________________ 150 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 षष्ठी द्रष्टव्या / उपयोगेनोपलभ्यते इनियावत् / समुदायार्थस्त्वयम्-सामान्यविशेषावबोधदर्शनानिश्चीयतेऽस्त्यत्रात्मा यस्यामू सामान्यविशेषावबोधी, न चास्ति कश्चित् कचिज्जीवो यस्य न स्तः साकारानाकारोपयोगावित्यतोऽनपायीदं लक्षणमस्य जन्तोः, आगमश्वायम्-"सचजीवाणपि य णं अक्खरस्स अणंतभागो निच्चुग्घाडियओ" ( नन्दी० मू० 42 ) / सर्वजीवानामपीति अशेपसर्वकग्रहणेन संसारिणां परिग्रहः पृथिवीकायादीनाम् , अपिः सम्भावनायां, णमिति वाक्यालङ्कारार्थः, अक्षरमिति सामान्यविशेषरूपोऽवबोध तस्यानन्तभागोऽवबोधस्य नित्यमेव-सर्वदा उद्घाटः-प्रकाशो निरावरणः, यस्मात् सकलत्रैलोक्यान्तवर्तिनोऽपि हि पुद्गलाः कर्मतया परिणताः सन्तोऽपि न समावरीतुमलमेकस्यात्मनः सर्वात्मनाऽवबोधम् , यथा च नितान्तघनपटलपिहितेऽपि सवितुर्मण्डले ज्योतिर्लेशः कियानपि चकास्त्येव, न सर्वथैव प्रणश्यति तथाऽऽत्मनोऽप्यवबोधलेशः स्फुरत्येव कियानपि सर्वदा, यदि चावृणुयुस्ते पुद्गलाः सर्वात्मना ततो निजवितैव स्यादात्मनः, तस्माद् या च यावती च मात्राऽऽ वरतः प्रबोधस्य सर्वजीववर्तिनी स्वभावादेव निरावरणा समस्ति उपयोगस्य नित्यता स्य सा च सर्वजघन्योपयोगमात्रा प्रथमसमये सूक्ष्मनिगोदापर्याप्तानामेव - भवति, ततः परंतु सैवोपयोगमात्रा शेपैकेन्द्रियद्वित्रिचतुःपञ्चेन्द्रियभेदेन भिद्यमाना सम्भिन्नश्रोत्रत्वादिलब्धिकलापेन च लब्धिनिमित्तकरणशरीरेन्द्रियवामनः सापेक्षा प्रवर्धमाना नानारूपक्षयोपशमापादितवचित्र्याऽवग्रहादिभेदात् सवेक्षयमवाप्य सकलज्ञेयग्राहिणी परां विशुद्धिकाष्ठां समासादयति केवलज्ञानसंज्ञिताम् , अत एव जीवस्त्रभावचैतन्यविशेषाणां सर्वेषां प्रमाणाख्यानामुपयोगरूपाणां स्वसंवेद्यत्वमवश्यमभ्युपगन्तव्यम्, उत्तरकालं तदनुस्मारणोपपत्तेः, अनुस्मरणं हीदं स्वयमनुभूतस्यार्थस्य दृष्टं नान्यथा, तस्माज्ज्ञात्वा योऽनुस्मरत्युत्तरकालं स एक आत्माऽन्वयी प्रतिपत्तव्यः / न खलु ज्ञानस्मृती भिन्नपदार्थाधारे कचिद् दृष्टे, तस्मादस्त्येक आत्मेति, तथा परत्र हिताहितप्राप्तिपरिहारविषयां क्रियां दृष्ट्वा बुद्धिपूर्वकत्वानुमान स्वदेह इव, ताश्च बुद्धयः प्रमाण जीव इत्येकोऽर्थ इति / यथाऽऽह-"आया भंते! नाणे अण्णाणे ? गोयमा! आया सिय नाणे सिय अण्णाणे, णाणे पुण नियमा आया" ( भगवत्यां ) / बुद्धिरूपस्य चात्मनोऽनुमानगम्यत्वमवसेयम्, स्वदेहे च क्रिया बुद्धिपूर्वा स्वानुभवसिद्धा, तत्क्रियाजनिते च सुखदुःखे, रूपाधर्थज्ञानानि चानुभवसिद्धत्वात् प्रत्यक्षप्रमाणविपयत्वं बुद्धीनाम्, स एव चात्मेति, स्वदेहव्यापी स्वात्मा, परदेहव्यापी पर इति / तथा शरीरकारणयोः शुक्रोजसोधात्विन्द्रियाङ्गोपाङ्गादिपरिणामगतेरभिसन्धिमानाहानुमीयते, तथाऽऽहारपरिणामित्वात् तच्छवशरीर केनाप्यभिसन्धिमता कापि गच्छतोत्सृष्टं, स चोत्स्रष्टाऽऽत्मेति निश्चीयते, एवमयमुपयोग १सर्वजीवानामपि अक्षरस्यानन्तभागो नित्यमुद्घाटितकः / २'वा' इति ख-पाठः। 3 आत्मा भदन्त / ज्ञानं अज्ञानं ? गौतम | स्यात् ज्ञानं स्यात् अज्ञान, ज्ञानं पुनर्नियमादात्मा /