________________ 276 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः द्रष्टव्याः, अमा सहार्थे, सह भवन्तीत्यमात्याः-कार्यालोचनसमर्थाः पिता गुरुरुपाध्यायो महत्तरश्च सर्व एते पूजनीयास्तद्वत् तेऽपि सामानिका इति / त्रयस्त्रिंशदेव त्रायस्त्रिंशाः स्वार्थेऽष्ण 'तद्धिताः' (पा० अ०४,पा० 1,076) इति बहुवचननिर्देशादनुक्ततद्धितोत्पत्तिदृष्टशब्दान्वाख्यानाच, एते मन्त्रिपुरोहितस्थानीयाः,मन्त्रिणः-राज्यचिन्ताभराधिरूढमानसाः, पुरोहिताः-शान्तिकपौष्टिकाभिचारिककर्मकारिणः। पारिषद्या वयस्यस्थानीयाः,परिपदि साधवः पारिपयाः मित्रसदृशाः। आत्मरक्षाः शिरोरक्षस्थानीयाः उद्यताहरगा रौद्राः पृष्ठतोऽवस्थायिनः, अपायाभावात् कल्पनावैयमिति चेत् तद् न स्थितिमात्रपरिपालनात् प्रीतिप्रकपहेतुत्वाच। लोकपाला आरक्षकार्थचरस्थानीयाः स्वविषयसन्धिरक्षणनिरूपिता आरक्षकाः, अर्थचराचौरोद्धरणिकराजस्थानीयादयस्तत्सदृशा लोकपालाः / अनीकाधिपतयो दण्डनायकस्थानीयाः दण्डनायको विक्षेपाधिपतिः सेनापतिरितियावत्, अनीकान्यनीकान्येव सैन्यानीत्यर्थः, हयगजरथपदातिवाहनस्वरूपाणि प्रतिपत्तव्यानि, सूत्रे चानीकान्येवोपा तानि सरिणा, नानीकाधिपतयः, भाष्ये पुनरुपन्यस्तास्तदेतदेकत्वमेवानीकानीकाधिपत्योः परिचिन्त्य विवृतमेवं भाष्यकारेण, अन्यथा वा दशसङ्ख्या भिद्येत / प्रकीर्णकाः पौरजनपदस्थानीयाः प्रकृतिसदृशा इत्यर्थः। आभियोग्या दासस्थानीयाः आभिमुख्येन योगोऽभियोगः परारिराधयिषयाभिमुखीकृ. तकर्मविशेषः, अभियोगकर्म आभियोग्यं तद् येषां विद्यते ते भवन्त्याभियोग्याः-कर्मकरस्थानीयाः। अन्तस्थस्थानीयाः किल्बिषिका इति अन्तस्थाः-चण्डालादयस्तद्वत् किल्विपिका देवानां मध्य इति // 4 // चतुर्वपि निकायेषु दशविधेन्द्रादिभेदप्रसक्ताविदमपोद्यते / / सूत्रम्-त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः // 4-5 // भा०-व्यन्तरज्योतिष्काश्चाष्टविधा भवन्ति, त्रास्त्रिंशलोकपालवर्जा इति // 5 // टी०-न यथासङ्ख्यमत्र प्रतिपत्तव्यम्, अनन्तरसूत्रे त्वेकशो ग्रहणाद्, अतो व्यन्तराणां त्रायस्त्रिंशा लोकपालाश्च न सम्भवन्ति ज्योतिष्काणां चेत्यतोऽष्टप्रकारा एव // 5 // अथ य एते विकल्पा दशादयश्चतुर्पु निकायेक्तास्तत्र किमेकैक इन्द्र उतान्यथेत्यत आह-पूर्वयोभन्द्राः / अथवा निकायपारमैश्वर्याचतुरिन्द्रप्रसङ्गे सतीदमुच्यते-- सूत्रम्-पूर्वयोर्दीन्द्राः // 4-6 // भा०-पूर्वयोवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानांद्वौ द्वाविन्द्रौ भवतः / तद्यथा-भवनवासिषु तावद् द्वावसुरकुमाराणां इन्द्रौ भवतः-चमरो 1' चेत् न' इति क-पाठः / 2 'मापाद्यते' इति क-पाठः। 3 ०शल्लोक०' इति ग-पाठः /