टारहितस्तिष्ठन् घटो न घटशब्दवाच्यः, तच्छन्दा र्थरहितत्वात, कुटशब्दवाच्यार्थवत्, नापि भुञ्जानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद् गोपालादिवत्, एवमभेदभेदार्थवाचिनोऽने 1. अन्यासस्वमिति' इति क-पाठः / १.त्रालेख्यतोपयोग' इति क-व-पाठः। Page #445 -------------------------------------------------------------------------- ________________ सूत्र 31] स्वोपनभाष्य-टोकालङ्कृतम् 419 कैकशब्दवाच्यार्थावलम्बिनच शब्दप्रधाना अर्थोपसर्जनाः शब्दनयाः प्रदीपत्रदर्थस्य प्रतिभासकाः व्यञ्जनपर्यायसंज्ञकाः / तदेवमर्थव्यञ्जनपर्यायार्पणानर्पणद्वारकानेकात्मकैकार्थनिरूपणवदभिधानप्रत्ययविषयाऽपि भावनाऽभिधेया। तत्र पुद्गलद्रव्यपरिणतिविशेषः शब्दोऽभिधानः, पुद्गलद्रव्यं चातीतवर्तमानागामिभूरिपर्यायपेरिणाम्यर्पितभजनापेक्षया सदसनित्यानित्यायनेकधमोत्मकम्, प्रत्ययोऽपि हि ग्रहणलक्षणात्मद्रव्यांशापेक्षया सख्यापरिमाणाकारायनेकरूपपर्यायापेक्षया च सदसन्नित्यानित्यादिस्वभाव इत्येवं सदसन्नित्यानित्यादिस्वभावं जगत् पञ्चास्तिकायात्मकमर्पितानार्पितलक्षणसकलशास्त्रगर्भत्रिसूत्रीविन्यासस्याद्वादप्रक्रियासङ्गतेः सिद्धम्।३१॥ भा०-अत्राह-उक्तं भवता (अ० 5, मू० २६)-सङ्घातभेदेभ्यः स्कन्धा उत्पद्यन्ते इति / तत् कि संयोगमात्रादेव सङ्घातो भवति,आहोस्विदस्ति कश्चिदा विशेष इति / अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः। प्रतिपादितार्थस्सारणप्रज्ञेनाज्ञः प्रकृतार्थशेषसम्बन्धमभिधापयति,कारणायत्तजन्मा कार्यप्रसवः, सङ्घातात् स्कन्धाः समुत्पद्यन्ते, इतिशब्दो यस्मादर्थः, तच्छब्दस्तस्मादर्थः, यसात् सङ्घातात् स्कन्धानामुत्पत्तिः प्रतिधीयते तस्मात् सन्देहः, किं संयोगमात्रादेव ध्यणुकादिलक्षणः स्कन्धो भवति, आहोस्विदस्त्यत्र कश्चित् संयोगविशेष इति, मात्रग्रहणं सेनावनादिवत् केवलसंसक्तिप्रतिपादनार्थम, संयोगमात्रं न तु संयोगविशेषाः, इतिशब्दः आशङ्केयत्ताप्रतिपत्तये, आचापुनलबन्धहेतुः यस्यापि चित्तपरिवर्ती संयोगविशेषस्तत्प्रतिपादनायात्रोच्यते इत्याह, - अत्रेति प्रश्नविषयाभिसम्बन्धः यत्पृष्टस्तन्निश्चीयते विधीयत इति, मनीषितसंयोगविशेषाभिव्यक्त्यर्थमाह भा०-सति संयोगे बद्धस्य सङ्घातो भवतीति / अत्राह-अथ कथं बन्धो भवतीति / अत्राह टी-सतीत्यादि / सति परस्परसट्टलक्षणे संयोगे बद्धस्यैव-एकत्वपरिणतिभाजः सङ्घातात् स्कन्धोत्पत्तिः, एवकारार्थमितिकरणम्, पुद्गलानां पर्यायानन्त्येऽपि स्वजात्यनतिक्रमेण परस्परविलक्षणपरिणामाहितसामर्थ्यात् सति संयोगविशेषे केषाश्चिदेव बन्धो न सर्वेषामिति निश्चितमेतत्, संयोगविशेषात् स्कन्धोत्पादः, न पुनर्व्यज्ञायि स्वरूपेण संयोगविशेषः, तत्परिज्ञानाय प्रश्नेनोपक्रमं पुनः परस्य प्रकटयति-अत्राहेति / सति सङ्घाते बन्धस्य सतः स्कन्धपरिणाम इति बन्धमेव पृच्छति-अथ बन्धः कथं भवतीति / अथेत्यानन्तर्यार्थः, बद्धस्य स्कन्धपरिणामो भवतीत्युक्तेऽनन्तरं च य एव जिज्ञास्यते बन्धः-एकत्वपरिणामः स कथं-केन प्रकारेणाण्वोरणूनां वा जायत इति, किं परस्परानुप्रवेशेनाहोस्वित् सार्वात्म्येन प्रवे 1. परिणत्यर्पितभजनापेक्षया ' इति क-ख-पाठः। 2' नित्यादि ' इति क-ख-पाठः / 3 'जायन्त ' इति ग-पाठो विचारणीयः। Page #446 -------------------------------------------------------------------------- ________________ 420 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 शाभावेऽपीति ? अत्रोच्यते-परस्परानुप्रवेशस्तावन्नैवेष्यतेऽण्वोरणूनां वा शुषिराभावात, प्राइ चैतन्निर्णीतं प्रपञ्चतः, स्थापितं चेद-परिणतिविशेषादानां सर्वामत्ना बन्धो भवति, अयस्सिण्डतेजसोरिखान्योन्यप्रदेशाभावेऽपि गुणविशेषात् सार्वात्म्येनेष्यते बन्धः / कीदृशः पुनर्गुणविशेषात् स तादृशो बन्धः स्यादित्याह सूत्रम्-स्निग्धरूक्षत्वाद् बन्धः // 5-32 // भा०-स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोबॅन्धो भवति // 32 // अत्राह-किमेष एकान्त इति ? / अत्रोच्यते टी-स्निग्धरूक्षयोरित्यादि भाष्यम् / स्नेहो हि गुणः स्पर्शाख्यः, तत्परिणामः स्निग्धः, तथा रूक्षोऽपि, एकः स्निग्धोऽपरो रूक्षः, तयोर्भावः स्निग्धरूक्षत्वं तत्परिणामापत्तिः तस्मात् स्निग्धरूक्षत्वादिति हेतौ पञ्चमी, अण्वोरणूनां वा बन्धो भवति, स्निग्धरूक्षयोरिति भाष्यकृता विभज्य द्विवचनप्रयोगोपन्यासोऽकारि सर्वाल्पस्कन्धज्ञापनाय, नातः परमल्पावयवः स्कन्धोऽस्ति, स्निग्धरूक्षव्यवहारः क्षेत्रकालविषयोऽपि भोक्तः समस्तीति तद्व्युदासाय पुद्गलयोरित्याह, पूरणाद् गलनाच पुद्गलाः, पूरकत्वेन स्कन्धान निवर्तयन्ति, गलनेन स्कन्धभेदं विदधति, स्पृष्टयोरिति संयुक्तयो संयुक्तयोरिति, अनेन संयोगमात्रं गृहीतं संयोगपूर्वकसकलबन्धज्ञापनार्थम्, तत्र बन्धात् प्रतिघातो जायतेऽण्वोरणूनां वा, प्रतिघातश्चैकदेशावगाहेऽन्योन्य प्रतिहननम्, ततो रौक्ष्यस्नेहविशेषाद् बन्धः-अण्वन्तरेणाणोः श्लेषः, मृद्रजोभिस्तृणादिबन्धवत, सन्ति घणव एकगुणस्निग्धादिक्रमेण सङ्ख्येयासङ्ख्येयानन्तानन्तगुणस्निग्धाः, तथैकगुणरूक्षादिक्रमेण हीनमध्यमोत्कृष्टसङ्ख्येयासङ्ख्येयानन्तानन्तगुणरूक्षाः, तोयाजागोमहिष्णुष्ट्रीशीरघृतस्नेहानुमानप्रकर्षाप्रकर्षवत्, चिक्कणत्वलक्षणः परिणामः स्नेहः, तद्विपरीतो रूक्षः, ततश्च संश्लेषकारणपरिणतिमत्त्वात् सर्वात्मसंयोगवन्धप्रसिद्धिः, प्रत्यक्षश्चैवंविधद्रव्याणां बन्धविशेषो नातीव युक्तिमपेक्षते, युक्तिरपि-संहतमहद्रव्यं घटादि प्रत्यक्षमणुबन्धस्यानुमापकम्, नाणुसत्संहतिविशेषमन्तरेण महत् संहतं युज्यते, एवमेव चापकर्षणधारणनोदनादिव्यवहारसिद्धिन त्वन्यथा, तथानुपग्रहणात् प्रतीघातः परमाणोः, लोकान्ते ह्युपग्राहकधर्मद्रव्याभावात् प्रतिहन्यतेऽणुरगतिः सन्, तथाष्णोः प्रतीघातो बन्धनयोग्यं परिणाममन्तरेणाप्यते, नापतता ( ? ) स्पर्शित्वान्मूर्तिमत्वाच, सप्रतिघातस्य च बन्धो दृष्टः श्लेषरूपरागादेः, अतः सुष्ट्रच्यते-स्निग्धरूक्षत्वात् पुद्गलयोः संयुक्तयोर्बन्धो भवतीति / इतिकरण उपप्रदशेनार्थः, एवं गृहाणेति // 32 // अत्राहेत्यादिसम्बन्धप्रतिपत्तिः / किमेष एकान्त इति ? / किमिति प्रश्नार्थः, एष 1 नोक्तः ' इति क-पाठः। 2 'क्षादि...नन्तगुणरू ' इति पाठः ग-पुस्तके नास्ति, तत्र तु मुद्रणदोष इति स्पष्टं प्रतिभाति। Page #447 -------------------------------------------------------------------------- ________________ सूत्र 33 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 421 इत्यन्तरयोगाथाभिसम्बन्धः, स्निग्धगुणानां रूक्षगुणानां च बन्धो भवतीति, इतिशब्दोऽवधारणार्थः / किमेष नियम एव सर्वस्य स्निग्धगुणस्य रूक्षगुणेन बन्ध इति, एवं पृष्टे अनोच्यते इत्याह / सति विधावविशेषेण प्रवृत्तेनिकृष्टमध्यमोत्कृष्टस्निग्धरूक्षाणामनभिप्रेतार्थप्रसङ्गविनिवृत्त्यर्थमिदमभिदध्महे सूत्रम्-न जघन्यगुणानाम् // 5-33 // टी०–अतिप्रसक्तस्य विधेरयमपवादारम्भः // भा०-जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवति // 33 // टी-जघन्यगुणस्निग्धानामित्यादि भाष्यम् / प्रकृतत्वाद् बन्धः प्रतिषिध्यते नशब्देन, केषां बन्धो न भवति ? जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च / जघने भवो जघन्यः, ( जघन्य इवान्यो जघन्यः ) निकृष्ट इत्यर्थः, जघन्यश्चासौ गुणश्च जघन्यगुणः ( जघन्यगुणः) स्निग्धो येषां ते जघन्यगुणस्निग्धाः पुद्गलास्तेषां जयन्यगुणरूक्षाणां च परस्परेण बन्धः प्रतिषिध्यते, परस्परेणेति सजातीयविजातीयविशेषप्रतिपादनम् / स्वस्थाने स्निग्धस्य स्निग्धेन नेष्यते बन्धः, रूक्षस्यापि रूक्षेण नैवास्ति बन्धः, तथा परस्थानेऽप्येकगुणस्निग्धस्यैकगुणरूक्षेण नैवास्ति बन्धः, सत्यप्येषां संयोगे स्निग्धरूक्षगुणत्वे च न परस्परमेकत्वपरिणतिलक्षणो बन्धः समस्ति, किं पुनः कारणमत्रैषां बन्धो न भवतीति ? तादृग्विधपरिणतिशतेरभावात्, परिणामशक्तयश्च द्रव्याणां विचित्राः क्षेत्रकालाद्यनुरोधिन्यः प्रयोगविस्रसापेक्षाः प्रभवन्ति, न जातुचित् पर्यनुयोगवशेन पर्यनुयोक्तुरिच्छामनुरुध्यते, जघन्यश्च स्नेहगुणः स्तोकत्वादेव जघन्यगुणरूक्षं पुद्गलं न प्रत्यलः परिणामयितुम्, तथा रूक्षगुणोऽप्यल्पत्वाजघन्यगुणस्निग्धं नात्मसात्कर्तुं समर्थः, सङ्ख्यावाची चायं गुणशब्दः, यथैक एवास्य गुणः पुरुपस्येति, आधिक्यार्थे वा द्विगुणत्रिगुणमिति यथा, अस्ति च स्नेहादिगुणानां प्रकर्षापकर्षभेदः, तद् यथा जलादजाक्षीरं स्निग्धम्, अजाक्षीराद् गोपयः, गोपयसो महिषीपयः, ततः करभीपय इत्युत्तरोत्तरस्नेहाधिकत्वम्, एषामेव पूर्व पूर्व रूक्षम्, तत्रैकगुणस्निग्धस्यैकगुणस्निग्धेनैव ब्यादिना सर्वेण सदृशेन सङ्ख्येयासख्येयानन्तानन्तगुणस्निग्धेन वा नास्ति बन्धः, तथैव चैकगुणरूक्षस्यैकगुणरूक्षादिभिः सदृशैर्यावदनन्तगुणरून भवति बन्धः, सूत्रव्यापारस्तु जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च पुद्गलानां नास्ति बन्धः परस्परम्, शेषं वक्ष्यमाणसूत्रव्याख्येयमुक्तं प्रसङ्गतः, इत्येवमेतौ जघन्यगुणस्निग्धरूक्षौ विहायान्येषां मध्यमोत्कृष्टस्निग्धानां रूक्षैः सह 1 अत्र चिहान्तस्थो भागः क-ख-योर्नास्ति / 2 'रूक्षादिभिः' इति क-ख-पाठः। Page #448 -------------------------------------------------------------------------- ________________ 422 आचार्याधिगमसूत्रम् [ अध्यायः 5 स्निग्धैश्च रूक्षाणां परस्परेण बन्धो भवति इति, अर्थापत्तिलभ्योऽयमर्थः सामर्थ्यादवगम्यते, स च यादृशो यथा च भवति तं तादृशं तथा वक्ष्यामः, इदैनावदुपयुज्यत इति // 33 // भा०-अत्राह-उक्तं भवता-जवन्यजुगवर्जानां (स्निग्धानां) रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति / अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति / अत्रोच्यते-न जवन्यगुणानामित्यधिकृत्येमुच्यते--- टी० ---अवाहेत्यादिना ग्रन्थेन सम्बन्ध विधने / प्रतिपादितं भवताऽनन्तरं जवन्यगुणस्निग्धरूक्षयोर्नास्ति बन्धः, तनिषेधादन्येषां जवन्यगुणवानां बन्धप्रसङ्गे सदृशानां प्रतिषेधे यत्नो विधेय इत्यापत्तिप्रापितं चेदं द्विगुणनिन्धस्यैकगुणरूक्षेण सह एकगुणस्निग्धस्य द्विगुणरूक्षेण सह बन्धो भवतीति / एतदुक्तं भवति-निकृष्टस्निग्धरूक्षयोबन्धप्रतिषेधान्म-. ध्यमोत्कृष्टस्निग्धरूक्षगुणानां परस्परेण बन्धः प्रतिज्ञातोऽर्थतः पृथगधिकरणानाम् / अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति प्रश्नयति, प्रस्तुतानन्तरवचनोऽयमथशब्दः, तुल्यगुणयोः स्निग्धाधिकरणयोरेकैकगुणयोः किमेकान्तेनैव प्रतिषेध इति प्रश्ने कृते अबोच्यत इत्याह / अत्यन्तप्रतिषेध एव, काधिकृत इति चेदित्याह, न जवन्यगुणानामित्यधिकृत्येदमुच्यते, यथैव स्निग्धरूक्षाणां जघन्यविषयाणां बन्धाभावस्तथैव गुणसाम्ये सदृशानां बन्धाभाव इति सम्बन्धनीयम् / अथवा स्निग्धरूक्षयोर्मिनाधिकरणयोर्बन्धप्रतिषेधः कृतोऽथ तुल्यगुणयोः किं प्रतिपत्तव्यमिति सामादध्याहारं कृत्वा व्याख्येयम् , तुल्यगुणयोः स्निग्धाधिकरणयो रूक्षाधिकरणयोर्वा किं बन्धनिषेधः प्रतिपत्तव्यः, आहोस्विद् बन्धविधिरिति ? / आचार्य आह-अत्यन्तप्रतिषेध इति, एकान्तेनैव प्रतिषेधः, स पुनने जघन्यगुणानामित्यत्र सूत्रे. ऽधिकृतस्तमाश्रित्योच्यते सूत्रम्-गुणसाम्ये सदृशानाम् // 5-34 // टी०-अथवा स्निग्धरूक्षगुणः / / भा०-गुणसाम्ये सति सदृशानां बन्धो न भवति / तद्यथा-तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन, तुल्यगुणस्क्षस्य तुल्यगुणरूक्षेणेति // टी०-गुणसाम्ये सतीत्यादि भाष्यम् / गुणाः-स्निग्धरूक्षास्तेषां समता साम्यं तस्मिन् गुणसाम्ये, सतीत्यनेन विशिष्टार्थी सप्तमी सूचयति, “यस्य च भावेन भावलक्षणम्" (पा०अ०२, पा०३,०३७)इति निमित्तसप्तम्येपा, सति गुणसाम्ये तुल्यसङ्ख्यत्वे सदृशाना बन्धो न भ. वति, गुणानां साम्येन ये सदृशाः, न क्रियासाम्येन, ते सति गुणसाम्ये सदृशास्तेषां बन्धो नास्ति, पूर्वापवादविशेषसमर्थनार्थमेवेदं-न जघन्यगुणानाम् (सू० 33) इत्यभिधाय तद्विशेषमपवदते, . तं चापोद्यमानमुदाहरणेन स्पष्टयति / तद् यथेत्युदाहरणोपन्यासः, तुल्यगुणस्निग्धस्य तुल्य. गुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति सामान्योपन्यासः समस्तैकगुणस्निग्ध Page #449 -------------------------------------------------------------------------- ________________ सूत्र 34 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 423 रूक्षादिसमगुणविकल्पसङ्ग्रहार्थः। तुल्यगुणः स्निग्धो यस्य स तुल्यगुणस्निग्धः, तुल्यः स्नेहगुणो यस्येत्यर्थः, तस्यानेन सदृशेनैव तुल्यगुणस्निग्धेन बन्धो नास्ति, परस्परं परिणतिशक्तेरभावात् , तुल्यबलगुणमल्लद्वयान्योन्यानभिघातवद् , एकगुणस्निग्धो हि नैकगुणस्निग्धेन वध्यते, तथाऽनन्तपर्यवसानाद् द्विगुणादिस्निग्धाः द्विगुणादिस्निग्धैः समगुणैरनन्तपर्यवसानैः सह न बध्यन्ते, एवमेकगुणरूक्षोऽप्येकगुणरूक्षेण सह न बध्यते, तुल्यदुर्बलगुणमल्लद्वयान्योन्यानभिघातवदेव, तथा द्विगुणादिरूक्षा न द्विगुणादिसौरनन्तावसानैः सह बन्धमनुभवन्तीति // भा०-अत्राह-सदृशग्रहणं किमपेक्षत इति / अत्रोच्यते-गुणवैषम्ये सदृशानां पन्धो भवतीति // 34 // टी-अत्राह-सदृशग्रहणं किमपेक्षत इति / एवं मन्यते प्रष्टा, गुणसाम्ये सति बन्धो न भवति, येषां च समा गुणाः प्रकर्षापकर्षवृत्ताः प्रतिविशिष्टसङ्ख्यावच्छिभास्ते नियमेन गुणैः सदृशाः, इत्येतावताभिलषितेऽर्थे सिद्धे सदृशग्रहणमतिरिच्यमानमपरार्थापेक्षि भवति, तं चापरमर्थमजानानः प्रश्नयति–किमपेक्षते सदृशग्रहणमिति, आचार्योऽपि विशिष्टार्थप्रतिपसये सदृशग्रहणं चेतसि निधायाह-अनोच्यत इति / गुणवैषम्ये सदृशानां बन्धो भवतीति, स्नेहगुणवैषम्ये रूक्षगुणवैषम्ये च बन्धः समस्ति, केषामत आह-सदृशानामिति / एनमर्थ सदृशग्रहणमपेक्षते, सादृश्यं च स्नेहगुणमात्रनिबन्धनं रौक्ष्यगुणमात्रनिबन्धनं च सयानमाश्रित्य ग्राह्यम्, अतः सदृशानामपि स्नेहगुणसामान्येन रौक्ष्यगुणसामान्येन च प्रकर्षापकर्षवृत्ततद्गुणवैषम्ये सति भवत्येव बन्धः, तद्यथा-एकगुणस्निग्धस्त्रिगुणस्निग्धेन, द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन, त्रिगुणस्निग्धः पश्चगुणस्निग्धेन, चतुर्गुणस्निग्धः षड्गुणस्निग्धेनेत्येवं यावदनन्तगुणस्निग्धो विषमगुण इति / अन्ये त्वभिदधति सूरयः-एकगुणस्निग्धस्य द्विगुणस्निग्धेनैकगुणरूक्षस्य द्विगुणरूक्षेणेति भावनीयम् , एतच्च सम्प्रदायेनागमोपनिबन्धदर्शनेन च प्रायो विसंवदति इत्यनादरः // 34 // भा०-अत्राह-किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति / अत्रोच्यते टी-अबाहेत्यादिः सम्बन्धप्रतिपादनपरो ग्रन्थः, किमविशेषेण गुणवैषम्ये सहशानां बन्धो भवतीति, यद्यविशेषेण तत एकगुणस्निग्धस्य द्विगुणस्निग्धेनापि बन्धप्रसङ्गोऽनिष्टं चैतदा(दित्या ?)