SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 264 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः भा०-तदेवमर्वाग्मानुषोत्तरस्यार्धतृतीया द्वीपाः,समुद्रद्वयं,पश्च मन्दराः पञ्च त्रिंशत् क्षेत्राणि, त्रिंशदू वर्षधरपर्वताः, पञ्च देवकुरवः, पश्चो नरलोके द्वीपसमद्रादिसंख्या मु. त्तराः कुरवः, शतं षष्ट्यधिकं चक्रवर्तिविजयानाम् / वे शते पञ्चपञ्चाशजनपदानाम्, अन्तरद्वीपाः षट्पञ्चाशदिति // 13 // टी०-तदेवमर्वाग् मानुषोत्तरस्येत्यादि भाष्यम् / व्यावर्णितलक्षणस्य मानुषोत्तरगिरेराय जम्बूद्वीपधातकीखण्डपुष्करार्धान्यर्धतृतीया द्वीपाः; लवणकालोदौ समुद्रद्वयम् जम्बूद्वीप एको धातकीखण्डे द्वौ, पुष्करार्धे च द्वावेव पञ्च मन्दराः जम्बूद्वीपे भरतादीनि सप्त धातकीपण्डे चतुर्दश, पुष्करार्धे चतुर्दशैवं पञ्चत्रिंशत क्षेत्राणि; जम्बूद्वीपे पद, धातकीखण्डे द्वादश,पुष्करार्धे द्वादशै त्रिंशद् वर्षधरपर्वताः,जम्बूद्वीपे एकः, धातकीखण्डे द्वौ, पुष्कराचे द्वावेवं पञ्च देवकुरवः, एवमेव पश्चोत्तराः कुरवः; जम्बूद्वीपे द्वात्रिंशत्, धातकीखण्डे चतुःपष्टिः, पुष्करार्धे चतुःपष्टिश्चैवं पष्टयधिकं शतं चक्रवर्तिविजयानाम्; पञ्चसु भरतेषु पञ्चसु चैरावतेषु प्रत्येकं पञ्चविंशतिर्जनपदा अर्धं चार्याः एते दशगुणा द्वे शते पञ्चपञ्चाशदधिके जनपदानामार्याणाम्; जम्बूद्वीप एव हिमवतः प्राक् पश्चाद् विदिक्षु सप्त सप्तान्तरद्वीपा एकत्राष्टाविंशतिस्तथा शिखरिणोऽप्यष्टाविंशतिरेवमेते षट्पञ्चाशद् भवन्ति। उत्सेधाङ्गुलं सहस्रगुणितं प्रमाणागुलं भवति, तदनुमानेन चैषां द्वीप-क्षेत्र-गिरि-कूट-सरित-सागर-काण्ड-पातालभवनकल्पविमानादीनां विष्कम्भायामपरिधयो ग्राह्याः। क्षेत्रादीनि च यथावत्परिमाणतो ज्ञात्रा तत्प्रत्ययार्थ सङ्ख्यानमुक्तम्, तच्च गणितग्रन्थेभ्यः साक्षात् सम्बन्धिफलत्वादव्यभिचारि प्रत्येतव्यम्, यैश्च क्षेत्रादिपरिमाणं सङ्ख्यातं तैरवश्यं सङ्ख्यानशास्त्रं प्रमाणेयम्, प्रमेयपदार्थप्रणयने प्रमाणप्रणयनवत्, यद्यपि चेयत्ता आगममात्रप्रतिपाद्या तथाऽनु तदन्यैरपि सङ्ख्यात तत्सङ्ख्यानलक्षणं तु नोक्तम्, यदप्युक्तम् तदपि क्षेत्रपरिक्षेपादि व्यभिचरति, सर्वभुवनको. शादिप्रक्रियान्तःपाति प्रदश्य, प्रायश्च सावर्णिसांशपायनबुद्धादयः सातिशयज्योतिपक्षेत्रगणितशास्त्रानभिज्ञास्तेषामविपय एवायम् / यदि नाम मूढतया कश्चिदभिनिविशेत, स तु प्रतिवृत्तफलकसूत्रदीपच्छायादिभिः प्रत्ययैः प्रत्याय्यः, यस्येयान् विष्कम्भस्तस्य परिक्षेपः कियान् भवतीति सङ्ख्याननियमात् , पूर्वापराविरोधि प्रत्यक्षफलं च सङ्ख्यानम्, अतः सर्वज्ञज्ञानविषयाभ्यन्तरत्वात् ज्ञानातिशयत्वाच महातडागोदरसंस्थितजलद्रव्यपलपरिमाणपरिज्ञानोपायोपदेशवत् तीर्थकरैः सर्वमिदमनवद्यमादर्शितं सर्वज्ञतालाञ्छनमिति // 13 // भा०-अत्राह-उक्तं भवता-मानुषस्य स्वभावमार्दवार्जवत्वं च ( अ० 6 मू०१८) इति / तत्र के मनुष्याः क वेति / अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादि पातनिकाग्रन्थः / सूत्रेषुक्तमाश्रवप्रस्तावे षष्ठेऽध्याये(सू०१८) स्वभावमार्दवार्जवं च मानुषस्येति, तत्र के मनुष्या आर्यादिभेदेन केन व्यवस्थिताः क वा द्वीपक्षेत्रे समुद्रे वा ? / अत्रोच्यते
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy