________________ सूत्रं 5 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 47 * मनुष्यादयः, गुणाश्च पर्यायाश्च गुणपर्यायास्तैः वियुक्तो रहित इत्यर्थः // ननु चैवंविधोऽर्थो नास्त्येव, समस्तधर्मकदम्बकरहितत्वात् मण्डूकजटाभारवदित्युक्ते आह-प्रज्ञास्थापितः। प्रज्ञा-बुद्धिस्तया स्थापितो-वियत्यालिखितः कल्पित इतियावत् / एतदुक्तं भवति-न ते गुणपर्यायास्ततो द्रव्याद् विष्वग् भवन्ति, किंतर्हि ? बुद्धया तत्स्था एव विभज्यन्ते, ततश्च द्रव्यमात्र केवलमवतिष्ठते बुद्धिपरिकल्पनागोचरतामितम्, एतदाह-अनादिपारिणामिकभावयुक्त इति / भावसब्दो हि औदयिकादिषु वर्तमानः पारिणामिक इत्यनेन विशेषे स्थापितः / पारिणामिकभावोऽपि सादिरस्त्यभ्रेन्द्रधनुरादीनाम्, किं तादृशोऽयं ? नेत्याहअनादिपारिणामिकभाव इति / अनादिश्वासौ पारिणामिकभावश्चानादिपारिणामिकभावस्तेन युक्तोऽनादिपारिणामिकभावयुक्त इति / एतदुक्तं भवति-यत्तदनादिकालसन्ततिपतितं द्रव्यं तावन्मानं तदिति मैवं मंस्थाः अनादिपारिणामिकभावयुक्त इति, अत्र भावशब्दः श्रूयते इतिकृत्वाऽस्ति द्रव्ये कोऽपि भावांश इति / न खलु कश्चित् तत्र गुणः पर्यायो वाऽस्तीति द्रव्यमात्रं निरस्ताशेषगुणपर्यायवातं द्रव्यजीव इत्येवं शब्द्यते / / ननु च सतां गुणपर्यायाणां बुद्धया नापनयः शक्यः कर्तुं, यतो न ज्ञानायत्ताऽर्थपरिणतिः, अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीत्यत आह-शून्योऽयं भङ्गः / शून्य इति न सम्भवति, अयं इति द्रव्यजीवविकल्प इति / यतो द्रव्यदेवः कः?। उच्यते-यो भव्यो देवत्वपर्यायस्य योग्यो न तावद् भवति स मनुष्य एव सन् द्रव्यदेवोऽभिधीयते भविष्यति इतिकृत्वा, एवमिहापि यद्ययमवधीकृतो जीवः स इदानीमजीवः सन्नायत्यां जीवोऽजनिष्यत् ततोऽयं विकल्पः समभविष्यत् , न चैतदस्तीत्येतदाह-यस्य ह्यजीवस्येत्यादि / यस्य इति वस्तुनः, हिशब्दो यस्मादर्थे, अजीवस्य चेतनारहितस्य सतो विद्यमानस्य अचेतनावस्थायां सम्प्रति भव्यं भविष्यच्चे• तनावत्वं भवेत् इदानीमचेतनत्वेन वर्तमानः द्रव्यजीव इति कारणजीवः, आगामिन्या जीवतायाः कारणमित्यर्थः, एतत् स्यात्, इष्यत एवायमर्थः / क्वचिद् वस्तुन्यभूतमिदानी जीवत्वं भविष्यतीति, तन्न, अनिष्टत्वात् , यथैव ह्यसन्नसौ विशेषो जीवत्वेन सम्प्रति आगामिकाले जीवत्वं प्रतिपत्स्यत इत्यभ्युपगम्येत, एवं योऽयमिदानी जीवतया वर्तते अयमेवायत्यामजीवत्वं यास्यतीत्यभ्युपगम्यताम् , एवं च सति सिद्धान्तविरोधः, यतो जीवत्वमनाद्यनिधनपारिणामिको भावः समय इष्यते / एतदेवाह-अनिष्टं चैतत् इति / चशब्द एवकारार्थे, अनिष्टमेव सिद्धान्तविरोध्येवैतदभ्युपगमान्तरमिति // ननु चैवं सति नामादिचतुष्टयस्याव्यापिता प्राप्ता, द्रव्यजीवविकल्पाभावात्, अभ्युपगतं च सिद्धान्ते व्यापित्वेन नामादिचतुष्टयम्, यत एवमाह - " जत्थ उ जं जाणिज्जा निक्खेवं निक्खिवे निरवसेसम् / जत्थवि नय जाणेजा चउक्कयं निक्खिवे तत्थ ॥"-अनुयोगद्वारे 1 'अजनिष्यत' इति क-ख-पाठः।