रेकमाणे प्रष्टरि सूरिराह-अनोच्यत इति, न सर्वेषामेव, सदृशानां, किं तर्हि 1 1-2 न्याभिषात.' इति ग-पाठः। 3 'सामान्यगुणेन' इति ग-पाठः। ४'तयवि' इति ग-पाठः। Page #450 -------------------------------------------------------------------------- ________________ 424 तत्वााधिगममत्रम् (अध्यायः 5 सूत्रम्---द्रयधिकादिगुणानां तु // 5-35 // भा०-द्वयधिकादिगुणानां तु सदृशानां बन्धो भवति / टी-यधिकादिगुणानां तु सदृशानां बन्धो भवतीत्यादि भाष्यम् / द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते घधिकादिगुणाः / गुणशब्दोऽत्र गुणिवचनः / गुणवन्तो गुणाः परमाणव इत्यर्थः / तेषां व्यधिकादिगुणानामनां सदृशानां बन्धो भवति, सदृशानामिति स्नेहसामान्य रूक्षसामान्यं चाश्रित्य सादृश्यं व्याख्येयम् / / भा०-तद्यथा-स्निग्धस्य द्विगुणाधिकस्निग्धेन , द्विगुणाद्यधिकस्निग्धस्य एकगुणस्निग्धेन, रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण, द्विगुणाधिकरुक्षस्य एकगुण. रूक्षण, एकादिगुणाधिकयोस्तु सदृशयोवन्धो न भवति / अत्र तुशब्दो व्यावृत्ति विशेषणार्थः, प्रतिषेध व्यावर्तयति बन्धं च विशेषयति // 35 // ___टी-तद्यथा-स्निग्धस्थेत्यादिनोदाहरति / [एकगुण]स्निग्धस्येत्यनुक्तेऽपि सङ्ख्या गम्यते गुणश्च सामर्थ्यात्, द्विगुणाद्यधिकस्निग्धेनाणुना, द्वाभ्यां स्नेहगुणविशेषाभ्यामेकगुणस्निग्धादधिको यस्तेन सहास्ति बन्धः, यथैकगुणस्निग्ध एकस्तदन्यस्विगुणस्निग्धः, अत्रैकगुणस्निग्धस्यैकः समानो गुणस्त्रिगुणस्निग्धे (स्कन्धे) अणौ वा शेषेण गुणद्वयेनाधिकः, द्विगुणाद्यधिकस्निग्धेनेत्यादिग्रहणादेकगुणस्निग्धस्य चतुर्गुणपञ्चगुणस्निग्धेनापि बन्धसिद्धिः, तथा द्विगुणाद्यधिकस्निग्धस्यैकगुणस्निग्धेन सह बन्धसम्भवः। ननु च प्रथमविकल्पान्नास्ति कश्चिद विशेषोऽस्य स्फुटः, सत्यं, न कश्चिद् भेदः, तथापि तु बन्धो यादिवृत्तिः, तत्र बध्यमानयोर्वध्यमानानां वा षष्ठयन्तत्वे तृतीयान्तत्वे वा बन्धाविशेष इति प्रतिपत्यर्थमुभयथोचारणं चकार भाष्यकारः॥ रूक्षस्यापीत्यादिभाष्यमुक्ताप्रकारेणैव गमनीयम् , एवं व्यधिकादिगुणानां स्नेहवतां रोक्ष्यवां च यथोक्तलक्षणो बन्धो भवतीत्युच्यते, प्रतिपधन्यावृत्तिप्रदर्शनार्थ भवति तुशब्दोपादानम् / म्यधिकादिगुणानां बन्धाभ्यनुज्ञाने चार्थापत्तिलभ्यफलप्रदर्शनार्थमिदमाह----एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति, प्रतिविशिष्टपरिणतिशक्तेरभावात् , एकगुणस्निग्धस्य हि द्विगुणस्निग्धोऽणुरेकगुणाधिकः, द्विगुणस्निग्धस्य त्रिगुणस्निग्ध एकगुणाधिकः, त्रिगुणस्निग्धस्य चतुर्गुणस्निग्ध एकाधिक इत्यादि यावदनन्तगुण एकाधिक इति, एवं रूक्षस्यापि वाच्यम्, एकादिगुणाधिकयोरित्यत्रादिग्रहणाद् द्विगुणस्य त्रिगुणेन सह नास्ति बन्धः, तत्रापि द्विगुणश्चैकगुणाधिकश्चेति द्विवचनम्, एवं शेषविकल्पयोजनमपि कार्यम्, तुशब्दः कैमर्थक्यात मुत्र इत्याङ्किते भाष्यवहाह-अत्र तुशब्दो व्यावृत्तिविशेषणार्थः // तुशब्दस्यानेका र्थवृत्तित्वे सत्यप्यत्र सूत्रे व्यावृत्तिविशेषणं चोभयमर्थः परिगृह्यते, व्यावृत्तिश्च विशेषणं च व्या. वृत्तिविशेषणे अर्थस्ते यस्य स तथोक्तः, तत्र व्यावृत्तिः-निवृत्तिः, विशेष्यतेऽनेनेति विशेषणं, तदर्थो यस्यासौ व्यावृत्तिविशेषणार्थः, कस्य पुनावृत्तिः किं वा विशेष्यमाणमित्याह-प्रतिषेध Page #451 -------------------------------------------------------------------------- ________________ सूत्र 35). स्त्रोपज्ञभाष्य टीकालङ्कृतम् 425 व्यावर्तयति बन्धं च विशेषयतीति / न जघन्यगुणानामिति प्रकृतप्रतिषेधस्तं ब्यावर्तयति, यथाऽधिकृतं च बन्धं विशिनष्टि, गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवतीत्येविशेषणार्थः, ततश्च व्यावृत्ते प्रतिषेधे बन्धे च विशेषिते घधिकादिगुणानां बन्धः सिद्धो निरपवाद इति // आगमगाथासंवादी चायं सूत्रचतुष्टयाथे:"निद्धस्स निद्धेण दुआधिएण, लुक्खस्स लुक्खेण दुआधिएण / निद्धस्स लुक्खेण उवेति बंधो, जहण्णवज्जो विसमे समे वा ॥१॥"-प्रज्ञा० गा० 200 गुणवैषम्ये सदृशानां घधिकादिगुणानां तु बन्धो भवतीत्यस्य वाचकं गाथाशकलमाद्यं, स्निग्धस्य स्निग्धेन सह रूक्षस्यापि रूक्षेण सहेति, ततश्च "गुणसाम्ये सदृशानां" (सू० 34) भवति बन्ध इत्येतत् सूत्रं लब्धम् / अथ स्निग्धरूक्षयोः परस्परेण कथमित्याह-पाश्चात्यमर्धम् / एतेन च "स्निग्धरूक्षत्वाद् बन्धः" (मू० 32), "न जघन्यगुणानाम्" (सू० 33) इति सूत्रद्वयपरिग्रहः / स्निग्धगुणरूक्षयोश्च जघन्यगुणवर्जः परस्परेण विषमगुणयोः समगुणयोश्च बन्धो भवतीति // 35 // __भा०-अत्राह-परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेषु आहोस्विदव्यवस्थिता इति ? / अत्रोच्यते-अव्यवस्थिताः / कुतः? परिणामात्। अत्राह-बयोरपि बध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवतीति // उच्यते टी-अत्राह-परमाणुष्वित्यादिना ग्रन्थेन सूत्रं सम्बधाति / अत्रेत्यौत्सर्गिके बन्धलक्षणे सापवादे प्रतिपादिते पृच्छत्यजानानः, परिणामविशेषो हि बन्धः, स च स्निग्धे रूक्षलक्षणपरिणामान्तरापाद्यः, अतः परमाणुपु ये स्पर्शादिगुणपरिणामाः स्कन्धेषु वा शब्दादयस्ते किं नित्या:सर्वदा व्यवस्थितास्तेषु परमाण्वादिष्वाहोस्विद्व्यवस्थिता-भूत्वा पुनर्न भवन्तीति / अयमभिप्रायः प्रश्नयितुः-परमाणवः संहन्यमाना द्विप्रदेशादिकस्कन्धाकृत्या परिणमन्ते परिमण्डलादिपञ्चप्रकारसंस्थानरूपेण वेति. तत्र यदि व्यवस्थिताः परमाणुषु परिणामाः स्पर्शादयः स्कन्धेषु वा स्पर्शादिशब्दादयस्ततस्तेषां व्यवस्थितत्वात् सर्वदा नोत्पादो न विनाशः, तौ चान्तरेण स्निग्धरूक्षगुणयोरण्वोः परिणामाभावे तदवस्थयोः कुतो घणुकादिस्कन्धपरिणामः? स्कन्धेषु वा स्पर्शादिशब्दादिपरिणामस्यैकस्यैव नित्यतयेष्टत्वात् शेषस्पर्शादिशब्दादिपरिणामामाबः। अथाव्यवस्थिताः,सर्वमिष्यमाणमुपपन्नम्, पूर्वकपरिणामत्यागेनोत्तरपरिणामान्तराभ्युपगमे स्पर्शादयोऽन्ये चान्ये च स्पर्शादिशब्दादयश्च क्षेत्रकालद्रव्यभावपरिणामविशेषाः स्युरित्यवगम्येत यथापरिणामं वस्त्विति, तन्न जाने कथमेतदिति, सति चाप्यव्यवस्थितत्वे किं समगुणः समगुणतयैव परिणमयत्युत विर्षमगुणतयाऽपीति सन्दिहानं प्रतीदमत्रोच्यते-अव्यव१. स्निग्धस्य स्निग्धेन द्वयाधिकेन, रूक्षस्य रूक्षेण द्वयाधिकेन / स्निग्धस्य रूक्षेणोपैति बन्धो, जघन्यव| विषमः समो वा // 2. पातोत्थः' इति क-पाठः। 3' विषमतया' इति क-पाठः / Page #452 -------------------------------------------------------------------------- ________________ 426 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 स्थिताः परमाणुस्कन्धेषु स्पादयः, स्पर्शादिशब्दादयश्चेति, अनवस्थितत्वे प्रतिज्ञाते पुनः प्रश्नयति-कुतः पुनरनवास्थितत्वम् 1 एवं मन्यते-किं प्रतिज्ञामात्रेणानवस्थितत्वमुत काचिद् युक्तिरप्यस्तीति ? एवमाशङ्किते युक्तिमाह-परिणामादिति / "तद्भावलक्षणः परिणामो" वक्ष्यते (सू० 41), स एव हि परमाणुः स्कन्धो वा द्रव्यत्वादिजातिस्वभावमजहत् स्पर्शान्तरादिगुणं शब्दान्तरादिगुणं प्रतिपद्यते, स्पर्शादिसामान्यमजेहतः परमाण्वादयः स्पर्शादिविशेपानासादयन्ति, अतोऽवस्थितानवस्थितत्वमेषां स्पर्शादीनाम्, परिणन्तारो हि स्वशक्तिणटवभाजो मरिचलवणहिङ्ग्यादयः परिणम्यं वस्तु कथिततक्रादिस्वाद्वाद्याकारेणात्मसात्कुर्वन्तो दृष्टाः, केचित् तु दधिगुडादयः परिणमनशक्तिखाभाव्यात् परस्परपरिणतिहेतवः, पूर्वेषामेकतः परिणतिशक्तिः पाटवातिशयात्, एवं परिणामादनवस्थिताः स्पादिशब्दादयः, परिणामानवस्थितत्वे प्रतिपादिते लब्धावकाशः पुनः अत्राह-द्वयोरपि बध्यमानयोगुणवत्त्वे सति कथं परिणामो भवतीति ? / एवं मन्यते-भवतु परिणतिविशेपादनवस्थितं गुणवत्त्वम्, अण्वोस्तु बध्यमानयोगुणवत्वे सति तुल्यगुणयोर्विषमगुणयोर्वा सङ्ख्यया द्विगुणस्निग्धस्य द्विगुणरूक्षस्य वेत्यादेस्तथैकगुणस्निग्धस्य त्रिगुणस्निग्धस्य चेत्यादेरेकगुणरूक्षस्य त्रिगुणरूक्षादेः कथं-केन प्रकारेण परिणामो भवति / अयमभिप्राय:-किं द्विगुणस्निग्धो द्विगुणरूक्षं स्नेहात्मतया परिणमयत्युत द्विगुणरूक्षो द्विगुणस्निग्धं रूक्षात्मतया परिणमयतीति ? एवं शेषविकल्पा द्रष्टव्याः / तथा किमेकगुणस्निग्धस्त्रिगुणस्निग्धमात्मसात्करोतीत्येवं त्रिगुणस्निग्धः एकगुणस्निग्धमित्यादिसन्देहविच्छेदायात्रोच्यते सूत्रम-बन्धे समाधिको पारिणामिकौ // 5-36 // टी-बन्धनं बन्धः-संयोगः, समः-तुल्यः, स च गुणतः परिगृह्यते, एवं च यस्यासौ समस्तस्येतरोऽपि सभो भवति, अधिकगुणोऽपि यदपेक्षयाऽऽधिक्यं लभते स हीनः, सूत्रे च साक्षात् समाधिको पारिणामिकावेव गृहीतौ, न तु परिणाम्यः समो हीनगुणो वेत्यतो बन्धशब्दोपादानादिष्टलाभः, सम्बन्धो हि यादिवृत्तिरित्युक्तम्, एवं च द्वितीयः समो हीनध सामर्थ्याद् बन्धपरिप्रापित इति, एतदेव भाष्येण दर्शयति भा०-धन्धे सति समगुणस्य संमगुणपरिणामको भवति / अधिकगुणो हीनस्येति // 36 // टी-सति धन्धे-सट्टलक्षणे विस्रसाद्वारेण तुल्यगुणो द्विगुणस्निग्धस्तुल्यगुणस्तविगुणरूक्षस्य परिणामकः-स्वमतेन स्नेहगुणेन रूक्षगुणमात्मसात्करोति, एवं रूक्षगुणः 1. जहन्तः' इति ग-पाठः। २'शक्तिपाटवा' इति क-पाठः। ३'णामको' इति क-ख-पाठः। 4 'समगुणः परि०' इति प्रतिभाति / '5 'गुणस्य द्विगुणः' इति प्रतिभाति / Page #453 -------------------------------------------------------------------------- ________________ सूत्र 37] स्वोपज्ञभाष्य-टीकालङ्कृतम् 427 कदाचित् परिणामकः, स्वगतेन रूक्षगुणेन स्नेहगुणमात्मसात्करोति परिणामयतीति, गुणसाम्ये तु सदृशानां बन्धप्रतिषेधः, इमौतु विसदृशावेको द्विगुणस्निग्धोऽन्यो द्विगुणरूक्षः, स्नेहरूक्षयोश्च भिन्नजातीयत्वान्नास्ति सादृश्यम्, तथाऽधिकगुणः-त्रिगुणस्निग्धो हीनगुणस्य-एकगुणस्निग्धस्य परिणमयिता, अनेन ह्येकगुणस्निग्धस्त्रिगुणस्निग्धतामापद्यते, कस्तूरिकांशानुविद्धविलेपनवत्, एतावच्च बन्धजातं समगुणयोर्विषमगुणयोर्वा परिणम्यत्वं च, इतरमात्मसात्कुर्वन् परिणमत इति परिणामकः, परिणम्यगुणसङ्ख्यामाक्षिप्य वा स्वगुणसङ्ख्यामजहत् परिणमत इति परिणामकः, अथवा परिणमनं परिणामस्तं करोति-परिणामयति परिणामकः, आत्मरूपेण परस्यापि परिणामं करोतीत्येवं प्रकृत्यन्तणिजन्तत्वयोर्न कश्चिद् विरोध इति // 36 // भा०-अत्राह-उक्तं भवता (अ०५, सू० २)-द्रव्याणि जीवाश्चेति / तत् किमुद्देशत एव द्रव्याणां प्रसिद्धिराहोस्विल्लक्षणतोऽपीति ? / अत्रोच्यते-लक्षणतोऽपि प्रसिद्धिः, तदुच्यते टी-अत्राह-उक्तं भवतेत्यादिना सूत्रसम्बन्धमाचष्टे / अत्र शास्त्रे भवताभिहितं पञ्चमाध्याये वो-द्रव्याणि जीवाश्च(अ०५,सू०२)इति, धर्माधर्माकाशपुद्गला द्रव्याणि जीवाश्चेत्येवं पञ्च द्रव्याणि प्रथममुद्दिष्टानि सामान्येनोक्तानीति, न तु द्रव्यलक्षणमपदिष्टम्, एवंलक्षणकं द्रव्यमिति, यस्माद् द्रव्यशब्देनोक्ता धर्मादयः तस्मात् किमुद्देशत एव-सामान्याभिधानमात्रादेव द्रव्याणां-धर्मादीनां स्वरूपप्रसिद्धिः-स्वरूपपरिज्ञानमाहोस्विदस्तिकिश्चिद् वैशेषिकम् - असाधारणलक्षणमिति / एवं मन्यते-प्रतिव्यक्ति प्रतिनियमात् लक्षणस्य यथाऽवस्थितलक्ष्यपरिच्छेदित्वादुद्देशतस्तावनेष्यते प्रसिद्धिः, किं तर्हि ? लक्षणत इष्यते, ततश्च यतो लक्षणतः प्रसिद्धिर्धर्मादिद्रव्ये तदपदेष्टव्यम् , यथाऽऽत्मनोऽसाधारणं साकारानाकारोपयोगलक्षणम्, सामान्यविशेषसंज्ञाव्यवहार्याश्च सर्वे प्रावचनाः पदार्था इति // ननु चोत्पादव्ययध्रौव्ययुक्तं सदिति सामान्यलक्षणमुक्त(सू०२९), सत्यमेतत्, अमुनातु प्रश्नप्रसरेण विशेषलक्षणमभिधापयति प्रश्नयिता-किं द्रव्यं के वा धर्मा इति, द्रव्यस्य धर्माणां च विशेषावगतिजिज्ञासाथ प्रश्नः, आचार्योऽपि वैशेषिकं लक्षणं मनसि सन्निवेश्यानोच्यत इत्याह, किमुच्यते ?-लक्षणतोऽपि मसिद्धिः, अपिशब्दादुद्देशतोऽपि असाधारणं लक्षणं, तस्माल्लक्षणाद् यथा द्रव्यपदार्थे प्रसिद्धिःविशिष्टविज्ञानोत्पादो विज्ञातुर्भवति तथा तल्लक्षणमुच्यते // सूत्रम्-गुणपर्यायवद् द्रव्यम् // 5-37 // भा०—गुणान् लक्षणतो वक्ष्यामः(सू०४०)। भावान्तरं संज्ञान्तरं च पर्यायः। तदुभयं यत्र विद्यते तद् द्रव्यम् / गुणपयोंया अस्य सन्त्यस्मिन् वा सन्तीति गुणपयोयवत् // 37 // १'च' इति क-पाठः। Page #454 -------------------------------------------------------------------------- ________________ 428 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 टी-गुणान् लक्षणतो वक्ष्याम इत्यादि भाष्यम् / सङ्ख्येयासम्व्येयानन्तसङ्गख्यया सङ्ख्यायमानत्वाद् गुणाः-शक्तिविशेषाः, त एव क्रमेण सह च भवन्तः सर्वतोमुखस्वाद् भेदाः-पर्यायास्तान गुणान् पिण्डघटकपालादीन रूपादींच, लक्षणतः असाधारणशक्तिविशेषात्, अभिधास्यामः (सू० 40)-" द्रव्याश्रया निर्गुणा गुणाः " इत्यत्र, द्रव्यस्य हि गुणपर्यायाः परिणतिविशेषाः सम्भवन्ति, न तु गुणपर्यायाणां केचिदन्ये गुणपर्यायाः सन्तीत्येवं भावयिष्यामः / व्यवहारनयसमाश्रयणेन तु गुणाः पर्याया इति वा भेदेन व्यवहारः प्रवचने, युगपदवस्थायिनो गुणा रूपादयः, अयुगपदवस्थायिनः पर्यायाः, वस्तुतः पर्याया गुणा इत्यैकात्म्यम् / यत आह"दो पजवे दुगुणिए लभति उ एगाओ दवाओ" (आवश्यकनियुक्तौ गा०६४) / तथा-' "तं तह जाणाति जिणो, अपज्जवे जाणणा नत्थि" (आव०नि० गा० 194) / तथा" देवप्पभवा य गुणा न गुणप्पभवाई दव्वाइं" ( आव०नि० गा० 193) / एवमेकमेवेदमिति मन्यमान आह-भावान्तरं संज्ञान्तरं च पर्यायः,भावादन्यो भावो भावान्तरम्, समभिरूढनयाभिप्रायेणेन्दनशकनपूदोरणादयोऽर्थविशेषा रूपादयश्च भावान्तरा भावभेदाः संज्ञान्तराणां प्रवृत्तौ निमित्तभूताः,संज्ञान्तरं चेन्द्रशक्रपुरन्दररूपादि, एवमर्थभेदाः संज्ञाभेदाश्च गु. णपर्याया निश्चीयन्त इति, तदेतदुभयं व्यवहारनिश्चयात्मकं गुणशब्दाभिधेयं पर्यायशब्दाभिधेयं च यत्र-यस्मिन् स्थित्यंशे विद्यते-सामान्यलक्षणेऽस्ति तद्भावलक्षणपरिणतितयाऽवस्थितलक्षणं द्रव्यमिति, अनेन चैतत् प्रतिपाद्यते-द्रव्यं परिणामि, गुणपर्यायाः परिणामाः प्रसवव्ययल. क्षणा इति / एतदेव स्पष्टयति-गुणपर्याया इत्यादिना। उक्ताः प्रथमं गुणपर्यायाः, अस्यास्मिन् वा विद्यन्त इति मत्वर्थमुपलक्षयति, अस्यैते रूपादयः पिण्डादयश्च तद्भावलक्षणपरिणामाः सन्ति, न जातुचिनिष्परिणाम द्रव्यमुपतिष्ठते, विकारलक्षणा चेयं षष्ठी, यवानां धाना इति यथा, यवास्तु द्रव्यत्वसत्त्वमूर्ताद्यपरित्यजन्त एव धानाकारेण विक्रियन्ते, न च विकारोऽत्यन्तमेव प्रकृतेर्भेदेन वर्तते, तदन्वयवद् दशासु सुवर्णाङ्गुलीयकादिवत्, नाप्येकान्तेन भेदः, संज्ञाप्रयोजनादिप्रतिनियमात्, तथा कदाचित् परिणामिपरिणामयोराधाराधेय विवेक्षायां व्यावहारिक्यां भेदप्रधानायामस्मिन् परिणामिनि स्थित्यंशे रूपादिपिण्डादयः परिणामाः सन्ति भेदान्तरकल्पनया, तथाऽऽत्मनि चैतन्यम्, आत्मा तु ज्ञानाद्याकारेण परिणममानोऽसत्यपि भेदे १'द्वौ पर्यवौ द्विगुणितौ लभते तु एकस्मिन् द्रव्ये। 