________________ 309 सूत्राणि 29-31] स्वोपजभाष्य-टीकालङ्कृतम् भ्यश्च गर्भव्युत्क्रान्तिभ्यः सम्मूछेनजेभ्यश्च ये शेषाः एकद्वित्रिचतुष्पश्चेन्द्रियास्ते सर्वेऽपि तिम्रयोनिव्यपदेशभाजो भवन्ति / देवादिवत् तदाधार निर्देश इति चेत्, न, सर्वलोकव्यापिस्वात्, तिर्यग्लोके चैते भूयांस इति तिर्यग्योनिसंज्ञा प्रतिपत्तव्येति // 28 // भा०--अत्राह-तिर्यग्योनिमनुष्याणां स्थितिरुक्ता / अथ देवानां का स्थितिरिति / अत्रोच्यते टी०-अत्राह-तिर्यग्योनिमनुष्याणामित्यादिपातनिकाग्रन्थः / तृतीयाध्यायपरिसमाप्तौ नृतिरवां परापरस्थिती गदिते / अथ देवानां भवनवासिप्रभूतीनां का स्थितिरायुष इति 1 / अत्रोच्यते सूत्रम्-स्थितिः // 4-29 // भा०-स्थितिरित्यत ऊर्ध्व वक्ष्यते // 29 // टी-स्थितिरित्यत ऊर्ध्वं वक्ष्यत इति भाष्यम् / इतः प्रभृति स्थितिरित्यधिक्रियते, सा तु द्वयी जघन्योत्कृष्टभेदादिति, यद्येवमुभयसम्भवे भवनवासिनामेव तावदादिनिर्देशमाजामुच्यतां का परा स्थितिरिति, इमेऽभिदध्महे सत्यपि तेषां विकल्पबहुत्वे महामन्दरावधेदेक्षिणोत्तरार्धाधिपतिविभाग एवाद्रियते // 29 // सूत्रम्-भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् // 4-30 // भवनामिना भा०-भवनेष तावद् भवनवासिनां दक्षिणार्धाधिपतीनां स्थितिः पल्योपममध्यधं परा स्थितिः, द्वयोर्यथोक्तयोर्भवनवासीन्द्रयोः पूर्वो दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः // 30 // ...' टी-भवनेष दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम्, चमरं विहायासुरनिकायपरिघृढं शेषभवनवासिदक्षिणार्धाधिपतीनामर्धाधिकं पल्योपमं स्थितिरायुषो वेदितव्या, उक्तलक्षणं पल्योपमम्, अधिकमर्धमस्मिंस्तदिदमध्यर्धम् , बहुव्रीहिणा पल्योपमाभिसम्बन्धः, सन्देहापनोदनायेदमाख्यायते-पूर्वनिर्दिष्टयोदयोर्भवनवासीन्द्रयोः प्रथमनिर्दिष्टो यः स दक्षिणार्धाधिपतिरवसेयः, पश्चान्निर्दिष्ट उत्तरार्धाधिपतिरिति // 30 // अथोत्तरार्धाधिपतीनामायुषः का स्थितिरित्याह सूत्रम्-शेषाणां पादोने // 4-31 // भा०-शेषाणां भवनवासिष्वधिपतीनां (शेषाणां) द्वे पल्योपमे पादोने परा स्थितिः। के च शेषाः? उत्तरार्धाधिपतय इति // 31 // १'द्वयोः' इत्यधिको घ-पाठः /