SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सूत्र 31 स्वोपज्ञभाष्य-टीकालङ्कृतम् ___ दासः, तत्रायोगोऽसम्बन्धस्तदवच्छेदफलं विशेषणमस्त्येव घट इत्यादावएवकारस्यार्थ- स्तिना सह घटस्यायोगो नास्त्ययोगमात्रं व्यवच्छिद्यते,यथा चैत्रोधनु त्रैविध्यम् र्धरः, चैत्रे हि धनुर्धरतायामाशङ्कयमानायां चैत्रो धनुर्धर एवेत्यवधार्यमाणेनान्येभ्यो धनुर्धरता व्यावर्तते,तद्वदिहापि प्रकृतवस्तुनीति, स्यात् त्वेष दोषो यद्यन्ययोगव्यवच्छेदेन विशेषणं क्रियेत, यथा पार्थो धनुर्धरः पार्थे धनुर्धरतायां प्रतीतायां तादृशी किमन्यत्राप्यस्तीति चिन्तायां पार्थ एव धनुर्धरो नान्य इति प्रतिविशिष्टधनुर्धरतायां सहान्यैयोगो व्यवच्छिद्यत इति / कचिदत्यन्तायोगव्यवच्छेदो नीलमेव सरोजमित्यत्र, न सरोजं सकलद्रव्यभाविनीलगुणमात्मसात्करोति, तथा नीलत्वमपि न समस्तसरोजाक्षेपि, अत एवोभयव्यभिचारादुभयविशेषणत्वम्, अत्र च नीलतायाः किलात्यन्तमयोगो व्यवच्छिद्यते, नात्यन्तमयोगः-असम्बन्धः सरोजेन सह नीलतायाः / सर्वत्र चैवकारस्य विवक्षावशात् साक्षादप्रयोगेऽपि व्यवच्छेदार्थप्रतीतिरतो निरन्वयदोषाभावस्तदयोगव्यवच्छेदेन विशेपणादिति / अप्रोच्यते-सर्वमेतद् व्यामोहभाषितं दुर्बुद्धेरुद्धरतः परप्रयुक्तदूषणानि, यसादयोगे व्यवच्छिमेऽपि प्रागेतन( 1 )दोषसम्पातो न निवर्तते, अयोगव्यवच्छेदेन ह्यस्तिना योग इष्यते, स च योगः किं सामान्यरूपेणास्तिना प्रत्याय्यतेऽथ विशेषरूपेण उतोभयरूपेणेति सर्वथा प्राक्तनदोपप्रसङ्गः, व्यवच्छेदोऽप्यस्तित्वसामान्यायोगस्य वाऽस्तित्वविशेषायोगस्य वा उभयायोगस्य षा 1 यद्यस्तित्वसामान्यायोगव्यवच्छेदः, ततोऽस्तित्वविशेषायोगव्यवच्छेदाभावप्रसङ्गस्तस्मिँश्चाव्यवच्छिन्ने सर्वास्तित्वविशेषस्वभाव आत्मादिः प्रसक्तः,अथास्तित्वविशेषायोगव्यवच्छेद इष्टः, एवं तहस्तित्वसामान्ययोगव्यवच्छेदाभावप्रसङ्गः,ततःप्रागेतन. व्यवच्छेदेऽपि स्याद्वादः दोषव्रातस्तदवस्थः, अथोभयायोगव्यवच्छेदः, तथापि सामान्यविशेषा स्तित्वोभयस्वभावः आत्मादिरभ्युपेतः स्यात्, ततश्च निष्फलमवधारणं, सामान्यास्तित्वेन चास्त्यात्मादिविशेषास्तित्वेन च, ततश्च खगतविशेषास्तित्वेनास्ति परगतविशेषास्तित्वेन नास्ति वस्तु, स्यादस्ति स्यानास्तीति सिद्धम्, अनेकान्तरूपमेव समस्तवस्तु व्यवहारास्पदतामानयन्तस्तत्कारिणस्तद्वेषिणश्च केचिज्जायन्ते जगत्यकारणाविष्कृतमत्सरप्रसराः खलु दुर्जनाः / यत्राप्यन्ययोगव्यवच्छेदोऽभिप्रेतस्तत्रापि योगविशेषो व्यवच्छिद्यते न योगसामान्यम्, यादृक् पार्थे धनुर्धरता तादृगन्यत्र नास्तीति / अत्यन्तायोगव्यवच्छेदेऽपि अत्यन्तमयोगो नास्ति योग एव सर्वथा, अथवा कदाचिदस्ति कदाचिन्नास्तीत्येवं च विकल्पद्वयेऽपि प्राच्य एव प्रसङ्गो योज्यः॥ प्रकृतमनुस्रियते-सर्वथा सामान्यविशेषरूपत्वात् प्रकारवदस्तित्वमतः सामान्यास्तित्वेनास्ति विशेपास्तित्वेन नास्त्यात्मा स्यादस्ति स्यानास्तीति,तथा यदस्ति तन्नियमेन द्रव्यक्षेत्रकालभावरूपेणैवात्मलाभं लभते, यथा-आत्मा जीवद्रव्यतया, क्षेत्रत इह क्षेत्रतया, कालतो वर्तमानकालसम्बन्धितया, भावतो ज्ञानदर्शनोपयोगमनुष्यगतितयेति 1' इति विशिष्ट. ' इति क-ख-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy