________________ 208 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः सूत्रम्--लब्धिप्रत्ययं च // 2-48 // भा०-लब्धिप्रत्ययं च वैक्रियं शरीरं भवति / तिर्यग्योनीन लब्ध्या वैकियसद्भावः मनुष्याणां चेति // 48 // ____टी०-लब्धिप्रत्ययं च वैक्रियं चेत्यादि / चशब्दादुत्कृष्टं वैक्रियपुरचीचरद् भाष्यकारः / तपोविशेषजनिता लब्धिस्तत्प्रत्ययं-तत्कारणमेतच्छरीरं भवत्यजन्मर मिदमित्यर्थः / अथवा गर्भजन्मनामेवेदमुत्तरकालं भवतीति न कश्चिद् दोषः / लब्धिप्रत्यवैक्रियशरीरप्रतिविशिष्टस्वामिनिर्दिदिक्षया आह-तिर्यग्योनीनां मनुष्याणां चेति / सामान्याभिधानेऽपि लब्धिप्रत्ययवचनाद, भूयसां गर्भव्युत्क्रान्तितिर्यङ्मनुष्याणामिदं द्राः व्यम् , तपोविशेषानुष्ठानाद्, वायोश्च वैक्रियं लब्धिप्रत्ययमेव, शेषतिर्यग्योनिजानां मध्ये, नान्यस्येति // 48 // अत्राह-अथाहारकं किंलक्षणमिति ? / अत्रोच्यतेसूत्रम्-शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधर एव / / 2-49 // भा०-शुभमिति शुभद्रव्योपचितं शुभपरिणामं चेत्यर्थः / विशुद्धमिति आहारकस्य स्व. विशुद्धद्रव्योपचितं असावद्यं चेत्यर्थः / अव्याघातीति आहारक रूपम् शरीरं न अव्याहन्ति न व्याहन्यते चेत्यर्थः // ____टी-इदमपि लब्ध्यपेक्षमेव, किन्तु वैक्रियादयं विशेषः शुभादिकृतः, अजन्मजन च सामान्यम् / शुभमिति शुभद्रव्योपचितमित्यादि / शुभानि द्रव्याणीष्टवर्णगन्धरसस्पर्शभाञ्जि तैः प्रचितं-निवर्तितम्, शुभः परिणामश्चतुरस्र संस्थानमाकारो यस्य तच्छुभपरिणामं चाहारकं भवति / चशब्दः समुच्चये / विशुद्धद्रव्योपचित शुभपरिणामं चेति / विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः / स्वच्छस्फटिकशकलमिव सकलवस्तुप्रतिबिम्बाधारभूतं विशुद्धद्रव्योपचितमुच्यते / अपरे वर्णयन्ति-विशुद्धं शुक्लमत्र विवक्षितम्, असावधमिति अवयं-गर्हिते-पापं सहावयेन सावद्यम्, न सावद्यमसावद्यम्, सावधं हिंसादिप्रवृत्तिर्यसात, इदं न हिंसादौ प्रवर्तते, न च हिंसादिप्रवृत्तितः उत्पद्यते, तस्माद विशुद्धमसावद्यमाहारकमित्युच्यते / अव्याघातीति व्याहन्तुं शीलमस्य व्याघाति, न व्याघाति अव्याघाति, आहारकशरीरं न किञ्चिद् व्याहन्ति-विनाशयति, न व्याहन्यते इति, न च तदन्येन पदार्थेन व्याहन्तुं शक्यते / कथं पुनरिदमेकेन यत्नेनोभयं लभ्यते कर्ता कर्म चेति ? कुल्ल्युटो बहुलाभिधानात् / निर्वृत्तिकार्यहेतुसमुच्चयार्थश्वशब्दः // 1 सूत्रे तैजसमपि ' इत्यधिकं क-ख-पुस्तकयोः /