________________ 260 तत्वार्थाधिगमसूत्रम् [ अध्यायः 3 क्रमेण जातमिदं / 2978884 1 अधस्त्योऽर्धेन च्छिन्नो जातमिदं 274954 / अस 549908) राशेरेकोनविंशत्या भागलब्धमिदं 14471 / कलाश्च पञ्च / शेषं यदुद्धरितं तत्रैका न्यूना कला लभ्यत इत्येपा जीवा // अधुना करणसूत्रमिपोरानयनाय-ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भारुयोध्यं शेषामिषुः / जीवावर्गस्य विष्कम्भवर्गस्य च (यो) विशेषस्तस्य मूलं विष्कम्भाच्छोध्यते, शेपस्य यदधैं स इषुर्भवति, तत्र जीवावर्गोऽयं 75600000000 विष्कम्भवर्गश्वायमेकपष्टयुत्तरत्रिशतगुणः 36100000000 / अस्माज्जीवावर्गे विशुद्ध शेषमिदं भवति 3534400000000 / अस्य मूलमादीयते, शून्याष्टकस्यार्धेन चत्वारि शून्यानि शेषस्य मूलमेव काष्ठकाष्ठकैलब्धमिदं 1880000 / एतद् विष्कम्भादेकोनविंशतिगुणाच्छोध्यम्, शेपं जातमिदं 20000 / अस्यार्धेनेदं 10000 / अस्यैकोनविंशत्या भागलब्धमिदं 526 षट् व कला इषुरिति / / अधुना धनुःकाष्ठानयनाय करणसूत्रम्-इषुवर्गस्य षड्गुणस्य ज्यावर्गयुक्तस्य [कृतस्य ] मूलं धनुःकाष्ठम् // इषोः कलीकृतस्यायं वर्गः 100000000 / एष षड्भिर्गुण्यते, जातमिदं 600000000 / एष ज्यावर्गे क्षिप्यते, ज्यावर्गश्चायं 756000 000000 / जातमिदं 76200000000 / अस्य मूलमात्रं धनुःकाष्ठं भवति, तब द्विकसप्तपशून्यचतुष्कत्रिकैः क्रमेणादीयते, ततोऽयं राशिर्भवति अधस्त्यस्या-(२६२१५१] 552086) धैन छिन्नस्यैकोनविंशत्या भागलब्धमिदं 14528 / एकादश चैकोनविंशतिभागा इति / सम्प्रति विष्कम्भानयनाय करणसूत्रमिदम्-ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्तं तत्प्रकृतिवृत्तविष्कम्भः // जीवावर्गचतुर्भागेन युक्त इषुवर्गः इषुणा विभतः स्वभाववृत्तविष्कम्भो भवति, ज्यावर्गः 75600000000 / अस्य चतुर्भागोऽयं 18900000000 / एष इषुवर्गे क्षिप्यते, इषुवर्गवायं 100000000 / एकीकृतमिदं जातं 19000000000 / भागपरावृत्या एकषष्टयधिकशतत्रयेणेषुर्गुण्यते, एकोनविंशतिभागेनैकः स गुणकार उपरितनस्य, इतरस्य चैकोनविंशतिभागेनैकोनविंशतिरेव, शून्यचतुष्कापगमे तया भागलब्धमिदं 100000 // _अधुना बाहुरानीयते, तत्रेदं करणसूत्रम्-उदग्धनुःकाष्ठाद् दक्षिणं शोध्यं शेषाध बाहुरिति / अनेन करणाभ्युपायेन क्षेत्राणां वैताढयादिपर्वतानामायामविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि // उदग्धनुःकाष्ठमिदं 25230 कला 4 चत्वारश्चैकोनविंशतिभागाः, अमुष्माद् दक्षिणं धनुःकाष्ठं पात्यते, तच्चेदं 14528 /