________________ सूत्रे 26-27 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 307 रणाग्निज्वालाकीर्णो वा लोकस्तदन्तवर्तित्वात् लोकान्तिकाः कर्मक्षयाभ्यासभावाच्च / ब्रह्मलोकं परिवृत्याष्टासु दिश्वष्टविकल्पा भवन्ति / अत्र दिग्ग्रहणं सामान्येन दिग्विदिक्प्रतिपत्त्यर्थम् / ब्रह्मलोकाऽधोव्यवस्थितरिष्ठविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भूता अतिवहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति, यासां मध्येन प्रयान् देवोऽप्येकः सङ्क्षोभमापद्यतेति / तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभाग एते भवन्ति / स्थापना // 25 // तद्यथासूत्रम्-सारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्याबाधमरुतो रिष्ठाश्च // 4-26 // भा०--एते सारस्वतादयोऽष्टविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासङख्यम् / तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्या इत्येवं शेषाः // 26 // टी--विमानसाहचर्याद देवानां सारस्वतादिसंज्ञाः / एते सारस्वतायोअष्टविधा देवा इत्यादि सुगमम् / पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, लोकान्तिकानां व्य ... पूर्वदक्षिणस्यां वह्नयः, दक्षिणस्यामरुणाः, दक्षिणापरस्यां गर्दतोयाः, अपघस्था * रस्यां तुषिताः, अपरोत्तरस्यामव्याबाधाः, उत्तरस्यां मरुतः, मध्येऽरिष्ठाः॥ नन्वेवमेते नव भेदा भवन्ति, भाष्यकृता चाष्टविधा इति मुद्रिताः / उच्यते-लोकान्तवर्तिन एतेऽष्टभेदाः मरिणोपात्ताः, रिष्ठविमानप्रस्तारवर्तिभिर्नवधा भवन्तीत्यदोषः। आगमे तु नवधैवाधीता इति // एवमयं कार्मणशरीरप्रणालिकयास्रवापेक्षयाऽऽपादितसुखदुःखानां भव्याभव्यभेदाहितद्वैविध्यानां प्राणिनां संसारोऽनादिरपर्यवसानः, अन्येषां मोहोपशमनक्षपणं प्रत्याहतानामप्रतिपतितसम्यग्दर्शनानां परीतविषयत्वात् सप्ताष्टानि भवग्रहणान्युत्कर्षणानुबन्धीनि, जघन्येन द्विवाण्यतिवाह्योच्छिद्यते, इत्यविशेष सत्यन्ये भाज्याः // 26 // अमी पुनरुत्कर्षण सूत्रम्-विजयादिषु द्विचरमाः // 4-27 // टी--द्वौ चरमावेषां द्विचरमाः / चरमशब्द उक्तार्थः, चरमद्विदेहा इतियावत् / चरमत्वमेकस्मिन्निति चेत्, न, औपचारिकत्वात् / भा०-विजयादिष्वनुत्तरेषु विमानेषु देवा विचरमा भवन्ति / विचरमा इति ततश्च्युताः परं द्विर्जनित्वा सिध्यन्तीति / सकृत् सर्वार्थसिद्धमहाविमानवासिनः, शेषास्तु भजनीयाः // 27 // 1 व्याबाधारिष्टामरुतः' इति क--पाठः /