________________ सूत्रं 15 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 161 .. टी-तेजोवायू इति / अङ्गारार्चिरलातशुद्धाग्न्यादिभेदं बादरं तेजः, बादरस्य तु मनुष्यक्षेत्रमेव स्थानम्, न ततः परमस्ति, सूक्ष्मं सर्वलोकपर्यापन्नम्, शरीरसंस्थानं सूचीकलापाकृति, शेपपर्याप्तकादिभेदः पूर्वकैः समानः, प्रमाणतोऽसङ्ख्येयजीवः / प्राच्यप्रतीच्याद्युत्कलिकामण्डलिकादिभेदो वायुः, बादरस्य स्थानं घनवाततनुवाततद्वलयाधोलोकपातालभवनादि, सूक्ष्मः सर्वलोकपर्यापन्नः, प्रमाणतोऽसङ्ख्येयजीवः, पूर्वकैः पर्याप्रकादिभेदः समानः, शरीरसंस्थानं तु पताकाकृति द्रष्टव्यम् // द्वे इन्द्रिये येषां ते द्वीन्द्रियाः, ते द्वीन्द्रिया आदौ येषां ते द्वीन्द्रियादय इति तद्गुणसंविज्ञानो बहुव्रीहिः, पञ्चेन्द्रियपर्यवसानाः, वक्ष्यति-'पञ्चेन्द्रियाणि' (अ० 2, मू० 15) इति / पश्चैव नातः परमिन्द्रियम्, नियमाद्धि तद्वतामवच्छेदः / चशब्दः समुच्चितौ / सर्वे एते असा भवन्ति / इतिशब्दोऽवधृतौ / एतावन्त एव सामान्यत इति / त्रसत्वं च द्विविध-क्रियातो लब्धितश्च / तत्र क्रिया कर्म चलनं देशान्तरप्राप्तिः / अतः क्रियां प्राप्य तेजोवाय्वोत्रसत्वम् , सपलब्धिस्तु बसनामकर्मोदयः, यस्माद् द्वीन्द्रियादीनां क्रिया च देशान्तराप्राप्तिलक्षणेति, लब्ध्या पृथिव्यप्तेजोवायुवनस्पतयः सर्वे स्थावरनामकर्मोदयात् स्थावरा एव, आदिवचनं तेजसश्चक्षुःप्रत्यक्षाल्पत्वात् , ततो वायोस्तदधिकसूक्ष्मत्वात् , असमासकरणं तेजोवाग्योः संज्ञाद्वैविध्यप्रतिपादनार्थम् सौ स्थावरौ चेति, तेजोवाय्वोः समासकरणं स्थावरैः सहैकेन्द्रियत्वसाधात् , द्वीन्द्रियाद्युत्तरवचनमिन्द्रियक्रमवृद्धेः / संसारिणस्त्रसा इत्यादि भाष्यम् / कोऽभिप्रायः ? अर्थापत्तिरपि प्रमाणान्तरं नयवादान्तरेणेति प्रागुक्तम्, तस्याः प्रामाण्यद्वारेण विषयप्रदर्शनं क्रियते-संसारिणां त्रसस्थावरत्वविधाने मुक्तानामुभयमपोदितं भवतीति, न ते त्रसाः स्थावरा वा तल्लक्षणानुपपत्तेरिति // 14 // ' निर्दिष्टा उपयोगिनः, सम्प्रतीन्द्रियाण्युच्यन्ते कः पुनरस्य सम्बन्धः सूत्रस्य ? उच्यते--उक्तं प्रथमे ' तदिन्द्रियानिन्द्रियनिमित्तं ' ( अ० 1, मू० 14 ) मतिज्ञानमनन्तरं च द्वीन्द्रियादयस्त्रसास्तत्र कियन्तीन्द्रियाणि ? कतिविधानि वा तानि ? तेषां वा मध्ये कस्य किमिन्द्रियमुपयोगिन इति ? तत्रादौ सङ्ख्यानमेव तावनिरूपयितुमाह सूत्रम्-पञ्चेन्द्रियाणि // 2-15 // टी०–अथवा येयं चैतन्यव्यक्तिर्जीवानां सेन्द्रियद्वारेणेति, तानि च न सर्वाणि सर्वस्येति विभागो वक्ष्यते, इन्द्रियनियमः पुनः पञ्चधैवेत्यत आह-पञ्चेन्द्रियाणि / अथवा जीवानामुपयोगो लक्षणमन्वयि सर्वत्र निगदितम, तस्योपयोगस्य निमित्तान्यमन्यपदिशन्ति पश्चेन्द्रियाणि // ननु च सूत्रारम्भो निष्फल एव लक्ष्यते, किमनेनोक्तेन भवति पञ्चेन्द्रियाणीति ? / इन्द्रियस्वरूपमेवात्र वक्तव्यम् , द्रव्येन्द्रियमित्थंलक्षणमेवंप्रकारं च भावेन्द्रियम् इत्याशङ्कायामाह भाष्यकार: