________________ एवं 13 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 263 संहरणतोऽपि न सन्ति मनुष्याः, तत्र संहरणं नाम वैराद्यनुबन्धात् केनचिद् देवविद्याधरादिना हत्यमनुष्यस्तत्रोत्क्षिप्य नीयेतायमत्रोर्ध्वशोषं शुष्यतु म्रियतां वाप्यकृतप्रतीकारः क्षिप्रमेवं वैरादिनिर्यातनाथै, संहरणममून् विहाय क्रियते "संमणी अवगतवेदं, परिहारपुलागमप्पमत्तं च / चोदसपुलिं आहा-रयं च णवि कोइ संहरइ // " आर्या तस्मादपि संहरणतो न मनुष्यास्तत्परत इति, अवश्यं हि मनुष्येण मर्तव्यमन्तर्मानुषो. तरनगस्येति / तथा चारणविद्याधद्धिप्राप्ता आप मनुष्यास्तमुल्लय गताः सन्तः परतो न प्रियन्ते इति नियम्यते, न पुनर्गमनमेषां मानुषोत्तराद् बहिनिषिध्यते, तपोविशेषानुष्ठानाजवाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिदीपान् गच्छन्ति चैत्यवन्दनायै, प्रसिद्धश्चायमावश्यकादिष्वपि प्रायो विधिः, तथा विद्याधरा महाविद्यासम्पन्नाः ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छन्ति परतः, न तु प्राणान् परित्यजन्ति तत्रैवेति / एवंविधातिशयप्राप्ता अपि तत्र नो नियन्ते, किमुत निरतिशयमनुष्या इति दर्शयतिमानवोत्तराभिधाने भा०-अन्यत्र समुद्घातोपपाताभ्यामत एव च मानुषोत्तर . कारणम् इत्युच्यते / / ___टी०-अन्यत्र समुद्घातोपपाताभ्यामित्यपोद्यते मारणान्तिकसमुद्धातेन समुपहतः कश्चिदर्धतृतीयद्वीपान्तर्वर्ती बहिर्वतिद्वीपसमुद्रेषत्पत्स्यते तेन चोत्पत्तिप्रदेशे प्रक्षिप्तमात्मप्रदेशजालमिलिकागतिना पश्चाम्रियते तत्र व्यवस्थित इति / तथोपपातमङ्गीकृत्य जन्माभिसम्बध्यते बहिर्वीपसमुद्रवर्तिनाऽसुमता येन मनुष्यायुर्निबद्धमर्धतृतीयद्वीपाभ्यामन्तरे चोत्पत्स्यते वक्रगत्या, तस्य तन्मनुष्यायुर्वकाले विपच्यते, तदैव चासौ मनुष्यो जातस्तदुदयवर्तित्वात् / तथा चागमः-" मणुस्से णं भंते ! मणुस्सेसु उववज्जइ अमणुस्से मणुस्सेसु उववज्जइ ? गोयमा! मणुस्से 2 सु उववज्जइ, नो अमणुस्से मणुस्सेसु उववज्जइ // " एवं समुद्धातोपपातौ विरहय्य नान्येन प्रकारेण बहिर्मानुषोत्तरधरणीधरात् मरणं मनुष्याणां जन्म वा सम्भाव्यते इति / ये त्वेतद् भाष्यं गमनप्रतिषेधद्वारेण चारणविद्याधरर्द्धिप्राप्तानामाचक्षते तेषामागमविरोधः, सर्वेषां हि चारणादीनां आगमे गमनाभ्यनुज्ञानाद, बहिर्जन्ममरणे न सम्भाव्यते इत्यवधीकृत्येदमुच्यते-अत एव मानुषोत्तर इति / 1 श्रमणीमपगतवेदं परिहारं पुलाकमप्रमत्तं च / चतुर्दशपूर्विणमाहारकं च नैव कोऽपि संहरति ॥-भग० श० 25, उ० 6 वृत्ती 2. मित्यापाद्यते' इति क-पाठः। 3 मनुष्यो भदन्त ! मनुष्येषु उत्पद्यते, अमनुष्यो मनुष्येषु उत्पद्यते ? गौतम ! मनुष्यो मनुष्येषु अमनुष्यो मनुष्येषु उत्पद्यते।