________________ 282 तत्त्वार्थाधिगमसूत्रम् __ [ अध्यायः 1 कोटीकोटीषु आवांसाः / भवनानि च दक्षिणार्धाधिपतीनामुत्तरार्धाधिपतीना च यथास्वं भवन्ति / टी०-महामन्दरस्येत्यादि / धातकीखण्डादिमन्दरव्यावृत्त्यर्थं महामन्दरग्रहणम्, चिह्नमात्रं महामन्दरग्रहणमत्र, योजनसहस्रमात्रावगाहित्वात्, तस्य दक्षिणस्यां दिशि तिर्यम्बहीषु योजनलक्षकोटीनां कोटीषु भवन्त्यावासाः, भवनानि च दक्षिणार्धाधिपतीनां चमरादीनामुत्तरार्धाधिपतीनां च बलिप्रभृतीनां यथायथमसुरादीनां इति / आर्षे तु रत्नप्रभाया बाहल्यात् सहस्रमुपर्यधश्च सन्त्यज्य मध्येऽष्टसप्ततिसहस्राधिकलक्षायां कुसुमप्रकरवत् प्रकीर्णानि भवनानि सर्वत्र // भाष्यकाराभिप्रायस्तु भा०-तत्र भवनानि रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये, भवनेषु वसन्तीति भवनवासिनः / भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति / तद्यथा-गम्भीराः श्रीमन्तः काला महाकाया रत्नो . त्कटमुकुटभास्वरांश्चूडामणिचिह्ना असुरकुमारा भवन्ति / असुरकुमासदाना शिरोमुखेष्वधिकप्रतिरूपाः कृष्णाः श्यामा मृदुललितगतयः वर्णनम् - शिरस्सु फणिचिह्ना नागकुमाराः / लिग्धा भ्राजिष्णवोऽवदाता / वज्रचिह्ना विद्युत्कुमाराः। अधिप्रतिरूपग्रीवोरस्काः ' श्यामावदाता गरुडचिनाः सुपर्णकुमाराः / मानोन्मानप्रमाणयुक्ता भास्वन्तोऽवदाताः घटचिहाः अग्निकु. मारा भवन्ति / स्थिरपीनवृत्तगात्रा निम्नोद अश्वचिह्ना अवदाता वातकुमाराः। लिग्धाः लिग्धगम्भीरानुनादमहास्वनाः कृष्णा वर्धमानचिह्नाः स्तनितकुमाराः। उरुकटिष्वधिकप्रतिरूपाः कृष्णश्यामा मकरचिह्ना उद्धिकुमाराः / उरःस्कन्ध. बाह्वग्रहस्तेष्वधिकप्रतिरूपाः श्यामावदाताः सिंहचिहा द्वीपकुमाराः / जवानपादेष्वधिकप्रतिरूपाः श्यामा हस्तिचिहा दिकुमाराः / सर्वेऽपि च विविधवस्त्राभरणा भवन्तीति // 11 // टी-तत्र भवनानीत्यादि भाष्यम् / रत्नप्रभायां बाहल्यार्धमवगाह्य मध्ये भवनानि भवन्ति,तस्मिन्नेव स्थाने नवतिसहस्राण्यधोऽवगाह्य,आवासास्तु सहस्रद्वयपरिवर्जितायां रन्तप्रभायां सर्वत्रेत्यभिप्रायः / भवप्रत्ययाश्चैषामिमा नामकर्मनियमात् स्वजातिविशेषनियता विक्रिया भवन्ति / भवहेतुकास्ता जन्मतपोनुष्ठाननिरपेक्षा विक्रियाः सम्बध्यन्ते / नामकर्मनियमाच स्वजातिविशेषनियता विकिया भवन्ति / अङ्गोपाङ्गनामकर्मो 1 नावासानां स्थितौ क्रमः कोऽपि असुरादीनां यथा भवनेषु तेषामिति / २“अर्धः खण्डेऽध समांशे" इत्यनेकार्थोक्तेः तुल्यभागेऽर्ध इति अर्धसुदर्शनदेवनमिति च लिङ्गानुशासनाचे खण्डार्थोऽर्थोऽत्र / 3 मध्ये भवन्ति' इति घ-पाठः / 4 'अधिकरूप' इति क-घ-पाठः। 5 'भास्वतः' इति ग-पाठः। 6 निमनोदरा' इति ग-घ-पाठः /