2 तत् तथा जानाति जिनः अपर्यवे ज्ञानं नास्ति / 3 द्रव्यप्रभवाश्च गुणा, न गुणप्रभवाणि द्रव्याणि / 4 'विवक्षया' इति क-पाठः। Page #455 -------------------------------------------------------------------------- ________________ सूत्र 38] स्वोपज्ञभाष्य-टीकालङ्कृतम् 429 भेदेन व्यवन्हियते चैतन्यमात्मनीति / एवं सैव पुद्गलद्रव्यजातिः स्वरूपमजहती समासादिततत्तद्गुणविशेषरूपादिपिण्डादिव्यपदेशे हेतुरित्यतः कथञ्चिद् भेदाभेदस्वरूपं गुणपर्यायवदू द्रव्यमुच्यते, तथा धर्माधर्माकाशजीवद्रव्याण्यपि गुणपर्यायवन्ति भावयितव्यानि प्रागभिहितक्रमेण, द्रव्यं हि भव्यं योग्यं सहक्रमभुवां गुणपर्यायाणाम् , अत्र चागुरुलघुप्रभृतयः सहभुवो गुणाः, पर्यायाः क्रमभुवः, पुनगेतिस्थित्यवगाहज्ञानदशेननारकादयो गुणपयोयाः पूर्वमेव भाविता इति // 37 // ___ एवं गुणपर्यायपरिणामि द्रव्यलक्षणमिति प्रपञ्चे निर्णीते पर आशङ्कते-धर्माधर्मादीनि द्रव्याणि पश्च स्वपरिणामलक्षणगुणपर्यायात्मकानि व्यावर्णितविविधोपकाराणि प्रदर्शितानि, तत्र कालस्यापि पूर्वमुपकारो वर्णित एव वर्तनादिगुणपोयलक्षणः, स च कालो द्रव्यमित्येवं न पूर्व नाधुंना व्याख्यातः, न चोपकारकमन्तरेणोपकारः समस्ति शक्यं वक्तुम् , वर्तनादिरुपकारः सोपकारकः स्थित्यादिवदुपकारत्वात् , तत् किमयं स्मृतिप्रमोपो युष्माकं येन विविक्तोपकाराधारः कालो द्रव्यं नोक्तः ? आहोस्विद् धर्मादिद्रव्यपश्चकसाध्य एवायं वर्तनादिव्यापार इति. विरचितप्रश्ने श्रोतरि सिद्धसाध्यतोद्विभावयिषाद्वारेण सरिराहकालस्य द्रव्यत्वम् सूत्रम्-कालश्चत्येके // 5-30 // टी-विशिष्टमर्यादावच्छिन्नोर्वाधोऽर्धतृतीयद्वीपाभ्यन्तरवर्तिजीवादिद्रव्यैः परिणमद्भिः स्वत एव कल्पते गम्यते प्रथ्यतेऽपेक्ष्यते कारणतयाऽसाविति कालोऽपेक्षाकारणम् , बलाकाप्रसवे गर्जितध्वनिवत् , पापविरतौ वा प्रबोधवत् , चशब्दो द्रव्याकर्षणार्थः, कालश्च द्रव्यं षष्ठं भवति, इतिशब्द एवंशब्दार्थे, एवमिति युक्त्यभिधानेन प्रकारान्तरेण च न नियुक्तिकं द्रव्यत्वमाचक्षते कालस्य, एके इत्यसहायार्थ एकशब्दः, एकस्य नयस्य भेदलक्षणस्य प्रतिपत्तारः तदुपयोगानन्यत्वादेकेऽनपेक्षितद्रव्यास्तिकनयदर्शनाः कालश्च द्रव्यान्तरं भवतीत्याचक्षते / एतदेव भाष्येण सोपपत्तिकं स्फुटयति भा०-एके त्वाचार्या व्याचक्षते-कालोऽपि द्रव्यमिति // 38 // - टी०-एके त्वाचार्या इत्यादिना। एके नयवाक्यान्तरप्रधाना विशेषेणाचक्षते व्यक्तीकुर्वन्ति युक्त्या, परापरप्रत्ययाभिधाने तावदत्यन्तप्रसिद्धत्वान्निनिमित्ते नाभ्युपगन्तुं शक्ये, यच्चानयोर्निमित्तं स कालः, तद्यथा-युवस्थविरयोः, सिद्धे परत्वापरत्वे देशकृते परापरदेशयोगात् / अथ दृष्टोऽपरदेशयुक्ते स्वपरस्मिन्नपि स्थविरे परप्रत्ययः पराभिधानं च, तथैव च परदेशसंयोगात् परस्मिन्नपि यून्यपरप्रत्ययोऽपराभिधानं च, तावेतौ व्यतिकरस्वभावावभि . 1 'सहजक्रम ' इति क-पाठः। 2 'दृष्टोऽर्वागूपर०' इति क-पाठः / Page #456 -------------------------------------------------------------------------- ________________ 430 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 धानप्रत्ययौ यन्निमित्तौ तत्कारणमस्ति कालद्रव्यं, कालापेक्षे परत्वापरत्वे तन्निमित्ते च प्रत्ययाभिधाने प्रादुर्भवतः परमपरमिति, तथा युगपदयुगपदिति यनिमित्ते प्रत्ययाभिधाने स कालः, निमित्त विशेपे हि प्रत्ययविशेषः सिद्धयत्यभिधानविशेषश्च, कालद्रव्यस्य / पार्थक्यम् शुक्लकृष्णादिवत् / दृष्टश्चायं दिग्देशकारणकार्यकर्तृव्यतिरेकेण प्रत्ययो युगपदयुगपदिति, स चायं नानिमित्तो भवितुमर्हति, यच्च निमित्त स कालः / इदमुक्तं भवति-तुल्यकार्येषु कर्तृषु साधारणरूरीकेषु च कार्येषु पृथक पृथर व्यवस्थितेषु कृतं क्रियते कर्तव्यमित्येतस्मिन् निरूढे कर्तृकर्तव्यभेदे च सति युगपदयुगपञ्च कृतं क्रियते कर्तव्यमित्येतमवधिं कृत्वाऽभिधीयते, यतः सोऽर्थोऽन्यः कालसंज्ञः, कुतादीनां योगपद्यायोगपद्येऽन्यनिमित्तासम्भवात् , न चानिमित्तमेतदभिधानम् , तथा समानकार्यावस्थानलक्षणेषु कर्मसु कर्तरि च व्यवस्थिते यत एतद् भवति चिरं क्षिप्रमिति सोऽन्योऽर्थः कालः, न चाकस्मादयं प्रत्ययः, तस्मात् यत्सद्भावे भवत्येष प्रत्ययो यदभावे च न भवति स कालः / तुशब्दो विशेपपरिग्रहार्थः, स च विशेपो भेदप्रधानो नयः, तद्धलेन कालोऽपीति, अपिशब्दश्चशब्दार्थः, कालश्च द्रव्यान्तरमागमे निरूपितमिति कथयन्ति-"कति णं भंते ! दव्या पण्णता? गोयमा !छ दव्या पण्णत्ता, तं जहा-धम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए"। विनिवृत्तौ वा तुशब्दः, कस्य व्यावर्तकः? धर्मा स्तिकायादिपञ्चकाव्यतिरिक्तकालपरिणतिवादिनो द्रव्यनयस्येति, एवं कालोऽस्ति, स चापेक्षाकारणम् , तथा ह्यःश्वोऽद्यादीनि कालवचनानि स्वरूपविज्ञानव्यतिरिक्तमुख्यवायार्थनिवन्धनानि असमासपदत्वाच्छुदैकपदत्वाद् रूपशब्दवत् , तथा ह्यआदीनि कालवचनानि यथार्थानि यथाभ्युपगममाप्तैस्तथाभिधीयमानत्वात् , प्रमाणावगम्यः प्रमेयोऽर्थ इत्येवंविधवचनवत् / एवं च सति तद्भावपरिणामलक्षणसूत्रसमुपनीतैकवाक्यभावस्योत्पादव्ययधौव्ययुक्तं सद्(मू०२९) गुणपर्यायवद् द्रव्यम् (सू० ३७)इत्येतल्लक्षणसूत्रद्वयस्याशेषपदार्थव्यापित्वेन कालस्यापि सत्त्वद्रव्यत्वपरिणामित्वधर्मसद्भावः सिद्धः // ननु च कालो नामाविभागी परमनिरुद्धः समय एवैकः समुच्छिन्नपूर्वापरकोटिः, अत एव चास्तिकाय इति नेष्टः, प्रदेशरहितत्वात् , तस्य च प्रागभावप्रध्वंसाभावावस्थे असत्यावेव वत्स्येद्वृत्तशब्दाभिधेये, ततश्चोत्पादव्ययध्रौव्ययोगिता कुतः? कुतो वा गुणपर्यायवद्रव्यता कालस्येति / अत्रोच्यते--जिनवचनमनेकनयशतविभवृत्तिव्यनुस्यूतस ___कलवस्तुभूमिव्यापि प्रधानोपसर्जनीकृतेतरेतररूपद्रव्यपर्यायोभयनयावकाले उत्पादादिमत्ता लम्बि न कचिदेकान्तेन प्रतिष्ठते, प्रथितमेवैतत् , यतः योऽपि ह्यसाव विभागः परमनिरुद्धः समय एको निष्प्रदेशः सोऽपि द्रव्यपर्यायावबद्धवृत्तिरेवेति, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्माऽपि स्वरूपानन्यभूतक्रमाक्रमभाव्यना 1 कति भदन्त ! द्रव्याणि प्रज्ञप्तानि ? गौतम ! षड् द्रव्याणि प्रज्ञप्तानि, तद्यथा--धर्मास्तिकायः, जीवास्तिकायः आकाशास्तिकायः, पुद्गलास्तिकायः, जीवास्तिकायः, अद्धासमयः। Page #457 -------------------------------------------------------------------------- ________________ स्त्रं 38 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् द्यपर्यवसानानन्तसङ्ख्यपरिणामपर्यायप्रवाहव्यापिनमेकमेवात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्य विशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात् सामान्यपरमार्थ एव, अतः सन्नेव न कदाचिदप्यसन् , स एव ह्यःप्रभृतिपर्यायैरुत्पादव्ययस्वभावैः प्रतिपर्यायमाघातस्वरूपत्वादाविर्भावतिरोभावावनुभवन् विनाशीति, तद्यथा-श्वोभावेन विनश्याद्यत्वेन प्रादुर्भवति, अद्यत्वेनापि विनश्य ह्यस्त्वेनोत्पद्यते, कालत्वेन तु श्वोऽद्ययःपर्यायेषु सम्भवित्वादन्वयरूपत्वाद् ध्रुव एव, ततो य एवोत्पद्यते स एव विनश्यति द्रव्यार्थतः स एवावतिष्ठते अनन्यत्वात् सर्वदापि, तथा य एव विनश्यति स एवोत्पद्यतेऽवतिष्ठते चेत्युत्पादव्ययध्रौव्याण्येकाधिकरणानीति, न हि श्वोऽद्यादय उत्पादविनाशाः कालध्रौव्यमन्तरेण, निर्वाजत्वान्निराधारत्वात् खपुष्पवत् , नापि कालध्रौव्यं यःप्रभृत्युत्पादविनाशावन्तरेण, अपरिणामित्वाद् व्योमोत्पलादिवदेव / तस्मादेवं निरूपिते वृत्तो वय॑ति च द्रव्यार्थत्वेन कालः सद्भिः स्वपोयरामृष्टो विवक्षित उपनीतोऽस्तीति भावितमेव // पर्यायार्थतया त्वत्यन्तविविक्तरूपत्वात पर्यायाणां प्रत्युत्पन्नमात्रविषयत्वादतीतानागतयोरभावादेव न वृत्तो नापि वय॑न्निति, तेन प्रकारेणासत्त्वम् / अतः स्यात् सत्त्वं स्यान्नास्तित्वमिति व्यवस्थानात् सन् गुणपर्यायवांश्च कालः , एष च निर्वतकहेतोः कर्मणः कालोऽपेक्षाकारणं मनुष्यलोके प्रत्यक्षलिङ्गः, तानि च लिङ्गानि प्रतिनियमवर्तीनि वर्षोष्णशीतवाताशनिहिमतडिदभ्रगर्जितोलकाङ्कुरकिसलयपत्रफलहरितप्रसूनोदयप्रवासतारानुचक्रक्रमादीनि, तथा प्रयोगोऽपि-प्रतिनियतव्ययस्थाभाविनो वर्षा दिवनस्पत्यादिपरिणामा यथास्वं परिणामिकारणव्यतिरिक्तापेक्षाकारणद्रव्यान्तरवृत्तिसापेक्षप्रादुर्भावाः, असन्ततैकरूपपरिणामत्वे सति प्रतिनियतव्यवस्थयोत्पद्यमानत्वात् , तदानीमात्मलाभत्वात् , तद्भावमापाद्यमानत्वाद् , बहिःप्रकाशापेक्षिरूपान्तरविनिश्चयाभिमुखीभूतचक्षुरिन्द्रियविज्ञानवत्, स्वसमये वा धर्माधर्मद्रव्योपकारजनितजीवपुद्गलगतिस्थितिवत् , अर्धत्तीयद्वीपव्यापित्वेऽपि समयस्य भोगभूमिषु नास्ति किञ्चित् काललिङ्गं, व्यवस्थितपरिणामत्वात, यतः सम्भवतामर्थानां स्वयं स्वभावेन कालोऽपेक्षाहेतुरुक्तः, न निवर्तक इति / एवं तबसम्भवि न लिङ्गोऽपि भोगभूमिषु यथाऽस्ति कालस्तथाऽर्धतृतीयद्वीपक्षेत्राद् बहिरपि भाववृत्त किमिति नाभ्युपगम्यते ? अपि च-वतेनं तत्रास्ति परत्वापरत्वादिकालस्यापेक्षिता लिङ्गंच, प्रत्यक्षदृश्यमानकाललिङ्गत्वाद् भरतादिक्षेत्रवत् स्यात् तत्र काल इति, अत्रोच्यते-सत्यामपि तत्र भावानां वृत्तावविशेषेण तस्याः काललिङ्गत्वाभाव इत्यसिद्धता हेतोः। नहि सर्वा वृत्तिः कालापेक्षा। यत्र तु कालस्तत्रासौ वर्तनाद्याकारेण परिणमत इति नियमः। कदाचिद् वा शङ्केत परः-बाह्यद्वीपेषु वृत्तिर्भावानां कालापेक्षा वृत्तिशब्दवाच्यस्वात् प्रयोगनिरपेक्षेहत्यचूतकुसुमवृत्तिवदिति, एतदप्ययुक्तम्, अलोको हि सम्प्रति विद्यमानत्वाद् वतेते, न च तत्र कालोऽस्तीत्यनैकान्तिकत्वात्, समयवृत्त्या वाऽनेकान्तः, __ 1 'नन्तरसंख्य ' इति क-पाठः / 2 वर्त्यति नैतेन ' इति क-पाठः / 3 ‘परव्यक्त इति प्रत्यन्तरे' इति ग-टी-पाठः / 4 'शब्दावाच्यत्वात्' इति कापाठः / 5' वाऽनैकान्तः' इति क-ख-पाठः / Page #458 -------------------------------------------------------------------------- ________________ 432 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 तस्मान्मानुषलोक एव कालः, स च परिणामी, न पुनरेक एव विच्छिन्नमुक्तावलीमणिवदविद्यमानपूर्वापरकोटिर्वर्तमानः समयोऽभ्युपेयते, निरन्वयसमयोत्पादविनाशप्रसक्तेः, एकनयावलम्बित्वं चैवं स्यात् , अतोऽनर्पितद्रव्यनयमतानुसारिभिः सन्ततिपक्षप्रतिज्ञानाद् विद्यमानतैव पूर्वोत्तरसमययोः, वर्तमानसमय एवोत्तरसमयरूपेणोत्पद्यते तथापरिणामात्, नापूर्वमुत्पद्यते खपुष्पादि, नापि निरन्वयमेव किञ्चिद् विनश्यति कार्यत्वात् तत्सन्तानपतितत्वादुपान्त्यसन्ताननिरूपत्वात् , न पुनः सर्वथैवोद्भवविनाशौ निराधारावेव, ध्रौव्यं तयोराधारस्तसिन् सति तयोर्भावादिति / यच्च परत्वापरत्वादि काललिङ्गमभ्यधायि प्राक् तदपि नयान्तराभिप्रायादेव, अन्यथा तु स्थितिविशेषापेक्षे हि परत्वापरत्वे, पष्टिवर्षाद् वर्षशतिकः पंरांपरत्वादेः परः, अपरः षष्टिवर्ष इति, स च स्थानविशेषः पष्टिवर्पाणां शतं वर्षाणास्थितिविशेषापेक्षिता मिति स्थितेरेव, सा च सत्त्वापेक्षा, अस्तित्वादेव भावानाम्, अस्तित्वं _चानपेक्षमित्युक्तम्, तस्मात् कालापेक्षे परत्वापरत्वे न भवतः, योगपद्यमपि कर्तृषु व्यवस्थितं तेषामेव कर्तृणां कांश्चित् क्रियाविशेषानपेक्षते, न कालम् , न च ते क्रियाविशेषास्ताभ्यः क्रियाभ्योऽत्यन्तमेव नाना भवितुमर्हन्ति, यदा तु काकतालीयेनैकः कर्ता तथाविधक्रियामापद्यतेऽन्योऽपि को तथैव तक्रियापरिणतस्तदा युगपदिति व्यपदेशः, एवमयुगपदित्यपि भावनीयम् // तथा चिरक्षिप्रयोरेष एव प्रपञ्चः, ते च गतिविशेषापेक्षे, गतिश्च परमाण्वादिद्रव्यप्रतिबद्धेति // अथ कस्मादादावेकनयालम्बनेन सूत्रार्थमुपक्रम्य पुनर्नयद्वयेनोपसंहरति भवानित्याक्षिप्तेऽभिधीयते-विविक्तार्थसूत्रार्थदर्शनार्थत्वात्, आफै हि षष्ठं कालद्रव्यमितरद् द्रव्यविविक्तं दशेयत्येकनयप्रवृत्तेः / न च जैने प्रवचने कश्चिदेको नयः समस्तं वस्तुस्वरूपं प्रतिपादयितुं प्रत्यलः, यतस्तत्प्रतिद्वन्द्विनयानुसारि सूत्रमपरमागमेऽति किमिदं भंते ! कालोत्ति पवुच्चति ? गोयमा! जीवा चेव अजीवा चेव""। इदं हि सूत्रमस्तिकायपञ्चकाव्यतिरिक्तकालप्रतिपादनाय तीर्थकृतोपादेशि, जीवाजीवद्रव्यपर्यायः काल इति सूत्रार्थः, कलनं कालः-प्रतिविशिष्टपयोयोत्पादसङ्ख्यानम्, कल्यते वाऽनेन वस्त्विति कालः, स चवर्तनादिरूपो द्रव्यस्यैव पर्यायः, तत्र स्वयं सद्भावेन वर्तमानमर्थ या प्रचो. कालस्य पर्यायता दयति वर्तस्व वर्तस्व मा न वर्तिष्ठाः हेतुमण्णिचि “ण्यासश्रन्थो युच्" (पा० ___ अ०३, पा० 3, सू० 107) इति स्त्रीलिङ्गे भावे वर्तना क्रिया, सा च वर्तितुर्भा वादनान्तरं कालस्तत्परिणामत्वात्, द्रव्यमेव काल इति कर्मधारयवृत्तिव्यार्थाभेदविवक्षायाम, नहि वर्तनादिक्रियाभ्यो भिनं द्रव्यमस्ति, एकस्यापि समयस्य प्रतिद्रव्यमभेदेन वृत्तवादान 15 यता वर्तमान ' इति क-ख-पाठः। 2 ' प्रसृतेः ' इति क-पाठः। 