________________ 162 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 2 मा०–पञ्चेन्द्रियाणि भवन्ति / आरम्भो नियमार्थः षडादिप्रतिषेधार्थश्च / " इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा" (पा० अ० 2, पा० 5, सू० 93 ) / इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात् विषयेषु वा परमैश्वर्ययोगात् , तस्य लिङ्गमिन्द्रियम्, लिङ्गनात् सूचनात् प्रदर्शनादुपष्टम्भनाद व्यञ्जनाच जीवस्य लिङ्गमिन्द्रियम् // 15 // टी-पञ्चेन्द्रियाणि भवन्तीति / आरम्भो नियमार्थः / अन्यूनाधिकतयाऽवधार्यन्ते एतावन्तीन्द्रियाणि प्रकर्षतो भवन्त्येकस्य जन्तोरित्येवंप्रकारो नियमः प्रतिपिपादयिपितः, तथा षडादिप्रतिषेधार्थश्च / षट् आदौ येषां तानि षडादीनि सामर्थ्यादिन्द्रियाण्येव सम्बध्यन्ते, अस्मादुपात्तेन्द्रियपञ्चकव्यतिरेकेण यावन्ति परैरभ्युपेयन्ते सर्वेषामत्र प्रतिषेधः, सूत्रारम्भादेव // ननु च नियमादेवेदमवाप्तमन्यूनानधिकानि पञ्चैवेति, पुनः किमुच्यते षडादिप्रतिषेधार्थश्चेति ? / उच्यते-नियमस्यैतावत् फलं पश्चैवेति सिद्धान्तोऽयं जैनः, तद्वयति _ रिक्तेन्द्रियान्तराभ्युपगमवादी तु निराकार्योऽवश्यं दृषणमुत्प्रेक्ष्य सिद्धान्तइन्द्रियसंख्याप्रतिपादनम् - वादिना, अतस्तद्वीजभूतमिदं वचनं षडादिप्रतिषेधार्थश्चेति / तत्र मन वा - स्तावदिन्द्रियं न भवति, इन्द्रियाणि चक्षुरादीनि स्वतन्त्राणि सन्ति रूपाद्यर्थग्रहणेषु प्रवर्तन्तेऽन्यनिरपेक्षाणि, मनः पुनश्चक्षुरादीन्द्रियकलापविषयीकृतमनुपतति रूपाद्यर्थ, न साक्षादित्यतश्चक्षुरादिवन्नेन्द्रियं मनः, किन्त्वनिन्द्रियम्, एतच्चोपरिष्टाद् वक्ष्यते / तथा वागादयः किल वचनादिव्यापारपरायणत्वादिन्द्रियव्यपदेशभाज इत्येतदप्ययुक्तम् , नहि यथा चक्षुरादिद्वारजन्म विज्ञानं परिणमतेऽर्थग्रहणायैवं वागादिद्वारजन्म विज्ञानं वचनादिषु परिणतिमुपैति, न च वाग्वचनयोः कश्चिद् भेदोऽस्ति, शब्दात्मिका चेयमात्मप्रयत्नसंस्कारप्रयोगक्रमवर्तिवीत्वात् , स च श्रोत्रेन्द्रियविषयः, न चेन्द्रियमिन्द्रियान्तरमास्कन्दिप्यते, नियतविषयत्वात् / तथा पाण्याद्यवयवक्रियाणामिन्द्रियत्वे भ्रक्षेपस्तनभुजशिरस्फुरणक्रियाणामपीन्द्रियत्वं स्यात्, अर्थता एव प्रतिविशिष्टावयवसाध्याः क्रियाः प्रदिश्यन्त इन्द्रियाकारेण नान्यास्ततो रुचिरेव युक्तितयाङ्गीकृता स्यात, अपि च छिन्नपाणिः पादाभ्यामादत्ते, ध्वस्तचरणश्च पाणिभ्यां विहरति, विनष्टपायुप्रदेशा च भगन्दरव्याधिना योपिदुपस्थेनाप्युत्सृजतीत्येवमतिसङ्कीर्णता स्यात्, न चैवं कदाचिदन्धीभूतः श्रोत्रेण रूपमाददान उपलभ्यते, तस्माद् यत्किश्चिदेतत् / प्रकृतमुच्यते-सङ्ख्याशब्दो व्याख्यातः / पश्चैवेन्द्रियाणि भवन्ति / अधुनेन्द्रियाणीत्यस्यावयवस्य शब्दनिर्भेददिदर्शयिषयाऽऽहइन्द्रियमिन्द्रलिङ्गमिति / एतावता शन्दप्राभृतप्रसिद्धं लक्षणमुपलक्षयति, स्वयमेव च पुनर्व्याचष्टे-इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात्, इन्दनादिन्द्रः सर्वभोगोपभोगाधिष्ठानसर्वद्रव्यविषयैश्वर्योपभोगाज्जीवः, तच्च पर्यायतोऽस्य सम्भवत्यनादौ संसारेऽनेकजन्मान्तरवृत्तर्देवादिस्थानापेक्षया, न चास्ति किल कश्चित् प्रदेशो लोकेऽणुमात्रोऽपि यत्रैकेन जन्तुना न जन्ममरणे समनुभूते तिप्राणापानशरी