________________ सूत्र 49]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 209 . भा०-तच्चतुर्दशपूर्वधर एव / कस्मिंश्चिदर्थे कृच्छ्रेऽत्यन्तसूक्ष्मे सन्देहमापन्नो निश्चयाधिगमार्थ क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौआहारकस्य दारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्ययमेवोत्पाद . यति / पृष्ट्वाऽथ भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्मजत्यन्तर्मुहूर्तस्य // ___टी-तदेवंविधमाहारकं चतुर्दशपूर्वधर एव-लब्धिप्रत्ययमेवोत्पादयतीति क्रियोपरिष्टादभिधास्यते / चतुर्दशेति सङ्ख्या , पूर्व प्रणयनात् पूर्वाण्युच्यन्ते, तानि धारणा .. ज्ञानेनालम्बत इति चतुर्दशपूर्वधरः, स च द्विविधः-भिन्नाक्षरोभिन्नाचतुर्दशपूर्वधर क्षरच, ते च यस्यैकैकमक्षरं श्रुतज्ञानगम्यपर्यायैः सत् कारिकाभेदेन भिन्नं वितिमिरतामितं स भिन्नाक्षरः, तस्य च श्रुतज्ञानसंशयापगमात् प्रश्नाभावस्ततश्चाहारकलब्धितामपि नैवोपजीवति विनालम्बनेन, स एव श्रुतकेवली भण्यते, शेषः करोत्यकृत्स्नश्रुतज्ञानलाभादवीतरागत्वाच, अत एव केचिदपरितुष्यन्तः सूत्रमाचाकृतन्यासादधिकमधीयते " अकृत्स्नश्रुतस्यर्दिमतः " इत्यनेन विशेषणकलापेनेति, एवंविधश्चतुर्दशपूर्वधर एव सञ्जातलब्धिस्तन्निवर्तयति, नान्यः श्रुतविदन्यो वा अवधारणफलम् / किमर्थं पुनरसौ तां लब्धिमुपजीवतीत्याह-कस्मिंश्चिदर्थे इत्यादि / श्रुतज्ञानगम्ये कस्मिंश्चिदेवार्थेऽत्यन्तगहने सन्दिहानस्तदर्थनिश्चितये विदेहादिक्षेत्रवर्तिनोऽर्हतश्चरणकमलाभ्याशमौदारिकेण वपुपा न खलु पार्यते गन्तुमित्यवबुध्य सञ्जातर्द्धि विशेपो लब्धिप्रत्ययमेव नान्यप्रत्ययमुपजनयति आहारकशरीरं, गत्वा च तत्राशु भगवन्तमालोकितसमस्तलोकालोकमालोक्याभिवन्ध पृष्ट्वा च विच्छिन्नसंशयः परिभूतपाप्मा पुनरागत्य तमेव देश यत्र प्राग गच्छतौदारिकमनाबाधबुद्धया न्यासकवनिक्षिप्तं स्वप्रदेशजालावबद्धं तदवस्थमास्ते, ततो विहायाहारकमुपसंहारमानीयात्मप्रदेशजालं प्रागौदारिकमेवानुप्रविशति, एष चारम्भात् प्रभृत्या अपवर्षात् सर्वोऽन्तर्मुहूर्तपरिमाणः कालो भवतीति, प्रमाणं चास्यावरतो न्युनः पाणिरुकर्षण सम्पूर्ण इति // अथ तैजसकार्मणे कस्मिन् जन्मनि समुद्भवत इति नानयोर्नियमः, सर्वत्राप्रतिहतशक्तित्वात्, सर्वजन्मसु सहतैजसं कार्मणं वा स्यान्न तु लब्धितैजसम्, अतो लब्धिप्रस्तावमुपजीवन भाष्यकारः तैजसमपीत्याह तैजसे हेतुः भा०-तैजसमपि शरीरं लब्धिप्रत्ययं भवति / ___टी-तेजोविकारस्तैजसं सर्वस्योपलक्षणं रसायाहारपाकजननम् , तचावश्यं सर्वप्राणिविषयमभ्युपगन्तव्यम् , अन्यथा शरीरपदे तैजसशरीराणि बद्धान्यनन्तानि अनन्तोसर्पिण्यवसर्पिणीसमयराशिसमसङ्ख्यानि कालतः, क्षेत्रतोऽनन्तानन्ता लोकाः, द्रव्यतः सिद्धेभ्योऽनन्तगुणानि सर्वजीवानन्तभागोनानि, किं पुनः कारणमनन्तानि ? तत्स्वामिनामा. __1 ' दृष्ट्वा च ' इति ख-पाठः, ' दृष्ट्वा' इति तु घ-पाठः / 2 'लब्धिसतीमपि ' इति प्रतिभाति /