________________ सूत्र 11 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 281 . भा०-अत्राह-उक्तं भवता-'देवाश्चतुर्निकायाः' (अ० 4, सू 1), 'दशाटपञ्चद्वादशविकल्पाः ' ( अ० 4, सू० 3) इति, तत् के निकायाः के चैषां विकल्पा इति ? / अत्रोच्यते-चत्वारो देवनिकायाः / तद्यथा-भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिका इति // 10 // तत्र टी-अत्राह-उक्तं भवतेत्यादिपातनिकाग्रन्थः / देवाश्चतुर्निकाया इत्युक्तमध्यायादौ, तथा दशादिभेदाश्चाधीताः,तदेतन्निर्दिश्यतामञ्जसा के पुनस्ते निकायाः के चैषां निकायानां दशादयो विकल्पा इति / अत्रोच्यते-चत्वारस्तावनिकायाः-भवनवासिनो व्यन्तराज्योतिष्का वैमानिका इति // 10 // तत्र तेषु चतुर्पु निकायेषु भवनवासिनामेव तावद् भेदप्रतिपादनं क्रियते, तत्रसूत्रम्-भवनवासिनोऽसुरनागविद्युत्सुपर्णामिवातस्तनितोदधिद्री पदिक्कुमाराः // 4-11 // भा०-प्रथमो देवनिकायो भवनवासिनः / इमानि चैषां विधानानि भवन्ति / ___ तद्यथा-असुरकुमाराः, नागकुमाराः, विद्युत्कुमाराः, सुपर्णभवनवासना. कुमाराः, अग्निकुमाराः, वातकुमाराः, स्तनितकुमाराः, उदधिविधानानि कुमाराः, द्वीपकुमाराः, दिक्कुमारा इति / टी०-भूमिष्ठत्वात् भवनानि, तेषु वस्तुं शीलं येषां ते भवनवासिनः, प्रथमो निकायोऽसुरादयो भेदाः / तत्कुमारशब्दः प्रत्येकमभिसम्बध्यते / कः पुनः कुमारशब्दार्थ इत्याह भा०-कुमारवदेते कान्तदर्शना असुरकुमारा मृदुमधुरललितगतयःशृङ्गाराभिजातरूपविक्रियाः कुमारवचोद्धतरूपवेषभाषाभरणप्रहरणावरणपातयानवाहनाः कुमारवञ्चोल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते / असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, शेषास्तु भवनेषु // ___टी०-कुमारवदेते कान्तदर्शना इति सुज्ञानम्।असुरकुमारावासेष्वसुरकुमाराः प्रतिवसन्ति, आवासाः कायमानस्थानीया महामण्डपा नानारत्नप्रभासितोल्लोचाः, तेषु तादृशेषु भूयसा वसन्त्यसुरकुमाराः कदाचित् भवनेष्वपीति / शेषास्तु नागादयो भवनेध्वेव प्रायो वसन्ति, नावासेष्विति / तानि च भवनानि बहिर्वृत्तान्यन्तश्चतुरस्राण्यधः पुष्करकर्णिकासंस्थानानि // क पुनस्ते आवासा भवनानि चेत्याह- . भा०-महामन्दरस्य दक्षिणोत्तरयोर्दिगविभागयोबहवाषु योजनशतसहस्र१सुकुमारा' इति घ-पाठः। 2 'प्रहरणचरणपातवाहनाः' इति क-पाठः, 'प्रहरणावरणयानवाहनाः' इति तु घ-पाठः।