3 समस्तवस्तु' इति क-पाठः / किमिदं भदन्त | काल इति प्रोच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव / 5 “समयाइ वा आवलियाइ वा जीवाति या अजीवाति या पबुच्चइ " इति पाठस्तु स्थानाङ्ग ( सू० 95), द्रव्यस्यैव पर्याया' इति क-ख-पाठः। Page #459 -------------------------------------------------------------------------- ________________ सूत्रं 39] - स्वोपज्ञभाष्य-टीकालङ्कृतम् / / 433 न्त्यम्, द्रव्यं च द्विविधं जीवाजीवात्मकत्वात् , तसाज्जीवाजीवाः समयावलिकादिभेदवाच्याः, तत्परिणतिरूपत्वात् , द्रव्यास्तिकस्य हि द्रव्यं द्रव्यार्थतामात्रमेकमभिन्नं सर्वव्यापि, तथाऽत्यन्तमपास्तव्यतिरेकम् , अन्वयमात्रसग्राहिणः कालसामान्यमेकमेवोपचरितविशेषम् , अतश्चेतनाचेतनद्रव्यविषया वर्तना सादिसपर्यवसितादिभेदेन चतुर्विकल्पा सा द्रव्यस्य कालः सुरसिद्धभव्याभव्यस्कन्धानागतातीतव्योमादिनिदर्शनसाध्यः, अद्धाकालस्यापि सूर्यादिक्रियाविशिष्टत्वान्न द्रव्यव्यतिरेकित्वम् , यतो यदाकाशखण्डमुष्णांशुना स्वयमंशुभिश्च संयुक्तं तस्याऽहरिति नाम; यदन्यत् सा रात्रिरिति, तस्याहोरात्रस्य परमसूक्ष्मोऽत्यन्तविच्छेदः कश्चिदविभागी भागः समय उच्यते / एतत्प्रचयविशेषाश्चावलिकादयः। सोऽयमद्धाकालः समयादिः समयक्षेत्रप्रतिबद्धो द्रव्यकालान्न व्यतिरिच्यते, एवमेष नयः प्रथमोपन्यस्तनयप्रत्यनीकतया प्रवृत्तः सकलवस्तुसद्भावप्रतिपादनायाक्षम एवेत्युभयनयसामग्रीप्रतिपाद्यवस्तुस्वभावो निरवद्यः, सूत्रकारस्याप्येष एवाभिप्रायः सूत्रेणैकीयमतमुपन्यस्यतः, इत्येके इत्थमाचक्षतेऽन्ये त्वन्यथेति // सम्यग्ज्ञानं पुनः सामग्र्यामेव सम्पद्यते, न प्रकारान्तरेणापीति, एवं प्रसिद्धेन कोलद्रव्येणानेकरूपो व्यवहारः प्रतीयते वृत्तवर्तमानवत्स्येद्विषय इति // 38 // इह (सू०३८) द्रव्यलक्षणाधिकारेऽभिहितम्-कालश्चेत्येके इति द्रव्यत्वप्रतिपिपादयिषया, कालस्यास्य च द्रव्यत्वे सत्युपकारेण भवितव्यमित्युपकारो वर्तनादिलक्षणः प्रथममेव प्रतिपादितः, तथा धर्मादिद्रव्याणामसङ्ख्येयाः प्रदेशाः, तथा धर्माधर्मयोरित्यादिना सूत्रकला. पेन प्रदेशपरिमाणमभिहितम्, अस्य तु कालद्रव्यस्य नोक्तं प्रदेशपरिमाणम् , तत्र तद्विवक्षया त्विदमुच्यते-सोऽनन्तसमयः। अथवा एकान्तेन कालद्रव्यमेकमपरिणामीच्छन्ति केचित, तत्प्रतिक्षेपार्थमिदमाहकालस्य समयाः सूत्रम्-सोऽनन्तसमयः॥५-३९ // टी-स इत्यनन्तरसूत्रप्रतिपादितो द्रव्यविशेषः कालाख्योऽनन्तसमयः परिणामी प्रतिपत्तव्यः, तत्राविभागी यः कालः परमनिरुद्धश्च समयः स कालावयव इत्यर्थः, स च न माक्तः, किं तर्हि 1 पारमार्थिकः, अनन्तशब्दः सख्यावाची, अनन्ताः समयाः-पर्याया भेदा यस्यासावनन्तसमयः / उक्तं (सू० ३७)-गुणपर्यायवद् द्रव्यलक्षणं, सर्वं च द्रव्यमनन्तपर्यायमिष्यते, ते च पर्यायाः स्वपरभेदभाजः, यथैकस्याणोः शुक्लसुरभितिक्तादयस्तदन्यद्रव्यवर्तिनश्च संस्थानवर्णादयः, तथैकस्य कालद्रव्यस्यानन्तप्रदेशस्यान्येऽपि सत्त्वज्ञेयत्वद्रव्यत्वकालत्वादयोऽर्थपर्याया वचनपर्यायाश्चानन्ता एव, वर्तनादिलक्षणस्यातीतसाम्प्रतानागतशब्दवाच्याः परिणामविशेषा इति, एनमेवार्थ भाष्येण स्पष्टयति भा०-से चैष कालोऽनन्तसमयः / तत्रैक एव वर्तमानसमयः, अतीतानागतयोस्त्वानन्त्यम् // 39 // 1. सर्व एष ' इति क-ख-पाठः / 55 Page #460 -------------------------------------------------------------------------- ________________ 434 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 टी-स चैष काल इत्यादि / स इति प्रक्रान्तपरामर्शादेप इत्यनेन सूत्रेणानुसन्धीयते कालः, चशब्दो हेतौ, यस्मादनन्तसमयस्ततः परिणामीति, अनाद्यनन्तभाविन्यां समयपरम्परायां सख्यानं प्रत्यनिर्दिष्टलक्षणायां विशिष्टसख्यानिरूपणायेदमाह-अनन्तसमय इति / सप्रदेशः कालो द्रव्यत्वादात्माकाशादिवत् , ततश्च परिणाम्यपि प्रदेशवत्वात् तद्वदेवेति, तति तस्मिन् कालद्रव्ये वर्तमाने, एक एव प्रदेशः समयलक्षणः तिर्यगतृतीयद्वीपसमुद्रद्वयव्यापी ऊर्ध्वमपश्चाष्टादशंयोजनशतप्रमाणः कालच्छेदेनानवयवः क्षेत्रच्छेदेनादेशोऽपि कल्पितावयवो भावभेदेन वा सावयवः, शेषद्रव्योपकार्योपकारकत्वेन स्वगतेन चागुरुलघुलक्षणेन परिणामेनेति, न चायमसाकमेकान्ताग्रहोऽनवयव एवेति, किन्तु विभज्याविभज्यार्थस्य व्याक रणादर्पितानर्पितसिद्धेः कालतो द्रव्यतश्चापितोऽनवयवः, तस्योत्पत्त्यनकालेऽवयवविचारः न्तरविनश्वरत्वात , एकस्य समयस्य काल कृता देशा न सन्त्येव, यथा कालकृतदेशेरनवयव एवं द्रव्यकृतदेशेरपीति, क्षेत्रतो भावतश्च सावयव एव, उत्पद्यमानसमयपरिणामिकारणमतीतसमयकायें वर्तमानावस्थामनुभूय वृत्तपर्यायमनुभविष्यति, प्राप्तवर्तमानत्वाच्च वय॑त्यपीत्येकसमयस्य द्रव्यता, अतः प्रदेशावयवबहुत्वात् का येव्यपदेश्योऽपि, कालद्रव्यप्रदेशावयवैनास्ति कायता, व्यवहारस्तु रूढ्याऽस्तिकायैः पञ्चभिरेव प्रवचने, न चैतावतैवास्यास्तिकायताऽपहोतुं शक्या, आगमे तु कचिद प्रदेशे नित्यतया व्यवहारः, कचिदनित्यतया। न चैकान्तेन नित्यत्वमनित्यत्वं वा युक्तमित्यलं प्रसङ्गेन। प्रकृतमुच्यतेघर्तमान एकः समय इति निरूप्यैवमतीतानागतयोर्निरूपणायेदमाह--समयराश्योः कियती सख्येति // अतीतानागतयोस्त्वानन्त्यम् // अतीताः सपर्यवसाना वर्तमानावधिकाः सन्तत्याऽनाद्या इत्यतोऽनन्ताः, तथाऽनागताः साद्या वर्तमानावधिकाः पर्यवसानशून्याः सन्तः त्यैव, अनन्तस्य भाव आनन्त्यं-सख्याख्यो गुणः, स च न सख्येयसइख्या नासख्येयसख्येति, किं तर्हि ? अनन्तसङ्ख्यै व, तुशब्दः समुच्चये / अतीतोऽनागतश्च समयराशिरनन्त इति, सौ चातीताद्धा अनागताद्धा च शेषकायेभ्योऽल्पबहुत्वचिन्तायां पृथगेवोक्ता, न पञ्चास्तिकायधर्मत्वेनेति, अभव्येभ्योऽनन्तगुणाः सिद्धाः, सिद्धेभ्योऽतीतसमयराशिरसइनव्येयगुणः, अस्माद् भव्यास्त्वनन्तगुणाः, भव्येभ्योऽनन्तगुणाः वत्स्यत्समयाः, इत्येतदल्पबहुत्वमस्तिकायपञ्च( त्व एव ) कालद्रव्यस्य घटत इति // 39 // भा०-अत्राह-उक्तं( अ० 5, सू० 37) भवता-गुणपर्यायवद् द्रव्यमिति / तत्र के गुणा इति ? / अत्रोच्यते-- टी- अनाह-उत्तं भवतेत्यादिना सम्बन्धमावेदयति / द्रव्याधिकारसम्बन्धेन कालद्रव्यं सपर्यायमभिधाय गुणपर्यायस्वरूपं निरूपयितुकामो भाष्यकारः परमेव प्रश्नं कारयति / 'मतीतः समय इतिक-पाट: 2 'गव्य इति क-पाठः।३'सचा' इति फ-पारः। Page #461 -------------------------------------------------------------------------- ________________ सूत्र 40] स्वोपज्ञभाष्य-टीकालङ्कृतम् 435 प्रतिपादितं भवता-गुणपर्यायपरिणामि द्रव्यम् , तत्र के गुणा यैस्तद्रव्यं गुणवदिति दिश्यते ? गुणग्रहणाच पर्याया गृहीता एवेत्यतो न भेदेन प्रश्नः, प्राक् च प्रतिपादितमेव गुणाः पर्याया इति चैकमित्युक्ते आचार्य आह-अत्रोच्यत इति / गुणस्वरूपमभिधीयते, यादृशा द्रव्यगुणास्तादृशाः प्रतिपाद्यन्त इति सङ्गिरते गुरुः // . सूत्रम्-द्रव्याश्रया निर्गुणा गुणाः // 5-40 // टी-स्थित्यंशो द्रव्यं स आश्रयो येषां परिणामि कारणं परिणामविशेषाणां गुणाना ते द्रव्याश्रयाः, परिणामिपरिणामलक्षण आश्रयाश्रयिभावो नाधाराधेयलक्षणः, कुण्डबदरादिवत् / न च समवायलक्षणः संबन्धो युज्यते द्रव्यगुणानामनुपपत्तेः / अस्तु तावद् द्रव्यगुणानां समवायलक्षणः संबन्धः / समवायस्य गुणानां च यः सम्बन्धः स किं समवायोऽथ सम्बन्धान्तरम् 1 / यदि समवायः, तस्य तेषां च किमभिधानः सम्बन्ध इति / समवायश्चेत् , अनवस्था, सम्बन्धान्तरमिति चेत् , आगमविरोधः स्पष्टतरमुच्यते, समवायाख्यः सम्बन्धः समवायिनोयेदि वर्तते, ततः संयोगवृत्त्या समवायवृत्त्या वा वर्तेत ? संयोगवृत्त्या तावन्न वतेते, कुतः 1 अद्रव्यत्वाद्, द्रव्यविपयो हि संयोग इष्यते, न पुनद्रव्यगुणविषयः / अथ समवायवृत्त्या वर्तते तत्र समवायस्ततो यद्यन्यसमवायवृत्त्या सोऽपि वर्तते ततोऽनवस्थोराहणीया // एवमुक्ते वार्तिककारेणोक्तं-समवायो न कचिद् वर्तत इति ब्रूमः, अनाश्रित एवासौ स्वतन्त्रः सम्बन्धो भवतीत्येतदप्ययुक्तम् / यदि द्रव्यगुणयोनोश्रितः कयाचिद् वृत्या न तर्हि द्रव्यं गुणैः सम्बद्धं तेन समवायाख्येन सम्बन्धेनानाश्रितत्वाद् द्रव्यगुणयोर्घटपटादिवत्, घटपटयोर्हि परस्परेण नास्ति समवायलक्षणः सम्बन्धः, तमाद् द्रव्यं परिणमते, गुणपर्यायाः परिणामविशेषाः, ते च गुणा निर्गुणाः / नहि शुक्लघटकपालादीनां गुणपर्यायाणामन्ये गुणपर्यायाः सन्ति, द्रव्यस्य परिणामिनः शुक्लादिपरिणामो घटकपालसंस्थानादिश्च परिणामः, न पुनस्तस्यैव शुक्लादेरन्ये शुक्लादयः कुम्भादिसंस्थानस्य वाऽन्ये संस्थानादयस्तत्परिणामा विद्यन्ते, इत्यतो निर्गुणाः / एनमेवार्थ भाष्येण स्फुटयति भा०-द्रव्यमेषामाश्रय इति द्रव्याश्रयाः, नैषा गुणाः सन्तीति निर्गुणाः४०॥ टी-द्रव्यमेषामाश्रय इत्यादि भाष्यम् / द्रव्यं भव्यं योग्यं युगपदयुगपद्भाविन्याः गुणपर्यायपरिणतेः स्थितिः सामान्यमेषामुत्पादव्ययलक्षणानां ज्ञानादिशुक्लादिघटकशकलादीनामाश्रयः, परिणाम्यर्थो द्रव्यं, तद्धि ज्ञानशुक्लादिघटकादितया परिणमते, भूयस्तेनाकारेण विनिवर्तते, द्रव्यतया व्यवतिष्ठते, तदेपामुपन्न इति द्रव्याश्रयाः / इतिशब्द एक्शब्दार्थे / एवशब्दस्त्ववधारयति, परिणामिपरिणामलक्षण एवाश्रयाश्रयिभावो न प्रकारान्तरेण, परिणामिपरिणामयोश्च द्रव्यपर्यायनयद्वयापेक्षयैकत्वान्यत्वभजनाविधिरुद्वाह्य इति / तं भजनाविधिमुपन्यस्य 1' णामोऽतस्तस्यैव ' इति क-ख-पाठः / Page #462 -------------------------------------------------------------------------- ________________ तत्वार्थाधिगमसूत्रम् [अध्याय: 5 ति-नैषां गुणाः सन्तीति निर्गुणाः / एषां ज्ञानादिशुक्लादीनां गुणानां नान्ये गुणाः केचन सन्तीति निर्गुणाः, द्रव्याद् व्यतिरेके सत्येतदुपपद्यते, गुणगुणिनोर्भेद इत्यर्थः / तत् तु ना लोकान्तेन / इतिशब्दोजाव्यतिरेकनयवाक्योपन्यासार्थः / नैपां गुणाः सन्तीति भेदनयप्रधानं वचनम् / न च भेदपरमार्थ एव जैनः कृतान्तः, सकलस्य वस्तुनो भेदाभेदरूपत्वात् / यदा तु द्रव्यमेव तथा परिणतं ज्ञानाद्यात्मना शुक्लाद्यात्मना वा तदा द्रव्यस्य तादात्म्याद् गुणानां स्वरूपं भिन्नं नास्त्येवेति, एवं च शुद्धद्रव्यास्तिकादेशादनन्यत्वमेव नैर्गुण्यं, पर्याय विवक्षायां तु स्याद् गुणप्रधानत्वात् पर्यायनयस्येति, कदाचिदाशङ्केत परः सतां गुणानां निर्गुणत्वं चिन्त्यतेऽत्यन्तशद्रव्यास्तिकपक्षे गुणा एव न सन्ति कुतोऽनन्पत्वमिति ? / उच्यते-न सन्तीत्येतदयुक्तम् , सन्ति गुणाः, किन्तु द्रव्यादव्यतिरिच्यमानस्वरूपाः, तेद् यदि द्रव्यं शुक्लाकारेण परिणतं भवति, तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति / / 40 // / भा०-अत्राह-उक्तं (सू० 36 ) भवता-बन्धे समाधिको पारिणामिका. विति / तत्र का परिणाम इति / अत्रोच्यते टी-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमाचष्टे / भवतेदमुक्तं (सू० ३६)-बन्धे समाधिको पारिणामिकाविति, समः समगुणस्य परिणामं विधत्ते, हीनगुणस्याधिकगुणः परिणाममापादयतीति, तथा नामादिसूत्र(१-५)भाष्य इदमभिहितम्-भावतो द्रव्याणि धर्मादीनि सगुणपर्यायाणि प्राप्तिलक्षणानि वक्ष्यन्ते, प्राप्तिश्च परिणामः, स च सकलद्रव्यविषय एव पिपृ. च्छिषतः, तत्र सूत्रे भाष्ये वाकः परिणामशब्दवाच्योऽर्थो यमङ्गीकृत्येदमुक्तम्-समगुणोऽधिकगुणो वा परिणाममापादयतीति, एवं मन्यते किमर्थान्तरभूतं परिणामं जनयन्त्याहोस्वित् त एव स्वरूपमजहतो द्रव्यविशेषा वैशिष्टयं प्रतिपद्यमानास्तथा भवन्तीति सन्देहभाजा पृष्टे भाध्यकृदाह-अत्रोच्यत इति / किमुच्यते ? यत् पृष्टम् / किश्च पृष्टम् ? परिणामसद्भावः पञ्चविधस्य पविधस्य वा द्रव्यस्य धर्मादेः / सूत्रम्-तद्भावः परिणामः // 5-41 // टी-तस्य भावस्तद्भावः, तस्येति द्रव्यपदकस्याभिसम्बन्धः, तदेव हि धर्मादिद्रव्यं तेन तेनाकारेण भवति, गतिस्थित्यवगाहशरीरादिज्ञानादिवृत्तसमयादिना, भूतिर्भवनमात्मलाभो भावः परिणामः / तस्येति कलक्षणा षष्ठी, भवतेरकर्मकत्वात् / तान्येव हि द्रव्याणि तथा भवन्ति, न कूटस्थान्यवतिष्ठन्ते, न सर्वथोत्पद्यन्ते, नापि सर्वथोच्छिद्यन्ते, तस्मात् सामान्यरूपः परिणामोऽनुवृत्तिरूपत्वात् , अनुवर्तते हि सर्वत्र गत्यादिषु धर्मादिद्रव्यं स्वरूपमजहन , तथाविधधर्मेद्रव्यादीनां समानभावः सामान्यम् , कर्तृषष्ठया द्रव्यादय एव समाना भवन्तीति सामान्यमेव, तद्भावलक्षणः परिणामः, इत्येतदेव भाष्येण प्रकाशयति परिणामस्वरूपम् / / 1' तयदा' इति क-पाठः / Page #463 -------------------------------------------------------------------------- ________________ सूत्र 41] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् 437 . भा०-धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः // 41 // स विविधः टी-धर्मादीनां द्रव्याणामित्यादि भाष्यम् / धर्मो गत्युपग्रहकल्लोकाकाशव्यापी, स आदिर्येषां तानि धर्मादीनि द्रव्याणि, आदिशब्दादधर्माकाशपुद्गलजीवकालाख्यानि, तेषां स्वो निजो भावो भूतिरात्मलाभोऽवस्थान्तरप्राप्तिः परिणामः / परिशब्दो व्याप्ती, दोषेण परीतो यथादोषेण व्याप्तः, नमिः प्रहत्वमभिधत्ते प्रहत्वमृजुत्वमवस्थान्तरप्राप्तिलक्षणं धर्मादिस्वतत्त्रं, तेन वोत्पादो विनाशश्व व्याप्तः, समस्तस्थित्यंशसामान्येनाव्याप्तो नोत्पादो नो विनाशोऽस्तीति परिणामशब्दार्थः, सेमन्ताद् भावे वा परिः, परिखनतिवत्, सर्वार्थाभिधानप्रत्ययेषु रमनमन्वयांशानुवेधः, वीप्सार्थो वा परिशब्दः, यथा वृक्षं परिसिञ्चति, वृक्षं वृक्षं सिञ्चतीत्यर्थः / एवं द्रव्यं द्रव्यं परिनमनं परिणामः, स्वमात्मनो व्यतिरेक्यपि दृष्टं गोमहिष्यजाविकादि तव्यवच्छेदार्थमाह-स्वतत्त्वमिति / तस्य भावस्तत्त्वं धर्मादेरवस्थान्तरापत्तिः, स्वं च तत् तत्त्वं चेति स्वतत्व-धर्मस्यैव निजमवस्थान्तरम्, न त्वधर्मादेरवस्थान्तरं, धर्मद्रज्यस्य परिणामः, एवमधर्मादिद्रव्याणामपि स्वस्वावस्थापत्तिः परिणामो द्रष्टव्यः, धर्मो हि गन्तुर्गत्युपग्रहाकारेण परिणमते स्वरूपापरित्यागेन, स्थित्युपग्रहाकारेण स्थातुरधर्मः, व्योमाऽप्यवगाहुरवगाहदायित्वेनोपजायते, पुद्गलाः शरीरशब्दादिरूपेण, आत्मा ज्ञानदर्शनोपयोगवृत्त्या नारकादिभावेन च, कालोऽपि वर्तनादिप्रपश्चन परिणमते, तथा यथोक्तानां गुणानामिति, येन प्रकारेणोक्ताः शुक्लादिघटकपालादय एकजातीयत्वेन, न भिन्नजातीयतया, गुणाः पृथक् पर्यायाश्च पृथगिति, अत एवेह पर्यायग्रहणं न कृतम् , गुणपर्याययोरेकत्वात् , तेऽपि हि शुक्लादयः कृष्णादित्वेन परिणमन्ते वर्णादिसामान्यममुश्चन्तः, कुम्भपर्यायोऽपि कपालावस्थाप्रापी मृत्स्वभावमपरित्यजन्, कपालादयोऽपि शकलशर्करापांशुत्रुटिपरमाणुरूपेणेति, परमाणवोऽपि रूपाद्यात्मना व्यणुकादिस्कन्धात्मना वेत्येवं द्रव्याणि सर्वदा सूक्ष्मस्थूलभेदोत्पादव्ययरूपेण परिणमन्ते, गुणानां च परिणामाभ्युपगमे गुणवत्त्वमथोदेवाभ्युपेतं भवतीत्यनेकान्तवादसद्भावप्ररूपणार्थमिदमेवावोचद् भाष्यकारः, अथवा क्षणिकान् पदार्थान् ये प्रतिजानते त एवमाहुः-उत्पत्तिसमनन्तर मेव ध्वंसन्ते पदार्थाः, न हेतुमपेक्षन्ते ध्वंसमानाः, स्वात्मलाभक्षणानन्तरं क्षयः विनाशः क्षण उच्यते, निरुक्तविधानात् , तद्योगात् क्षणिकमिति / आह च "क्षणोबाचेह नैरेक्तै-रुत्पन्नानन्तरं क्षयः / निर्हेतुः सोऽनपेक्षत्वात् , तद्योगात् क्षणिकं मतम् // " यथाः पयःप्रतीपादयः प्रतिक्षणमन्ये चान्ये चोत्पद्यन्ते निरवशेषपूर्वनाशसमकालम् , एवमन्येऽपि महीधादय इत्यस्य प्रतिक्षेपायेदमाह-तद्भावः परिणामः / परिणामादन्यथावं 1 'समत्वात् ' इति क-पाठः / 9 'द्रव्यं नमनं ' इति ग-पाठः / 3 ' स्वेन गुणाः ' इति क-पाठः / 4 ' क्षयः क्षण' इति ग-पाठः / 5. पत्यनन्तर इति ग-पाठः / Page #464 -------------------------------------------------------------------------- ________________ 438 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 5 दीपक्षीरादिषु न, स्वजात्यनुच्छेदात , कश्चित् पर्यायोऽपैत्यपरः प्रादुरस्ति पुद्गलचैतन्यजात्यनुच्छेदेन तस्य, तस्य तथाभावः परिणामः, सोऽन्यत्वदुर्बुद्धेः कारणम् , उत्फणविरुणकुण्डलप्रसारितानेकावस्थसपेवदेकमन्वयि तत् परिणमते, न तु पूर्वोच्छेदेन सवेथाऽन्यस्योत्पाद इति पूर्वोक्तेन विधिना प्रपञ्च्यम्, वृत्यक्षगण्यपि क्षणभङ्गनिरासद्वारेण समर्थनीयानीति / अथवा कैश्चित् परिणामलक्षणमुक्तम्-"अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तिधर्मान्तरप्रादुर्भावश्च परिणाम" इति, तदपाकरणायावाचि तद्भावः परिणामः, तत्रावस्थितं यदि कूटस्थ विवक्षितम् , ततस्तस्य ये धर्मा उत्पादविनाशलक्षणास्तदाकारेण तन्नोत्पद्यतेऽस्थितत्वादेव, तादृगप्यस्तीति श्रद्धया प्रतिपत्तव्यम् , धर्मा एवोत्पद्यन्ते विनश्यन्ति वा व्यतिरेकिणः, अथा. नन्ये द्रव्याद् धर्मास्ततो धर्मोत्पादे धर्मविनाशे चानन्यत्वादेव द्रव्येणापि तथैव भवितव्यमिति नास्त्यवस्थितत्वम् , अतस्तद्भावलक्षण एव परिणामोऽभ्युपेयः, तदेव हि द्रव्यं तथा भवति, गुणो वा स्वभावः स्वतत्त्वं परिणामः परिणामिनो द्रव्यस्येति निरवयं परिणामलक्षणमिति // 41 // स द्विविध इत्यादिना सम्बन्ध कथयति, स एप परिणामोऽनन्तरसूत्रोक्तो याथात्म्योपलब्धिनिमित्तत्वाद् द्वे विधे यस्यासौ द्विविधः / के पुनस्ते इत्याह सूत्रम्---अनादिरादिमांश्च // 5-42 // टी--अविद्यमान आदिरस्यासावनादिः-अविद्यमानप्रथमारम्भः परिणामा, यसात पूर्व नास्ति परमस्त्यादिः स तद्वान् यः स आदिमान्-प्रथमारम्भप्रवृत्तिः, चशब्दः परिणामेयत्तोपसंहारार्थः समुच्चयार्थो वा / क पुनरयं परिणामोऽनादिः क चासावादिमानिति विभागेन निरूपयति भा०-तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति // 42 // टी-तत्रानादिरित्यादि / तत्र-तयोरनाद्यादिमतोः परिणामयोः, अनादिरपिषु परिणामो धर्माधर्माकाशजीवेषु, क्रियापदाध्याहाराद् भवति / इतिशब्दोऽभ्युच्चयार्थः / कालद्रव्ये चानादिपरिणामः, तत्र धर्मद्रव्यपरिणामोऽनादिरसङ्ख्येयप्रदेशवचं लोकाकाशव्यापित्वममूर्तत्वं गन्तुगत्यपेक्षाकारणत्वेनागुरुलधुत्वमित्यादिः, अधर्मद्रव्यस्य तु स्थातृस्थित्यपेक्षाकारणत्वं विशेषः, शेपं समानम् , आत्मनोऽप्येते वाऽपेक्षाकारणरहिताः, अन्ये च जीवत्वभव्यत्वाभव्यत्वादयः परिणामाः, स्वस्यानन्तप्रदेशत्वममूर्तत्वमगुरुलघुपर्यायत्वमवगाहकावगाहृदातृत्वमित्यादिः, कालस्य वतमानादिः परिणाम इत्येवममूर्तद्रव्येषु, रूपशब्दो मूर्तिवचनो मूर्तिश्च रूपरसगन्धस्पर्शा इति / / 42 // अथ रूपिषु मूर्तिषु परमाण्वादिषु किमनादिः परिणाम आहोस्विदादिमानित्यत. आह १'न्यत्वबुद्धेः' इति गं-पाठः / Page #465 -------------------------------------------------------------------------- ________________ सूत्र 43 ] स्वोपज्ञभाष्य टीकालङ्कृतम् 439 . सूत्रम्-रूपिष्वादिमान् // 5-43 // .. टी-रूपाव्यभिचारिणः स्पर्शादय इति नोपात्ताः, स्पर्शश्च रूपाद्यव्यभिचारी कचित् किञ्चित् कदाचिदुद्भतशक्तिर्भवति, कचिन्न्यग्भूतशक्तिः, लवणशकलादिवत् / अतः सर्वे वाय्वादयश्चतुर्गुणाः, स्पर्शवत्त्वात् , तत्रानेकः परिणामः पुद्गलेषु व्यणुकादिस्कन्धलक्षणः, शब्दादिः शुक्लपीतादिश्च, तत्र यदा द्वावण विस्रसातो घणुकस्कन्धमारभेते, तदा द्यणुकस्कन्धपरिणाम आदिमान् , एवं शेषा अपि प्रयोगविस्रसाजनिता यथावद् द्रष्टव्या इति, एतदेव भाष्येण स्पष्टयति भा०-रूपिषु तु द्रव्येषु आदिमान् परिणामोऽनेकविधः स्पर्शपरिणामादिरिति // 43 // टी.-रूपिष्वित्यादि / रूपमेषामेषु वाऽस्तीति रूपिणः, (प्राणिस्थादातो) लजन्यतरस्या' (पा० अ० ५,पा० 2, सू० 96) ग्रहणं तत्र समुच्चयार्थव्याख्यातम्, रूपिण्यप्सरा इति यथा। तेषु रूपिषु रूपस्पर्शरसगन्धवत्सु द्रव्येषु द्रुतिलक्षणेषत्पादव्ययवत्स्वादिमान् परिणामोऽनेकप्रकारः, स्पर्शरसगन्धवर्णादिः / स्पर्शोष्टधा शीतादिः शीततरशीततमादिश्च, रसः पञ्चविधस्तिक्तादिस्तिक्ततरादिश्च, 'गन्धो द्विधा सुरभिरसुरभिः सुरभितरादिश्च, वर्णः शुक्लादिभेदात् पञ्चविधः शुक्लादिः शुक्लतरादिश्च, आदिशब्दाद् घणुकादिसङ्घातभेदलक्षणः शब्दादिथेत्येवमनेकाकारः परिणामः पुद्गलद्रव्यविषयः, जन्मादिविनाशान्तविशेषसंस्पृष्टः स्वरूपसामान्यविशेषधर्माधिकारी तद्भावलक्षणः परिणामः आदिमान् भवति, तुशब्दो विशेषणार्थः, द्रव्यत्वमूर्तत्वसत्त्वादयोऽनाद्या अपि पुद्गलद्रव्ये परिणामाः सन्तीत्यमुमर्थ विशिनष्टि, समुच्चयार्थो वा तुशब्दः आदिमांश्च, चशब्दादनादिश्च / एवं तीरूपिष्वपि द्रव्येष्वादिमानपि परिणामोऽस्तु, अस्त्येव योगोपयोगलक्षणो जीवेषु वक्ष्यमाणः, धर्मादिष्वपि भवतु तद्वदेवेति, को वा निवारयति सन्तं पदार्थम् ? यथा स्वयं गन्तुर्जिगमिपापरिणतस्याधुना धर्मद्रव्यमुपग्राहकं भवति, उपग्राहकत्वं च धर्मपयोयः स च प्राङ् नासीत्, तस्य गन्तुगेतिपरिणतेरभावात्, अधुना चोपजायमानः सादिरेव, देवदत्तगन्तृगत्युपरमेऽन्तवान्, एवं जन्मविनाशवत्वात् सादित्वम्, न चोपग्राहकत्वमुपग्राह्यमन्तरेणास्ति, एवमधर्मद्रव्यं स्थितिपरिणामभाजः स्थित्युपग्रहरूपेण परिणमते, व्योमाप्यवगाहुरवगाहदानपयोयेण, कालश्च वृत्तवतेमानादिपरिणत्या भवत्यादिमान् , एवमेष परिणामो द्रव्यार्थिकव्यापाराद् धर्मादिस्वभावी न धर्मादिव्यतिरिक्तः, कचिद् वैस्रसिकः कचित् प्रायोगिकः कचिदुर्भयथोत्पादव्ययध्रौव्यलक्षणत्वात् सतः, न चोपचारस्तत्त्वचिन्तायामङ्गभावं प्रतिपद्यते, इत्येवमनुमोदामहे तत्रादिमन्तं परिणामम् / ये तु मन्यन्ते रूपिष्वेवादिमान् परिणामो भवति, नामूर्तेषु धर्मादिषु, तेपामरूपिद्रव्यपर्यायाश्रयव्यवहा 1 'स्वानानेकः' इति क-ख पाठः। 2 'रमेण परिणतवानेव' इति क-न-पाठः / Page #466 -------------------------------------------------------------------------- ________________ 440 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 रलोपादुत्पादादिलक्षणायोगात् परिणामाभावः, अपरिणामित्वाच्चानिर्धार्यमात्रस्वभावाः स्युर्धमोदयः, स्वत उत्पादव्ययपरिणामशून्यत्वात्, तस्मात् सर्वत्र केचिदनाद्याः केचिदादिमन्तः परिणामा इति न्यायः, सूत्रकारेण तु भजनाप्रदर्शनार्थमेवं सूत्रन्यासः कृत इति // 43 // यदुक्तमनन्तरमनाद्यादिमत्परिणामा रूपिष्वरूपिषु च धर्मादिषु सर्वत्र भवन्तीति तत्त्रदर्शनार्थममूकद्रव्यमुद्दिश्यादिमत्परिणाम निर्दिदिक्षया सूत्रं पपाठ सूत्रम्-योगोपयोगी जीवेषु // 5-44 // टी-अनन्तरसूत्रादादिमानित्येतदनुवर्तते, तच्च योगोपयोगयोर्विशेषणतया प्रयुज्यते, द्विवचनान्तमादिमन्ताविति, योजनं योगः-पुद्गलसम्बन्धादात्मनो वीर्यविशेषः, युज्यते वा स इति योगः, केन ? आत्मना, शक्तिविशेषः प्राप्यत इतियावत्, कायवाड्मनोरूपेणोत्पादः, उपयोजनमुपयोगः-चैतन्यस्वभावस्यात्मनो ज्ञानदशेनाभ्यां स्वविषयोपलभ्यादिव्यापारः प्रणिधानादिलक्षणः, उपयुज्यतेऽनेन वेति समाधिविशेषस्तद्वारकोऽर्थपरिच्छेदोऽप्युपयोगस्तेनाकारेणात्मनो व्याप्तिः / कृतद्वन्द्वनिर्देशाद् योगोपयोगी जीवेषु-आत्मस्वेकद्वित्रिचतुःपञ्चेन्द्रियेषूपपद्यमानोत्पत्तिकालावधित्वादादिमन्ती, सिद्धेषु तु सकलयोगोच्छेदादुप. योग एव क्रमवृत्तिरादिमानेक इति / एनमेवार्थ भाष्येण स्फुटयति भा०-जीवेष्वरूपिष्वपि सत्सु योगोपयोगी परिणामावादिमन्तौ भवतः॥ टी-जीवेष्वरूपिष्वपि सत्सु इत्यादि भाष्यम् / द्रव्यभावप्राणैः अजीविषुजीवन्ति जीविष्यन्ति चेति जीवाः / जीवेष्विति निमित्तार्था सप्तमी / जीवनिमित्तौ योगप. रिणामावादिमन्तौ भवतः, तथापरिणामित्वादात्मनः,अथवा परिणाम्यपि कथञ्चिद् भेदविवक्षायां स्वपरिणामानामाधारतां प्रतिपद्यत एवेति, तेष्वात्मसु मूर्तिवियुतेष्वपि भवत्सु / अपि. शब्दोऽपेक्षायाम् / यथाऽयमपि विद्वान् , एवमण्वादिष्वादिमान् परिणामो जीवेष्वपीति समानम. बहव्रीहिणोक्तेऽपि मत्वर्थीयः कचिदभ्यनुज्ञातः, पाणिनीयेऽपि "इधार्योः शत्रकृच्छुिणि" ( अ० 3. पा० 2, सू० 130, ) इति अरूपशब्दो वाऽतीत(जाति)वचनस्ततश्च सिध्यति च मत्वर्थीयः / 'कृष्णसर्प त्ववल्मीके' इति यथा, तत्रान्योन्यानुगतिलक्षणसम्बन्धादात्मनः कथं वामनोयोग्या पुद्गलानां च कायाद्यवष्टम्भोद्भूता शक्तिर्योगः / भा०-स च पञ्चदशभेदः / / टी.-सामान्येन गमनादिकथनचिन्तनक्रियालक्षणः औदारिकवैक्रियाहारकमिश्रयोगास्त्रयः, तैजसकार्मणे त्वेकः, वाग्योगः सत्यमृषाऽसत्या (मृषा) उभयभेदाच्चतुर्धा, एवं मनोयोगोऽपि चतुर्धा, उपयोगः साकारानाकारलक्षणो जीवस्वभावः / भा०-स च द्वादशविधः। 1 मन्तौ' इति क-पाठः। 2 'तेऽप्यात्मसु' इति जैनानन्दपुस्तकालयप्रतिपाठः। 3 'ज्ञानु पाणिनिना यथा-इन्द्रा०' इति पाठान्तरम् / Page #467 -------------------------------------------------------------------------- ________________ सूत्र 44 ].. स्वोपज्ञभाष्यटीकालङ्कृतम् 441 . टी०-मतिश्रुतावधिमनःपर्यायकेवलमतिश्रुतावध्यज्ञानत्रयभेदः पूर्वः (प्राच्यः ), पाश्चात्यश्चक्षुरचक्षुरवधिकेवलभेदः। एतौ योगोपयोगी परिणामावित्यनेनात्मनः सद्भावापत्तिं दर्शयति / आत्मा कायादिपुद्गलशतसम्बन्धात् तां तां गमनादिकथनचिन्तनक्रियां प्रतिपद्यते तद्रूपीभवति, क्षीरोदकवत् मृद्धटवच्च तादात्म्यं प्रतिपद्यत इतियावत् / स चोपजायमानकालावधिकत्वादादिमान्, सन्तत्या त्वनादिः, उपयोगोऽपीन्द्रियनिमित्तस्तनिरपेक्षश्चात्मनो झस्वभावत्वाच्चैतन्यरूपत्वात् परिणामः सामान्य विशेषरूपः, सन्तत्याऽनादिः, प्रत्येकविवक्षायामादिमान्, अनयापि चोपयोगलक्षणमात्मनः सार्वकालिकत्वात् , योगोपयो. गग्रहणाच्चान्येषामात्मन्यनादित्वं प्रायः परिणामानाम् / अथ मत्याधुपयोगद्वादशकस्य किं स्वरूपमित्यारेकिते इदमाह मा०-तत्रोपयोगः पूर्वोक्तः॥ ___टी-तत्र-तयोयोगोपयोगयोः उपयोगः पूर्वमेव द्वितीयेऽध्याये व्याख्यातः-स्वरूपेणोक्तः / " उपयोगो जीवलक्षणम्", "स द्विविधोऽष्टचतुर्भेदः" (अ० 2, सू० 8, 9) इत्यत्र / अथ योगः- किंस्वरूप इत्याशङ्कयाह भा०-योगस्तु परस्ताद् वक्ष्यते // .टी.-परस्तादिति उपरिष्टात् षष्ठाध्यायादिसूत्रे "कायवाचनाकर्म योग" इत्यत्रा मिधास्यते यतः तस्मादत्र न व्याख्यायते / तुशब्दो हेत्वर्थः। तदेव च स्थानं योगस्वरूपव्यावऐनस्य, उभयत्र व्याख्या गौरवमापादयति, तस्मात् तत्रैव व्याख्यास्याम इति, एवं सर्वद्रव्याणि परिणामवन्ति स्वरूपेण व्याख्यातानीति // 44 // ... इति श्रीतत्वार्थाधिगमे अर्हत्प्रवचने भाष्यानुसारिण्या तत्त्वार्थटीकायां पश्चमोऽध्यायः // 5 // MMMMMMMMMMMMMMMS // प्रथमो विभागः समाप्तः // Page #468 -------------------------------------------------------------------------- _ Page #469 -------------------------------------------------------------------------- ________________ सूत्रक्रमेणान्तराधिकारसूचा त्राहः सूत्रपाठ अधिकारः प्रथमोऽध्यायः 1 1 सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्मः सम्यक्शब्दफलम् सूत्रोपन्यासफलम् मार्ग इति एकवचने फलम् बहूनां कारणता सम्यग्दर्शनात सम्यग्ज्ञानस्य मिलता सप्रत्ययसम्यकशब्दार्थः इन्द्रियानिन्द्रियप्राप्तिस्वरूपम् 2 तत्वार्यत्रदान सम्पादनम् तत्त्वार्थस्यार्थः षष्ठीसप्तम्योः कथंचिदमेवा प्रशमादिव्याख्या इतनिसर्गादगिमाद् वा निसर्गाधिगमवर्णनम् परिणामभेदः उपयोगरूपो जीवः निसर्गप्राप्तिरीतिः जगत्कर्तृत्ववादनिरासः स्थितिबन्धादिवरूपम् निसर्गाध्यवसायप्रातिः १जीवाजीवात्रवबन्धसंवरनिर्जरामोक्षास्तारतम् जीवादितत्त्वसप्तकस्य स्वरूपम् तत्त्वमित्येकवचने हेतुः आस्रवादीनां तत्त्वानां जीवाजीवयोरन्तर्भावः, 5 नामस्थापनाद्रव्यभावतस्तन्न्यास: जीवपदार्थे नामादिन्यासः " Page #470 -------------------------------------------------------------------------- ________________ 444 तत्त्वार्थाधिगमसूत्रम् अधिकारः सूत्राङ्क: सूत्रपाठ: नामद्रव्यादिविचारः द्रव्याणां प्राप्तिलक्षणता 6 प्रमाणनयैरधिगमः अधिगमसाधनम् प्रमाणद्वैविध्यम् प्रमाणनयानां भिन्नता 7 निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः निर्देशादीनां व्याख्या सम्यक्त्वस्य निर्देशः आत्मपरोभयसंगमेन सम्यक्त्वम् क्षयोपशमादीनां सावनता आत्मपरोभयेषु सम्यक्त्ववृत्तिः सम्यग्दर्शनस्य सम्यग्दृष्टेश्च द्विधा स्थितिः 59 साधनविधानसंख्यानां परस्परेण भेदः 61 8 सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरमावाल्पबहुत्वैश्व सङ्ख्येयादिसङ्ख्यास्वरूपम् / पुद्गलपरावर्तस्यार्थः / 9 मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् , ज्ञानमित्येकवचने फलम् मतिज्ञानादीनां व्याख्या 10 तत् प्रमाणे प्रमाणसंख्या प्रमाणस्य शब्दार्थः 11 आये परोक्षम् परोक्षप्रमाणम् प्रामाण्यम् अपायसव्ये परोक्षता श्रुतस्य परोक्षता 12 प्रत्यक्षमन्यत् अवध्यादेः प्रत्यक्षता Page #471 -------------------------------------------------------------------------- ________________ 445 पृष्ठाकः 75 . स्त्रक्रमेणान्तराधिकारसूचा सूत्राङ्कः सूत्रपाठः अधिकारः अनुमानादीनां प्रामाण्यविचारः अनमानादीनां व्याख्या अनुमानादीनामिन्द्रियार्थसंबन्धहेतुता अनुमानादीनामप्रामाप्ये हेतुः 13 मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्पनन्तरम् मतेः पर्यायाः 15 तदिन्द्रियानिन्द्रियनिमित्तम् मतेः कारणानि इन्द्रियानिन्द्रियनिमित्तता मतेः 15 भवनहेहापायधारणाः अवग्रहाद्या मतेर्मेदाः अवग्रहस्वरूपम् ईहायाः स्वरूपम् अपायस्य स्वरूपम् धारणायाः स्वरूपम् बहुबहुविधक्षिप्रानिश्रितासन्दिग्धध्रुवाणां सेतराणाम् अवग्रहादेर्बहादयो भेदाः अल्पावग्रहः बनवग्रहस्य स्वरूपम् 17 अर्थस्य 18 व्यजनस्यावग्रहः 19 न चक्षुरनिन्द्रियाभ्याम् नेत्रस्याप्राप्यकारित्वम् मतिज्ञानस्य भेदविचारः 20 श्रुतं मतिपूर्वे दयनेकद्वादशभेदम् श्रुतशब्दस्यार्थः आगमादीनां व्युत्पत्यर्थः श्रुतज्ञानस्य भेदप्ररूपणा अङ्गबाह्यादीनां सामायिकादीनां व्याख्या अङ्गप्रविष्टानां आचारादीनां व्याख्या Page #472 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिममसूत्रम् मूत्रपाठः अधिकारः मतिश्रुतयोः प्रतिविशेषः तीर्थकरोपदेशे कारणम् गणधरविशेषणानां सार्थकता श्रुतज्ञानस्य महाविषयत्वात् अङ्गादिभेदः श्रुतस्य शुद्धत अपारिपामिकताच . 