________________ 284 तत्त्वार्थाधिगमसूत्रम् [अव्यायः मरुदेवाः मरुतो मरुत्प्रभा यशस्वन्त इति // महोरगा दशविधाः / तद्यथाभुजगा भोगशालिनो महाकायाः अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षाः मेरुकान्ताः भास्वन्त इति // गान्धर्वा द्वादशविधाः / तद्यथा-हाहा हूहू तुम्बुरवो नारदा ऋषिवादका भूतवादिकाः कादम्बा महाकादम्बा रैवता विश्वा. वसवो गीतरतयो गीतयशस इति // यक्षास्त्रयोदशविधाः / तद्यथा-पूर्णभद्राः माणिभद्राः श्वेतभद्राः हरिभद्राः सुमनोभद्राः व्यतिपातिकभद्राः सुभद्राः सर्वतो. भद्राः मनुष्ययक्षा वनाधिपतयो वनाहारा रूपयक्षा यक्षोत्तमा इति // साविधा राक्षसाः / तद्यथा-भीमा महाभीमा विघ्ना विनायका जलराक्षसा राक्षसराक्षसा ब्रह्मराक्षसाः // भूता नवविधाः / तद्यथा-तुरूपाः प्रतिरूपाः अतिरूपाः. भूतोत्तमाः स्कन्दिकाः महास्कन्दिकाः महावेगाः प्रतिच्छन्ना आकाशगा इति // पिशाचाः पञ्चदशविधाः / तद्यथा-कूष्माण्डाः पटका जोषा आह्नकाः कालाः महा. कालाश्चोक्षा अचोक्षाः तालपिशाचा मुखरपिशाचा अधस्तारका देहा महाविदेहाः तूष्णीका वनपिशाचा इति // तत्र किन्नराः प्रियङ्गुइयामाः सौम्याः सौम्यदर्शना किन्नरादीनां मुखेष्वधिकरूपशोभा मुकुटमौलिभूषणा अशोकवृक्षध्वजा अवदाताः // किंपुरुषा ऊरुबाहुवधिकशोभा मुखेष्वधिकभास्वरा विविधाभरणभूषणाश्चित्रस्रगनुलेपनाश्चम्पकवृक्षध्वजाः // महोरगाः श्यामावदाता महावेगाः सौम्याः सौम्यदर्शना महाकायाः पृथुपीनस्कन्धः ग्रीवा विविधंचिलेपना विचित्राभरणभूषणा नागवृक्षध्वजाः॥गान्धवों रक्तावदाता गम्भीराः प्रियदर्शनाः सुख्पाः सुमुखाकाराः सुस्वरा मौलिधरा हारविभूषणाः तुम्बरुवृक्षध्वजाः // यक्षाः श्यामावदाता गम्भीरास्तुन्दिला वृन्दारकाः प्रियदर्शना मानोन्मानप्रमाणयुक्ता रक्तपाणिपादतलनखतालुजिबोटा भास्वरमुकुट धरा नानारलविभूषणा बटवृक्षध्वजाः // राक्षसा अवदाता भीमा भीमदर्शनाः शिरःकराला रक्तलम्बोटाः तपनीयविभूषणा नानाभक्तिविलेपनाः खट्वाङ्गध्वजाः // भूताः श्यामाः सुरूपाः सौम्या आपीवरा नानाभक्तिविलेपनाः सुल. सध्वजाः कालाः // पिशाचाः स्वरूपाः सौम्यदर्शना हस्तग्रीवासु मणिरत्नविभू. षणाः कदम्बवृक्षध्वजाः // इत्येवंप्रकारस्वभावानि वैक्रियाणि स्पचिह्नानि व्यन्तराणां भवन्तीति // 12 // तृतीयो देवनिकायः / टी-यस्माचाधस्तिर्यगूर्व चेत्यादि भाष्यम् / स्वातन्त्र्यात्-स्वेच्छया, फाभियोगाच शक्रादिदेवेन्द्राज्ञया चक्रवर्त्यादिपुरुषाज्ञया वा प्रायोनियतगतिप्रचारा भव. 1. पैक्षाः' इति क-पाटः , 'चौक्षाः ' इति तु घ-पाठः 2 'धानुविले.' इति घ-पाठः / 3 ' सुरूपाः वर्णनम् इति घ-पाठः।