________________ सूत्र 8] स्वोपज्ञभाष्य-टीकालङ्कृतम् सम्भवमायोजनीयाः, क्रियावत्वं पर्यायोपयोगिता प्रदेशाष्टकनिश्चलता एवम्प्रकाराः सन्ति भू __यांसः। अपिः ममुच्चये / एवम्प्रकाराश्च अनादिपारिणामिका भवन्ति क्रियावत्व ". जीवस्य भावाः, धर्मादिभिस्तु समाना इत्यादिग्रहणेन सूचिताः। एवमादयोऽपीत्यादि भाष्यम् / एवम्प्रकारा-एवमादयः क्रियावत्त्वप्रकाराः, धर्मादिभिरिति कचिद् , पुद्गलद्रव्यं यथासम्भवमुपदर्शितमेव, तथा केचिदात्मन एव वैशेषिका आदिशब्देनाक्षिप्यन्ते पर्यायोपयोगितादयः / तुशब्दो विशेषकः / धर्मादिविशिष्टास्तत्समाश्च / इतिः परिसमाप्तौ। अयमादिग्रहणार्थस्यादिग्रहणेन सूचिताः इति गमयति विधृतमर्थमनेन ग्रन्थेन // ये जीवस्यैवेत्यादि ग्रन्थ आत्मन एवासाधारणा ये धर्मा जीवभव्याभव्यत्वलक्षणास्त इह सूत्रे स्वशब्देन यो यस्य वाचकः शब्दो जीवादिस्तेनैवोक्ता इति / एतेनादिशब्दस्य त्रितयपर्यन्तवर्तित्वं व्याख्यातम् , अन्यथा जीवत्वादीनि चेति सूत्रं स्यात् / मूत्रपर्यन्तवर्ती चशब्दः समुच्चये। सम्यक्त्वचारित्रादयो जीवस्य स्वतत्त्वं जीवत्वादयश्च स्वतत्त्वमिति / इत्येते पञ्च भावा इत्यादि भाष्यम् / इतिशब्दः सकलभावोपसंहारार्थः, एत इति प्रतिपदं ये उद्दिष्टा औपशमिकादयः पञ्चैवाऽन्यूनाधिका भावाः पर्यायान्तराण्यात्मनः त्रिपञ्चाशद्भेदा येषां ते त्रिपञ्चाशद्भेदा भवन्ति आत्मनः स्वतत्त्वं, द्विनवाष्टादिमूत्रे (अ० 2, सू०२) च सङ्ख्या प्राक नियता सेवानेनोपसंहृतेति / एते च भावविकल्पा जीवानां यथासम्भवमायोज्याः, न सर्वे सर्वेपामिति, क्षायिकपारिणामिकावेव सिद्धानाम् , औपशमिकवर्जा नारकतिर्यग्योनीनाम्, देवमनुष्याणां पञ्चापि, न त्वौपशमिकक्षायिके सम्यक्त्वचारित्रे वा युगपद् भवत इति, एवमयमात्मा परिणामैरेभिरौपशमिकादिभिर्युक्तः परिणामी द्रव्यमिति निश्वेतव्यः, नहि श्रद्धानादिलक्षणाः परिणामाः केनचिद् घटादिधूपलब्धपूर्वाः, तस्मादेषां भावानामवश्यं केनचिदन्वायना पदार्थन भवितव्यम् , स चात्मेति // 7 // . ' अधुना द्वितीयप्रश्नमतिबहुग्रन्थप्रतानव्यवच्छिन्न नुसन्दधान आह-किश्चान्यदिति / भावपश्चकमव्यापित्वान्न परितोपमाधातुमलमस्य श्रोतुः पश्यन्नाचार्यः सकलजीवपदार्थव्यापीदमव्यभिचारि त्रिकालविषयं लक्षणमात्मनो निर्दिदिक्षुः सम्बन्धयति भावपञ्चकाद् अन्यच्च-किं लक्षणमस्याव्यभिचारीति यदप्राक्षीत् तदिदमुच्यते सूत्रम-उपयोगो लक्षणम् // 28 // भा०-उपयोगो लक्षणं जीवस्य भवति // टी०–उपयोगो लक्षणं भवति जीवस्येत्येतावद् भाष्यमस्य सूत्रस्य / उपयोगः उपलम्भः, ज्ञानदर्शनसमाधिः ज्ञानदशनयोः सम्यक् स्वविषयसीमानुउपयोगस्य लक्षणता ल्लङ्घनेन धारणं समाधिरुच्यते, अथवा युञ्जनं योगः-ज्ञानदर्शनयोः __प्रवर्तन विषयावधानाभिमुखता, सामीप्यवर्ती योग उपयोगो नित्यसम्बन्ध इत्यर्थः / लक्ष्यतेऽनेनेति लक्षणम्, उपयोगेन लक्ष्यत इति / जीवस्येति कर्मलक्षणा इह १'सदृशाश्च ' इति स्व-पाठः।