95 21 द्विविधोऽवधिः अवधेर्भदौ 25 तत्र भवप्रत्ययो नारकदेवानाम् 23 यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् देवनारकयोरवधिः भवहेतुकः नरतिरश्चां षडिधोऽवधिः अवधेरनानुगामिकादिका भेदाः 24 ऋविपुलमती मनःपर्यायः मनःपर्यायस्य भेदौ ऋजुमतिविपुलमत्योः स्वरूपम् 25 विशुद्धयप्रतिपाताभ्यां तद्विशेषः 26 विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनामयोः ऋजुविपुलमत्योर्विशेषः अवधिमनःपर्याययोविशेषः केवलानभिधानकारणम् . मतिश्रुतयोनिबन्धः 27 मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु 28 रूपिण्यवधेः " 29 तदनन्तभागे मनःपर्यायस्य अवधेविषयः मनःपर्यायस्य विषयः 30 सर्वद्रव्यपर्यायेषु केवलक केवलस्य विषयः केवलस्वरूपम् " 31 एकादीनि भाज्यानि युगपदेकस्मिामा चतुर्थः Page #473 -------------------------------------------------------------------------- ________________ नाः स्त्रपाठः सूत्रपाठः एष्ठाः सूत्रक्रमेणान्तराधिकारसूचा अधिकारः युगपदेकजीवे ज्ञानसंख्या केवले शेषज्ञानासद्भावेज्यमतम् क्रमयुगपदुपयोगी क्षायोपशमिकक्षायिकतया भेदः 108 मतित्रतावधयो विपर्ययश्च मत्यादीनां विपर्ययः मिथ्यादृशामज्ञानिता मिथ्यादृष्टीनां प्रकाराः सदसतोरविशेषादू यदृच्छोपलब्धेन्मत्तवत् मिथ्यादृष्टेः अज्ञानित्वे हेतुः चारित्रानभिधाने हेतुः 3. नैगमसमहम्यवहरणुसूत्रशब्दा नयाः नयभेदाः .. नैगमस्य निर्देशः समहस्य स्वरूपम् व्यवहारस्य व्याख्या ऋजुसूत्रस्य विचारः आंधशब्दौ वित्रिभेदी ........... आधशब्दनयभेदाः नैगमस्य वैविध्यम् शब्दस्व त्रैवियम् नैगमलक्षणम् व्यवहारलक्षणम् वसूत्रलक्षणम् शब्दलक्षणम् साम्प्रतलक्षणम् समभिरुढलक्षणम् एवंभूतलक्षणम् नयस्य शब्दार्थः Page #474 -------------------------------------------------------------------------- ________________ 448 तस्वार्थाधिगमसूत्रम् अधिकारः सूत्रपाठः पृष्ठा रा 122 125 126 नयानामध्यवसानान्तरता घटे नयावतारः सर्वस्यैकत्वादि प्रमाणज्ञेयवत् तन्त्रान्तरता न नयकारिकाः जीवादौ नयविचारः ज्ञानाज्ञानेषु नयविचारः अध्यायार्थोपसंहारः 127 122 .. 133 द्वितीयोऽध्यायः 2 अध्यायसम्बन्धः 1 औपशमिकक्षायिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च भावेषु औपशमिकाद्या भेदाः / औपशमिकक्षायोपशमिकयोभिन्नता दिनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् औपशमिकादीनां भेदसंख्या , 3. सम्यक्त्वच्चारित " औपशमिकस्य द्वौ भेदौ १ज्ञानदर्शनदानलामभोगोपभोगवीर्याणि च / क्षायिकस्य नव भेदाः ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुत्रित्रिपञ्चमेदा यथाक्रमं सम्यक्त्वचारित्रसंयमासंयमाञ्च क्षायोपशमिकस्याष्टादश भेदाः गतिकषायलिमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्चतुस्त्र्येकैकैकषइभेदाः 21 भेदा औदयिकस्य लेश्यास्वरूपम् 7 जीवमव्याभव्यत्वादीनि च 3 मेदाः पारिणामिकाः Page #475 -------------------------------------------------------------------------- ________________ 449 सूत्रक्रमेणान्तराधिकारसूचा अधिकारः सत्राङ्क: सूत्रपाठः अस्तित्वादयः साधारणाः क्रियावत्त्वादयः 148 149 8 उपयोगो लक्षणम् उपयोगस्य लक्षणता उपयोगस्य नित्यता ज्ञानस्वभावत्वेऽपि अज्ञानादयः 150 9 स विविधोऽष्टचतुर्भेदः उपयोगस्य भेदाः तच्छब्दस्य सार्थकता साकारानाकारशब्दार्थः उपयोगे ज्ञानदर्शनभिन्नताया निरासः 10 संसारिणो मुक्ताव संसारस्य शब्दार्थः 156 11 समनस्कामनस्काः मनसो द्वैविष्यम् 157 12 संसारिणत्रसस्थावराः संसारिजीवभेदप्रदर्शनम् 13 पृथिव्यम्बुवनस्पतयः स्थावराः 158 159 स्थावराणां त्रयो भेदाः पृथ्वीकायिकानामनेके भेदाः अप्कायिकानो भेदप्रदर्शनम् वनस्पतिकायिकानां भेदनिरूपणम् 160 11 तेजोवायू द्वीन्द्रियादयश्च'साः प्रसानां भेदाः प्रसत्वस्य दैविध्यम् 15 पञ्चेन्द्रियाणि . " " इन्द्रियसंख्याप्रतिपादनम् इन्द्रियस्य शब्दार्थः 16 द्विविधानि इन्द्रियाणां मुख्यभेदै 161 Page #476 -------------------------------------------------------------------------- ________________ 15. स्वाधिगमसूत्रम् अधिकारः सूवाद सूत्रपाठ: 17 निर्वृत्युपकरणे द्रव्येविनम् " " द्रव्येन्द्रियभेदौ निर्वृत्तीन्द्रियविचारः इन्द्रियसंस्थानानि उपकरणेन्द्रियस्वरूपम् 18 लज्युपयोगौ भावोदित्यम् भावन्द्रियभेदौ लब्धीन्द्रियस्य कारणत्रयापेक्षत्वं भेदाम लब्धीन्द्रियस्वरूपम् 19 उपयोगः स्पर्शादिषु उपयोगेन्द्रियस्वरूपम् निवृत्त्यादीनां क्रमः एकोपयोगिता 20 स्पर्शनरसनधाणचक्षुःश्रोत्राणि इन्द्रियनामानि 21 स्पर्शरसगन्धवर्णशब्दास्तेषामाः इन्द्रियाणां विषयाः एकस्यार्थस्यानेकविषयता द्रव्यक्षेत्रादीनामनिमित्तता , प्राप्याप्राप्यविषयता 12 श्रुतमनिन्द्रियस्य अनिन्द्रियस्य विषयः द्रव्यभावश्रुते मनसः स्वरूपम् 23 वाय्वन्तानामेकम् 2" कृमिपिपीलिकाश्रममनुष्याची कामे करावानि स्थावराणामिन्द्रियनियमः द्वीन्द्रियादीनामिन्द्रियवृद्धिः नारकादिक्रमे हेतुः भाष्यपाठभेदः Page #477 -------------------------------------------------------------------------- ________________ 451 सूत्रक्रमेणान्तराधिकारसूचा अधिकारः सूबाहर सूत्रपाठ: 25 संज्ञिनः समनस्काः 175 176 सम्प्रधारणसंज्ञा उपलब्धिनानात्वम् आहारादिसंज्ञास्वरूपम् सम्प्रधारणेन समनस्कतालक्षणम् कर्मयोगः " . संसरणस्य द्वैविध्यम् अन्तर्गतिविचारः योगविभागः तैजसस्य भिन्नयोगाभावः योगस्वामिनः विग्रहगतौ निरुपभोगता 27 मनुश्रेणिर्गतिः गतेरनुश्रेणितानियमः अनुश्रेणौ पुद्गलग्रहणे हेतुः 28 अविग्रहा जीवस्य सिध्यमानस्य गतिनियमः 29 विग्रहवती च संसारिणः प्राक् चतुर्पः " विग्रहगतिसङख्या विग्रहे हेतुः त्रिसमयीं यावद् विग्रहः विग्रहगतिशब्दार्थः त्रिवक्रानुपादाने हेतु पञ्चसमयानुपादाने हेतुः अविग्रहे हेतुः विग्रहशब्दस्य पर्यायाः वक्रगतौ हेतुः 30 एकसमयोऽविग्रहः विग्रहे समयमानम् 31 एक दो वाऽनाहारका Page #478 -------------------------------------------------------------------------- ________________ 452 तत्वार्थाधिगमसूत्रम् अधिकारः सूत्रपाठ: विग्रहेऽनाहारकता वाशब्दस्य विचारः आहारस्य त्रैविध्यम् जन्मसूत्रे प्रस्तावना सम्मुईनगर्भोपपाता जन्म जन्मभेदाः सम्मूर्छनजन्मनो व्याख्या गर्भजन्मनो विचारः उपपातजन्मनः स्वरूपम् अनन्तरसूत्रसम्बन्धः 33 सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तधोनयः जन्मिनां योनिनवकम् योनिलक्षणम् योनिशब्दस्यार्थः / कस्य का योनिः / योषियोनिविचारः नारकादिषु योनिविभागः जीवयोनिसंख्या 3. जराय्यण्डपोतजानां गर्भ: " गर्भजजन्मवतां भेदाः " 35 नारकदेवानामुपपातः उपपातजानां भेदाः ३६.शेषाणां सम्मूर्छनम् 37 औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि संमूर्छनजा जीवाः सत्रविचारः शरीरभेदाः औदारिकादिशरीराणां व्युत्पत्तिः 18 परं परं सूक्ष्मम् शरीराणां परस्परं महत्त्वाल्पत्वे Page #479 -------------------------------------------------------------------------- ________________ 453 सूत्रक्रमेणान्तराधिकारसूचा सूत्राका सूत्रपाठः अधिकारः शरीराणां सूक्ष्मतादर्शनम् . 39 प्रदेशतोऽसल्येयगुणं प्राक् तैजसात् प्रदेशापेक्षया शरीरतारतम्यम् 10 अनन्तगुणे परे तैजसकार्मणयोः प्रदेशमानम् 11 अप्रतिघाते तैजसकार्मणयोरप्रतिघातिता 12 अनादिसम्बन्धेच तैजसकार्मणयोरनादिः सम्बन्धः 200 43 सर्वस्य" . सर्वसंसारिणां तैजसकार्मणवत्ता तैजसस्यानादितायां मतभेदः 11 तदादीनि भाग्यानि युगपदेकस्या चतुर्म्यः एकजीवे युगपत् शरीरसंख्या युगपत् पञ्चशरीर्या अभावः 201 202 203 201 15 निरुपभोगमन्त्यम् कार्मणस्य बाह्योपभोगाभावः औदारिकादीनां प्रयोजनानि 206 16 गर्भसम्पूर्छनजमाघम् 207 औदारिकशरीरस्य स्वामिनः औदारिकप्रमाणम् 47 वैक्रियमोपपातिकम् वैक्रियस्वामिनः वैक्रियप्रमाणम् 18 लब्धिप्रत्ययं च 208 लन्च्या वैक्रियसद्भावः 49 शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्वधर एव आहारकस्य स्वरूपम् आहारकस्य स्वामी 209 Page #480 -------------------------------------------------------------------------- ________________ बच्चाधिममसूत्रम् सूत्रपाठ: अधिकारः चतुर्दशपूर्वधरस्य विचारः तेजसे हेतुः कार्मणस्य स्वरूपम् कार्मणतैजसप्रमाणम् औदारिकस्य विस्तरेणार्थः वैक्रियस्य विस्तरेण व्याख्या आहारकस्य शब्दार्थविस्तारः तैजसस्य विचारः कार्मणविचारः शरीराणां नानात्वे हेतवः लिङ्गसूत्रे प्रस्तावना 50 नारकसम्मछिनो मांसकानि नपुंसकवेदवन्तो जीवाः 51 न देवाः देवानां वेदौ . आयुषोऽपवर्तनादि आयुषो दैविध्यम् / अपवर्तनेऽपि क्षयाभावः युगलिनोऽप्यायुषोऽपवर्तनम् 52 मोपपातिकचरमदेहोत्तमपुरुषासख्येयवर्षायुषोऽनपवायुषः . अनपवायुषः स्वामिनः अपवर्तनीयायुषि हेतुः आयुषो हासेऽपि कृतनाशादिदोषाभावः 221 अपवर्तनेऽप्यक्षयत्वे दृष्यन्तः प्रकृतस्य समर्थनम् Page #481 -------------------------------------------------------------------------- ________________ 455 सूत्रक्रमेणान्तराधिकारसूचा अधिकारः सूत्रायः सूत्रपाठः तृतीयोऽध्यायः 3 230 234 नारकाधिकारप्रस्तावना 228 नारकाधिकारस्थानानि 1 रत्नशर्करावालुकापकधूमतमोमहातमःप्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः 229 नरकपृथ्वीनामाधाराः घनशब्दफ़लम् खरपङ्कादिप्रतिष्ठात्वम् प्रतिष्ठाने लोकस्थितिहेतुः 231 अधःपृथ्वीनां सप्तत्वनियमः 232 असङ्ख्यप्रस्तारे निरासः " पृथ्वीनामाकारो नामानि बाहस्य च 233 घनोदभ्यादिमानम् तासु मरकाः नारकाणां स्थानम् नारकावासानां संस्थानानि नामानि 235 नरकेषु प्रस्तराणां नरकावासानां च संख्या 236 3 तेषु नारका निवाणुमतस्तेनापरिणामदेहवेदनानिक्रियाः 237 नरकनारकाणां खरूपम् नारकाणां लेश्या 238 नारकाणां पुद्रलपरिणामः नारकाणां शरीरखरूपं मानव नारकाणां वेदना 1 परस्परोदीरितदुःखाः क्षेत्रजा वेदना परस्परोदीरितं दुःखम् 5 सविधासुरोशस्तिकुमार प्रान पतु : परमाधार्मिककृता वेदनाः 6 तेष्वेक-त्रि-सप्त-दश-सप्तदश शर्षिशति-मायविंशत्सागरोपमाः सत्त्वानां पर स्थितिः 210 242 Page #482 -------------------------------------------------------------------------- ________________ . 244 245 . " 456 तत्त्वार्थाधिगमसूत्रम् स्त्राङ्कः सूत्रपाठः अधिकारः नारकाणां परा स्थितिः नारकाणामागतिर्गतिश्च नारकेश्वसंभविनः पदार्थाः लोकानुभावजाः पदार्थाः . . लोकस्य त्रैविध्यम् तिर्यग्लोकप्रस्तावना 7 जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः द्वीपसमुद्रव्यवस्था द्वीपसमुद्रनामानि 8 विद्विर्विष्कम्माः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः द्वीपसमुद्रसंस्थानम् 9 तन्मध्ये मेरुनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वपिः जम्बूद्वीपखरूपम् मेरुस्वरूपम् . 10 तत्र भरत-हैमवत-हरि-विदेह-रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि / भरतादिक्षेत्रस्वरूपम् नैश्चयिकदिगपेक्षया व्यवस्था 11 तद्विभाजिनः पूर्वापरायता हिमवन्-महाहिमवन्-निषध-नील-रुक्मि-शिखरिणो वंशधरपर्वताः हिमवदादिवर्षधरस्वरूपम् , हिमवदादीनां मानम् भरतस्य ज्यामानादि वैतात्यो देवकुरवश्व उत्तरकुरुविदेहादयः क्षुद्रमन्दरस्वरूपम् परिच्यानयनादिकरणम् 12 दिर्घातकीखण्डे धातकीखण्डे क्षेत्रापतिदेशः इछुकारौ च 13 पुष्कराधे मानुषोत्तरः पर्वतः 7 ." TP 255 Page #483 -------------------------------------------------------------------------- ________________ 457 263 264 सूत्रक्रमेणान्तराधिकारसूचा सूत्राङ्कः सूत्रपाठः अधिकारः 13 पुष्करार्धे मानुषोत्तराभिधाने कारणम् नरलोके द्वीपसमुद्रादिसंख्या 14 प्राङ मानुषोत्तरान्मनुष्याः मनुष्याणां स्थानम् . 15 आर्या म्लेच्छाश्च .. मनुष्यभेदाः क्षेत्रार्यादिकाश्च अन्तरद्वीपकाः 16 भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुलत्तरकुरुभ्यः कर्माकर्मभूमिस्वरूपम् 17 नृस्थिती परापरे त्रिपल्योपंमान्तर्मुहूर्ते नरायुषो मानम् 266 267 268 269 " 18 तिर्थयोनीनां च " तिर्यगायुर्मानम् पृथ्वीकायादीनामायुर्मानम् 270 चतुर्थोऽध्यायः 4 सूत्राङ्कः सूत्रपाठः अधिकारः अध्यायोपोद्घातः 271 1 देवाश्चतुर्निकायाः देवानां भेदप्रतिपादनम् देवशब्दस्य व्युत्पत्त्यर्थः चतुर्विधदेवानां जन्मनिवासभूमयः देवानां पञ्चविधत्वम् . .. " 272 273 274 2 तृतीयः पीतलेश्यः 3 दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपनपर्यन्ताः भवनपत्यादिदेवानां भेदविचारः 275 Page #484 -------------------------------------------------------------------------- ________________ 275 " " 458 तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः 4 इन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः .. प्रतिकल्पमिन्द्राद्या भेदाः 5 त्रायास्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः 6 पूर्वयोभन्द्राः भवनपत्यादिदेवानामिन्द्राः वैमानिकानां कल्पाः 7 पीतान्तलेश्याः देवानां त्रैविध्यम् 8 कायप्रवीचारा आ ऐशानात् प्रवीचाराविचारः 9 शेषाः स्पर्श-रूप-शब्द-मनःप्रवीचारा द्वयोर्द्वयोः देवीभोगाधिकारः 10 परे अप्रवीचाराः कल्पातीतानामप्रवीचारत्वम् 11 भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ' भवनवासिनां विधानानि असुरकुमारादीनां वर्णनम् भवनसङ्ख्या 12 व्यन्तराः किन्नर-किंपुरुष-महोरग-गान्धर्व-यक्ष-राक्षस-भूत-पिशाचाः व्यन्तरभेदाः व्यन्तरशब्दार्थः किंपुरुषादिभेदाः किन्नरादीनां वर्णनम् 13 ज्योतिष्काः सूर्याश्चन्द्रमसो प्रहनक्षत्रप्रकीर्णतारकाश्च ज्योतिष्कभेदाः ज्योतिष्काणां विमानप्रस्तारः 14 मेरुप्रदक्षिणा नित्यगतयो नृलोके ज्योतिष्काणां गतिः सूर्यादीनां संख्या सूर्यादीनां विष्कम्भः " " Page #485 -------------------------------------------------------------------------- ________________ " 290 " 295 सूत्रक्रमेणान्तराधिकारसूचा सूत्राहः सूत्रपाठः अधिकारः पृष्ठाङ्क: 14 मेरुप्रदक्षिणा नित्यगतयो नृलोके ज्योतिष्कविमानवाहकाः 289 15 तत्कृतः कालविभागः कालस्य द्रव्यताविचारः लौकिकसमकालविभागः 291 प्रत्युत्पन्नादीनां भेदान्तरम् समयस्य स्वरूपम् आवलिकादिविचारः 292 चन्द्रमासादीनां तन्नामसंवत्सराणां च खरूपम्२९३ पूर्वाङ्गादिस्वरूपम् पल्योपमादिविचारः 294 पल्योपमस्यावान्तरभेदाः, तेषां प्रयोजनानि च ,, क्षेत्रापेक्षया कालविचारः कालचक्रे शरीरोच्छ्रायादिविचारः 16 बहिरवास्थिताः " " नृलोकबहिर्योतिष्कविचारः 17 वैमानिकाः 18 कल्पोपपन्नाः कल्पातीताश्च वैमानिकानां वैविध्यम् 19 उपर्युपरि 20 सौधमैं-शान-सनत्कुमार-माहेन्द्र-ब्रह्मलोक-लान्तक-महाशुक्र-सहस्रारेष्वानंतप्राणतयोरारणाच्युतयोः / नवसु प्रैवेयकेषु विजय-वैजयन्त-जयन्ता-ऽपराजितेषु सर्वार्थसिद्धे च सौधर्मकल्पादीनां वर्णनम् 298 अनुत्तराणां पञ्चविधत्वम् 299 21 स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः स्थितिप्रभावादिभिरुत्तरोत्तरदेवानामाधिक्यम् 300 इन्द्रियावधिविषयाधिकतोत्तरोत्तरदेवानाम् , 22 गतिशरीरपरिमहाभिमानतो हीनाः गत्यादिभिरुत्तरोत्तरदेवानां हीनत्वम् वैमानिकदेवानां शरीरोच्छ्रायः सौधर्मादीनां प्रस्ताराः 296 " Page #486 -------------------------------------------------------------------------- ________________ पृष्ठाङ्कः 460 तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकार 22 गतिशरीरपरिग्रहाभिमानतो हीनः / सौधर्मादिष्वावलिकाप्रविष्टानां पुष्पावकीर्णानां / च विमानानां सरख्या 303 देवानामुच्छ्वासाहारी .304 देवानां वेदनोपपातानुभावविचारः 23 पीतपशुक्ललेश्या द्वित्रिशेषेषु 305 वैमानिकानां लेश्याः 24 प्राय् प्रैवेयकम्यः कल्पाः देवानां दृष्टिः 25 ब्रह्मलोकालया लोकान्तिकाः 26 सारस्वतादित्यवन्यरुणगर्दतोयतुषिताच्याबाधमरुतोऽरिष्ठाश्च 307 लोकान्तिकाना व्यवस्था 27 विजयादिषु द्विचरमाः अनुत्तरदेवानां भवोच्छेदः तिर्यप्रस्तावः . 