________________ 306 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ___ भा०-अत्राह-किं देवाः सर्व एव सम्यग्दृष्टयो यद् भगवतां परमपीणमहतां जन्मादिषु प्रमुदिता भवन्तीति / अत्रोच्यते-न सर्वे सम्यग्दृष्टयः, किन्तु सम्यग्दृष्टयः सद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगदेवानां दृष्टिः न ना हीटर च्छन्ति च / मिथ्यादृष्टयोऽपि च लोकचित्तानुरोधादिन्द्राजुवृत्त्या परस्परदर्शनात् पूर्वानुचरितमिति च प्रमोदं भजन्तेऽभिगच्छन्ति च। लौकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्मबहुमानात् संसारदुःखातानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामहतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति / अभिनिष्क्रमणाय च कृतसङ्कल्पान् भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति // 24 // अत्राह-के पुनर्लोकान्तिकाः कतिविधा वेति? अन्रोच्यते-- टी०-अत्राह-किं देवाः सर्व एवेति भाष्यम् / कल्पवासिनस्तावत् सुखासक्ता अपि सन्तो भगवतां त्रिलोकबन्धूनामहतां जन्मनिष्क्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेष्वनुभावतो ज्ञानाच्चासीनाः शयिताः स्थिताः प्रस्थिता वा सहसैवासनचलनाद् दर्शनविशुद्धिमत्यनुवृत्त्यनुरागानन्यसदृशतीर्थकरनामकर्मोदयविभूतिजनितकुतूहलसद्धर्मबहुमानसंशयच्छेदापूर्वप्रश्नानुभावाद्यनेककारणनोदिताः प्रायस्तीर्थकरपादान्तिकमत्यन्तैकान्तहितमभ्येत्य स्तुतियन्दनपूजनोपासनधर्मश्रवणैः स्वपरश्रद्धासंवेगजननैरात्मानमपनीतकल्मषं कुर्वन्ति / अवेयकादयस्तु यथावस्थिता एव कायवाड्मनोभिरभ्युत्थानाञ्जलिप्रणिपाततथागुणवचनकायमावनामिभंगवतोऽहतो नमस्यन्ति / न च सर्वे देवाः सम्यग्दृष्टयः, किन्तु मिथ्यादृष्टयोऽपि वि(अभि)हितानेककारणाः पूजामहतां विदधत इति / लौकान्तिकास्तु सर्वे सम्यग्दृष्टयो ऽवश्यं चाहचरणमूलमायान्त्यहंदादिसंवेगप्रशसार्थमात्महितार्थ चेति // 24 // अत्राहेत्यादिपातनिकाग्रन्थः / कस्मिन् पुनः कल्पे विमाने वा लोकान्तिका देवाः प्रतिवसन्ति कतिविधा [ भेदा ] वा इति ? / अत्रोच्यते सूत्रम् ब्रह्मलोकालया लोकान्तिकाः // 4-25 // भा०-ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु, नापि परतः / ब्रह्मलोकं परिवृत्याष्टासु दिक्षु अष्टविकल्पा भवन्ति // 25 // तद्यथा टी-ब्रह्मलोकालया एव लोकान्तिका भवन्तीत्यादि भाष्यम् / सामर्थ्यलभ्यमेवकारं दर्शयति, अवधारणफलं च, नान्यकल्पेषु नापि परतो ग्रैवेयकादिष्विति / लोकान्ते भवाः लोकान्तिकाः, अत्र प्रस्तुतत्वात् ब्रह्मलोक एव परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः,सर्वब्रह्मलोकदेवानां लोकान्तिकत्वप्रसङ्ग इति चेत्, न, लोकान्तोपश्लेषात्, जराम 1 'लौका०' इति ग-पाठः।