________________ लेश्याः सूत्रे 23-24] स्वोपज्ञभाष्य-टीकालङ्कृतम् पाण्मासिकी भवति, ततः परं विच्छिद्यन्तेऽन्तर्मुहूर्त, ततः पुनरनुवर्तते / उपपातोऽधुना, अच्युतात् परमन्यलिङ्गेन नोपपातोऽस्ति मिथ्यादृष्टेः, स्वलिङ्गिनामिति साधुवेषधारिणां भिन्नदशनानां मिथ्यादृशां यावदुपरितनग्रैवेयाणि तावदुपपातः, सम्यग्दृशस्तु साधोः सौधर्मादारभ्य यावत् सर्वार्थसिद्धविमानं तावदुपपातः / अयं चापरो नियमः-ब्रह्मलोकादधश्चतुर्दशपूर्वधरो नोपपद्यते, परतस्तु सर्वार्थसिद्धविमानावधिक उत्पादः / शेषं सुज्ञानम् // 22 // ___ अत्राह-त्रयाणामित्यादिसम्बन्धग्रन्थः / भवनवासिव्यन्तरज्योतिष्काणां द्रव्यले. श्यानियमोऽभिहितः, वैमानिकानां तु केषां का द्रव्यलेश्या ? तत आह सूत्रम्--पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु // 4-23 // भा०-उपर्युपरि वैमानिकाः सौधर्मादिषु द्वयोस्त्रिषु शेषेषु च पीतपद्मशुक्ललेल्या भवन्ति यथासङ्ग्यम् / द्वयोः पीतलेश्याः सौधर्मेशानयोः, त्रिषु पद्मलेझ्याः सनत्कुमारमाहेन्द्रब्रह्मलोकेषु / शेषेषु लान्तकादिषु आ सर्वार्थसिद्धाच्छु -- क्ललेश्याः / उपर्युपरि तु विशुद्धतरेत्युक्तम् // 23 // वैमानिकानां काना, ‘अत्राह-उक्तं भवता-द्विविधा वैमानिका देवाः-कल्पोपपन्नाः थ कल्पातीताश्च (सू०१८) इति / ततः के कल्पा इत्यत्रोच्यते टी-पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु / पूर्वत्र बहुव्रीहिरुत्तरत्र द्वन्द्वः, यथासङ्ख्यं चाभिसम्बन्धः कार्यः / उपर्युपरि वैमानिका इत्यादि भाष्यम् / समानत्वे सत्यप्युपर्युपरि विशुद्धिप्रकपः, सौधर्मेशानयोः कनकवच्छुचयः सुराः, सनत्कुमारमाहेन्द्रब्रह्मलोकेषु पद्मदलत्विषः / लान्तकादिषु धवलरुचयः सर्वार्थसिद्धपर्यवसानेषु, भावलेश्याः पुनरध्यवसायरूपत्वाद षडपि वैमानिकानां सन्तीत्यवगन्तव्यम् / अपरे वर्णयन्ति-भावलेश्यानियमोऽयम्, स तु न सुष्टु सङ्गच्छत इति नाद्रियते, एकप्रदेशे सर्वदेवानां लेश्याविधानं किमिति न कृतं चेत्, तन्त्र, सुखप्रबोधत्वाद् व्यतिकरनिवृत्त्यर्थत्वाञ्चेति // 23 // ___अत्राह-उक्तं भवतेत्यादिपातनिकाग्रन्थः / द्विविधा वैमानिका इति प्रागभिहितंकल्पवासिनः कल्पातीताच, तत् के पुनः कल्पा इति ? अत्रोच्यते-- सूत्रम्-पार अवेयकेभ्यः कल्पाः // 4-24 // भा०-प्राग ग्रैवेयकेभ्यः कल्पा भवन्ति, सौधर्मादय आरणाच्युतपर्यन्ता इत्यर्थः / अतोऽन्ये कल्पातीताः // 24 // टी-विविधविमानाश्रया व्याख्यातसङ्ख्याविशेषा अवेयकेभ्य आरात् कल्पा भवन्ति, शेषविषयसम्बन्धे दिग्लक्षणा पञ्चमी, कल्पशब्द उक्तार्थः / इन्द्रादिदशकल्पनात्मकत्वात् कल्पाः, सौधर्मादयोऽच्युतपर्यवसाना इति // शेषाः कल्पातीता इति // 24 // 1 रुचः' इति क-पाठः /