________________ सूत्र 13 ] .. स्वोपज्ञभाष्य-टीकालङ्कृतम् 285 न्तीति / तथा मनुष्यानपि केचिद् भृत्यवदुपचरन्ति चक्रधरादीनतो विगतान्तरा मनुष्येभ्योऽविशिष्टाः केचिद् व्यन्तराः। विविधेषु वा शैलकन्दरान्तरादिषु प्रतिवसन्ति तिर्यग्लोक इति व्यन्तराः, निकायद्वयान्तरस्थायित्वाद् व्यन्तराः प्रसिद्धवाद्, गोसंज्ञावदिति / रत्नप्रभायां त्वेषां तिर्यगस ख्येयानि भवनानि भवन्ति यथोद्दिष्टावगाहलक्षणक्रमाद् दक्षिणोत्तरदिग्भेदावस्थायिनोऽष्टास्वपि भेदेषु वक्तव्याः / भेदाचैषां किन्नरादीनां स्वस्थाने भाष्यकृता वहवो निदार्शतास्ते चार्षे सूचिता लेशतो न प्रतिपदमधीताः / शेष पठितसिद्धमिति // 12 // अधुना तृतीयो देवनिकायोऽवसरप्राप्त उच्यतेसूत्रम्---ज्योतिष्काः-सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाश्च // 4-13 // भा०-ज्योतिष्काः पञ्चविधा भवन्ति / तद्यथा-सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि प्रकीर्णतारका इति पञ्चविधा ज्योतिष्का इति / ज्योतिष्कभेदाः _ असमासकरणमाषर्षाच्च सूर्यःचन्द्रमसोः क्रमभेदः कृतः, यथा गम्येत एतदेवैषामूर्ध्वनिवेशे आनुपूर्व्यमिति / तद्यथा-सर्वाधस्तात् सूर्यास्ततश्चन्द्रमसस्ततो ग्रहास्ततो नक्षत्राणि ततो विप्रकीर्णताराः। ताराग्रहास्त्वनियतचारित्वात् सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति, सूर्येभ्यो दशयोजनाावेलाम्बनो भवन्तीति / समाद् भूमिभागादष्टासु योजनशतेषु सूर्याः, ततो योजनानामशीत्यां चन्द्रमसः, ततो विंशत्यां तारा इति / द्योतयन्त इति ज्योतींषि-विमानानि तेषु भवा ज्योतिष्काः ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः / मुकुटेषु शिरोमुकुटोपाहिभिः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिरैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति / / 13 // टी-ज्योतिष्काः पञ्चविधा भवन्तीत्यादि भाष्यम् / असमासकरणे पारमर्षप्रवचनक्रमभेदे च प्रयोजनमाह-असमासकरणात् तावत् तिर्यङ्मण्डलिकयाऽवस्थानं निषिध्यते, उपर्युपर्यवस्थानं कथं नाम गम्येत ? क्रमभेदोऽप्यमुनैव क्रमेणोर्ध्वमेषां सन्निवेश इत्यनेनाभिप्रायेण, आर्षे तु प्रारु चन्द्रः पठ्यते पश्चात् सूर्य इति / न चैवमुपरि सन्निवेशः / तत्र समतलाद् भूमिभागादारुह्योपरि सप्त योजनशतानि नवत्यधिकानि प्रथमो ज्योतिष्कविमानप्रस्तारः, तदुपरि दशयोजनशतान्यारुह्य भानोविमानप्रस्तारः, तदुपर्यशीतियोजनान्यारुह्य ज्योतिष्काणां वि- चन्द्रमसो विमानप्रस्तारः, तदुपरि विंशतियोजनान्यारुह्य ताराग्रहाणां मानप्रस्तारः विमानप्रस्तारः, एवमयं ज्योतिर्लोको दशोत्तरयोजनशतबहुल एकादश 1' द्योतींषि ' इति घ-पाठः /