________________ 212 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 पन्धनमालम्बमानचर्ममण्डलमुपलक्ष्यते तदेव जातुचिदतः शीर्यत इत्युच्यते, परिणमतीति समन्ताजराभारविधुरमानमति परिपेलवग्रहणशक्तीन्द्रियग्रामं वलीवलयलेखाविचित्रमन्यदिवोपजायते, अतो मुहुर्मुहुरुद्गमनाद् उदारमेवौदारिकं स्वार्थे प्रत्ययविधानात् / नैवमन्यानीति, यथेदमौदारिकमेवंविधानेकविशेषणविशिष्टं न तथा वैक्रियाहारकतैजसकार्मणानि, नहि वैक्रियस्य जरसा विवृद्धया वा प्रतिक्षणं योगोऽस्त्यवस्थितत्वात् तथाऽऽहारकस्य, तैजसकार्मणयोस्तु सुतरां न समस्त्यङ्गोपाङ्गाद्यनिवृत्तेः / अथवाऽन्यथा व्युत्पत्तिः-यथोद्गमं पानिरतिशेषमित्यादि भाष्यम् / यो य उद्गमो यथोद्गमं निरतिशेष निःशेषं निरतिशयं वा मांसा. स्थिस्नायवाद्यवबद्धत्वात् सर्वमेव तुल्यम् , ग्राह्यादिधर्मयोगाद् गृह्यते पाण्याद्यवयवैरिन्द्रियैर्वा, छिद्यते परश्वादिना, भिद्यते नाराचादिना, दह्यतेऽग्निभास्करादिना, हियते महावायुवेगेनेत्येवमादिभिर्विदारणादुदारमुच्यते, पृषोदरादित्वाच्च संस्कारयत्युदारणादौदारिकम् / नैवमन्यानीति सुज्ञानम् / नहि वैक्रियादिषु मांसास्थिग्राह्यादयो विशेषाः सन्ति / अथवाऽन्यथा उदारमिति चेत्यादि / चशब्दोऽथवेत्यस्यार्थे / स्थूलस्याभिधानमुदारमिति स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदुदारं स्थूल मिति / अस्यैव पर्यायान् सुखावबोधार्थमाख्यातिस्थूलमुद्गतं पुष्टं बृहन्महदित्युदारमेवौदारिकम् / स्थूलत्वाद् भेण्डवत् ऊवं गतमुच्छ्रा. यमुद्गतमतिप्रमाणत्वात् , पुष्टं शुक्रशोणितादिप्रचितत्वात् , बृहत् प्रतिक्षणं वृद्धियोगात्, योजनसहस्रप्रमाणावस्थितारोहपरिणाहत्वान्महत् , उदारमेवौदारिकमित्यनेन न तनियमः किन्तु प्रदर्शनमेतत् क्वचित् स्वार्थे क्वचिन्निवृत्ताद्यर्थेष्विति / नैवं शेषाणि वैक्रियादीनि / किं कारणम त आह-तेषां हि परं परं सूक्ष्ममित्युक्तं (2,38) यसात् तेषां वैक्रियादीनां परं परं प्राक सूक्ष्ममभिहितं तस्मान्नैवं शेषाणीति // भा०-वैक्रियमिति / विक्रिया विकारो विकृतिर्विकरणमित्यनर्थान्तरम् / _ विविधं क्रियते / एकं भूत्वा अनेकं भवति / अनेकं भूत्वा एक वैक्रियस्य विस्तरेण / " भवति / अणु भूत्वा महद् भवति / महच्च भूत्वाऽणु भवति / एकाकृति भूत्वा अनेकाकृति भवति / अनेकाकृति भूत्वा एकाकृति भवति / दृश्यं भूत्वा अदृश्यं भवति / अदृश्यं भूत्वा दृश्यं भवति / भूमिचरं भूत्वा खेचरं भवति / खेचरं भूत्वा भूमिचरं भवति / प्रतिघाति भूत्वा अप्रतिघाति भवति / अप्रतिघाति भूत्वा प्रतिघाति भवति / युगपञ्चैतान भावाननुभवति / नैवं शेषाणीति / विक्रियायां भवति, विक्रियायां जायते विक्रियायां निर्वय॑ते, विक्रियैव वा वैक्रियम् // ___टी०- वैक्रियमित्यादि भाष्यम् / प्राक तावत् सुखावबोधार्थ पर्यायानाचष्टे-विक्रिय विकारो विकृतिर्विकरणमित्यनान्तरम् / विविधा विशिष्टा वा क्रिया विक्रिया, तस्य भवं वैक्रियम् , प्रकृतेरन्यत्वं विकारः, विचित्रा कृतिर्विकृतिः, विविधं क्रियत इति विकरणम् व्याख्या