________________ देहादयः सूत्र 11] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 257 ____ भा०--विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ / एवमेवोत्तरेणोत्तराः कुरवः चित्रकूटविचित्रउत्तरकुरुवि - कूटहीना द्वाभ्यां च काञ्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः // विदेहा मन्ददेवकुरुत्तरकुरुभिर्विभक्ताःक्षेत्रान्तरवद् भवन्तिपूर्वे चापरे च / पूर्वेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः, अपरेऽप्येवंलक्षणाः षोडशैव / तुल्यायामविष्कम्भावगाहोच्छायौ दक्षिणोत्तरी वैताढ्यौ, तथा हिमवच्छिखरिणौ महाहिमवद्रुक्मिणौ निषधनीली चेति // _____टी-विष्कम्भेणेत्यादि सुज्ञानम् / इदानीमुत्तरकुरूनतिदिशति-एवमेवोत्तरेणोतराः कुरवः काश्चनकनगशतेनोपशोभिताः, किन्तु चित्रविचित्रकूटाभ्यां हीनास्ततस्थाने च काञ्चनाभ्यां तत्प्रमाणाभ्यामेव यमकपर्वताभ्यां शीतानदीकूलगाभ्यां विराजिता इति // विदेहा इत्यादि / मन्दरगिरिणा देवकुरूत्तरकुरुभिश्च विभक्ता व्यवच्छिन्नमर्यादाः स्थापिताः,एकक्षेत्रान्तःपातिनोऽपि क्षेत्रान्तरवद् भवन्ति। तत्रत्यमनुष्यादीनां परस्परेण गमनागमनाभावात् / अतः पूर्व चापरे च उभये विदेहा भवन्ति, मेरोः पूर्वतः पूर्वे, अपरतोऽपरे, तत्र पूर्वेषु विदेहेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः चक्रवर्तिनां विजेतव्या भोक्तव्याच, नदीभिर्गिरिभिश्च विभक्ताः परस्परेणागम्याः क्षेत्रविशेषा इत्यर्थः / अधुनाऽपरानप्यतिदिशति-अपरेऽप्येवंलक्षणाः षोडशैव चक्रवर्तिविजयाः सरिगिरिविभक्ताः परस्परासम्भाव्यमानगमना इति / अधुनोत्तरभागवर्तिपर्वतान् प्रमाणतो निर्दिशति-तुल्यायामेत्यादि भाष्यमेव सुज्ञानम् / भा०-क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीषण्डपुष्करार्धकाः महामन्दरात पञ्चदशभिर्योजनसहनेहीनोच्छायाः / षड्भिर्योजनशतैर्धरणिक्षुद्रमन्दर5 तले हीनविष्कम्भाः / तेषां प्रथम काण्डं महामन्दरतुल्यम् / द्वितीयं सप्तभि_नम् / तृतीयमष्टाभिः। भद्रशालनन्दनवने महामन्दवत् / अर्धपट्पञ्चाशद् योजनसहस्राणि सौमनसं पञ्चशंतविस्तृतमेव / ततोऽष्टाविंशतिसहस्राणि पाण्डुकं चतुर्नवतिचतुःशतविस्तृतमेव भवति / उपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्द्रेण / चूलिका चेति // टी०-क्षुद्रमन्दरास्त्वित्यादि // धातकीपण्डे द्वौ पुष्करद्वीपार्धे द्वौ इत्येवं चत्वारोऽपि क्षुल्लकमन्दरा भवन्ति जम्बूद्वीपमध्यवर्ति मेरोहीनप्रमाणत्वात् / तच्चादर्शयतिमहामन्दात् पञ्चदशभिर्योजनसहौहीनोच्छाया:-चतुरशीतियोजनसहस्रोच्छिताः / तथा षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः चतुःशताधिकनवसहस्र स्वरूपम् १'स्परागमाः' इति घ-पाठः / २'शतं विस्तृतम्' इति घ-पाठः /