________________ सूत्र 29] स्वोपज्ञभाष्य-टीकालङ्कृतम् न्तरमेव विनश्यतीति, अयुक्तमिदम् , प्रतिज्ञामात्रत्वात् , वयमपि ब्रुमः-स स्वहेतुरेव तादृश उपजायते येन कालान्तरमवस्थाय विनश्यतीति, अत्र च पक्षे प्रत्यक्षाद्यपि प्रमाणं सहायीभवति // ननु च निष्कारणविनाशवादिनामियं युक्तिः-" नष्टा चेन्नाशविघ्नः कः ? न चेन्नैव विनयति" इति, प्रतिकृतविधानैषा युक्तिः, “प्रागभूतात्मलाभत्वान्नाशः कारणवान् भवेत्" इति / स्वभावश्च वस्तुनो धर्मः परिणतिविशेषः, स च कश्चित् सादिवर्णादिपरिणामः, कश्चिदनादिः सत्तामूर्तत्वामूर्तत्वापरिणाम इति, अतोऽनेकान्तेनैव यो यत्स्वभावः स सर्वदा तत्स्वभाव एव कदाचिन्नश्यति कदाचिदवतिष्ठते कदाचिदुत्पद्यत इत्यलमतिप्रसङ्गेन / स्थितमिदम्-प्रायोगिकोऽप्यस्ति विनाश इति / ऐतेऽवस्थित्युत्पादविनाशास्त्रयोऽप्येककालाः विभिन्नकालाश्च परस्परतोऽनर्थान्तरमर्थान्तरं च, तत्रोत्पादविनाशयोरे. ककालतायां सिपाधयिषितायां स्वात्मत्वापृथग्भावः कारणम् , नहि उत्पादविनाशयोः स्वास्मा भिद्यते, यथैकस्मिन्नेकक्षणवर्तिनि सैंपे विभागाभावात् स्वात्मलाभकाल एवैकः कालो नान्यः समस्ति, यच्चैककालं न भवति तदेकमपि नियमेन न भवति, यथा गवाश्वयोजन्मविनाशाविति / एवमुत्पादविनाशयोरेककालता, एवमुत्पादविनाशाभ्यां द्रव्यमभिन्नकालं साध्यम्, तथोत्पादविनाशौ द्रव्यादभिन्नकालौ ताभ्यामेव हेतुदृष्टान्ताभ्यां वाच्यौ // ननु चैकान्तवादी स्वात्मत्वापृथग्भूतत्वमुत्पादविनाशयोन प्रतिजानीते, तत्प्रसाधनाय परिकरः सर्पद्रव्यस्यात्मन्युत्पतनाकारणोत्पादः, तस्यैवात्मनि पतनाकारेण विगमः, सर्पद्रव्यात्मैवोभयाकारः नहि सर्पात्मा भिद्यते, न चेद् भिद्यते ततः सर्पस्वभावतैव, अत. एवानन्तरताऽपि ग्राह्या, अनर्थान्तरमुत्पादविनाशौ परस्परावधिको, तत्प्रतिपत्तेरभिन्नकालत्वात् , तस्योत्पादस्यारम्भो विशिष्यते अभिन्नकालत्वेन / केन सहाभिन्नकाल इति चेत् , सामर्थ्याद् विनाशेन,यस्माद् विनश्यतो हि योऽन्त्यक्षणो यश्चोत्पादस्याद्यक्षणस्तदेतावुत्पादविनाशावेककालावनोन्तरं च, यदि चान्यो विनाशकालः स्यात् पूर्वस्यान्यथोत्पादकालः स्यादुत्तरस्य, ततः प्रागेतनं विनष्टमुत्तरमनुत्पन्नम्, एवं च वस्तुशून्यः कालो भवेनिजिं चोत्तरमुत्पद्येत, तस्मादभिन्नकालावनान्तरं च ताविति / यथैकक्षणवर्तिनो रूपस्यैकत्वादेव तत्प्रतिपत्त्यभिन्नकालतेत्येतत् प्रतिपादयति / अन्यस्य ह्यन्येन भिन्नकालता सम्भाव्येत, न पुनस्तस्य तेनैवेति वाक्यार्थः / एवमितरत्रापि द्वयेऽनन्तरता भावनीया, हेतुदृष्टान्तौ तु तावेव / नैगमनयाभिप्रायेण तूत्पादविनाशद्रव्याणां भिन्नकालता, उत्पादो हि प्रागभावः, स च द्रव्यधर्मत्वाद् द्रव्यवृत्तिः, प्रध्वंसाभावोऽपि विनाशः सोऽपि द्रव्यधर्म एव, द्रव्यमपि द्रव्यात्मरूपमजहत् स्वात्मनि वर्तते, ततश्चोत्पद्य कश्चित् कालं स्थित्वा प्रध्वंसाभावाद् विनश्यति, एवं भिन्नकालाः प्रत्येकात्मकालवृनित्वात् परस्परविभिन्नात्मानोर्थान्तरभूता इतियावद, पटव्योमादीनां चात्यन्त 1. सादिपरिणामः' इति क-पाठः / 2 'एतेन च ' इति क-ख पाठः। 3 'स्वत्मतत्वा' इति क-पाठः / ४'रूपेण ' इति क-पाठः। 5' प्रध्वंसद्' इति ग-पाठः /