________________ [ अध्यापः। 280 तत्त्वार्थाधिगमसूत्रम् एभिश्च प्रवीचारादिभिरित्यादि / स्पर्शादिभिः सूत्रोपन्यस्तैरुपरिष्टात् परिहसनि रल्पसक्लेशत्वाचेतसोऽनुपमः प्रीतिप्रकर्ष उपजायते, इदं हि कायादिकर्म सलिए चित्तत्वाद् दुःखमावहति, यथाऽऽह " नग्नः प्रेत इवाविष्टः कणन्तीमुपगृह्य ताम् / क्लेशायासितसर्वाङ्गः, सुमुखी रमते किल // " स्थित्यादिमिरेवोपरिष्टाद् वक्ष्यन्तेऽधिका देवाः, चित्तक्लेशेन तु परिहीयमानस्वमा भवन्त्युपर्युपरीति / अत्र च पुनः प्रवीचारग्रहणमुत्तरसूत्रे किल विस्पष्टार्थमाश्रितं, अन्या तुल्यत्वात् संहितयोः सन्देहः स्यादिति // 9 // अदेवीकाश्चाप्रवीचाराश्चाधुनाऽभिधीयन्ते सूत्रम्----परे अप्रवीचाराः॥ 4-10 // भा०-कल्पोपपन्नेभ्यः परे देवा अप्रवीचारा भवन्ति, अल्प- | कल्पातीतानाम - सलेशत्वात् / स्वस्थाः शीतीभूताः / पञ्चविधप्रवीचारो प्रवीचारत्वम् - वादपि प्रीतिविशेषादपरिमितगुणप्रीतिप्रकर्षाः परमसुखतृप्ता एव भवन्ति // दी०-परे अप्रवीचाराः,अविद्यमानप्रवीचाराः अप्रवीचाराः,कल्पोपपन्नेभ्यः परेरे देवा अवेयकवासिनोऽनुत्तरविमानवासिनश्चाप्रवीचारा भवन्ति, अल्पसङ्क्लेशत्वाद्धेतोरन्तः शुद्धत्वात् च, ते स्वसमाधिजमेव सुखमुपभुञ्जते, अधिकतरं चैषां तद् भवत्यल्पमोहत्वान् कायक्लेशरहितम्,स्वस्थाः प्रतनुकमोहनीयकर्मपटलानुरञ्जितस्वरूपत्वात् मन्ददेवाग्नित्वाच्छीतीभूताः, पञ्चविधाः प्रवीचारा रूपरसगन्धस्पर्शशब्दाः प्रवीचारहेतवो मनोहराः कारणे कार्योपचाराध्यारोपादुक्ताः तत्समुदायजादपि सुखविशेषादपरिमितगुणप्रीतिप्रकों बहुगुणप्रीतिप्रकर्षयुजः परमसुखत्ता एव भवन्ति / दुर्लभं हि तादृक् संसारे सुखमन्यनिवासेषु शब्दादिविषयनिरपेक्षत्वात् सहजम्, अतस्तेन जन्मप्रभृत्या स्थितिक्षयात् सततमेव तृप्तास्त इति / न परे इति सूत्रे कर्तव्ये यदाचार्येण पुनरप्रवीचारग्रहणमकारि तज्ज्ञापनार्थमस्यार्थस्य-अल्पः सङ्क्लेशस्तेषु, न बहरिति / सूत्रत्रये यत् प्रवीचारग्रहणं अप्रवीचारग्रहणं च तज्ज्ञापनायामुष्यार्थस्य संसारः किल प्रवीचारसमुद्भव इति / सामान्याभिधाननिकायविकल्पसङ्ख्याविधिरुक्तः पुरस्तात्, तेषां विशेषसंज्ञानिकायविकल्पान् प्रति व्याचिख्यासुरनियमप्रसङ्गे पौरस्त्यनिकायविकल्पसंज्ञानिर्देशार्थमिदमवोचत्-भवनवासिनोऽसुरनागविद्यु. त्सुपर्णाग्निवातस्तनितोद्धिद्वीपदिक्कुमाराः (मू० 11) / तत्र १'शीतभूताः' इति क-ख-पाठः / 2 सूत्रत्रये प्रथमे तावत् कायप्रवीचारशब्दो रूढस्तादृशे मैथुने यादृर्श नरतिरश्चामिति स उपात्तः, द्वितीये स्पर्शादिमात्रमेव प्रवीचारतया न विवक्षितं, किन्तु स्पर्शादिविशेषा इति ज्ञापनायं स्पर्शप्रवीचारा इत्यादि प्रतिपादितं, तृतीये तु यदि न परे इत्येवोच्येत तर्हि न ते स्पर्शादिभिः प्रवीचारका इत्येवायों गम्येत, परं सर्वथा भावो न ज्ञायेत इष्टं च तज्ज्ञापयितुमिति अप्रवीचारा इति सथा प्रवीचारनिषेधं चंकुः सूक्ष्मधियो वाचका इति / 3 विकल्पौ प्रति' इति क-पाठः /