________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 इतिना खरूपे जीवशब्दः स्थाप्यते, जीव इत्ययं ध्वनिः, नत्वेतद्वाच्यार्थो नामतया नियुज्यते / स नामजीव इति, स इत्यनेन तत्र चेतनावत्यचेतने वा यदृच्छया यो जीवशब्दो नियुक्तस्तं व्यपदिशति, स शब्दो नामजीव इति / एतदुक्तं भवति स एव शब्दो जीव इत्युच्यते तद्वस्तूपाधिक इति, अर्थाभिधानप्रत्ययास्तुल्यनामधेया इति न्यायात् // संप्रति स्थापनाजीवं कथयति-यः काष्ठपुस्त इत्यादिना / यः स्थाप्यते जीव इति सम्बन्धः, क स्थाप्यते ? काष्ठपुस्तादिष्वित्याह / काष्ठं-दारु, पुस्तं-दुहितकादिसूत्रचीवरादिविरचितं, चित्रं-चित्रकराद्यालिखितम्, कर्मशब्दः क्रियावचनः प्रत्येकमभिसम्बध्यते, काष्ठक्रियेत्यादि / अक्षनिक्षेप इति सामयिकी संज्ञा चन्दनकानां निक्षेपो रचना विन्यास इति / एते काष्ठपुस्तचित्रकर्माक्षनिक्षेपा आदिर्येषां रच्यमानानां ते काष्ठपुस्तचित्रकर्माक्षनिक्षेपादयः, आदिशब्द उभाभ्यां सम्बन्धनीयः, काष्ठपुस्तचित्रकर्मादयो ये सद्भावस्थापनारूपास्तथाऽक्षनिक्षेपादयोऽसद्भावस्थापनारूपा ये, तेषु बहुषु स्थाप्यते-य उच्यते तेषु काष्ठादिषु बहुष्वाधारेषु य एको रच्यते जीवाकारेण, एतदाह-जीव इति / स जीवाकारो रचितः सन् स्थापनाजीवोऽभिधीयते / एतदुक्तं भवति-शरीरानुगतस्यात्मनो य आकारो दृष्टः स तत्रापि हस्तादिको दृश्यते इतिकृत्वा स्थापनाजीवोऽभिधीयते // ननु चाक्षनिक्षेपे नास्त्यसावाकार इति, उच्यते-यद्यपि बहीरूपतया नास्त्यक्षे निक्षिप्यमाणेऽसावाकारः, तथापि बुद्धथा स रचयिता तत्र विरचयति तमाकारम्, अत एव स्थापना नामद्रव्याभ्यां सुदूरं भिन्ना, यतो निक्षिप्यमाणं वस्तु न शब्दो भवति, नापि तद्भाववियुतं विवक्ष्यते, किन्त्वाकारमानं यत् तत्र तद् विवक्षितमिति / स्थापनाजीवं दृष्टान्तेन भावयति-देवताप्रतिकृतिवदित्यादिना / देव एव देवता तस्याः प्रतिकृतिः-विम्बं, सा च न सैव सहस्राक्षवज्रपाणिश्वेतवासोधारिरूपा, नापि ततोऽत्यन्तं भिन्नस्वभावा, अत्यन्तभिन्नखभावाभ्युपगमे हि सा प्रतिकृतिरेव न स्यात् कुड्यवत् , अतोऽवश्यं कथञ्चिदसौ ततो भिद्यत इति प्रतिपत्तव्यम्, ये तस्यां मुख्यदेवतायां सहस्रलोचनाद्यवयवा यथा संनिविष्टा दृष्टास्तेऽस्यां काष्ठमय्यां दृश्यन्त इत्येतावता सैव मुख्या देवता इयमिति निगद्यते / ये तु तत्र ज्ञानदर्शनैश्वर्यादयो धो दृष्टास्तेऽस्यां काष्ठमय्यां न दृश्यन्त इति एतावता प्रतिविम्बमित्यभिधीयते / अतो यथेह कस्यचित् इन्द्रादेः प्रतिकृतिः स्थापिता सती इन्द्र इति व्यपदिश्यते, एवमिह जीवाकृतिः प्रतिमादिषु स्थापिता स्थापनाजीवो व्यपदिश्यते / रुद्र उमापतिः, स्कन्द इति स्कन्दकुमारः, उत्तरपदलोपात् सत्यभामा सत्येति यथा, विष्णुरिति वासुदेवः / एषां च न शास्त्रे देवताख्या समस्ति, लोकानुवृत्त्या भाष्यकृदुवाच / अत एषां रुद्रादीनां प्रतिकृती रचिता रुद्र इत्यादिव्यपदेशं लभते / एवं जीवस्य काष्ठादिषु प्रतिकृतिः कृता स्थापनाजीव इत्यभिधीयते / द्रव्यजीव इति / इतिः प्रकारार्थः / योऽयं प्रकारः प्रागुपादायि द्रव्यजीव इति तं प्रदर्शयामि / योऽयमात्मा स उज्झिताशेषज्ञानादिगुणसमुदायो द्रव्यजीवोऽभिधीयते / एतदेवाह-गुणपर्यायवियुक्त इति / गुणाः-सहभुवो ज्ञानदर्शनसुखादयः, पर्यायाः-क्रमभुवो