________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः विदेहक्षेत्रेपुरर्धहीनो नीलेपुर्भवति, सोऽर्धहीनो रम्यकेपुरित्येवं यावदैरावतक्षेत्रमिति // अधुनैषां हिमवदादिकुलपर्वतानां अवगाहोच्छ्यान् प्रतिपादयतिहिमवदादीनां . भा०-पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्यो हि मानम् मिवान् / तद्विमहाहिमवान् / तद्विनिषध इति / / टी-पञ्चविंशतीत्यादि उच्छायचतुर्भागोऽवगाहः सर्वेषाम्, उच्छायो योजनशतं अवगाहः पञ्चविंशतिर्योजनानि हिमवतः / एतदेव द्विगुणमुच्छ्यावगाहप्रमाणं महाहिमवतः, योजनशतद्वयमुच्छ्यः पञ्चाशदवगाहः / एतद्विगुणं निपधस्य, चत्वारि शतान्युच्छ्रायः शतमवगाह इति। नीलादीनां निषधादियदुच्छ्यावगाहाविति // इदानीं जीवाधनुःकाष्ठे कथयति __ भा०--भरतवंशस्य योजनानां चतुर्दश सहस्राणि चत्वारि भरतस्य ज्यामानादि दे शतान्येकसप्ततीनि च षड्भागा विशेषोना (14471,,) ज्या। इपुर्योक्तो (52666) विष्कम्भः, धनुःकाष्ठं चतुर्दश रहस्राणि शतानि पश्चाष्टाविंशानि एकादश च भागाः साधिकाः(१४५२८११) / टी०-- भरतवंशस्येत्यादि भाष्यम् / हिमवत आराद्भागवर्तिनी जीवेयं प्रतिपत्तव्या, धनुःकाष्ठं च, इषुयथोक्तो विष्कम्भ इति प्रागभिहितोऽपि पुनरिहोपन्यस्तः इषुरिति, तत्रैवं नोक्तस्तस्मात् पुनरुपन्यास इति / भा०-भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताठ्यपर्वतः षड् योजनानि सक्रोशानि धरणिमवगाढः पश्चाशद् विस्तरतः वैताव्यो देवकुरवश्व पञ्चविंशत्युच्छ्रितः // विदेहेपु निषधस्योत्तरतो मन्दरस्य दक्षि __णतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवः। टी---भरतक्षेत्रमध्य इत्यादि / वैताठ्यपर्वतो दक्षिणोत्तरार्धविभागकारी विद्याधराधिवासः पञ्चाशत्पष्टिनगरयुक्तदक्षिणोत्तरश्रेणिद्वयालंकृतो गुहाद्वयोपशोभितश्च प्रतिपत्तन्यः। विदेहेष्वित्यादि / मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवो भवन्ति, ते च काश्चनपर्वतकशतेनोपशोभिताः हृदपञ्चकोभयपर्यन्तव्यवस्थितैर्दशभिर्दशभिः काञ्च नपर्वतैर्विभूषिताः, शीतोदानदीपूर्वापरगौ निपधाचतुस्त्रिंशाष्टशतसचतुःसप्तभागान्तरौ चि. त्रविचित्रकूटौ योजनसहस्रोच्चौ तावदधोविस्तृतौ तदर्धमुपरि ताभ्यां चोपशोभिता देव कुरवः। ते च १०तवर्ष' इति घ-पाठः / २'विशेषतो' इति घ-पाठः / 3 4 कोशाः-१ योजनम् /