________________ सूत्रे 46-47] स्वापज्ञभाष्य टीकालङ्कृतम् 207 न्यायेन क्रियन्ते तस्मात् सोपभोगानि इति निगमनम् , कार्मणमपहायकं शेषाण्येवंविधेनोपमोगेन सोपभोगानीति // 45 // भा०-अत्राह-एषां पश्चानामपि शरीराणां सम्मूर्च्छनादिषु त्रिषु जन्मसु किंक जायत इति ? / अत्रोच्यते टी०-अत्राहेत्यादिः सम्बन्धग्रन्थः / अजानानः प्रश्नयति-एषामौदारिकादीनां वपुषां पश्चानामपि त्रिषु जन्मसु सम्मूर्च्छनादिषु किं शरीरं क जन्मनि जायते सम्भवत्युत्पद्यते वा ? / अत्रोच्यते सूत्रम्-गर्भसम्मूछैनजमाद्यम् // 2-46 // भा०-आयमिति सूत्रक्रमप्रामाण्यादौदारिकमाह / तद् गर्भे सम्मृर्छने वा जायते // 46 // ___टी-आदौ भवमाद्यं शरीरप्रकरणप्रथमसूत्रक्रमप्रामाण्यादौदारिकमाह, तद् गर्भे जन्मनि सम्मूर्च्छने वा जायते-सम्भवतीति, जनिः जन्मनि प्रत्येकमभिसम्बध्यते / गर्भ जातं गर्भाद् वा गर्भजमेवं सम्मूछेनजमपि, उक्तलक्षणे च गर्भसम्मूछने जन्मनामतो गर्भज न्मनां सम्मूर्छनजन्मनां च प्राणिनामौदारिकं तानद् भवति, न त्ववधारऔदारिकशरीरस्य - वामिन णमौदारिकमेव, तैजसकार्मणयोरपि तत्र सम्भवात् , लब्धिप्रत्ययवैक्रियाहा रकयोवो गर्भजन्मन्युत्तरकालभावित्वात् // ननु च भूते डविधानं तत् कथं भाष्यकारो विवृणोति जायत इति वर्तमानकालाभिधायिना शब्देनेति ? / उच्यते न दोषोऽयं यसाज्जातमुत्पन्नमुत्तरकालमपि पुनः पुनः पर्यायापेक्षया सम्भवतीत्युपआदारकममाणम् पन्न एव निर्देश इति / एतच्च शरीरं जघन्येनाङ्गुलासङ्ख्येयभागप्रमाणमुत्कर्षतो योजनसहस्रप्रमाणमपि // 46 // सूत्रम्-क्रियमौपपातिकम् // 2-47 // भा०-वैक्रियं शरीरमौपपातिकं भवति। नारकाणां देवानां वैक्रियस्वामिनः चेति // 47 // टी०–उपपातजन्मोपपातशब्देनोच्यते तस्मिन् भवमोपपातिकं वैक्रियं शरीरं, तन्निमित्तत्वादवधिवत् सहजम् , तच्च सामांन्नारकदेवानामेव न शेषाणाम् / द्विविधं च - तद्-भवधारकमुत्तरवैक्रियं च, तत्राद्यस्य जघन्येनाङ्गलासङ्ख्येयभागः वैक्रियप्रमाणम् / - प्रमाणम्, उत्कृष्टं पञ्च धनुःशतानि, उत्तरवैक्रियं जघन्येनाङ्गलसङ्ख्येयभागप्रमितमुत्कर्षेण योजनलक्षणप्रमाणमिति // 47 //