28 औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः तिरचा निर्देश: 3 308 " 29 स्थितिः 309 30 भवनेषु दक्षिणार्धाधिपतीना पल्योपममध्यर्धम् भवनवासिनां स्थितिः 31 शेषाणां पादोने 12 असुरेन्द्रयोः सागरोपममधिकं च 33 सौधर्मादिषु यथाक्रमम् वैमानिकस्थितिप्रस्तावः 34 सागरोपमे 35 अधिके च 36 सप्त सनत्कुमारे 37 विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च माहेन्द्रादीनां परा स्थितिः 38 आरणाच्युतादूर्ध्वमेकैकेन नवसु त्रैवेयकेच विजयादिषु सर्वार्थसिद्धे च 39 अपरा पल्योपममधिकं च 312 Page #487 -------------------------------------------------------------------------- ________________ स्त्रक्रमेणान्तराधिकारसूचा अधिकार पृष्ठा सूत्राका सूत्रपाठ: 10 सागरोपमे 51 अधिके च 12 परतः परतः पूर्वा पूर्वाऽनन्तरा 13 नारकाणां च द्वितीयादिषु 3 नारकाणां स्थितिः 11 दश वर्षसहस्राणि प्रथमायाम् 15 भवनेषु च 16 व्यन्तराणां च 17 परा पल्योपमम् 18 ज्योतिष्काणामधिकम् 19 प्रहाणामेकन् 50 नक्षत्राणामर्धम् 51 तारकाणां चतुर्भागः 52 जघन्या स्वष्टभागः 53 चतुर्भागः शेषाणाम् पञ्चमोऽध्यायः 5 अधिकार सूत्राङ्क: सूत्रपाठ: सूत्रोपन्यासः 1 अजीवकाया धर्माधर्माकाशपुद्गलाः प्रतिषेधस्य वैविध्यम् धर्मादीनां विचारःअजीवकायभेदाः 2 द्रव्याणि जीवाश्च द्रव्यशब्दार्थः 3 नित्यावस्थितान्यरूपाणि च सूत्रपाठविचारः Page #488 -------------------------------------------------------------------------- ________________ 462 सूत्राङ्कः सूत्रपाठः 3 नित्यावस्थितान्यरूपाणि च 1 रूपिणः पुद्गलाः तत्वार्थाधिगमसूत्रम् / अधिकार रूपविचारः पृष्ठा नित्यताया दैविध्यम्, अनित्यतायाध पुद्गललक्षणम् .. 5 आकाशादेकद्रव्याणि धर्मादीनां सङ्ख्या 6 निष्क्रियाणि च धर्मादिषु क्रियाविचारः 7 असम्ख्येयाः प्रदेशा धर्माधर्मयोः धर्माधर्मयोः प्रदेशस ख्या " 8 जीवस्य च * जीवस्य प्रदेशसख्या ९भाकाशस्यानन्ताः अलोकेऽवगाहदातृतायां विचारः आकाशस्य प्रदेशसम्ख्या .. 10 सत्यासत्येयाश्च पुनलानाम् पुद्गलानां प्रदेशसळ्या 11 नाणोः परमाणोः स्वरूपम् / 332 अवगाहविचारः . " 22 জন্ধান্দাহীজলা: 13 धर्माधर्मयोः कृत्स्ने 14 एकप्रदेशादिषु भाज्यः पुद्गलानाम् 15 असङ्ख्येयभागादिषु जीवानाम् पुद्रलानामवगाहः जीवानामवगाहः 16 प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् आत्मप्रदेशानां सङ्कोचविकासौ 17 गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः 18 आकाशस्यावगाहः " 337 339 Page #489 -------------------------------------------------------------------------- ________________ 463 सूत्रक्रमेणान्तराधिकारसूचा अधिकारः सूत्राङ्कः सूत्रपाठः पृष्ठाङ्क: 339 340 341 343 346 348 349 350 18 आकाशस्यावगाहः आकाशस्योपकारः अवगाहगुणत्वम् आकाशलिङ्गसम्बन्धिमतान्तरम् पुद्गलानामुपकारः 19 शरीरवाम्मनःप्राणापानाः पुद्गलानाम् वाङ्मनआदीनां पौद्गलिकत्वम् 20 सुखदुःखजीवितमरणोपप्रहाच पुद्गलेषु सर्वोपकारिता 21 परस्परोपप्रहो जीवानाम् जीवोपकारः 22 वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य कालस्योपकारः कालस्य नृलोकवृत्तिता वर्तनास्वरूपम् परिणामस्वरूपम् हेमन्तवर्णनम् शिशिवर्णनम् वसन्तवर्णनम् प्रीष्मवर्णनम् वर्षावर्णनम् शरद्वर्णनम् वेलानियमः गतिविचारः प्रयोगगत्यादिविचारः परत्वापरत्वविचारः पुद्गलशब्दार्थः 23 स्पर्शरसगन्धवर्णवन्तः पुद्गलाः पुद्गललक्षणम् स्पर्शादीनां प्रकाराः कठिनप्रमुखस्पर्शादीनां लक्षणानि 351 352 353 " 354 355 356 Page #490 -------------------------------------------------------------------------- ________________ 357 358 " " 464 तत्त्वार्थाधिगमसूत्रम् सूत्राङ्कः सूत्रपाठः अधिकारः पृष्ठाङ्कः 24 शब्द-बन्ध-सौक्ष्म्य-स्थौल्य-संसान-भेद-तम-श्छाया-ऽऽतपोद्योतवन्तश्च 356 पुद्गलानां शब्दादिधर्माः शब्दस्य स्फोटाद् भिन्नत्वम् शब्दस्य पुद्गलत्वे हेतवः शब्दस्य गुणत्वे वैशेषिकविचारः शब्दस्य गुणत्वनिरासः नित्यानित्यत्वयोर्विरोधाभावः अन्यमतपूर्वकं शब्दस्वरूपम् शब्दस्य भेदप्रभेदाः बन्धस्य त्रैविध्यम् सौक्ष्म्यस्य द्वैविध्यम् स्थौल्यस्य द्वैविध्यम् वृत्तादिसंस्थानानां तद्भेदपूर्विका व्याख्या भेदानां पञ्चविधत्वम् तमश्छायादीनां मूर्तद्रव्यविकारता तमसः पुद्गलत्वम् प्रतिबिम्बस्य पालोचना 25 मणवः स्कवाय 365 पुद्गलानां वैविध्यम् कार्यकारणलक्षणम् 26 सयातमेदेम्य उत्पधन्ते सवातोद्भवे विकारणता परमाणनां प्रतिघातस्य त्रैविध्यम् संयोगबन्धयोर्विशेषता 27 मेदादणुः 28 मेदसखाताम्यां चाक्षुषाः 372 सलक्षणसूत्रावतरणम् 373 29 उत्पादध्ययध्रौव्ययुक्त सत् 374 अमावस्याप्रतिषेधात्मकता केषाञ्चिद् द्रव्याणामनुपलब्धेहेतवः . 375 363 364 366 " 371 Page #491 -------------------------------------------------------------------------- ________________ स्त्रारः सूत्रपाठः पृष्ठाङ्कः 376 377 378 सूत्रक्रमेणान्तराधिकारसूचा अधिकारः व्यपर्यायास्तिको द्रव्यस्यापलापः द्रव्यस्यान्यत्वम् द्रव्यपर्यायवादः द्रव्यव्यतिरिक्तता सामान्यसिद्धिः सामान्यविशेषरूपता कार्यकारणानेकान्तत्वम् अवयविनोऽनन्यत्वम् दीर्घ-हस्वत्वसिद्धिः उत्पादादिपदानामर्थः उत्पादादेर्भेदाः ध्रौव्यसिद्धिः विनाशे भेदाः निर्हेतुकनाशपक्षः सहेतुकता नाशस्य उत्पादादीनामेककालत्यादि उत्पादादेर्नित्यानित्यत्वे 380 383 385 386 387 389 390 391 तलावाम्ययं नित्यम् दव्यस्य नित्यता नित्यसूत्रफलम् द्रव्यपर्यायाभ्यां नित्यानित्यत्वे 31 अर्पितानर्पितसिद्धेः अर्पितानर्षितस्वरूपम् विवक्षामुख्यता नित्यानित्यत्वयोः सहावस्थानविरोधाभावः एकत्रानवस्थानादिविरोधखण्डनम् धर्मकीर्तिमतखण्डनम् द्रव्याणां पर्यायाणां दैविभ्यम् द्रव्यास्तिकस्वरूपम् 397 400 Page #492 -------------------------------------------------------------------------- ________________ 466 सूत्राद्ध सूत्रपाठः अर्पितानर्पितसिद्धः 402 410 तत्वार्थाधिगमसूत्रम् अधिकारः मातृकापदास्तिकम् पर्यायवादिमतम् 401 ऋजुसूत्रादिभिः पर्यायपक्षः द्रव्यमतनिरूपणम् 404 द्रव्यास्तिके नैगमः 105 द्रव्यास्तिके संग्रहः द्रव्यास्तिके व्यवहारः पर्यायास्तिके उत्पन्ना० ऋजुसूत्रः 406 सदादिभङ्गाः 407. एवकारस्यार्थत्रैविध्यम् 409 व्यवच्छेदेऽपि स्याद्वादः खव्यादिना सत्त्वम् अस्तिनास्तिरूपता अवक्तव्यत्वम् कालादयो वृत्तिहेतवः युगपदवाच्यता 412 प्रथमो विकल्पः 413 धर्मधर्मिस्याद्वादः सद्भावासद्भावापेक्षया द्रव्यस्यैकत्वादिविचारः 414 द्वितीयो विकल्पः तृतीयो विकल्पः पर्यायादेशविकल्पाः सकलादेशविकलादेशोत्पत्तिः चतुर्थो विकल्पः पञ्चमो विकल्पः षष्ठो विकल्पः सप्तमो विकल्पः नयत्रयापेक्षया सप्तम गी शब्दनयाः पुद्गलबन्धहेतुः Page #493 -------------------------------------------------------------------------- ________________ 467 420 421 422 424 426 427 429 429 सूत्रक्रमेणान्तराधिकारसूचा सूत्रायः सूत्रपाठ अधिकारः 32 स्निग्धरूक्षत्वाद् बन्धः 33 न जघन्यगुणानाम् 34 गुणसाम्ये सदृशानाम् 35 द्वयधिकादिगुणानां तु 36 बन्धे समाधिको पारिणामिको 37 गुणपर्यायवद् द्रव्यम् 38 कालश्चेत्येके कालस्य द्रव्यत्वम् कालद्रव्यस्य पार्थक्यम् काले उत्पादादिमत्ता भाववृत्तौ कालस्यापेक्षिता परापरत्वादेः स्थितिविशेषापोक्षिता कालस्य पर्यायता 39 सोऽनन्तसमय. कालस्य समयाः कालेऽवयवाविचारः 40 द्रव्याश्रया निर्गुणा गुणाः 11 तद्भावः परिणामः 42 अनादिरादिमांश्च 43 रुपिष्वादिमान् 14 योगोपयोगी जीवेषु 430 432 433 434 435 436 438 439 440 Page #494 -------------------------------------------------------------------------- ________________ पृष्ठे पङ्क्तो नमो नमः श्रीप्रश्वधर्मसूरये। शुद्धिपत्रकम् / (पाठान्तराविसमेतम्) chote অন্ত शुद्धम् Punnyasa Pannyasa Add now before Agamoddharaka मा प्रति मा निर्धारिता निर्धारिताः श्रीउमास्त्राति० श्रीउमास्वाति उत्तराध्ययनवृत्तौ मन्त्रस्तथाषधैः ०मन्त्रस्तथोषधैः गमसत्र० / गमसूत्र 11 उत्तराध्ययनसत्र 22 22 12 18 सूरिकृतार्टीका स्वच्छतामन्या गमिकम० शुद्धमध्ययनादिकाले कर्तृकरणे कृता च चारित्राद् इति कृत्वा ज्ञानशुद्धःझानमन्यथा पञ्चतया एकतमवत् तच्च सप्रयोजन चास्य सूरिकता टीका स्वच्छतामनन्या - गमिकामा० शुद्धमध्ययनादि काले कर्तृकरणे कृते सति कर्तृकरणे कता चरित्राद् . इतिकृत्वा ज्ञानशुद्ध ज्ञान भवत्यन्यथा पञ्चतयी एकतमत् तच समासप्रयोजन वाऽस्य Page #495 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् 469 ठे पडतो अशुद्धम् शुद्धम् : ana, चास्य भोगका जन्मनि एवोत्तरोपपत्ति० ०प्यष्ट० 522022 वाऽस्य ०भोग्यकर्मा० जन्म जन्मनि एवोत्तरोत्तरोपपत्ति० ०प्यभीष्ट : वा वा, : : ...: ०मेव, स्वामिविकल्पमाह चामुत्र पूर्वोम्योऽन्यूनेषु कन्दमूलफला० पूजा--मर्हने म्यर्थ्य : : मेव स्वामी विकल्पमाह चामुत्र, पूर्वेभ्यो न्यूनेषु कन्दफला० पूजामर्हन्ने० * 0 भ्या ०मार्गाप्रदर्शनात् श्रुताविधिभिः उक्तसलिल. मभिध्याय अभि० सिद्धेभ्यः प्रयुक्तं सूत्रीनिर्देशाद् षड्विधमपि ०षमित० •भवनीयः इदं सम्बध्यते गतमभि० विशेषितमिति प्रवचने, इत्येतदू चेति वचोरूपं प्रत्यासं ०मार्गप्रदर्शनात् श्रुतावधिभिः उक्तं सलिल. •मभिध्यायन्नभि० सिद्धेभ्यः, प्रत्युक्तं सूत्रनिर्देशाद् : : 2022222222M 92 : ०षामित. भवनीयमिदं सम्बध्यते, : :: गतमपि :: : विशेषितमेवेति प्रवचने-" इत्येतद् च" इति वचो रूपं प्रत्यास, Page #496 -------------------------------------------------------------------------- ________________ 470 पृष्ठे पङ्क्ती ___ 29 20 शुद्धम् कर्तुम् ! .. . ०दुचिक्षिप्सेच्च ०वृद्धिःसंभाव्यमानाऽवसीयते अयते वंशस्थविलम् तत्प्रसङ्ग इति प्रतिषेधो ०माधमादि शुद्ध प्रवचनशुद्धि० .. ama तत्त्वार्थाधिगमसूत्रम् अशुद्धम् कर्तुम् दुच्चिप्सेच्च वृद्धिसंभवोऽवसीयते श्रूयन्ते उपेन्द्रवज्रा तत्प्रसङ्गप्रतिषेधो ०मादि० ०शुद्धः प्रवचने शुद्धि तीर्थकृत्त्वस्वाभा० उ० प इन्द्रस्याजीवस्य लक्षति निश्चितपरिज्ञान विशेष्यकल्पना ०प्रतिभागेन आत्मतातलं चानुभवति फणपरिणामेन गतिशरीरा० ०पार्पोदय जीवाकारः प्रतिकृतिसद्भावे खला दुहितकादिसूत्रसम्भवन्ति पुद्गलादिरूपस्वप्रदेश . -:00 am-Garnama 38 तीर्थकृत्तत्स्वाभा० उ०५ इन्द्रस्य जीवस्य लक्षयति निश्चितं परिज्ञान विशेषणविशेष्यकल्पना ०प्रविभागेन आत्मना तत्त्वं चानुभवन्ति फणापरिणामेन गतिजातिशरीरा० ०पार्णादय० जीवाकारा प्रतिकृतिः सद्भावे खलु दुहितकादि सूत्रसम्भवति पुद्गलादिरूपः स्वप्रदेश तस्या विवक्षैव परिशाट० विषाणादिके .. सम्यग्दर्शनम् . 18 55 56. विवक्षैव उपरिशाट० विषाणादिकः सम्यग्दशनम् Page #497 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् 471 अशुद्धम् शुद्धम् पृष्ठे पक्तो 66 2 70 " अष्टौ चतुर्दशभागा देशोनाः तत् श्रुत० प्रति विशिष्ट स्पष्टो मतेः तत् सर्वे श्रुत प्रतिविशिष्ट स्पष्टो भवति मतेः निषेधात् निषिद्धात् निश्चयतः प्रत्यक्षं, प्रत्यक्षं चाये निश्चयता प्रत्यक्षं चाये व्रते बते , 24-25 2.6 89 26-27. 91 7 इन्द्रियनिमित्तत्वात् देशा-दिति भवासाधन० भिधाया-भिधानं ख्यायन्ते सर्वकृतान्ताः कर्करस्पर्श भदप्रयोजनं व्यवहि विप्र० ततोऽरत्निमात्रे प्रतिपतत्या मन:-अनिन्द्रियं प्रतिविशिष्ट कस्मिन् सङ्ग्रहः भवना० घटादितैव ०र्थप्र० इन्द्रियानिन्द्रियनिमित्तत्वात देश इति भावसाधन० भिधाय विधान ख्याप्यन्ते सर्वतीर्थकृतान्ताः कर्कशस्पर्श भेदप्रयोजन व्यवहितविप्र० ततो रत्निमात्रे प्रतिपतति आ मनोऽनिन्द्रियप्रविष्ट० एकस्मिन् सनहस्तस्मात् सर्वम् भावना० घटादिनैव •र्थनया अर्थप्र० इत्यतो ०कुमारप्रसिद्धिः मतिज्ञानी मनुष्यजीवस्य मनुष्य दृष्ट्वा , 120 22 9 नित्यतो 126 11 ०कुमारसिद्धिः मतिज्ञानी मनुष्य दृष्ट्या Page #498 -------------------------------------------------------------------------- ________________ 472 __ पृष्ठे पक्तो शुद्धम् 126 26 ज्ञानानां प्रमाणज्ञेयवत् तन्त्राप्रकान्तं नय० च दर्शितं * * * * * स समु० / तस्वार्थाधिगमस्त्रम् अशुद्धम् ज्ञानादीनां प्रमाणार्थवत् तन्त्रा प्रकान्तनय० चादर्शितं स-समु० ०मानत्वाद् षणोपेतं, एवम्भूत इव नान्यदिति ०तावितिचेत् गम्यते जीवा जीवा आद्यार्थः विपर्ययान कश्चित् प्राणी अथवमेव लौकिका रोदति किंसतत्वः ०नुदयलक्षणः मध्य ०मानत्वात, षणोपेतं एवम्भूत एव नान्यदेति ताविति चेत् गण्येते जीवौ जीवा आचार्थे विपर्ययान् 133 134 137 * * * * * * * * * * * * * * * * * * * * 140 नियम्य 143 145 118 119 150 151 मेदात् मुक्त प्रतिपदविवरणे निवृत्ती युञ्जनं योगः र्हतानुमीयते ०लब्धार्थविषय० संशयासर्वार्थ ०नाकार क्लिक्षवचन. अथैवमेव कि लौकिका. रोदिति किसत्वः ०नुदयक्षयलक्षणः मध्यगानियम्यं भेदोन्मुक्त० प्रतिपदं विवरणे निवृत्ती युजेर्योजनं योगः र्हताऽनुमीयते ०लब्धाय विषय •संशयसर्वार्य० नाकारक्लिक्ष्यवचन Page #499 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् 473 पृष्ठे पक्तो 158 159 160 12 অন্ত उच्यते धोऽधः पाताल. छेयस्वादिष्ट ०शेषस्तथैव समतासमाहारा मनित्यं यं शुद्धम् उच्यन्ते .धोऽधः पाताल. छेद्यत्वादि दृष्ट० शेषस्तथैव, समता समाहारा० मनित्थस्थं तेजों वायू अमनोमतरामेव पाठः। देशान्तरलक्षणेति तेजो० ममनोहतरामेव -पाठः॥ देशान्तरा लक्षणेति, 12 वा, 162 23 तयाङ्गीकृता भूते तिप्राणा भावरतः ०तयाऽङ्गीकृता ०भूते प्राणा० भावैः, अतः . वा स्तवनादीनामपि जुष्टानि 'सूचनादीना' इति ग-पाठः -.. - 4 सूचनादीनामपि शुष्टानि'स्तवनादीनामपि इति क-ख-पाठः द्विपञ्चकाभिधानात्, दोषः, अतः ०तया, भवन्ति, र्धार्यते स्वरूपभेदान्यो, ०करणे, निर्माणनाम नामकर्मा० द्वाराणि, अव० विधाकारा विशेषः अङ्गोपाङ्गनाम निर्माण , 12 .., द्विः पञ्चकाभिधानात् दोषोऽतः ०तया भवन्ति •र्धार्यते, स्वरूपभेदाम्या ०करणं निर्माणनामकर्मा० घराण्यष० विधाकाराः विशेष अङ्गोपाङ्गनामनिर्माण 21 2022 Page #500 -------------------------------------------------------------------------- ________________ तमार्थाधिगमसूत्रम् 174 पृष्ठे पङ्क्ती 165 21 अशुद्धम् .." 25 * * संस्कृता अङ्गोपाङ्गे निरपेक्षा व्यान्तरं निर्वृत्तौ सत्यपि ०णाति तस्मानिवृत्तः शुद्धम् संस्कृताअङ्गोपाङ्गं निरपेक्षा, ०यान्तरं, निवृत्तौ सत्यपि ०णाति, तस्मानिर्वृत्ते ०मपि, कथयति, यदनुपहत्या तस्यायमर्थ:कथंकृत्वोक्त जनिताऽऽत्मनो मपि * * * * * * * खल कथयति यदनुपहत्यात तस्यायमर्थः कथं कृत्वोक्त जनितात्मनो खुल श्रुत्य० उपयोयपरि० प्रसङ्गोत्यन्तास०द्वारेणसंवेदनानुभवनलक्षणा निवृत्त्यादीनां दर्शयतिनिर्वर्तन्ते अत्य० उपयोगः परि० प्रसङ्गः ! अत्यन्तास०द्वारेण संवेदनाऽनुभवनलक्षणा, निवृत्यादीमां दर्शयति, , निर्वय॑न्ते * * * * * * * नैवं . ०च्यते श्रतज्ञानं विधविशे * * वा - एतद्विहिताविहितानुभय० समस्तत निचाथि भाषितेनापि ०च्यतेश्रुतज्ञानं विधविशेषणाद् भाषश्रुत विशेभावश्रुतपूर्वकत्वाद् वा एतद्धि हिताहितानुभय० समस्त्यत निरचायि भाष्यं ततोऽपि * * Page #501 -------------------------------------------------------------------------- ________________ पृष्ठे पतौ - शुद्धिपत्रकम् অন্ত ध्वनिः, हरामीति मोहनीयोदयात्, चाग्नेर्लक्षण मतिस्मृतिसज्ञाचिन्ताभिनि० : :::: ०रभावाद् न्यस्यानु कर्मयोगः ०रब्धो विग्रहगतेः कार्मणमस्ति व्यक्ति इत्याहयोगैर्जीवाः ०काइए ०काइयत्ताए तेणटेणं द्विसामायिक० ०काइए ०काइयत्ताए शुद्धम घनिः हरामीति, मोहनीयोदयात चानेन लक्षण मतिः स्मृतिः संज्ञा चिन्ता ऽभिनि० ०रभावाद, न्यस्यां तु कर्मयोगः, रब्धौ विग्रहगतौ कार्मणमिन्नः व्यक्त० इत्याह / योगे जीवाः ०काइए ०काइयत्ताए तेणटेणं द्विसामयिक० ०काइए ०काइयत्ताए सेणं त्रिसमया वा, नास्तीति, मित्यादि भाष्यम् प्रतिक्रुष्टः ननु च दुर्लभः, पोतजाः सेणं :: ::: AAR AKO 2 6 . 3::: त्रिसमया वा नास्तीति ०मित्यादि प्रतिक्रष्टः न तु च 0 दुर्लभः पोतजाः ०धीयते---- ०धीयते दधते दधते Page #502 -------------------------------------------------------------------------- ________________ . तत्त्वार्थाधिगमसूत्रम् पक्तौ ___, 21 26 12 2000 तथा .................... অন্তত शुद्धम् नारकेष्विति नारकेष्विति, ०धारणमवच्छेदो ०धारणम्-अवच्छेदो ०द्वान्तर० ०द्वाऽन्तर० स्यात् स्यात, ०रूपतानेक० ०रूपताऽनेक० स्याद्, स्याद् ! कर्मणस्तु कार्मणस्तु च, यथापूर्व च, यथा-पूर्व मेकपरमाणु० ०मे(क)कपरमाणु समुलझ्या समुलक्ष्य तेषां तेषां मर्थः ०मर्थः तथाss०दृश्यत्वात् ०दृश्यत्वात्, ०विशेषात् ०विशेषात् , च्यन्ते पश्यते प्रदेशस्कन्धः प्रदेशः स्कन्धः / प्रदशमानम् प्रदेशमानम् ०दर्शयति ०दर्शयति, चार्थे चार्षे मनोग्रहयोग्यकामणस्य मनोग्रहणयोग्यः कार्मणस्य ०द्रव्याभावात् ०द्रव्यद्वयाभावात् ताम्या० ताभ्या० मनादि० ०मनादि० कर्माधाय चेतसि, अवोचत् सूरिः ०कमाधाय चेतसि, अवो चत् सूरिःमवतः / सर्वस्यामवसायां भवतः सर्वस्यामवस्थाया, ०प्रवणमानस प्रवणमानसः विकल्पो हेया तु विकल्पो भवस्थताया हेयो नु हेयरूपतया तु 80 203 29 Page #503 -------------------------------------------------------------------------- ________________ पृष्ठे पत्तो शुद्धम् 206 तत्पूर्विके चा० 207 शुद्धिपत्रकम् अशुद्धम् तत्पूर्विकैवा० जन्मनि चतुर्दशपूर्वधर एव परिभूतपाप्मा ०ग्राह्यादयो अपर्यादाय स्पृष्टानि, पुरुषो भदन्त ! 208 208 . 212 213 214 23 30 मनुष्यसंयुतः 215 223 223 224 226 ه س مه س चतुर्दशपूर्वधरस्यैव परिपूतमाप्मा ग्राह्यतादयो पर्यादाय स्पृष्टानि, अथ भदन्त ! तेषां शरीराणामन्तरा किमेकजीवस्पृष्टा अनेकजीवस्पृष्टाः / गौतम! एकजीवस्पृष्टा, नाने कजीव स्पृष्टाः। पुरुषो मदन्त! मनुष्यसंयतः सदेवकुसप्तसप्ता० तस्य समुद्घातो नाम ०वर्तनः गाहवतां न पुनः सू० 54 शर्कराप्रभावाः •भास्वरा सप्ता० यस्य नाम 231 232 ०वर्तनः गाहवतां सू०, 54 शर्कराद्याः ०भासुरा पूर्वायां वसुधावर्तिनो परितनाक्रमेणाधो स्पष्टयति-लोचन० पूर्वस्यां वसुधाऽधोवर्तिनो 233 234 237 238 परितनोsक्रमेणाधोधो स्पष्टयति-न कदाचिदक्षिनिमेषमात्रमपि न भवन्ति अर्थात् लोचन परस्परोदीरितानीति भाष्यम्। त्रैविध्यम् 241 246 त्रैविध्य Page #504 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् অন্তপ্ত 478 पृष्ठे पती 216 30 247 22 तदेतार्थेन षड्विध त्रितये वालाप्रभूता तदेतेनार्थेन षड्विधं 248 तृतीयो वालामभृता 251 252 262 . चैतावत्या चा (सत्यावा) रात्तममयै. आरात्तम० समुद्रेष्त्पत्स्यते ०विशेत् 229: चैतावती सत्या वा रात्तनमष्यै आरात्तन० समुद्रेष्त्पद्यते विशेत 263 261 . . . . 5 272 ... 29-30 274 नरायुषोमानम् नरायुषो मानम् 584 421 : ०क्रीडागयुतितिस्वभावाः क्रीडागतियुतिस्वभावा विभिन्नः विभिन्न अक्षरानपातैः अप्सरोनिपातैः षण्मास व्यतिवर्तेत कियदेकं विमानं / षण्मासान् व्यतिव्रजेत् अस्त्येव्यतिवर्तेत कियदेकं न व्यतिवर्तेत ककं यं विमानं व्यतिबजेत् अस्त्येकर्क ये न 'व्यतिबजेत् दारुच्छेदप्रज्ञा० दारुच्छेदे प्रज्ञा० प्रतीयताम् प्रतीयन्ताम् भेदा अन्ते अन्तं द्विविकल्पाः द्विविकल्पा:अनुधा अधुना एक० प्रत्यासनै( ते श्वेति प्रत्यासन्नति कार्य कार्ष-- पञ्चविंशति० पञ्चत्रिंशत्० ०हसद्रि ०हसद्रि भेद 275 ....... एकैक. 277 279 280 r Page #505 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् 479 . पृष्ठे पन्तो 280 281 18 17 . 23 25 27 285 अशुद्धम् रहितम् तत्कुमार रन्तप्रभायां रन्तप्रभायां दशोत्तरयोजनशतबहुल त्रिपञ्चाशत् . सझहव्यव० ततः पद्यते एषच विशिष्टच्यासपरि० शुद्धम् रहितत्वाञ्च तस्य कुमार रत्नप्रभायाः रत्नप्रभायां दशोत्तरं योजनशतं बहलं पञ्चाशत् (पाठान्तरम् ) समहाभिधानं व्यव० अतः पद्यन्ते एष वा विशिष्टोच्छ्वासनि: श्वासपरि० 292 293 मासेन 2. . 29. 295 मानेन चतुरशी तिगुणिताः एतान्येव नाद्यन्तं तेऽतः तत्रस्थं सौधर्मादिष्वित्यादि 297 298 चतुरशीतिगुणिताः तान्येव नाद्यनन्त तेच तत्र स्थापित इति सौधर्मादिषु कल्पविमानेषु वैमानिका देवा भवन्तीत्यादि सर्वरत्नप्रायो माहेन्द्रः समु० लघीयस्त्वात् स्थिते. भवत्युपर्युपरीति न्यूना न्यूनतरा कनकवच्छवयः : .300 301. सर्वरत्नमयो माहेन्द्र समु० लघीयस्त्वावस्थिते. भवत्युपरीति न्यूनतरा कनकवशुचयः रणानि० ०मनुगछन्ति प्रभूतीनां 305 307 रणाद्यानिक 308 मधिगच्छन्ति प्रभृतीनां Page #506 -------------------------------------------------------------------------- ________________ तत्त्वार्थाधिगमसूत्रम् 480 __ पृष्ठे पक्ती शुद्धम् 309 312 315 316 317 भवनवासिनां योजनीय मूललक्षण 17 प्रसक्ते অয় भवनासिनां योजनीया मूलल क्षण प्रसक्तलाकारमास्कन्दनु)दु:) संसर्गादीनि ०भूताव्यरूप० सम्भवतो ०पत्तिन नाऽऽश्रियते एतानि-अन्तराविष्कृतानि लाद्याकारमास्कन्दन्नु (दुः) संसर्गादीनि हि ०भूतात्मरूप० 320 321 16 सम्भवन्तो 325 326 आकाशादेक० 328 धर्मादयः 329 ०पत्तिर्न 0 नाऽनुप्रियते एतानीति अन्तराधिष्कृतानि पुद्गला एव खपिणो भवन्तीत्यादि आऽऽकाशादेक० धर्मादयः पुनः इति प्रदेशप्रस्ताव प्रदेशा धर्मादिवत् ०पेक्ष्य औदारिकादि० देह-त्रिभागः पनादिनाल. 330 332 336 18 12 16-17 22 12 ०प्रदेशे प्रस्ताव प्रदेशाश्चर्मादिवत् ०पेक्ष्य औदारिक० देहे त्रैमागः पानाल० ब्रमो लक्षणस्य अनन्तरो० ब्रमो 337 338 339 लक्षणस्याच्याप्तता अथानन्तरो० 340 340 341 به م ه م س मन्तातरं ज्ञानाधि( नवि ! )कारेण मूर्तादि० पश्चविधानीत्यादि भाष्यम् मतान्तरं ज्ञानाकारण मूर्त्यादि० पञ्चविधानि शरीराज्योदारिकादीनिति भाष्यम् ہے Page #507 -------------------------------------------------------------------------- ________________ पृष्ठे पक्तो 342 11 , 20 निसृजन्ति 347 22222244 348 " 349 351 354 355 शुद्धिपत्रकम् অযু शुद्धम् तत्र शरीराणीत्यादि भा० निसृजति ०पुद्गलजीव० ०पुद्गला जीव० ०रुपग्रह ०रूपगृह्यलक्षणशब्दोपरि टिप्पणम्-बहिरन्तर्भेदाविवक्षया सामान्येन / पानन्त्यभूत० पानन्यभूत० परिणामकारणं परिणामिकारणं ०मितेन मितेर्न शिरीष शिरीषां राच्छुरन्तः राच्छुरीतः ०पाटलप्रसवाः पाटलाप्रसवाः प्रतिवाद प्रतिपाद्य० चारणां चाराणां भाजस्त इति ०भाज इति भोगार्थान्तर० भागोऽर्थान्तर० ०लाभत्वात् ०लाभात् शब्दरूपा० शब्दपरिणामसपा० •स्थितैरपि स्थैरपि फले वृन्त० फलवृन्त० स्यादध्रवत्वादिति स्यादध्रुवत्वादिति वनसिको वैनसिको विवक्षितम् न विवाक्षितम् भूर्यपत्रादिषु भूर्जपत्रादिषु अनुतट० अनुचट० বন্ধু तद्वन्त कारणकार्ययोनशिो० कारणात् कार्यनाशो० सूत्रेत सूत्रेण अणुस्तिष्ठत्य० अणुस्तिष्ठन्त्य० ०हति ०हनिबहुलोकसिद्धं बहुलोकप्रसिद्ध 357 363 364 365 366 25 367 23 Page #508 -------------------------------------------------------------------------- ________________ 182 पृष्ठे पक्ती 369 18 370 25 तस्वाधिनमस्त्रम् অনুষ कन्दली. पर्यायनगित्यण् / सौदामिनीति विद्युदेक० शुद्धम् कदली पर्यायतगित्यण् सौदामिनीति ., 22 विद्युत् , एक कारणत्रविध्याविशेषे सति // 372 . श्या विरोधिय परिणामक्ष परितः द्रव्याणां यथा० ग्राह्य माभिप्रायः, प्रतिजानीते, ०वस्थाप्रध्वंसो घटसंस्थानादि० मात्रत्वाद्, वा ०पत्यवत्वे निवार्यते, ०लभ्यन्ते प्रत्यक्षादिना भयाग्राहि० गवादिपूर्व:पूर्वो विधिः परःपरो० स्थितमिदं स्वभावाऽन्य० यत्त सहते धान्यान्यार्थ० स्थास्यते कारणत्रैविध्याविशेषे सतिभेदसाताभ्यामित्यादि भाष्यम् शा विरोधि दूर्य परिणाम च. . . परिणतः द्रव्याणां च यथा० प्राचं अभिप्राय:प्रतिजानीते ०वस्था प्रचंसों पटसंस्थानादि० मात्रत्वाद् वा, ०पत्यवत्वे , निवार्यते! ०लभ्यन्ते-प्रत्यक्षादिना ०भयमाहि गवाधादिपूर्वः पूर्वो विधिः परः परो स्थितमिदम्०खभावोऽन्य० यत् तु प्रसहते थेऽन्योऽन्याय .०स्थाप्यते 376 374 375 377 378 Page #509 -------------------------------------------------------------------------- ________________ परतो " 381 384 शुद्धिपत्रकम् 483 अशुद्धम् शुद्धम् सत् सत्, न्यत. -ऽऽयतनेक रूप नेकरूप० भावा० भवा० धर्मादीनामपि धर्मादिष्वपि मूर्ति मूर्तयोगो विज्ञात योगोऽपि सात र्जुत्ववद् ०र्जुत्ववद्, सत्सर्व सत् सर्व० परिणामे नोत्पादः परिणामेनोत्पादः परिणतस्यापि परिणतस्य त्पद त्पाद ०क्षणानन्तर० ०क्षणोत्तर 'निभाल्यते निभाल्यते, खकरणै. खकारणै० भवत्य० न भवत्य० ०वस्थापत्तिय ०वस्थोत्पचिव पाचोयुक्त्या, वाचोयुक्त्या अपूर्वोस्वभावतयां खभावतायां खहेतुरेव खहेतोख ०मूर्तत्वापरि० ०मूर्तत्वादिपरि० उत्पादादीनामेककालत्वादि इति विषयोल्लेखः भयाकारः ०भयाकार, विनाशः 387 388 . . " . 0320KGRs विनाशः, स्यात् मिद्यते तद्भाव: भियते, तद्भावः, वाव्ययं 392 वाव्यये Page #510 -------------------------------------------------------------------------- ________________ 484 __पृष्ठे 393 पक्ती 16 तत्त्वार्थाधिगमसूत्रम् অঙ্ক न तूत्पादलक्षणः पर्यायो विनाशलक्षणो वा व्याहतम् अनेकधर्माधर्मी, प्राकाश्य ०मयात्मकम् बलवत्वाद्र किञ्चित् एतदप्यसत् प्रहणे विरोधो नित्यानित्यवत् अन्योन्यं परस्पर इत्यदत० तमस्तया च प्रतिषेधसमप्रादेशविकलादेशः, शुद्धम् क्रमपरिणत्या न भूत्यादिलक्षणः (पाठान्तरम् ) व्याहतम्, अनेकधर्माधर्मी प्राकाश्यं वस्तु नयात्मकम् बलवत्त्वाद कश्चित् कालान्तरे तत्रोष्णस्पर्शाम्युपगमात् अथैव विशेष्यते पदैकत्र शीतो देशे तदेव तत्रोष्णो नास्तीत्येतदप्यसत् ०प्रहणेन विरोधः, नित्यानित्यवत, अन्योन्य--परस्परं इत्यद्भुत० तमस्तया प्रकाशतया च प्रतिषेधविप्रतिषेधसमंपादे .शविकलादेशः यतः सदसदेक०, पितव्यवहारः ०दर्पितानर्पितधर्म स्तद्योग्यव्यवहारार्पणानर्पणाम्या द्रव्यं भव्यं स्वतन्त्रः ०भ्यस्तद् द्रव्या० प्रतिपक्षण प्रादुर्भावात् पर्यायनयस्योत्पाअंत्र हि वाक्ये 398 यतः सदेक० पित व्यवहारः दर्पितधर्म० स्तद्योग्य व्यवहारार्पणाम्या द्रव्य स्वतन्त्री 401 ०म्यस्तद्व्या० प्रतिक्षेपेण प्रादुर्भावः पर्यायनयश्चोत्पा अत्र वाक्ये 402 102 Page #511 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् 485 पक्का अशुद्धम् 101 (सूक्ष्म ) सूक्ष्म०प्रयोजनान्येक० परिणतः त्यादि हितानामे(:) प्रागेतन (:) सामान्ययोग० प्रागेतन सूक्ष्मसूक्ष्म०प्रयोजनान्येतान्येक० परिणतः ०त्यादि भाष्यम् हि नामे प्रगतन सामान्यायोग० प्रगेतन 108 409 " 114 घटादिरूपकार्यः नाप्येकशब्दः एकशब्द विशेष्यत्वात्, नास्तिविशेषण तावत् परिणाम युगपद्भरि० वक्तरिति पर्यायेषु वा, स्यापिशब्दे० नरसिंह नर० प्रतप्रतियोगिनः परिणाम्यर्पितभजना० प्रतिधीयते प्रदेशाभावेऽपि ०रूक्षव्यवहारः यथाऽधिकृत परिणम्यत्वं च तत्तद्गुणविशेषरूपादिपिण्डादिव्यपदेशे हेतुरित्यतः घटादिरुपकार्यः नाप्येकः शब्दः एकः शब्दः विशेष्यत्वात् / नास्ति विशेषण तावत्परिणाम युगपद् भूरि० वक्तुरिति पयोयेषु वा ०स्यापि शब्दे नरसिंहे नर० श्रुतप्रतियोगिनः परिणाम्यर्पितानर्पितमजना० प्रतिज्ञायते प्रवेशाभावेऽपि ०रुक्षसंव्यवहारः तथाऽधिकृत परिणम्यत्वं परिणामकर्व च तत्तद्ग्रहणविशेषरूपादिपिण्डादिव्यवहारदेशितुरित्यतः (पान्तरम् 120 125 427 429 Page #512 -------------------------------------------------------------------------- ________________ 486 ___ परतो 431 28 तत्त्वार्थाधिगमसूत्रम् অৱ निरपेक्षेहत्य तेन पञ्च (त्व एव ) 133 434 436 110 शुद्धम् निरपेक्षेहेत्य तेनैव पश्चकादव्यतिरिक्तस्य गुणपर्यायाणां योगोपयोगपजीवेष्वरूपिज्वपीति गुणानां योगपजीवेष्वपीति कथं बायनोयोग्या पुद्गलाना काय 23r वाम्मनोयोग्य औदारिक वैक्रियाहारकयोगात्रयः पुद्गलाना " 445 446 147 448 119 460 1626 सत्यमृषामषाऽसत्या (मृषा) तज्ञानस्य तज्ञानस्य मतिब्रता० •तुरुत्र्येकैकैक० मुख्यभेदै हीनः आकाशादेक० सत्यमृषाऽसत्यामृषा श्रुतज्ञानस्य श्रुतज्ञानस्य . मतिश्रुता० तुस्त्येकैकैकैक मुख्यभेदौ हीनाः आऽऽकाशादेक०