________________ सूत्र 19 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 211 प्रमाणे केवलिनः समुद्घाते लोकप्रमाणे वा भवतः मरणान्तिकसमुद्घाते वा आयामतो लोकान्ताल्लोकान्तायते स्यातामिति // भा०-अत्राह-औदारिकमित्येतदादीनां शरीरसंज्ञानां कः पदार्थ इति / अत्रोच्यते-उद्गतारमुदारम् , उत्कटारमुदारम् , उद्गम औदारिकस्य वारणा एब वोदारम् , उपादानात् प्रभृति अनुसमयमुद्गच्छति वर्धते जीर्यते शीर्यते परिणमतीत्युदारम्, उदारमेवौदारिकम् , नैवमन्यानि / यथोद्गमं पा निरतिशेष, ग्राह्यं छेद्यं भेद्यं दाह्यं हार्यमित्युदाहरणादौदारिकम् , मैवमन्यानि, उदारमिति च स्थूलनाम। स्थूलमुद्तं पुष्टं वृहन्महदिति, उ. दारमवौदारिकम् / नैवं शेषाणि / तेषां हि परं परं सूक्ष्ममित्युक्तम् (अ०२, सू०३८)॥ टी-संशयानः पृच्छति, औदारिकमिति पदमादौ येषां क्रियादिपदानां तेषाम तदादीनां कोर्थोत्र विवक्षितः ? एतदुक्तं भवति-किमेता औदारिकादिसंज्ञा अर्थवत्ता जबुगता विधीयन्ते आहोस्विद् यच्छयेति ? / अन्वर्थसंज्ञा एता न यादृच्छिक्य इति भाष्यकदादर्शयति उद्गतारमुदारमित्यादिना भाष्येण / अन्वर्थत्वाच्च संज्ञयैव लक्षणभेद पपति, पृथग्लक्षपाव्यवस्थानं वा, अत एवान्वर्थसंज्ञाविवरणावमन्यानीति प्रत्येकमन्यलक्षगच्यवच्छेदेनाम्यलक्षणाभिधानात, एभ्य एव विशेषेभ्यः शरीराणां नानात्वं सेत्स्यति // तुच शरीरप्रकरणप्रथमसूत्रे एतद् भाष्यं युक्तं स्यात्, इह तु प्रकरणान्ताभिधाने न किञ्चित् प्रयोजनं वैशेषिकमस्तीति / उच्यते-तदेवमयं मन्यते, तदेवेदमादिसूत्रमाप्रकरणपरितमाशेः प्रपञ्च्यते, अथवा प्रकरणान्ताभिधाने सत्यमेव न किश्चित् फलमस्त्यसूत्रार्थत्यादता क्षम्यतामिदमेकमाचार्यस्येति, तत्र उद्गतारमुदारम् इति / उद्गता-उस्कृष्टा आरा-छाया यस्य तद्गतारमुदारं प्रधानमित्यर्थः / तीर्थङ्करगणधरशरीराङ्गीकरणादेवमुच्यते, नहि तीर्थकरादिशरीरेभ्योऽन्यत् प्रधानतरमस्ति त्रिलोक्यां शरीरमिति / अथवा उत्करारमुदारम् / उत्कृष्टा आशा-मर्यादा-प्रमाणं यस्य तदुत्कटारमुदारम् , अवस्थितसातिरेकयोजनसहस्रप्रमाणत्वात् , अन्यच्चैवंविधं नास्ति // ननु वैकियमधिका योजनलक्षेति सत्यमेवमेतद् , अवस्थितं तन्न भवति, पञ्चधनुःशतप्रमाणमेवावस्थितं वैकियम् , औदारिकं पुनरवस्थितमेवमुच्यते / उद्गम एव वा उदारः, उद्गमनं उद्गमः-प्रादुर्भावः स एव चोदारशब्देनोच्यते / यत उपादानात् प्रभृतीत्यादि / उपादानं हि शुक्रशोणिवाद्यौदारिकस्य तद्ब्रह्णप्रभृत्येव चानुसमयमुद्गच्छति अविभज्यमानस्वरूपः कालविशेषः समयोऽभिधीयते, अतः प्रतिसमयमेव तदुत्तरामुत्तरां व्यवस्था स्वीयपर्याप्त्यपेक्षामुद्गच्छति-प्राप्नोति, न तदस्ति कालविवरं यत्रावस्थान्तरं न समासादयतीति एवं च भाष्यकारो दर्शयति-तत् वर्धते वयःपरिणामेनोपचीयमानमूर्ति प्रतिवेलमामाव्यते, जीर्यत इति जरामधिगच्छति वयोहानिमामोति, शीर्यत इति शिथिलसन्धि 'पारणा• ' इति घपाइः / / 'मविपक्षयमा• ' इति क-पाठः /