________________ सूत्र 14 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 287 प्रादक्षिण्येन नापसव्येन मेरोः, लोकस्थित्यनुभवाद् विमानान्येव नृलोके भ्रमणशीलानि भवन्ति, न पुनरभ्रमन्त्यपि / ये वा प्रेरयन्ति / तानि च पृथिवीकायनिर्माणान्यातपनामकर्मोदयात् स्फटिकमणिप्रकाशानि भ्राजिष्णूनि कपित्थफलार्धसंस्थानानि भवन्ति // ननु च ध्रवः सर्वदा ध्रुवस्तत्रैवोपलभ्यते, नहि तस्य मेरुप्रदक्षिणा नित्या गतिरस्ति, स च ज्योतिकस्तदेतत् कथमिति ? उच्यते-पञ्चप्रकारा सूर्यादयो ज्योतिष्काः, तत्रैको भेदस्तारकाख्यस्तस्याप्येकदेशो ध्रुवो यदि मेरोःप्रादक्षिण्येन (प्र)वज्यां न प्रतिपद्यते ततस्तदगत्या किमवशेषाणां नानुशासितव्या गतिः / यथा हि राजादिप्रधानपुरुषप्रयाणकप्रदाने तिष्ठत्स्वपि केषुचित् प्रयाणकं दत्तं स्कन्धावारेणेति लोकः प्रभाषते तथा प्रधानेषु सूर्यादिषु प्रयात्सु तद्भेदैकदेशागमनेऽपि ज्योतिष्का नित्यगतयोऽभिधास्यन्ते / अथवा नित्यगतय इति तत्रैव स्थाने स ध्रुवः परिभ्राम्यति, न तु मेरोः पादक्षिण्येन गतिं प्रतिपद्यते, तथाहि-तदद्यापि ध्रुवताराचक्रमाक्रान्तो. त्तरदिकं परिवर्तमानमुपलभ्यते प्रत्यक्षप्रमाणेनैव, अतो मेरुप्रदक्षिणाः केचिनित्यगतयश्च, अपरे नित्यगतयो न मेरुप्रदक्षिणा इति / अथवा मेरुप्रदक्षिणा अनित्या गतिर्येषां ते मेरुप्रदक्षिणानित्यगतय इत्ययं वाक्यार्थो भवति, न सर्वेषामवश्यंभाविनी गतिभैरोः प्रादक्षिण्येन, किन्तु केषांचिद् भवति केषांचिन्न, गतिः पुनरवश्यंभाविनी तथाऽन्यथा वा, न तस्या निषेध इति / एकादशस्वेकविंशेष्क्त्यिादि गतार्थ प्रायः / मेरोश्चतुर्दिशमिति दिक्शब्देन समानार्थो दिशाशब्दस्तमनुसन्धाय भाष्यकारेणोक्तं चतुर्दिशमिति।। अधुना अर्धतृतीयद्वीपान्तर्वर्तिनां सूर्यादीनामियत्तामावेदयितुमाह भा०-तत्र द्वौ सूर्यो जम्बूद्वीपे / लवणे चत्वारः / धातकीखण्डे द्वादश / कालोधौ द्विचत्वारिंशत् / पुष्करार्धे द्विसप्ततिः / इत्येवं मनुष्यलोके द्वात्रिंशत् सूर्यशतं भवति / चन्द्रमसामप्येष एव विधिः / अष्टाविंशतिनक्षत्राणि / अष्टाशीतिघेहाः / षट्षष्टिसहस्राणि नव शतानि पञ्चसप्ततीनि ताराकोटाकोटीनामेकैकस्य चन्द्रमसः परिग्रहः / सूर्याचन्द्रमसो ग्रहा नक्षत्राणि च तिर्यगलोके, शेषास्तूर्वलोके ज्यो. तिष्का भवन्ति / टी-तत्र द्वौ सूर्यावित्यादि / एते तु स्वतापच्छेदतः प्रकाशयन्तः प्रदक्षिणं चरन्ति,ता पक्षेत्र चैषामन्तः सङ्कुटं बहिर्विशालं नालककुसुमाकृतिः सप्तचत्वारिंशद्योजनसहस्राणि त्रिषष्ट्यधिकानि शतद्वयोत्तराणि योजनैकषष्टिभागाश्चैकविंशतिः( 472639) प्रत्येकं सूर्याणां, मनुष्यक्षेत्रे च द्वात्रिंशदुत्तरं सूर्यशतमवगन्तव्यं, चन्द्रमसोऽप्येतावन्त एव बोद्धव्याः / अष्टाविंशतिनक्षत्राण्यभिजिता सह, ग्रहाणामष्टाशीतिर्भसराश्यादीनाम्, एकस्य खलु चन्द्रमसस्ताराः कोटीनां कोट्य एतावत्यो भवन्ति षट्पष्टिसहस्राणि नव च शतानि पञ्चसप्तत्यधिकानि। -सूर्यादीनां संख्या