________________ 286 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 भिर्योजनशतैरेकविंशत्युत्तरैर्जम्बूद्वीपकमेरुमगन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितः, लोकान्तं चैकादशभिरेव योजनशतैरेकादशोत्तररस्पृशन् सर्वतोऽगन्तव्यः, ताराग्रहास्त्वनियतचारित्वादित्यादि / अनियता चैषां गतिरुमधस्तिर्यक चेत्यतोऽधस्तात् तावल्लम्बन्तेऽङ्गारकादयो यावत् सूर्याद् दश योजनानि भवन्त्यनवस्थितचारित्वात्, एवं चाधस्ताद् दशयोजनावलम्बकसंयोगादष्टासु योजनशतेषु सूर्य इति / अत्र च सर्वोपरि किल स्वातिनक्षत्रं, नक्षत्रमण्डलिकायाः सर्वाधस्ताद् भरण्यः, सर्वदक्षिणतो मूलः, सर्वोत्तरतश्वाभाचिरिति / द्योतयन्त इति ज्योतीषि-विमानानीत्यादि / अत्यन्तप्रकाशकारित्वाज्ज्योतिःशब्दाभिधेयानि विमानानि तेषु विमानेषु भवा ये देवास्ते ज्योतिष्काः / यष्टगादिसूत्रात् टक / अपरे ब्रुवते- भाष्यकृता सवृद्धिकः शब्दो नोचरित इत्यतः परिहारो वृद्धेः प्राप्ताया वक्तव्यः, स चायम्-एकानुबन्धकृतस्यानित्यत्वाद् दंष्ट्राशब्दे ङीपप्रत्ययाभाववद वृद्धयभावः।।ज्योतिषो वा देवाः, विमानगतज्योतिपः सम्बन्धिनो देवाः तेन दीव्यन्ति, वपुःसम्बन्धिना वा ज्योतिषा ज्वलन्तीति. ज्योतिष्काः, ज्योतिरेव वा भास्वरशरीरत्वात् समस्तदिग्मण्डलद्योतनत्वादतः स्वार्थे कन् / ज्योतिष्काः / मुकुटेष्वित्यादि / मुकुटेषु चिह्नानि भवन्ति-शिरोमुकुटोपगृहीनि प्रभामण्डलस्थानीयान्युज्ज्वलानि सूर्यादीनि, सूर्यस्य सूर्याकारं चिह्नम्, एवं चन्द्रा. दीनामपीति // 13 // त एते पञ्चविधा अपि ज्योतिष्काः सूत्रम्---मेरुप्रदक्षिणा नित्यगतयो नृलोके // 4-14 // भा०-मानुपोत्तरपर्यन्तो मनुष्यलोक इत्युक्तम् (अ० 3, सू० 14), तस्मिन् ... ज्योतिष्का मेरुप्रदक्षिणा नित्यगतयः भवन्ति, मेरोः प्रदक्षिणा ज्योतिष्काणां गतिः नित्या गतिरेषामिति मेरुप्रदक्षिणानित्यगतयः / एकादशसु एकविंशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति / टी-मानुषोत्तरपर्यन्त इत्यादि भाष्यम्, उक्तलक्षणो मानुषोत्तरगिरिः स पर्यन्तःअवसानं यस्यासौ मानुपोत्तरपर्यन्तो मनुष्यलोको विष्कम्भायामाभ्यां पश्चचत्वारिंशल्लक्ष. प्रमाणस्तस्मिन्नेते ज्योतिष्काः सूर्यादयो मेरुप्रदक्षिणा नित्यगतयो भवन्ति / मेरोः प्रदक्षिणा मेरुप्रदक्षिणा नापसव्येति कथयति, नित्यशब्दोऽभीक्ष्णवचनः / नित्या गतिरेपामिति नित्यगतयोऽनवरतभ्रमणा इत्यर्थः / नित्यग्रहणाद् गतेरुपरमाभावं प्रतिपादयति, साऽपि गतिः 1 एकोनविंशत्यु' इति ग-पाठः / यद्यपि सर्वेष्वादशेषु एकोनविंशतीत्यादिक एव पाठस्तथापि एकादशस्वेकर्विशेष इत्याद्युत्तरभाष्यात् इकारसजोयणसय इगवीसिकारेत्यादिवचनप्रामाण्याच एकविंशतीत्यादिक एव न्याय्यः' इति ग-टी-पाठः / अयं च जनानन्द पुस्तकालयप्रतिपाठः / 2 वमन्तव्यः' इति ग-पाठः / 3 'सूत्रात् ' इति ग. पाठश्चिन्तनीयः / 4 'भवन्ति' इति घ-पाठः।