________________ 390 तत्त्वार्थाधिगमसूत्रम् [अभ्यायः 5 पृथग्भूतरूपाणामत्यन्तभिन्नकालानां च नैकत्वं दृष्टम् , यो वाऽद्य जनित्वा प्रियते यश्च वर्षशत जीवित्वा मरणमनुभवति न तयोस्तुल्यकालता युक्ता, तथा न घटोत्पादकाल एव विनाशकालः, क्रियाफलानाश्वासप्रसङ्गात् , यदि घटरूपनिवृत्त्यनन्तरमेव घटस्य विनाशः ततः क्रियाफले घटे स्यादनाश्वासः, विनष्टेन तेन घटकायोंकरणात् , तस्माद् भिन्नकालावुत्पादविनाशौ / तथाऽर्थान्तरमुत्पादस्थितिभङ्गाः परस्परतः स्वलक्षणभेदात् , आत्मलाभात्मावस्थानात्महानिस्वभावाः खल्वेते, यत्र च स्वलक्षणभेदस्तत्रार्थान्तरता दृष्टा घटपटादिषु, यत्र चानान्तरता न तत्र स्वलक्षणभेदः, यथैकलक्षणवर्तिनि रूप इति / एवं भिन्नाभिन्नकालतो. त्पादादीनामर्थान्तरत्वमनर्थान्तरता च स्याद्वादप्रक्रियायां सकलप्रमाणाविरोधिनी सिध्यति, नैकान्तवादेषुत्पादादयः सम्भवन्ति, भेदाभेदादिलक्षणानभ्युपगमात् / तस्मादवस्थितमिदम्उत्पादव्ययध्रौव्ययुक्तं सदिति // 29 // एवं प्रपञ्चतः संल्लक्षणमुपपाधोत्तरसूत्रसम्बन्धाय ग्रन्थमुपचिक्षेप भाष्यकार: भा०-अत्राह-गृह्णीमस्तावदेवंलक्षणं सदिति, इदं तु वाच्यं-तत् कि नित्यमाहोस्विदनित्यमिति ? / अत्रोच्यते टी-अत्राहेत्यादि / अत्रावसरे परः प्रश्नयति, प्रतिपादितसल्लक्षणानुमोदनाद्वारेण गृहीमस्तावदेवंलक्षणं सदित्येवंविधस्य सत्त्वमनुमन्यामहे युक्त्यागमभाजः, तावच्छब्दः प्रक्रमावद्योतनार्थः, पूर्वमेव सत्त्वं निश्चयम् , निश्चिते सत्वे पचानित्यताऽनित्यता च चिन्त्या, एवं लक्षणमस्येत्युत्पादादित्रययोगमुल्लिङ्गयति / इतिशब्दो हेत्वर्थः / यस्मात् सत् तस्मात् इदं तु वाच्यं-तत् किं नित्यमाहोस्विदनित्यमिति ? तुशब्दस्तस्मादित्यस्यार्थमभिधत्ते, तदिति सतः परामर्शः, तत् सत् किं नित्यमनित्यमिति, सप्तसु विकल्पेषु सति सम्भवत्सु प्रश्नद्वयोपन्यासः किमर्थ इति चेत्, उच्यते-द्रव्यास्तिकनयपर्यायास्तिकसम्परि ग्रहार्थः, तत्सम्परिग्रहाच शेषविकल्पसूचनमवसेयम् , कुतः पुनरियउत्पादादेर्नित्या. मारेका प्रष्टुः 1 उच्यते-सतां नित्यानित्यत्वदर्शनात् , सद व्योमादि नित्यत्वे नित्यं दृष्टं सच्च घटादि अनित्यमतः सन्देहः / अथवा आदाविदमुक्तम्-'नित्यावस्थितान्यरूपाणि" (अ० 5, सू० 3) इति तत्रैवं मन्यते-न सर्व सन्नित्यमरूपग्रहणात् रूपवतस्त्वनित्यत्वमर्थादतो न सत् सर्वे नित्यं नाप्यनित्यमितीष्यतेऽवस्थित्यंशाङ्गीकरणेन रूपवदपि नित्यम् / यथाऽऽह भगवान्-“से जहा णामए पंचत्थिकाया सिया" इत्यादि सूत्रम् // अन्यथा तूत्पादव्ययधौव्ययुक्तं सदित्यव्यापि सल्लक्षणं स्यात्, अत इदं तु वाच्यम्-तत् किं सर्वथा नित्यमाहोस्वित् स्थित्यंशसमाश्रयणेनैव नित्यमिति ? / आचार्यस्तु स्थित्यंशमभिप्रेत्याह-अत्रोच्यते // १'सल्लक्षण ' इति ग-पाठः / 2 अथ यथा नाम पञ्चास्तिकायाः स्यात् /