________________ 259 सूत्र 11 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 128, शेषमुपरीदं 89888 / षण्णवत्यगुलं धनुर्भवतीति वणवत्या गुण्यते, जातोऽङ्गुलेराशिः / भागलब्धमिदं 13, शेषमुपरीदं 407346 / द्वाभ्यां गुण्यते यतोऽर्धाङ्गुलद्वयेनैकमङ्गुलं भवति, जातोऽर्धाङ्गुलराशिः, षडादिराशिना भागलब्धमिदं 1 // शेषाश्चार्धाङ्गुलभागा एतावन्त उद्धरिताः 182238 / अधस्तात् पडादिराशिः एष जम्बूद्वीपपरिधिः / वृत्तग्रहणं चतुरस्रादिक्षेत्रव्यावृत्त्यर्थम्, परिक्षेपग्रहणं विष्कम्भेषु जीवादिव्यावृत्त्यर्थमिति / अधुना गणितपदमानीयते जम्बूद्वीपस्य, तत्रेदं करणसूत्रम् // स विष्कम्भपादाभ्यस्तो गणितं प्रक्रान्तविष्कम्भो लक्षैकपादः पञ्चविंशतिसहस्राणि विष्कम्भपादेनाभ्यस्तो-गुणितो विष्कम्भपादाभ्यस्तः, स इति परिधिः जम्बूद्वीपस्याभिसम्बध्यते, प्रक्रान्तार्थपरामर्शित्वात् सर्वनामशब्दानाम् / गणितमिति गणितपदमित्यर्थः / जम्बूद्वीपे योजनप्रमाणानि चतुरस्रखण्डान्येतावन्ति भवन्तीत्यर्थः / तत्र परिधियोजनराशिः पञ्चविंशतिसहस्रगुणितोऽयं 7905675000 / गव्युतत्रितयं पञ्चविंशतिसहस्रगुणं जातमिदं 75000 / गव्युतराशिवायं योजनीक्रियते / चतुर्भिांगलब्धमिदं 18750 / योजनराशिरयम् / धनुरपि पञ्चविंशतिसहस्रगुणः, जातमिदं 3200000 / अयमपि धनुराशिर्योजनीक्रियते / अष्टौ धनुःसहस्राणि योजनं भवतीति वचनात् अष्टाभिः सहस्रर्भागलब्धमिदं 400 / अयमपि योजनराशिरनन्तरराशौ प्रक्षिप्तः, जातमिदं .19150 / अयमपि.च सप्तकोटिशतादिराशी, जातमिदं 7905694150 / अगुलराशिः पञ्चविंशतिसहस्रगुणो जातमिदं 325000 / अर्धागुलं पञ्चविंशतिसहस्रगुणं जातमिदं 25000 / अस्यार्धाङगुलराशेरधं गृह्यते ततोऽगुलानि लभ्यन्तेऽमृनि 12500 / एतान्यङ्गुलराशौ क्षिप्यन्ते, जातमिदं 337500 / ततः षण्णवत्या भागो यस्मात् षण्णवत्यङ्गुलं धनुर्भवति / भागलब्धमिदं 3515 / अयं धनराशिः, शेषमङ्गुलानां पष्टिः / अस्य धनूराशेभागः सहस्रद्वयेन, लब्धमेकं गव्यूतं शेषमिदं 1515 // - अधुना जीवानयनमुच्यते-इच्छावगाहोनावगाहाभ्यस्तविष्कम्भस्य चतुर्गुणस्य मूलं ज्या / / ईप्सितोऽवगाहो यावान् स इच्छावगाहस्तेनोनो विष्कम्भः इच्छावगाहोनः पुनरवगाहेनाभ्यस्यते-गुण्यते, इच्छावगाहोनश्वासाववगाहाभ्यस्तश्च इच्छावगाहोनावगाहाभ्यस्तः, तस्य पुनश्चतुर्भिगुणितस्य यन्मूलं सा मण्डलक्षेत्रस्य जीवा भवति / अत्र विष्कम्भो योजनलक्षः, एष ईप्सितावगाहोनः क्रियते, ईप्सितश्चाय 526 षट् च कला 6 / एप उपरितनो राशिः संवर्ण्यते कलीक्रियत इत्यर्थः / एकोनविंशत्या गुण्यते, जातमिदं 9994 / अत्र षट् कलाः क्षिप्यन्ते, जातमिदं 10000 / विष्कम्भराशिरपि संवर्ण्यते एकोनविंशत्या, जातमिदं 1900000 / एषोऽवगाहराशिरमुतः पात्यते, जातमिदं 1890000 / पुनरवगाहराशिना गुण्यते, जातमिदं 18900000000 / ततश्चतुर्भिगुण्यते जातमिदं 75600000000 / अस्य मूलं जीवा भवति, तच ग्राह्यं द्विसप्तचतुष्कनवपञ्चचतुष्ककैः, 1 (8629248) / 2 (814692) /