________________ 278 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः॥ ____टी-पूर्वयोरित्यादि भाष्यम् / शास्त्रीयमानुपूर्व्यमाश्रित्य निर्देशः, पीता अने यासां लेश्यानां ताः पीतान्ताः-कृष्णनीलकापोततैजस्यः, पीतान्ता लेश्या येषां ते पीतान्त लेश्याः, पूर्वयोनिकाययोर्देवा भवन्ति, शरीरवर्णमात्रेत्वाद् द्रव्यलेश्या एताः, भावलेश्या स्तु षडपि भवेयुरिति // 7 // . . एते च पुनः सर्वे त्रिविधा देवा भवन्ति-सदेवीकाः सप्रवीचाराः पच अदेवीकाः सप्रवीचाराः, अदेवीका अप्रवीचारा इति / तत्र ये सदेवीका सप्रवीचारास्तानधिकृत्येदमुच्यते सूत्रम्-कायप्रवीचारा आ ऐशानात् // 4-8 // भा०-भवनवास्यादयो देवा आ ऐशानात् कायप्रवीचारा भवन्ति। काये प्रवीचारविचारः . प्रवीचार एषामिति। कायप्रवीचारो नाम मैथुनविषयोपसेवनम् / व ते हि सङ्क्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीब्रानुशयाः कायसङ्क्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिभुपलभन्त इति॥८॥ टी-कायः-शरीरं, प्रवीचारो-मैथुनोपसेवा, कायन प्रवीचार एषामिति कायप्रवी. चाराः-पुरुषवन्मैथुनमासेवन्ते भवनवास्यादयः आ ऐशानात्, अभिविधावयमाङ्, न मर्यादायां, यस्माद भवनवासिव्यन्तरज्योतिष्कसौधर्मेशानकल्पेषु जन्मनोत्पद्यन्ते देव्यः, न परत इति, भाष्यं सुज्ञानमेव // 8 // अथ ये अदेवीकाः सप्रवीचारास्तेषां कथं मैथुनोपसेवेत्याह- . सूत्रम्-शेषाः स्पर्श-रूप-शब्द-मनःप्रवीचारा दयोद्धयोः // 4-9 // भा०-ऐशानादूर्व शेषाः कल्पोपपन्ना देवा दयोईयोः कल्पयोः स्पर्शरूपशब्दमनःप्रवीचारा भवन्ति यथासङ्ख्यम् / तद्यथा-सनत्कुमारमाहेन्द्रयोर्दैवान् मैथुनसुखप्रेप्सूनुत्पन्नास्थान् विदित्वा देव्य उपतिष्ठन्ते / ताः स्पृष्ट्वैव च ते प्रीतिमुपलभन्ते विनिवृत्तास्थाश्च भवन्ति // तथा ब्रह्मलोकलान्तकयोवान् एवंभूतोत्पन्नास्थान् विदित्वा देव्यो दिव्यानि स्वभावभास्वराणि सर्वाङ्गमनोहराणि शृङ्गारोदाराभिजाताकारविलासान्युज्ज्वलचारुवेषाभरणानि स्वानि रूपाणि दर्शयन्ति। तानि दृष्ट्वैव ते प्रीतिमुपलभन्ते निवृत्तास्थाश्च भवन्ति॥ तथा महाशुक्रसहस्रारयोर्दैवानुत्पन्नप्रवीचारास्थान् विदित्वा देव्यः श्रुतिविषयसुखानत्यन्तमनोहरान् शृङ्गारोदाराभिजातविलासाभिलाषच्छेदतलतालाभरणरवमिश्रान् हसितकथितगीतशब्दानुदीरयन्ति / तान् श्रुत्वैव प्रीतिमुपलभन्ते निवृ 1 टीकाकारमतमेतत् यदुत शरीरवर्णरूपा लेश्या, अन्ये तु योगपरिणामो लेश्या, लेश्यापुद्गलास्तु अन्य एवागमेषु निर्दिश्यन्ते /