________________ 262 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः३ दीपकसमसङ्ख्याः ,चक्रनाभिप्रतिबद्धारकवत् संस्थिताः, तत्र वर्षधरपर्वता निषधगिरिसदृशोच्छ्रायाश्चतुर्योजनशतोच्छ्ाया इत्यर्थः / कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकाराः कालोदसमुद्रो धातकीखण्डपरिक्षेपी लवणोदधिर्जम्बूद्वीपपरिक्षेपी, एतयोर्जलं कालोदलवणजलं तत्स्प्रष्टुं शीलमेषामिति कालोदलवणजलस्पर्शिनो हिमवदादयः, सहेष्वाकारपर्वताभ्यां पञ्चयोजनशतोच्छ्रायाभ्यामिति / धातकीखण्डवर्तिनश्च हिमवदादयो जम्बूद्वीपकहिमवदादिविच्छेदप्रतिनिधिना व्यवस्थिता वैताढयादयः क्षेत्राणि चेति / अरविवरसंस्थिता वंशा इति / अराणां विवराण्यन्तरालानि तद्वद् व्यवस्थिताः वंशाः-क्षेत्राणि तत्रेति / सङ्क्षपात तु प्रतिपत्तव्यमिदं यन्नाम किश्चिन्नदीदेवकुरूत्तरकुरुप्रभृति जम्बूद्वीपेऽभिहितं तत् सर्व धातकीखण्डे द्विरिवसातव्यमिति // 12 // यथैव धातकीखण्डे जम्बूद्वीपविधिर्द्विरुक्तस्तथैव सूत्रम्-पुष्कराधे // 3-13 // भा०-यश्च धातकीखण्डे मन्दरादीनां सेष्वाकारपर्वतानां सङ्ख्याविषये नियमः स एव पुष्करार्धे वेदितव्यः // टी-पुष्करद्वीपः कालोदसमुद्रपरिक्षेपी षोडशलक्षविष्कम्भस्तस्यार्धमारात्तममष्टौ योजनलक्षास्तस्मिन् पुष्करार्धे च जम्बूद्वीपविधिििर्बर्द्रष्टव्यः / यश्चधातकीखण्डे विधिरुक्त इष्वाकारौ दक्षिणोत्तरदिङ्मध्यावस्थितौ दक्षिणोत्तरायतौ पञ्चशतोचौ, तथा मन्दरौ चतुरशीतिसहस्रोच्छ्यादिको वंशधराश्चतुःशतोच्चा इत्येवमादिकः सङ्ख्याविशेषनियमः स पुष्करार्धेऽप्यशेषो वेदितव्य इति / / भा०-ततः परं मानुषोत्तरो नाम पर्वतो मानुष्यलोकपरिक्षेपी सुनगरप्रा ____ कार(वत् )वृतः पुष्करद्वीपार्धे निर्दिष्टः काञ्चनमयः / सप्तदशैकमानुषात्तर पवतः विशानि योजनशतानि उच्छ्रितः / चत्वारि त्रिंशानि क्रोश चाधो धरणितलमवगाढः / योजनसहस्रद्वाविंशमधस्ताद् विस्तृतः / सप्तशतानि त्रयोविंशानि मध्ये। चत्वारि चतुर्विंशान्युपरीति / टी-ततः परमित्यादि भाष्यम् / आरात्तमपुष्करार्धात् परतः समनन्तरोधान्यपल्यकार्धाकृतिः वलयवृत्तो मानुपोत्तराभिधानो गिरिमानुष्यलोकपरिक्षेपी महानगरप्राकारप्रतीकाशः कनकमयः पुष्करद्वीपार्धविभागकारीति / शेषं समुच्छ्रायादि सुज्ञानम् / भा०-न कदाचिदस्मात् परतो जन्मतः संहरणतो वा चारणविद्याधरौद्धप्राप्ता अपि मनुष्या भूतपूर्वा भवन्ति भविष्यन्ति च / टी०-न कदाचिदस्मादित्यादि / अस्मान्मानुषोत्तराद् गिरेः परतो न कस्मिंश्चिदपि काले जायन्ते जनिष्यन्तेऽजनिषत चेति मनुष्या इत्यत एवायं मानुषोत्तरोभिधीयते / तथा