________________ 308 तत्त्वार्थाधिगमसूत्रम् [अध्यायः / अनुत्तरदेवानां टी०-विजयादिष्वित्यादि भाष्यम् / विजयादिषु चतुर्पु विमा. भवोच्छेदः नेषु, अन्यविजयादिव्यावृत्त्यर्थमनुत्तरग्रहणम्, अनुत्तरशब्दस्पशादियोगादनुत्तरविमानानि तेषु देवा विचरमा भवन्ति, द्विचरमत्वं स्पष्टयति-ततो विजयादिभ्यश्युताः परम्-उत्कर्षेण द्विर्जनित्वा मनुष्येषु सिद्धिमनुगच्छन्ति, विजयादिविमानाच्च्युतो मनुष्यः पुनरपि विजयादिषु देवस्ततच्युतो मनुष्यः सन् सिध्यतीति / अपरे वर्णयन्ति-विजयादिभ्यश्युताः परतो मनुष्याः सर्वार्थसिद्धजन्मलाभं लब्ध्वा तृतीये भवे सिध्यन्तीति द्विचरमाः / एतत्त्वयुक्तं व्याख्यानम् / सर्वार्थसिद्धविमानोत्पादे सति तत्प्रच्युतिसमनन्तरजन्मनि सिद्धिगतिश्रवणात् कोऽतिशयस्तत्र विजयादीनामिति? / सर्वार्थसिद्धविमानवासिनस्तु सकृजनित्वा मनुष्येषु सिद्धिमधिगच्छन्ति-मुक्तिमासादयन्ति, सर्वे चानुत्तरोपपातिनः किल देवाः प्रतनुकर्माणो भवन्तीति / यथाऽऽहागमे-"अणुत्तरोववादियाणं देवाणं ! भंते ! केवइएणं कम्मावसेसेणं अणुत्तरोववादियत्तेण उववन्ना ? गोयमा ! जावतिअन्नं छठभत्तीए समणे निग्गंथे कम्मं निजरेइ एवतिएणं कम्मावसेसेण अणुत्तरोववाइयत्ताए उववन्ना" / शेषा. स्तु भजनीयाः / वैमानिकप्रतिपत्त्यर्थ वा शेषग्रहणम् / अथवा समस्तदेवप्रतिपादनार्थमध्यवसातव्यम्, अतः शेषाः कदाचित् कचित् सकृद् द्वित्रिचतुःप्रभृति वा मनुष्येषु जन्मासाय सिद्धयन्तीति // 27 // भा०-अत्राह उक्तं भवता-जीवस्यौदायिकेषु भावेषु तिर्यतिर्यक्प्रस्तावः योनिगतिरिति, तथा स्थितौ 'तिर्यग्योनीनां च ' (अ० 3, सू० 18) इति, आस्रवेषु 'माया तैयग्योनस्य' (अ०६, सू०१७) इति। तत् के तिर्यग्योनय इति ? / अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः / द्वितीयेऽध्याये ( मू० 6) औदयिकभावव्याख्याप्रस्तावे तिर्यग्योनिगतिरुक्ता, तृतीयाध्यायपरिसमाप्तौ (सू० 18 ) तिर्य. ग्योनिजानां चेति स्थितिरायुषोऽभिहिता, षष्ठे चास्रवप्रस्तावे (सू० 17 ) माया तैर्यग्यो. नस्येति वक्ष्यते, तत् के तिर्यग्योनय इति ? / अत्रोच्यतेसूत्रम्-औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः॥ 4-28 // . भा०-औपपातिकेभ्यश्च नारकदेवेभ्यो मनुष्येभ्यश्च यथोक्तेतिरश्वां निदेशः भ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयो भवन्ति // 28 // टी.-औपपातिकेभ्यश्चेत्यादि भाष्यम् / औपैपातिका नारकदेवास्तेभ्यो मनुष्ये- 1 अनुत्तरोपपातिका देवा भदन्त ! कतिपयेन कर्मावशेषेण अनुत्तरोपपातिकत्वेन उपपन्नाः ? गौतम ! यावत् षष्ठभक्तिकः श्रमणः निर्ग्रन्थः कर्म निर्जरयति एतावता कर्मावशेषेण अनुत्तरोपपातिकतया उपपन्नाः (भग०)। 2 'उपपातिका' इति क-पाठः /