________________ कामेण 210 तस्वार्थाधिगमसूत्रम् [ अध्यायः 1 नन्त्यादित्येष ग्रन्थः सर्वो विघटेत, लन्धिप्रत्यय एवाङ्गीक्रियमाणे सैजसवपुषि, अतो विष मानमपि सर्वासुमत्सु सहजमनादृत्य तैजसं लब्ध्यधिकारे लब्धिप्रत्ययमेवाचष्टे नेतरदिति / तैजसं शरीरं तैजसशरीरलब्धिकारणसमुद्भूतशक्ति भवति तपोविशेषानुष्ठानात् कस्यचिदेव जातुचित, न सर्वस्येति / इदानीं सकलशरीरबीजभूतं कार्मणं नियमेन दर्शयन्नाह___ भा०-कार्मणमेषां निवन्धनमाश्रयो भवति / तत्कर्मत एव भवतीति धन्धे पुरस्ताद् वक्ष्यति / कर्म हि कार्मणस्य कारणमन्येषांप शरीराणामादित्यप्रकाशवत् / यथाऽदित्यः स्वमात्मानं प्रका शयति अन्यानि च द्रव्याणि, ने चास्यान्यः प्रकाशकः, एवं कार्मणमात्मनध कारणमन्येषां च शरीराणामिति // टी-कार्मणमेषां निबन्धनमाश्रयो भवतीत्यादि / कर्मणो विकारः कार्मण, तदेषामौदारिकादीनां शरीराणां निबन्धनं बीजमाश्रयः सकलशक्त्याधारत्वात् कुडथमिव चित्रकर्मणो भवति / आमूलमुच्छिन्ने तु भवप्रपञ्चप्ररोहबीजे कार्मणे वपुषि न पुनर्विमुक्ति भाजः शरीरकाणा(१)मधियन्त्यपि प्रक्षालितसकलकल्मषाः, तच्चैवंविधं कार्मणं कर्मभ्य एव झानावरणादिभ्यो जायते न पुनरन्यत् तस्य कारणमस्ति, ज्ञानावरणादिकं चाष्टमेऽध्याये बन्धाधिकारे पुरस्तात् अग्रे वक्ष्यति समूलोत्तम् , एतदेव चार्थजातं स्पष्टयन्नाह-कर्म हीत्यादि। यस्मात् ज्ञानावरणादिकर्म कार्मणस्य कारणं तदात्मकत्वात् अन्येषां चौदारिकादिशरीराणाम्, न च स्वात्मनि क्रियाविरोधः, आदित्यप्रकाशवत् / प्रकाशं दृष्टान्ततयोपन्यस्य विवरणकाले पथाऽदित्य इत्याह तदेतत् कथम् ? न खलु सर्वथाऽऽदित्यात् प्रकाशो व्यतिरिक्त इत्यभ्युपेतुं शक्यम् , तेन प्रकाशस्वभावः प्रकाशमयः आदित्य इत्यनेन न कश्चिद् विशेषः, आदित्यप्रकाशवदादित्यवद् वाभिहितः, स यथा तिग्मांशुः स्वमण्डलं प्रकाशयत्यन्यानि च स्तम्भकुम्भादिद्रव्याणि, न चान्यपदार्थः प्रकाशकः सवितृमण्डलस्यानवस्थाप्रसक्तरभ्युपेतुं शक्यः॥ ननु च घटायप्रकाशात्मकत्वात् प्रकाशयतु भास्वान्, मृर्तिस्तु प्रकाशात्मिकैव तस्याः कि प्रकाश्यते तत्स्वभावत्वादिति ? / उच्यते-यद्यपि प्रकाशस्वभावा मूर्तिस्तथापि सा प्रकाश्यैव भवति, प्रमाणवत् , प्रमाणं हि स्वपररूपप्रकाशकारीप्यते, अन्यथा चानेकदोषापत्तिः स्यात् / एवं कार्मणमित्यादि / एवमेतेनादित्यप्रकाशनिदर्शनेन कार्मणं शरीरमात्मनश्च स्वरूपस्य कारणमन्येषां चौदारिकादिवपुषाम् , न पुनर्ज्ञानावरणादिकर्मव्यतिरिक्तमस्य कारणमन्वेषित कार्मणतजस- व्यम् , कर्ममात्रत्वात् कर्मस्वभावत्वात् कार्मणस्येति / एतयोश्च तैजसप्रमाणम् कार्मणयोरवरतः प्रमाणमगुलासंख्येयभागः उत्कृष्टतश्वौदारिकशरीर १'परस्ताद्' इति घ-पाठः। 2 न चास्याम्यैः प्रकाशा' इति ख--पाउः। 3 विभक्तिभाजः इति ख-पाठः। ४'मूलोत्तरभेदम् ' इति ख-पाठः।