________________ 277 सूत्रं 7 ] . स्वोपज्ञमाष्य-टीकालङ्कृतम् पलिश्च / नागकुमाराणां धरणो भूतानन्दश्च / विद्युत्कुमाराणां हरिहरिसहश्च / भवनपत्यादिदेवा _ सुपर्णकुमाराणां वेणुदेवो वेणुदारी च / अग्निकुमाराणां अग्नि " शिखोऽग्निमाणवश्च / वातकुमाराणां वेलम्बः प्रभञ्जनश्च / नामिन्द्राः स्तनितकुमाराणा सुघोषो महाघोषश्च / उदधिकुमाराणां जलकान्तो जलप्रभश्च / द्वीपकुमाराणां पूर्णो वसिष्ठश्च / दिक्कुमाराणाममितगतिरमितवाहनश्चेति // व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ-किन्नरः किंपुरुषश्च / किंपुरुषाणां सत्पुरुषो महापुरुषश्चेति / महोरगाणामतिकायो महाकायश्च / गन्धर्वाणां गीतरतिर्गीतयशाश्च / यक्षाणां पूर्णभद्रो माणिभद्रश्च / राक्षसानां भीमो महाभीमश्च / भूतानां प्रतिरूपोऽतिरूपश्च / पिशाचानां कालो महाकालश्चेति // ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च // वैमानिकानामेकैक एव / तद्यथा-सौधर्मे शक्रः / ई(ऐ)शाने ईशानः। सनत्कुमारे सनत्कुमार इति / एवं सर्वकल्पेषु स्वकल्पाहवाः / परतस्त्विन्द्रादयो दश विशेषा न सन्ति / सर्व एव स्वतन्त्रा इति // 6 // टी-पूर्वयोवनिकाययोरित्यादि भाष्यम् / दशाष्टसङ्ख्यापरिच्छिन्नौ पूर्वशब्देन भवनपतिव्यन्तरनिकायौ परिगृह्येते,तत्र देवविकल्पानामसुरादीनां किन्नरादीनां च प्रत्येकं द्वौ द्वाविन्द्रौ भवतः, द्वौ द्वाविन्द्रौ एषु विकल्पेषु ते द्वीन्द्राः, पूर्वयोनिकाययोर्विकल्पा भवन्तीत्यन्तगीतवीप्साको बहुव्रीहिः। शेषं सुज्ञानम्,ज्योतिष्काणांत्वित्यादि / इन्द्राधिकारप्रस्तावमुपजीवल्लाँघवार्थमाह-ज्योतिष्कदेवानां सूर्याः शशिनश्चन्द्राः, ते च बहवोऽसङ्ख्येयद्वीपसमुद्रवर्तित्वात् / वैमानिकानां सौधर्मादिष्वेकैक इन्द्रः, सौधर्मे शक्रः ऐशाने ईशानः, सनत्कुमारे सनत्कुमारः, इत्येवं सर्वविमानेषु सर्वकल्पमध्यवर्तिषु स्वकल्पाहा इन्द्रा भवन्ति / माहेन्द्र माहेन्द्रः, ब्रह्मलोके ब्रह्म, लान्तके लान्तकः, महाशुक्रे महाशुक्रः, वैमानिकानां कल्पाः" सहस्रारे सहस्रारः, आनतप्राणतयोद्वयोरप्येक एवेन्द्रः प्राणताभिधानः, आरणाच्युतयोद्वयोरपि कल्पयोरेक एवेन्द्रः अच्युतः, अच्युतकल्पात् परत इन्द्रादयो विकल्पा ग्रैवेयकेषु विजयादिषु च न भवन्ति / सर्व एव हि ते स्वतन्त्रत्वादहमिन्द्रा गमनागमनरहिताश्च प्राय इति // 6 // ___अनयोस्तु खलु नितिदेवेन्द्रयोरुत्तरत्र देवनिकाययोर्लेश्याभिधाने ग्रहणं पुनर्मा कार्यमित्यतः पूर्वयोरित्यधिकृत्याह __ सूत्रम्-पीतान्तलेश्याः // 4-7 // भा०-पूर्वयोनिकाययोर्देवानां पीतान्ताश्चतस्रो लेश्या भवन्ति // 7 // 1 'जलभवश्च' इति क-पाठः / 2 'अवशिष्टश्च' इतिःघ-पाठः /