________________ 258 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 विष्कम्भा इत्यर्थः / तेषां चतुर्णामपि प्रथमं काण्डं महामन्दरतुल्यं धरणिमवगाद सहस्रप्रमाणमित्यर्थः। द्वितीयं काण्डं सप्तभिः सह ौीनं मन्दरात् षट्पञ्चाशत्सहस्रप्रमाणमित्यर्थः / तृतीयं काण्डमष्टाभिः सहभैीनं, मेरोः सकाशात् अष्टाविंशतिसहस्रप्रमाणमित्यर्थः / भद्रशालनन्दनवने महामन्दरे इव द्रष्टव्ये, धरण्यां भद्रशालवनम्, तदुपरि पञ्चशत्यां नन्दनमिति, तत उपरि अर्धषट्पञ्चाशत्सहस्राण्यारुह्य सौमनसम् , पञ्च शतानि नन्दनवनेनाक्षिप्तानि द्वितीयकाण्डस्यातोऽर्धपट्पञ्चाशत्सहस्राणि गत्वा तत् पञ्चशतविस्तीर्णमेव भवति / ततोऽष्टाविंशतिसहस्राण्यारुह्य पाण्डुकवन चतुर्नवतिचतुःशतविस्तीर्णमेवावसेयम्, तथोपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण यथासङ्ख्यमत्राभिसम्बन्धः, उपरि मस्तके यो विष्कम्भः स महामन्दरेणेपां तुल्यः, सहस्रप्रमाण इत्यर्थः, अधश्च योऽवगाहः सोऽपि महामन्दरेण तुल्यः, योजनसहस्रमानः, एपां भवति / चूलिका चैषां महामन्दरचूडासदृशी प्रमाणतोऽवसातव्येति / अधुना लायवार्थ द्वीपादीनां परिधिगणितपदजीवाद्यानयनाय करणोपाया भण्यन्ते / तत्रेप्सितवृत्तक्षेत्रपरिधेरानयनायेदं करगसूत्रम्भा०-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, स विष्कम्भपादाभ्यस्तो गणितम् / इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुपरिध्यानयना ___ गुणस्य मूलं ज्या / ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भादिकरणम् ___च्छोव्यं शेषामिपुः / इपुवर्गस्य पगुणस्य ज्यावर्गयुतस्य मूलं धनुःकाष्ठम् / ज्यावर्गचतुर्भागयुक्तमिपुवर्गमिपुविभक्तं तत्प्रतिकृतिवृत्तविष्कम्भः / उदग्धनुःकाष्टादू दक्षिणं शोध्यं शेषाधु बाहुरिति / अनेन करणाभ्युपायेन क्षेत्राणां वैताट्यादिपर्वतानामायामविष्कम्भज्येपुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि // 11 // टी०-विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, विष्कम्भो योजनशतसहत तल्लक्षगुणं, कृतिः वर्गो भवति, पुनर्दशगुणा क्रियते, पश्चान्मूलमानीयते, तद् वृत्तक्षेत्रपरिक्षेपः, तत्र योजनराशौ लब्धव्ये व्येकषद्विद्विकसप्तकैः क्रमेण मूलमानेतव्यम्, ततोऽयं राशिरधस्तात् जातः 632454 / एपोऽर्धन छिन्नो योजनविलक्षपोडशसहस्रसप्तविंशद्विशतसङ्ख्यो भवति, शेपमुपरीदं 484471 चतुर्भिर्गुण्यते, चतुर्गव्यूतं योजनं यतः, ततो गंव्युतराशिर्भवति / पडादिराशिना भागो हार्यः, लब्धमिदं गव्यूतत्रयं शेपमुपरीदं 40522 / धनुःसहस्रद्वयेन गुण्यते जातः ततो धनुराशिः / पडादिराशिना भागलब्धमिदं 5 ‘कृतस्य ' इत्यधिको घ-पाठः / 2 'सर्वक्षेत्राणां सर्वपर्वता.' इति घ-पाटः। 3 (1937884 ) / 4' यतस्ततो ' इति पाठः / 5 (81014000) /