________________ भवनसङख सूत्र 12 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 283 दयान्निर्माणनामकर्मोदयाद वर्णादिनामोदयाच प्रतिजातिविशेषकारिण्यो विक्रिया जायन्ते / गम्भीरा घनशरीराः श्रीमन्तः सर्वाङ्गोपाङ्गसुन्दराः कृष्णवर्णा महाशरीरा इत्येतत् सर्व नामकर्मोदयजनितमेषामसुराणाम्, एवं नागादीनामपि योजनीयं स्वजातिविशेषनियतवचनात्, शेषं भाष्यमेव सुज्ञानम् / एषां च भवनसङ्ख्या सामान्यतः सप्त कोट्यः सप्ततिलक्षा लक्षद्वयाधिकाः, विशेषेण तु दक्षिणदिग्व्यवस्थितासुराणां चतुस्त्रिंशत् लक्षाः,उत्तरदिग्भाजां त्रिंशदेकत्र चतुष्पष्टिः, . दक्षिणदिग्नागानां चतुश्चत्वारिंशदुत्तरदिग्नागानां चत्वारिंशदेकत्र चतुरशी तिः, दक्षिणविद्युत्कुमाराणां चत्वारिंशदुत्तरवासिनां पत्रिंशदेकत्र षट्सप्ततिः / एषैव सङ्ख्या दक्षिणोत्तरभिन्नानामग्निस्तनितोदधिद्वीपदिक्कुमाराणामिति, दक्षिणसुपर्णानामष्टात्रिंशदुत्तरनिवासिनां चतुस्त्रिंशदेकत्र सप्ततिद्वर्युत्तरेति / दक्षिणमरुतां पञ्चाशदुत्तरवासिनो षट्चत्वारिंशदेकत्र षण्णवतिः / लक्षाः सर्वत्र सम्बन्धनीया इति // 11 // अधुना भवनचरनिलयानन्तरदेवनिकायोद्देशभाजो येष्टविधास्तेऽभिधीयन्तेया सूत्रम्--व्यन्तराः किन्नर-किंपुरुष-महोरग-गान्धर्व-यक्ष राक्षस-भूत-पिशाचाः // 4-12 // भा०-अष्टविधो द्वितीयो देवनिकायः / एतानि चास्य विधानानि भवन्ति / अधस्तिर्यगूवं च त्रिष्वपि लोकेषु भवनेनगरेषु आवासेषु च प्रतिवसन्ति / टी०-अथ किमर्थ व्यन्तरा उच्यन्ते, तत्र भाष्यमधस्तिर्यगूज़ चेत्यादि / रत्नप्रव भारत्नकाण्डे योजनशतद्वयवर्जितेऽष्टासु योजनशतेषत्पन्नाः सन्तस्त्रिलोक्यां स्वभवनेषु स्वनगरेषु स्वावासेषु च प्रतिवसन्ति बालवत् स्वभावानवस्थानातु, अतो विविधमन्तरम्-आवसनमेषामिति व्यन्तराः / एतदेव स्पष्टयति भाष्यकारः भा०-यस्माचाधस्तिर्यगूज़ च त्रीनपि लोकान् स्पृशन्तः स्वातन्त्र्यात् पराभियोगाच्च प्रायेण प्रतिपतन्त्यनियतगतिप्रचाराः, मनुष्यानपि केचिद् भृत्यवदुपचरन्ति / विविधेषु च शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्ति, अतो व्यन्तरा इत्युच्यन्ते // तत्र किन्नरा दशविधाः / तद्यथा-किंपुरुषाः किंपुरुषोत्तमाः किन्नराः किंपुरुषादि किन्नरोत्तमा हृदयङ्गमा रूपशालिनोनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठाइति // किंपुरुषा दशविधाः / तद्यथा-पुरुषाः सत्पुरुषाः महापुरुषाः पुरुषवृषभाः पुरुषोत्तमाः अतिपुरुषोत्तमाः 1 भुमिष्ठानि नगराणि भवननगराणि, यद्वा भवनानि भूमिष्ठानि नगराणि प्राकारादिविशेपरचनावन्ति तिर्यक आवासा यथाई सर्वत्र योग्यस्थाने / २अतिपुरुषाः' इति घ-पाठः / भदाः