________________ सूत्र 12 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 261 एकादश चैकोनविंशतिभागाः, पोतिते उपरितनराशिरयं 10702 / अधस्तादेकादश कला न पतन्ति चतसृभ्यः कलाभ्य इतिकृत्वा उपरितनराशिनं ददात्यर्धमतो रूपमेकमवतार्यते, एकोनविंशतिमध्यादेकादश शुद्धा अष्टौ शेषकलाचतुष्टयक्षेपाद्वादश, जाताः अर्धेन पद, उपरितनराशिनं ददात्यर्धमतो रूपमेकमवतार्यते एकोनविंशतिरपि नार्धं ददातीत्येकोनविंशतिरूपमपनीयते, तस्यार्धेनार्धकलाः,अष्टादशानामर्धेन नवषट्कपश्चदशकलाः सार्धा जाताः उपरितनराशेरधेनेदं 5350 / एतावती बाहा क्षुल्लहिमवत इत्यनेन च परिक्षेपज्यानयनकरणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानां चायामविष्कम्भेषुधनुःकाष्ठप्रमाणान्यवगन्तव्यानीति / अपरे पुनर्विद्वांसोऽतिबहूनि स्वयं विरचय्यास्मिन् प्रस्तावे सूत्राण्यधीयते विस्तरदर्शनाभिप्रायेण, तन्न युक्तमयं सङ्ग्रहः सूरिणा संक्षेपः कृत इत्यतोऽत्र विस्तराभिधानमपाचीनमाचक्षते प्रवचननिपुणाः / अथ विस्तरतो विवक्षितस्ततो ग्रन्थलक्षपरिभाषिताया जम्बूद्वीपदेशनायाः पटुप्रज्ञैस्तैर्विस्तृणद्भिरपि कियदत्र विस्तृतं स्याद् ? विस्तरार्थिनो वा बहुगुणः सिद्धान्त एव तत्कृतसूत्रेभ्य इत्यत उपेक्षणीयस्तदभिप्राय इति // 11 // एवमिमा जम्बूद्वीपवक्तव्यतां परिसमाप्य समासतः सम्प्रति द्वीपानारवक्तव्यताभिधित्सयोवाच-- सूत्रम्-द्विर्धातकीरूण्डे // 3-12 // टी०-अस्य भाष्यम् / भा०-ये एते मन्दरवर्षवंशधरा जम्बूद्वीपेऽभिहिताः एते द्विगुणा धातकी ___खण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभधातकीखण्डे क्षेत्रातिदेशः इषु सक्ताः / एभिरेव नामभिर्जम्बूदीपकसमसङ्ख्या पूर्वार्धेऽपकारौ च रार्धे च चक्रारसंस्थिता निषधसमोच्छायाः कालोदलवणजलपशिनो वंशधराः सेष्वाकारा अरविवरसंस्थिता वंशा इति // 12 // टी-ये एते मन्दरवर्षवंशेत्यादि भाष्यम् / लवणजलनिधेहिर्धातकीखण्डो द्वीपो धातकीवृक्षसम्बन्धाद् वलयाकृतिः लक्षचतुष्टयविष्कम्भः, तस्मिन् धातकीखण्डे मन्दरादयो जम्बूद्वीपकमन्दरादिभ्यः सङ्ख्यया द्विगुणमाना वेदितव्याः, जम्बूद्वीपे मेरुरेकस्तत्र द्वौ पूर्वापरदिग्मध्यव्यवस्थितौ मेरू, वंशा भरतादिक्षेत्राण्यैरावतपर्यवसानानि, तानि तत्र द्विसङ्ख्यायुक्तानि प्रत्येकं 2 / वंशधरा हिमवदादयः पर्वता वैताढयादयश्च तेऽपि तत्र द्विद्धिः स्थिताः, एते च सर्वेऽपि मन्दरादयो द्वाभ्यामिष्वाकारपर्वताभ्यामृजुभ्यामित्यर्थः / दक्षिणोत्तरदिङमध्यव्यवस्थिताभ्यां दक्षिणोत्तरायताभ्यां च विभक्ताः-विच्छिन्नाः पूर्वार्धे चापरार्धे व व्यवस्थिताः, एभिरेव नामभिजेम्बद्वीपकैः समा सङ्ख्या येषां भरतादिप्रतिक्षेत्र जम्बू पास्यन्ते' इति ग-टी-पाठः। २रवंशवर्षधरा' इति घ-पाठः / 3 ‘एतैरेव' इति क-पाठः /