________________ नत्त्वार्थाधिगमसूत्रम् [ अध्यायः 5 प्रतिपादिते गम्यत इदं-द्रव्यक्षेत्रकालभावान्तरसम्बन्धितया नास्त्यात्मा। यदि च सर्वद्रव्यत . याऽऽत्मा स्याद्, आत्मैवासौ न भवेत्, द्रव्यत्ववत्, सर्ववृत्तितया वा, स्थद्रव्यादिना सत्त्वम् तद्रूपतया च सर्वकालसम्बन्धित्वाद् व्योमवन्मनुष्यभावे वा समस्तनार कादिभावप्रसङ्ग एकान्तवादिनाम्, अतोऽवश्यं स्वद्रव्यादित्वेनैवास्तित्वमभ्युपेयम्, नान्यद्रव्यादित्वेन // ततश्च स्वैरस्तित्वात् परैश्च नास्तित्वात् स्यादस्ति स्यामा स्तीति, स्वपरमात्रभावाभावोभयाधीनत्वादात्मास्तित्वस्य, यथैव स्वास्तित्वादस्तीत्युच्यते, तथैव परनास्तित्वान्नास्तीत्यपि वाच्यम्, न च प्रकारान्तरमस्ति किश्चिदेकान्तवादिनां यदाश्रथणेनावष्टम्भो दृढप्रतिबन्धः स्यादिति नास्तित्वमस्तित्वानपेक्षमत्यन्तशून्यं वस्तु प्रतिपादयेदन्वयाप्रतिलम्माद् अस्तित्वमपि नास्तित्वानपेक्षं सर्वरूपं वस्तु गमयेत् व्यतिरेकाप्रतिलम्मान, न च सता सर्वाभावरूपेण सकलभावरूपेण वा भूयते, अतः सर्वदाऽस्तित्वं नास्तित्वसापेक्षं नास्तित्वं चास्तित्वापेक्षमेवात्मलाभमासादयति, एवं चात्मनि नाग्रसक्ता घटादिसत्ता निषि _ ध्यते अर्थात् प्रकरणाद् वा, घटादिसत्तानिषेधश्चात्मनोधर्मस्तदधीनत्वाआस्तनास्तिकपता दात्मस्वभावस्थ, स एव च परेण विशेष्यमाणत्वात् परपर्याय उच्यते, गव्यनश्वत्ववत, आत्मना विशेष्यमाणत्वादात्मपर्यायः, स्वपरविशेषणायत्तं हि वस्तुस्वरूपाकाशनम्, अनेकान्तवादे च स्यादस्त्यात्मेत्यादिभिः सप्तभिवाक्यैरभिधीयते वस्तु प्रत्येकक्रि यापदप्रयोगेणार्थपरिसमाप्तेः, आत्मेति द्रव्यवाची विशेष्यत्वात्, अस्तीति गुणाभिधायी विशेषणत्वात्, शब्दशक्तिस्वाभाच्याच तथा प्रतीतः, बुद्धयारूढस्योपचरितसत्ताकस्य मुख्यसत्त्वविशेषणत्वेनोपात्तस्य धर्मिण उपादानादसत्त्वे इव, स्याच्छब्दस्तु द्रव्यधर्मलिङ्गसङ्ख्याभेदवियुक्तत्वादसिप्रकृतिर्विध्यादिविषयस(म ?)द्विभक्तिप्रथमपुरुषैकवचनान्तप्रतिरूपको निपातो विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिः, तस्य चानेकान्तावद्योतनमेवार्थो विवक्षितः, केवलस्य च सामान्यविषयत्वावद्योतकत्वाद् विवक्षितार्थप्रतिपादनाय द्रव्यधर्मविशेषोपादानं, तन्नान्तरीयकत्वात्, निपातानां चापरिमितत्वादनेकान्तद्योतकतया विवक्षितत्वादिति, स्याच्छब्देनानेकान्ताभिधानादाक्षेपेऽपि सप्तभङ्ग्याः पुनर्भेदेनोपादानं विशिष्टार्थप्रतिपादनाय, यथा वृक्षशब्देन सामान्यविषयेणाक्षेपेऽपि धवादीनां विशेषप्रतिपिपादयिषया धवादिशब्दोपादानम्, एवमेतदपि दृश्यम्, भेदाप्रतिपत्तेर्विवक्षितमेदप्रतिपादनाय भेदपरिमाणनियमाभिधानाय वा सामान्यलक्षणप्रपञ्चव्याख्यानाय वा सक्षेपव्यासाभिधानम् , तत्रास्तित्वनास्तित्वैकान्तनिवारणाय प्रथमद्वितीयौ,एकान्तरूपस्यार्थस्यावस्तुत्वादिति / तृतीयविकल्पाभिधित्सया भाष्यकदाह भा०-अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वा / / टी०-युगपदात्मन्यस्तित्वनास्तित्वधर्माभ्यामर्पिते विवक्षिते क्रमेण चानुपनीते क्रमेणामिधातुमविवक्षिते वाच्यं न जातुचित् सदात्मतत्वमसदात्मतत्त्वमिति वा / वाशब्दो विकल्पार्थः, 1 'कादिप्रसङ्गा' इति क-पाठः।